वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 361–370
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
० ३२-३३ ] , वेदार्थपारिजातभाष्यसहिता ३२५ ख्याकानां वसाग्रहाणां संस्रवेर्यजमानाभिषेकः कृतः । ततोऽध्वर्युर्यो भूतानामिति सार्धकण्डिकात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहमार्षभखुरेण गृह्णीयादिति सूत्रार्थः । आत्मवादिनी ग्रहदेवत्या कौण्डिन्यदृष्टा पक्तिः । यः परमात्मा भूतानां जरायुजादिभूतानां चतुर्विधानामधिपतिरधिकं पालयिता, यस्मिन्नात्मनि लोका भूरादयः, अधिश्रिता आश्रिताः सर्वे लोका यदाधारा इत्यर्थः, यश्च स्वयं महान् सर्वोत्कृष्टः, यश्च महतो महत्तत्त्वप्रमुखस्य तत्त्वगणस्य ईशे ईष्टे नियन्ता वर्तते, ' ईश ऐश्वर्ये ' इत्यस्माल्लटि तङि प्रथमपुरुषैकवचने, ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ | १ | ४१ ) इति तकारलोपे ' ईशे ' इति रूपम्, ' अधीगर्थदयेशां कर्मणि ' ( पा ० सू ० २/३/५२ ) इति कर्मणि षष्ठी । हे ग्रह, अहं तेन परमात्मना कृत्वा त्वां गृह्णामि । मयि परमात्मभावमापन्ने मयि विषयेऽहं त्वां गृह्णामि, आदरार्थी द्विरुक्तिः । अध्यात्मपक्षे - पूर्ववदेव व्याख्यानम् । दयानन्दस्तु - ' हे सर्वहितेच्छो, यो भूतानामधिपतिर्महतो महानस्ति, य ईशे ईष्टे, यस्मिन् सर्वे लोका अधिश्रिताः, तेन त्वामहं गृह्णामि । मयि त्वामहं गृह्णामि ' इति, तदप्यसङ्गतम्, अमूर्तस्य तस्य ग्रहणानुपपत्तेः । मयि त्वामहं गृह्णामीत्यप्यसङ्गतम्, पूर्वेणैव गतार्थत्वात् यः सर्वत्रास्ति तस्य मय्यपि सत्त्वात् सम्बोधनस्य निर्मूलत्वात् सम्बोध्यस्यैव त्वंपदार्थोपपत्तेश्व । न च सम्बोध्यस्य अहमर्थे सत्त्वसम्भवः, युष्मदस्मदोर्विरोधेना-हमर्थाश्रयत्वानुपपत्तेः ॥ ३२ ॥
-उपयामगृहोतोऽस्य॒श्विभ्यां त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य॒ त्वा सु॒त्राणे । ए॒ष ते॒ योनिरश्विभ्यां त्वा सरस्वत्यै॒ त्वेन्द्र त्वा सूत्राणे ॥ ३३ ॥
मन्त्रार्थ - हे सोम! तुम उपयाम पात्र में गृहीत हो, तेजस्वी रूप वाले तुमको अश्विनीकुमारों को प्रीति के लिये, सरस्वती, इन्द्र और सुत्रामा की प्रीति के लिये यहाँ स्थापित करता हूँ । यह तुम्हारा स्थान है । अश्विनीकुमार, सरस्वती, इन्द्र और सुत्रामा की प्रीति के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ ३३ ॥
यजुःसाम त्रिष्टुप् । हे वसाग्रह, उपयामगृहीतोऽसि उपयामेन पात्रविशेषेण गृहीतोऽसि । अश्विभ्यां त्वा अश्विनोरर्थाय त्वां गृह्णामि । सरस्वत्यै त्वा, सुत्राणे इन्द्राय त्वा गृह्णामि । एष ते यजुः प्राजापत्या बृहती । ग्रहदेवते द्वे यजुषी । सादने विनियोगः । हे वसाग्रह! एष ते योनिः स्थानम् । अश्विभ्यां त्वा सरस्वत्यैवा सुत्राण इन्द्राय त्वा सादयामि । अध्यात्मपक्षे - हे निवेदनीय द्रव्य! उपयामेन श्रद्धात्मक वृत्तिविशेषेण अश्विभ्यां रामलक्ष्मणाभ्यां बलकृष्णाभ्यां वा त्वां गृह्णामि । सरस्वत्यै ज्ञानरूपिण्यै सीतायै, सुत्राम्ण इन्द्राय रक्षितृत्वविशिष्टाय निर्गुण-निशकारपरमात्मने त्वां गृह्णामि । हे ग्रह निवेदनीय द्रव्य, एष पूजाप्रदेशस्ते योनिः स्थानम् । तत्र अश्विभ्यामर्थे सरस्वत्यै सुत्राणे त्वां सादयामि । दयानन्दस्तु —- ' हे विद्वन् यस्त्वमश्विभ्यामुपयामगृहीतोऽसि यस्य त एषोऽश्विभ्यां स योनिरस्ति, तं त्वा सरस्वत्येवेन्द्राय वा सुत्राणे चाहं गृह्णामि । सरस्वत्ये त्वेन्द्राय त्वा गृह्णामि ' इति, तदपि यत्किञ्चित्, द्वितीयस्य अश्विभ्यामित्यादिपदस्य वैयर्थ्यापत्तेः, अश्विभ्यामित्यनेनाऽध्यापकोपदेशकयोर्ग्रहणे मानाभावाच्च । नहि कस्यचिद्विदुषो ग्रहणेन उत्तमवागादिकं लभ्यते, न वा इन्द्रपदस्य उत्तमव्यवहारोऽर्थः न वा सुत्रामपदस्य उत्तमरक्षार्थः सम्भवति, प्रत्ययार्थवैपरीत्यात् ॥ ३३ ॥
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
३२६ शुक्लयजुर्वेदसंहिता
प्रा॒ण॒पा मे अपान॒पाश्च॑क्षुष्पाः श्रत्र॒पाश्च॑ मे ।
वा॒चो मे वि॒श्वभे॑षजा॒ मन॑सोऽसि वि॒लाय॑कः ॥ ३४ ॥
[ अ [ ० २४ वायु, दोनों नेत्र, दोनों कान मन्त्रार्थ - हे ग्रह! अथवा हे परमात्मन्, आप मेरे प्राणों के रक्षक मेरे हैं मन । अपान को विषयों से हटा कर आत्मस्वरूप
और मेरी वाणी रक्षक हैं । सकल प्रधान औषधियों में आप विद्यमान हैं ।
में स्थापित कोजिये । इस मन्त्र से बची हुई हवि का प्रसाब लिया जाता है ॥ ३४ ॥
' शेष मृत्विजः प्राणभक्षं भक्षयन्ति प्राणपा म इति ( का ० श्री ० १ ९ / ५ / ९ ) । त्रयस्त्रिशवसाग्रहहोमानन्तरं । हे ग्रह, शेषमृत्विजः सर्वेऽवजिघ्रेयुः प्राणपा इति कण्डिकाद्वयेनेति सूत्रार्थः । ग्रहदेवत्ये पाति रक्षतीत्यपानपाः द्वे अनुष्टुबुपरिवृहत्यो । चक्षुष्पाः, चक्षुषी यस्त्वं मे प्राणपा असि, प्राणान् पातीति प्राणपाः । अपानपा श्रोत्रपाः अपानं श्रोत्ररक्षकः । मे वाचो वागिन्द्रियस्य पातीति चक्षुष्पाः । मे मम श्रोत्रपाश्चासि श्रोत्रं पातीति उन्मार्गनिवर्तको जपादौ प्रवर्तकश्चासि । मनसो विश्वभेषजो विश्वं सर्वं भेषजमौषधं यस्मात् सः । वाच औषधम् विलायकः । अथवा मनसो विलायकः, विलायकश्चासि, विलाययति विषयेभ्यो निवर्त्य आत्मनि स्थापयतीति धात्वर्थानुसारेण मनसः सर्वकरणेषु चित्तैकाग्रयसम्पादकत्वेन ब्रह्मज्ञानप्रदोऽसि । यद्वा ' लीङ् श्लेषणे ' इति संश्लेषकश्वासि, सर्वेन्द्रियैः सह मनः संयोजयसीत्यर्थः । अध्यात्मपक्षे — हे परमेश्वर, त्वं मे प्राणपा इत्यादि पूर्ववद् व्याख्येयम् । विलायकोऽसि येन विविधतया दयानन्दस्तु - ' हे विद्वन् यतस्त्वं मे प्राणपा मनसो विज्ञानसाधकस्य विदुषि मनुष्ये तथाविधप्रार्थनाया लीयते श्लिष्यते तस्मात्त्वं पितृवत् सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित् नैरर्थक्यात्, अल्पशक्तिमत्त्वेन हितैषित्वेऽपि तथा कर्तुमसमर्थत्वात् ॥ ३४ ॥
अ॒श्विन॑कृ॒तस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रेण सु॒त्राणा॑ कृ॒तस्य॑ । उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥ ३५ ॥
के द्वारा प्रस्तुत, मन्त्रार्थ - हे ग्रह! आपकी आज्ञा में रहता हुआ मैं अश्विनीकुमारों से संस्कृत, सरस्वती भक्षण करता हूँ ॥ ३५ ॥
रक्षा करने वाले इन्द्र से देखे गये और ऋत्विजों से आवाहित किये हुए तुम्हें । कीदृशस्य ते? अश्विनकृतस्य हे ग्रह, उपहूत आज्ञप्तोऽहं ते तव त्वाम् कर्मणि षष्ठी, आर्षः भक्षयामि ताभ्यां कृतो दृष्टोऽश्विनकृतस्तस्य, अश्विनावेव आश्विनौ, प्रज्ञादित्वात् स्वार्थिकोऽणु, वृद्ध्यभाव, ' ङयापोः संज्ञाछन्दसोर्बहुलम् ' करोतिरत्र दर्शनार्थः । सरस्वतिकृतस्य सरस्वत्या कृतो दृष्टः सरस्वतिकृतस्तस्य त्रायते रक्षतीति सुत्रामा, ' आतो मनिन्क्वनि-( पा ० सू ० ६।३।६३ ) इति ह्रस्वः । सुत्राम्णा इन्द्रेण कृतस्य ', सुष्ठु इत्यस्माद् मनित्प्रत्यये, ' आदेच उपदेशेऽशिति ' ब्वनिपश्च ' ( पा ० सू ० ३।२ | ७४ ) इति ' त्रै पालने दृष्टस्य उपहूतस्य ऋत्विग्भिः कृतोपहवस्य । सर्वत्रात्र ( पा ० सू ० ६।१।४५ ) इत्यात्वे रूपसिद्धि:, तेन इन्द्रेण कृतस्य कर्मणि षष्ठी । अश्विनादिभिः कृतं अध्यात्मपक्षे - हे भगवनिवेदित द्रव्य, ते त्वामहं भक्षयामि । कीदृशं । कीदृशं त्वाम् त्वाम् ?? अश्विनादिभिः ध्यानेन संस्कृतम् । यद्वा - हे भगवन्, त्वामहं भक्षमामि, परमानन्दरूपं । रसयामि कृतं प्रेम्णा विषयीकृतम्, ' अहमन्नादः ' ( तै ० उ ० ३ | १० | ६ ) इति श्रुतेः
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
* म ० ३५-३६ ] वेदार्थ पारिजात भाष्य सहिता ३२७ दयानन्दस्तु - ' हे विद्वन्, उपहूतोऽहं तेऽश्विकृतस्य सरस्वतीकृतस्य सुत्राम्णा इन्द्रेण कृतस्योपहृतस्य अन्नादिकं भक्षयामि ' इति, तदपि तुच्छम्, अन्नाद्यध्याहारे मानाभावात्, वैरूप्याच्च । हिन्दीव्याख्याने - अश्विनो कृते सरस्वत्या कृते सुत्राम्णेन्द्रेण कृतस्य समीप उपहूतस्य अन्नादिकं भक्षयामोत्युक्तम्, तच्च कृतस्य अन्नादिक-मित्सङ्गतिः ॥ ३५ ॥
अत्र सौत्रामण्या आध्वर्यवं समाप्तम् ।
समिद्ध इन्द्र उषसामन के पुरोरुच पूर्वकृद्ववृधा॒नः ।
त्रिभिर्देवैस्त्रशता वज्र॑बाहुर्ज॒घान॑ व॒त्रं वि दुरो ' ववार ॥
३६ ॥
मन्त्रार्थ - आगे के ग्यारह मन्त्रों से ऐन्द्र पशु के आप्रिय प्रयाज- याज्यों का अनुष्ठान किया जाता है । भली प्रकार से प्रदीप्त उषा काल के मुख, अर्थात् प्रातः काल के समय आगे चलने वाले प्रकाश से पूर्व दिशा को प्रकाशित करने वाले, तैंतीस देवताओं के साथ वृद्धि पाने वाले वज्रधारी इन्द्र ने वृत्रासुर या मेघ का तारण किया है, मेघों के स्रोतों या दत्यपुरी के द्वार को सुना किया है, अथवा खोला है ॥ ३६ ॥
' समिद्ध इन्द्र इत्याप्रियः प्रथमस्य ' ( का ० श्री ० १ ९ / ६ | १२ ) । समिद्ध इत्याद्या एकादश ऋचः प्रथमस्य ऐन्द्रस्य पशो, आप्रियः प्रयाजयाज्याः । इतः सौत्रामण्या होत्रमच्यते । आङ्गिरसदृष्टा एकादश आप्रिय-स्त्रिष्टुभः । तासां क्रमादेता देवताः - ( १ ) इध्म:, ( २ ) तनूनपान्नराशंस:, ( ३ ) इड:, ( ४ ) बहि:, ( ५ ) द्वार:, ( ६ ) उषासानक्ता, ( ७ ) दैव्यो होतारो, ( ८ ) तिस्रो देव्यः, ( ९ ) त्वष्टा, ( १० ) वनस्पति:, ( ११ ) स्वाहाकृतय इति । एताश्च देवता यथायोगमिन्द्रविशेषणत्वेन व्याख्येयाः " इन्द्रस्यानेनानुवाकेन स्तूयमानत्वात् । इन्द्रो वृत्रं मेघं देत्यं वा जघान हतवान् दुरो द्वाराणि च मेघस्य, स्रोतांसीति यावत्, विववार विवृतानि कृतवान् । दैत्यपक्षे पिहितानि तत्पुरद्वाराण्युद्घाटितवान् । द्वारशब्दस्य छान्दसे सम्प्रसारणे दुर इति रूपम् । कीदृश इन्द्रः? समिद्धः सन्दीप्तः । उषसामनीके मुखे प्रातःकाले पुरोरुचा अग्रे प्रसरन्त्या दीप्त्या पूर्वकृत् पूर्वां दिशं करोतीति आदि-त्यात्मना पूर्वस्याः कर्ता । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । त्रिभिर्देवैः त्रिशता च, अर्थात् त्रयस्त्रिंशदेवैः सह वावृधानो वर्धमानः, वृधेविकरणव्यत्ययेन शपः श्लुः, ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ । १ ७ ) इत्यभ्यास-दीर्घः । वज्रबाहुः, वज्रं बाहो यस्य स तथोक्तः । द्यस्थानोऽन्तरिक्षस्थानश्च द्विस्थान इन्द्रोऽत्र स्तुतः । उषसां यत्र मुखं तत्र स्थानो भगवानादित्यः समिद्धः । पुरोरुचा अग्रगामिन्या दीप्त्या वावृधानः पूर्वकृत् स एव मध्यस्थानः, अर्थादन्तरिक्षस्थानः । त्रिभिस्त्रिशता देवैः सहितो वज्रपाणिर्वृत्रं हत्वा द्वाराणि विविधानि विवृतान्यकरोत् । अध्यात्मपक्षे – इन्द्रः परमेश्वरः, उषसामभ्युदयवेलानामनीके मुखे समिद्धो वज्रबाहुस्तमस्तोमं जघान । हत्वा च विविधानि ज्ञानानि प्रवर्तयामास । धर्ममेघसमाधेर्विविधानि स्रोतांसि विववार | पुरोरुचा अग्रे प्रसरत्या ज्ञानदीप्त्या वावृधानः पूर्वकृत् पूर्वसिद्धस्य ब्रह्मात्मभावस्य प्रकाशको भवति । दयानन्दस्तु - ' हे विद्वन् पूर्वकृद्वावृधानो वज्रबाहु! सन्नुषसामनीके यथा पुरोरुचा समिद्ध इन्द्र-स्त्रिभिरधिकैः त्रिशता देवैः सह वर्तमानः सन् वृत्रं जघान, दुरो विववार, तथाऽतिबलैर्योद्धुभिः सह शत्रून् हत्वा विद्याधर्मद्वाराणि प्रकाशितानि कुरु ' इति, तदपि यत्किञ्चित् निष्प्रमाणकाध्याहारमूलकत्वात् पूर्वकृदित्यस्या-स्पष्टत्वात् पृथिव्यादीनां मेघनिवारणेऽनुपयोगेन तेषां सहभावस्य वैयर्थ्यात् । किञ्चोषसामनीक इत्यपि निरर्थक-मेव, सूर्यस्य मध्याह्नकाले ततोऽप्यधिक मेघनाशकत्वोपपत्तेः ॥ ३६ ॥
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
३२८ शुक्लयजुर्वेदसंहिता
धाम॑ ।
नरा॒शसः॒ प्रति॒ शूरो॒ मिमा॑न॒स्तनू नात् प्रति॑ि य॒ज्ञस्य॒ ॥ ३७ ॥
गोभि॑र्व॒पावान् मधु॑ना सम॒ञ्जन् हिर॑ण्य॑श्च॒न्द्री य॑जति॒ प्रचे॑ताः के मन्त्रार्थ - ऋत्विजों से स्तुति किया हुआ यज्ञ रूप, शूरता आदि गुणयुक्त, यज्ञ , मरीचि का पौत्र अथवा भोग्य जठराग्नि रूप से शरीर का रक्षक या सृष्टि को बढ़ाने वाला मधु गौ का पौत्र, घृत रूप वृषभों के द्वारा सुन्दर कृषि वाला, अतिस्वादु [ अ ० २०८ स्थान को जानता हुआ, पदार्थों को बढ़ाने वाली समान घृत से प्रकट हुए हवि को भक्षण करने दिन इन्द्र का पूजन करता है ॥ ३७ ॥
वाला, सुवर्णादि से परम धनी विशेष ज्ञानी और कर्म का ज्ञाता यजमान प्रति पृथग् वेति विचारणीयम् । अस्यामेकस्यामृचि नराशंसतनूनपाती स्तूयेते । एतयोः । सम्भूयदेवतात्वं एते सर्वे हि शब्दा वा पृथक् इन्द्रविशेषणतया योज्या इत्युक्त-यतो हि विशेष्यशब्दो विशेषणशब्दश्व सर्वोऽप्येकवचनान्तः यजमानस्तमिन्द्रं प्रति यजति प्रत्यहं यजति । तं मेव । प्रचेताः प्रकृष्टं चेतो ज्ञानं यस्यासी प्रचेताः कर्मज्ञाता शस्यते शस्त्रः स्तूयते सः । यद्वा - ' नराशंसो कम्? इत्याकाङ्क्षायामाह - यो नराशंसो नरैर्ऋत्विग्भिरासमन्तात् शाकपूणिः, नरैः प्रशस्यो भवति ' ( नि ० ८ ६ ) इति यज्ञ इति कात्यक्यः, नरा अस्मिन्नासीनाः शंसन्ति । अग्निरिति, यज्ञस्य धाम स्थानं जानन्निति शेषः । यास्करीत्या नराशंसो यज्ञस्तद्रूपस्तद्वान् वा, देवेषु हविर्वाहकोऽग्निर्वा प्रतिगणयन् । एकः प्रतिशब्दो मिमान इत्यनेन सम्बद्ध्यते, अथवा यज्ञस्थानं प्रतिमिमानः, मिमीत इति मिमानः विस्तारयति सृष्टिमिति तनूः प्रजापतिर्मरीचिः, अपरो यजतीत्यनेन । तथा शूरः शौर्यवान् । तनूनपात् तनुं शरीरं तनोति न पातयति, जाठररूपेण धारयतीति तनूनपाद् तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः । यद्वा नपात् पौत्रः घृतमिति यावत् । गोः पयो जायते, पयसो अग्निस्तद्रूपः । यद्वा तनोति भोगानिति तनूः गौः, तस्या 1 वपावान् वपायुक्तः । मधुना मधुस्वादोपेतेन घृतमिति घृतस्वरूपस्तद्वान् वा । गोभिः गोप्रभृतिपशुसम्बन्धिनीभिः चन्द्र सुवर्णंमस्यास्तीति चन्द्री, तं तादृशमिन्द्रं प्रति घृतेन समञ्जन् हवींषि भक्षयन्, हिरण्यैः पश्ववदानभूतैः ।, चन्द्रो जतीति सम्बन्धः | व्यवहितपदप्रायोऽयं मन्त्रः नरैस्तदुपलक्षितैर्वानरैः अध्यात्मपक्षे- - य इन्द्रः परमेश्वरः शूरः शौर्योपेतः । यश्व यज्ञस्य श्रीरामः आराधनलक्षणस्य , नराशंसः धाम स्थानं प्रतिमिमानो पक्षिभिर्भुशुण्डो गरुडादिभिर्देवैश्व सदा शस्यते प्रशस्यते, सः गोभिर्गोविकारैः पयोभिर्दधिघृतादिभिः वपावान् चरुपुरो-जानानः, यश्व तनूनपाद् अग्निः, दनुजो वनकृशानुः घृतेन क्षौद्रेण वा हवींषि समञ्जन् हिरण्यैस्तन्मयैर्भूषणैश्चन्द्री डाशादिनिर्वापवान् यज्ञादिकर्ता मधुना मधुरास्वादवत्ता भक्तः प्रतियजति प्रत्यहमाराधयति । हिरण्यवान् तं परमात्मानं श्रीरामं प्रचेताः प्रकृष्टबुद्धिमान् धाम प्रतिमिमान उत्तमान् पदार्थान् दयानन्दस्तु - ' हे मनुष्याः, यो नराशंसो नरैराशस्यते सा प्रशस्ता यज्ञस्य विद्यते यस्य, मधुना समञ्जन् हिरण्यैश्चन्द्री मिमीते, शूरस्तनूनपाद् गोभिर्वपावान् वपन्ति यया तदपि क्रियया यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, मनुष्य सामान्यख्य प्रचेताः प्रतियजति सोऽस्माभिराश्रयितव्यः ' इति, स्वयमेव क्रियेति यया क्रियया वपन्तीत्युक्तिनि रथिकैव, स्तोतव्यत्वाश्रयितव्यत्वानुपपत्तेश्च । त्वद्रीत्या वपा च क्रियायाः क्रियान्तरसापेक्षत्वेऽनवस्थानात् ॥ ३७ ॥
ईडितो दे॒वैर्हर॑२ ॥ अभि॒ष्टिर॒जुह्वा॑नो ह॒विषा॒ शर्द्धमानः ।
पु॒र॒न्व॒रो गा॑त्र॒भिद् वज्ज्रबाह॒राया॑तु॒ य॒ज्ञमुप॑ नो जुषा॒णः ॥ ३८ ॥
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
म ० ३८-३९ ] वेदार्थ पारिजातभाष्यसहिता ३२ ९ मन्त्रार्थं -- देवताओं के द्वारा स्तुत हरि नामक घोड़ों वाला, सब यज्ञों में स्तुति पाने वाला हवि के द्वारा आवाहन किया हुआ, अति बलवान् शत्रुओं के नगरों को विदीर्ण करने वाला, असुर कुल का नाशक, वज्रधारी इन्द्र देवता हमारे यज्ञ की आहुति को ग्रहण करने के लिये यहां पधारे ॥ ३८ ॥
यो देवे रीडितः पूजितः स्तुतः । हरिवान् हरी इन्द्रस्याची स्तोऽस्येति हरिवान् । अभिष्टिः, अभि अभितः समन्तादिष्टिर्यागो यस्यासावभिष्टिः, अभिगमनवान् अभ्येषणवान् वा स्तोतेरोणादिको डिः प्रत्ययः । हविषा निमित्तेन, हविर्भक्षणार्थमिति यावत् । आजुह्वान आहूयमान ऋत्विग्भिः । शर्द्धमानः अतिबलायमानः । ' शर्ध इति बलनाम ( निघ ० २२ ९ ७ ) । पुरन्दरः पुरं रिपुनगरं दारयतीति पुरन्दरः । गोत्रभिद् गां भूमिं त्रायते वृष्टयेति गोत्रा मेघाः, तान् वृष्ट्यर्थं भिनत्तीति तथोक्तः ।अथवा गोत्रान् गिरीन् भिनत्तीति गोत्रभित् । वज्रबाहुः वज्रधरः । एवंभूतो य इन्द्रः सोऽस्माकं यज्ञं जुषाणः सेवमान आयातु । अध्यात्मपक्षे - यो भगवान् इन्द्रो रामो देवैरीडितो लङ्कायां रावणवधान्ते । यः सर्वैरभितः स्तूयते सोऽभिष्टि: । हरिवान् हरयो विशिष्टा वानरा हनुमदादयो सेवकत्वेन सन्ति यस्य सः । यश्च हविषा निमित्तेन आजुह्वानो भक्तैस्तत्र तत्राहूयते । शर्द्धमानः अतिबलायमानः । पुरन्दरो लङ्कादिशत्रुपुरदारकः । गोत्रभिद् गां पृथिवीं त्रायते धर्मस्थापनादिनेति गोत्रा राजकुलानि तान् बिर्भात स्थापयति पुष्णाति चेति गोत्रभित्, औणादिको डितप्रत्ययः । तथा च रामायणम् - ' राजवंशान् शतगुणान् स्थापयिष्यति राघवः ' ( १ | १ | ९ ६ ) इति । सोऽस्माकं यज्ञमाराधनमुपजुषाण आयातु । दयानन्दस्तु - ' हे विद्वन् यथा हरिवान् वज्रबाहुः पुरन्दरः सेनेशो गोत्रभित् सूर्यो रसानिव स्वसेनां सेवते, तथा देवैरीडितोऽभिष्टिराजुह्वानो हविषा शर्द्धमानो जुषाणो भवान्नो यज्ञमुपयातु ' इति, तदपि यत्किञ्चित्, धर्मब्रह्मपरस्य वेदस्य सेनेशादिमनुष्यस्तुतौ तात्पर्याभावात् । हविः पदेन सद्विद्यादानप्रदानबोधनमपि विसङ्गतम्, प्रकरणविरोधात् । न च सेनेशस्य यज्ञे समागमनं प्रार्थ्यते, देवतानामेव तत्राह्वानोपयोगात् ॥ ३८ ॥
जुषा॒णो ब॒र्हिर्हरि॑वान्न॒ इन्द्र॑ प्रा॒चीन॑ सीदत् प्र॒दिशा॑ पृथि॒व्याः ।
-उरु॒प्रथा॒ प्रय॑मान ँ, स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषा॑ः ॥ ३६ ॥
मन्त्रार्थ -- अश्वों से युक्त, महाकीर्तिमान्, प्रीति वाला इन्द्र देवता देवयजन भूमि की प्रदिशा में बनी हुई बहिशाला को लक्ष्य करके बारह आदित्य और आठ वसुओं से संयुक्त हो हमारी यज्ञशाला में आकर विशाल सुखदायक कुशा के आसन पर बैठे ॥ ३ ९ ॥ इन्द्रो नोऽस्माकम् प्राचीन प्राग्भवं प्रदेशं सीदत् सीदतु, ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४।९ ७ ) इतीकारलोपः । कीदृश इन्द्रः? हरिवान् हरी स्तोऽस्येति । हरयो हरिद्वर्णा वा अश्वाः सन्त्यस्येति । पुनः कथम्भूत इन्द्रः? पृथिव्याः प्रदिशा पृथिवीं देवयजनभूमि प्रदिशन् उपदिशन् । पृथिव्या इति द्वितीयार्थे षष्ठी । प्रदिशतीति प्रदिशा, ' सुपां सुलुक् ' ( पा ० सू ० ७ ११३ ९ ) इति विभक्तेर्डादेिश: । पुनः कथंभूतः? उरुप्रथा उरु विस्तीर्णं प्रथः प्रथनं ख्यातिर्यस्य सः, प्रथेरसुन् । पुनः कथम्भूतः? सजोषाः, जोषणं जोषः प्रीतिः, जोषसा सहितः सजोषाः सन्तुष्टः । बर्हिर्दभं जुषाणः, ' जुषी प्रीतिसेवनयोः ' इत्यस्मात् शानच् शपो लुक्, जुषमाणः सेवमानः, इन्द्र आस्तामिति सम्बन्धः । कीदृशं बहिः? प्रथमानम्, प्रथते यत् तत् प्रथमानं विस्तीर्णम्, स्योनं सुखस्वरूपम् । ४२
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
३३० शुक्लयजुर्वेदसहिता [ अ ० २० पुनः कीदृशम्? आदित्यैर्वसुभिर्मरुद्भिश्व भक्तं प्रक्षितम्, बहिरञ्जनमन्त्रे आदित्यादीनामुक्तत्वात् । स च मन्त्रः— ' सं बहिरङ्गक्ता हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः ' ( वा ० सं ० २ २२ ) इति । अध्यात्मपक्षे - परमेश्वर इन्द्ररूपेण प्राचीनं प्राग्भवं प्रदेशं सीदत् । श्रीरामपरो वा - श्रीरामः प्राचीनं नित्यसिद्धम कृत्रिमं हृदयसिंहासनं सीदद् आस्ताम् । कीदृशः श्रीरामः? हरिवान् हनुमदादिवानरभटैर्युक्तः, पृथिव्यां सप्तद्वीपायां प्रदिशा प्रशासकः, उरुप्रथा विस्तीर्णयशाः सजोषाः प्रीत्या युक्तः सदा प्रसन्न इति यावत् । हः, 1 बृंहति अहर्निशं वर्धते यत् तत्, ' बृंहेर्नलोपश्च ' ( उ ० २।१११ ) इति इस्प्रत्ययो नलोपश्च । यज्ञं भक्तकृता-राधनरूपं जुषाणः सेवमानः । कीदृशं बहिः? प्रथमानं विस्तीर्णं स्योनं सुखकरम्, आदित्यैर्वसुभिरन्यैश्व देवेः, अक्तं व्यञ्जितम्, अन्तर्भावितणिजर्थः । दयानन्दस्तु - हे विद्वन् यथा बहिरन्तरिक्षं जुषाणो हरिवान् हरणशीलः किरणवान् आदित्येवंसुभिः सजोषा इन्द्रः पृथिव्याः प्रदिशा प्रथमानं प्राचीनं स्योनं सीदत्, तथा त्वं नोऽस्माकं मध्ये भव ' इति, तदपि तुच्छम्, मनुष्यवर्णने वेदानां लौकिकत्वेन पौरुषेयत्वापत्तेः । सूर्यस्य सदैव पृथिव्यादिभिर्मासैश्च सहभावः तादृशवर्णनस्य कर्तव्यत्वानुपपत्तेः ॥ ३ ९ ॥
इन्द्र॑ दुर॑ः कव॒ड्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नः ।
द्वारो॑ दे॒वीर॒भितो॒ विश॑यन्ता सु॒वीरा॑ वी॒रं प्रय॑माना॒ महोभिः ॥ ४० ॥
मन्त्रार्थ - जिनमें वायु के आने - जाने का अवकाश है और जहां मनुष्यों का शब्द होता रहता है, ऐसी यज्ञ-शाला में मनोरथों की वर्षा करने वाला इन्द्र प्राप्त हो । यजमान की दौड़ती हुई साध्वी स्त्रियों तथा सुन्दर वीर ऋत्विजों से युक्त तेज एवं उत्सवों से विस्तार को प्राप्त यज्ञशाला दिव्य गुणों से युक्त सब ओर से विस्तारित हो || ४० || दुरो यज्ञगृहद्वारः, सम्प्रसारणं छान्दसम्, तत्रागतमिन्द्रं यन्तु प्राप्तुवन्तु । कीदृशमिन्द्रम्? वृषाणं वर्षात कामानिति वृषा, तं वर्षितारम् ' इन्द्रः पृथिव्ये वर्षीयान् ' ( वा ० सं ० २३ | ४८ ) इति मन्त्रवर्णात् । पुनः कीदृशम्? वीरं शूरम् । कीदृश्यो दुर:? कवष्यः, ' कु शब्दे ' आदादिकः, कुवन्ति शब्दयन्ति जना यासु ता कवष्यः सच्छिद्राः, सच्छिद्रे स्थान एवं शब्दप्रसारात् औणादिकोऽषट्प्रत्ययः स्तावकजनकोलाहलपूर्णा इत्यर्थः । तथा धावमाना धावन्ते स्वागतार्थमिति तथोक्ताः, आदरवत्य इति यावत् । इन्द्रसम्मानानुगुणमाङ्गलिकनारिकेलो-पेतपूर्णकलशादिमत्यः । तत्रोपमानम् — जनयो जायाः सुपत्नीः शोभनाः साध्व्यः पत्न्य इव यज्ञः सहाधिकारियो जायाः स्त्रिय इव जायतेऽस्यामिति जनि:, ' जनिघसिभ्यामिण् ' ( उ ० ४।१३१ ), ' जनिवध्योश्च ' ( पा ० सू ० ७।३।३५ ) इति वृद्ध्यभावः, बहुवचने जनय इति । स्त्रियो यथा धावमाना यन्ति तथा द्वार इन्द्रं यन्तु । किञ्च, इन्द्रसङ्गति प्राप्य द्वारो देवीर्देव्यो दीप्यमाना अभितः सर्वत्र विश्रयन्तां विशेषेण श्रयन्ताम्, ऋत्विज इति शेषः, विव्रियन्तामिति यावत् । कीदृश्योद्वारः? सुवीराः शोभना वीरा ऋत्विजो यासु ताः, ऋत्विग्युक्ता इत्यर्थः । महोभिस्तेजोभि-रुसवेर्वा प्रथमाना विस्तृता भवन्त्यः, ' महस्तुत्सवतेजसो: ' ( अ ० को ० ३।३।२३१ ) इति कोषात् । अध्यात्मपक्षे -- द्वारो यज्ञगृहद्वार इन्द्ररूपेण परमात्मानं श्रीरामं वा यन्तु । शेषं पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः, यथा कवष्यः शब्दे साधवो वृषाणं वीरमिन्द्रं धावमाना दुरो द्वाराणि यन्तु । यथा प्रथमानाः सुवीरा महोभिः सुपूजितैर्गुणैर्द्वारो देवी: सुपत्नीरभितो विश्रयन्ताम्, तथा यूयमाचरत ' इति, तदपि
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
* म ० ४ ९ -४१ ] वेदार्थ पारिजात भाष्यसहिता ३३१ यत्किञ्चित् कवयो जनयो वृषाणं प्राप्नुयुरित्यस्य सङ्गतत्वेऽपि दुर इत्यनेन असम्बन्धात् । तथैव सुवीराः प्रथमानाः सुपत्नीरभितो विश्रयन्तामित्यत्रापि द्वार इति पदस्यासङ्गतिः । तथैव यूयमप्याचरतेति निर्मूलमेव । स्त्रीषु द्वारतुल्यता कल्पनापि बलात्कार एव । सूत्रब्राह्मणानुसारेण इन्द्रस्तुतिपरा मन्त्रा न स्वयंवर विधायकाः, मन्त्रेषु विधायकतानुपपत्तेः ॥ ४० ॥
उ॒षासा॒नक्ता॑ बृह॒तो बृ॒हन्तं॒ पय॑स्वती दुधे॒ शूर॒मिन्द्र॑म् ।
तन्तु॒ तं पेश॑सा स॒वय॑तो दे॒वानां॑ दे॒वं य॑जतः सुरु॒षमे ॥ ४१ ॥
मन्त्रार्थ - विशाल, सुन्दर, जलयुक्त दोहनवाली और विस्तारवान् सूत्र के समान विचित्र रूप से इन्द्र को युक्त करने वाली सूर्य की प्रभा और रात्रि इस महान पराक्रमी देवताओं के देवता इन्द्र को सुन्दर दीप्ति से युक्त करती है ॥ ४१ ॥
उषासानक्ता उषाः प्रातःकालिकी आदित्यप्रभा, नक्तं रात्रिः, उषाश्च नक्तं चेति उषासानक्ता । ' उषासोषसः ' ( पा ० सू ० ६ | ३ | ३१ ) इत्युषसुशब्दस्य उषासादेशः । औ विभक्तिः, विभक्तेर्डादेशे टिलोपे च रूपम् । बृहती बृहत्यो महत्यो बृहन्तं महान्तं शूरं विक्रान्तं देवानां देवं सर्वदेवपूज्यमिन्द्रं यजत इन्द्रेण सङ्गमं कुरुतः । यजिरत्र सङ्गतिकरणार्थः । कीदृश्यौ उषासानक्ता? पयस्वती उदकवत्यो, अवश्यायवत्याविति यावत् । सुदुग्धे शोभनं दुग्धः सुदुघे साधुदोहने, ' दुहः कब्घश्च ' ( पा ० सू ० ३ ( २ | ७० ) इति कपि घादेशे च रूपम् । इन्द्रं पेशसा विचित्र-रूपेण संवयन्ती संवयन्त्यो सङ्गमयन्त्यौ, इन्द्रं रूपेण योजयन्त्याविति यावत् । तत्र दृष्टान्तः -- ततं तन्तुमिव यथा पार्थं विस्तीर्ण तन्तुं कश्चित् पटरूपेण वयति तद्वत् । सुरुक्मे सुष्ठु शोभनं रुक्मं रोचनं कान्तिर्ययोस्ते सुरुमे । अध्यात्मपक्षे - उषासानक्ता तूलाविद्या मूलाविद्या च " बुद्धिः प्रकृतिश्चेति यावत् । ते बृहन्तं महान्तं -मपरिच्छिन्नं शूरमभङ्गुरमिन्द्रं परमैश्वर्यवन्तं देवानां देवं देवैरपि पूज्यं परमात्मानं ततं पटरूपेण विस्तृतं तन्तुं सूत्रमिव पेशसा विचित्ररूपेण संवयन्ती संवयन्त्यो, इन्द्रं परमात्मानं विचित्रप्रपञ्चरूपेण योजयन्त्यौ स्तः । कीदृश्य? बृहत् महत्यो पयस्वती पयस्वत्यो कर्म संस्कारवत्यौ । पयःपदेन पयः समवेतानि कर्माणि । सुदुघे साधु दोहने तत्तदभीष्ट पूरयित्र्यौ सुरूक्मे शोभनदीप्तिमत्यौ, सूर्यादिहेतुत्वात् । कर्मवासनावासिततूलाविद्यामूलाविद्ये बुद्धिप्रकृती वा विशुद्धमिन्द्रं परमात्मानमनेकरूपेण विवर्तयतः । यथा कश्चित् तन्तुमेव पटात्मना परिणमयति, तथा परमात्मानमेव जगदात्मना परिणमयतः । -दयानन्दस्तु – ' हे मनुष्याः, यथा पेशसा संवयन्ती प्रापयन्त्यौ पयस्वती रात्र्यन्धकारयुक्ते सुदुघे बृहती वर्धमाने सुरुक्मे उपासानक्ता ततं देवानां देवं बृहन्तमिन्द्रं सूर्यं यजतः, तथा तन्तुं विस्तारकं शूरं पुरुषं यूयं सङ्गच्छध्वम् ' इति, तदपि यत्किञ्चित्, अध्याहारसापेक्षत्वात् । न चोषशब्देन दिवसस्य बोधः, तत्र तस्याशक्त-स्वात् । न च पय।शब्दस्यान्धकारोऽर्थः । यथाकथञ्चित् तथात्वेऽपि न दिनस्य अन्धकारयुक्तत्वम्, तद्वैपरीत्यो-पलम्भात् । न च ते इन्द्रं सूर्यं गच्छतः, सूर्यस्य सत्त्वे रात्रेरपगमात् । न वा ते सूर्यं रूपेण याजयतः, सूर्यरूपेणैव तयो रूपवत्त्वात् । न च मनुष्यैरवश्यं कश्चिच्छूरोऽभिगन्तव्यः, वीतरागाणामन्य पुरुषनिरपेक्षत्वात् । द्वितीयान्त-पदानामिन्द्रस्य विशेषणत्वेन सम्भवति योजने शूरम्पदस्य स्वातन्त्र्येणान्वयायोगात् ॥ ४१ ॥
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
३३२ शुक्लयजुर्वेदसंहिता [ अ ० २०
व्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्र॑ प्रथ॒मा सुवाच ।
मूर्धन् य॒ज्ञस्य॒ मधु॑ना दधा॑ना प्रा॒चीनं॒ ज्योति॑ह॒विषा॑ वृधातः ॥ ४ ॥
मन्त्रार्थ - नाना प्रकार से यज्ञरचना करने वाले, मनुष्य होता के पहले सुन्दर वचन वाले और यज्ञ के प्रधान अंग शिरोभाग में इन्द्र को स्थापित करते हुए देवताओं के होता वायु और अग्नि पूर्व दिशा में वर्तमान आहवनीय अग्नि को मधुर हाँव से बढ़ाते हैं ॥ ४२ ॥
अयं चाग्निरसौ च वायुर्मध्यमस्तौ देव्यौ देवानामिमी ' देवाद्यञञौ ' ( पा ० सू ० ४ | १ | ८५, वा हविषा ० ३ ) कृत्वा इति यञ्प्रत्ययः । होतारी वाय्वग्नी प्राचीनं प्राच्यां दिशि वर्तमानं ज्योतिराहवनीयाख्यं मधुना बहुधा मधुरेण मिमाना मिमानौ वृधातो वर्धयतः, वृधेः ' लेटोऽडाटी ' ( पा ० सू ० ३१४ / ९ ४ ) इत्याट् । कीदृशौ होतारौ? षुगागमे यज्ञं निर्मिमाणौ । मनुषः, मनोरपत्यं जातिश्चेत् ' मनोर्जातावञ्यतौ षुक् च ' ( पा ० सू ० ४। १ । १६१ । ) सुवाचा इत्यत्र शोभना छान्दसे वृद्ध्यभावे च रूपम् । अत्र प्रथमा पञ्चम्यर्थे । मानुषाद् होतुः प्रथमा आद्यौ प्रथमाद्विवचनस्य , विभक्तेरा आकारः । वाग् ययास्तौ । यज्ञस्य मूर्धन् मूर्धनि प्रधानेऽङ्गे इन्द्रं दधाना स्थापयन्तौ । सर्वत्र अध्यात्मपक्षे - सत्त्वं च क्षेत्रज्ञश्चतौ दैव्यौ देवस्य स्वप्रकाशस्य परमात्मनः सम्बन्धिनी होतारौ तस्याह्नातारी प्राचीनं प्राग्भवं ब्रह्मात्मकं ज्योतिर्मधुना हविषा मधुरदृश्यात्मक हविःसमर्पणेन, वृधातो? वर्धयतः पुरुत्रा, चिदग्निमण्डले मनःसंयुक्तेन्द्रियस्रुचा सर्वं दृश्यं हुत्वा तस्यापरिच्छिन्नतां पूर्णतां सम्पादयतः । कीदृशौ सुवाचा बहुधा यज्ञस्य यज्ञं निदिध्यासनलक्षणं मिमानी निर्मिमाणौ, कर्मणि षष्ठी । मनुषो स्थापयन्तौ मानुषाद्धोतुः । प्रथमो वेदान्तलक्षणया शोभनया वाचा यज्ञस्य मूर्ध्नि प्रधानरूपेणेन्द्रं परमात्मानं दधानो दयानन्दस्तु — ' यौ देव्यो देवेषु भवौ मिमाना निर्मातारी होतारी दातारौ सुवाचा सुवाचो यज्ञस्य मूर्धन् प्रथमा वर्तमानौ पुरुत्रा मनुषो दधाना मधुना हविषा प्राचीनं ज्योतिरिन्द्रं वृधातः, तो सर्वैर्मनुष्यैः सत्कर्तव्यो ' इति, तदपि यत्किञ्चित् दैव्याविति द्विवचनस्यातन्त्रत्वात् मधुना हविषा प्रकाशैश्वर्ययो-रनुपपत्तेः ॥ ४२ ॥
ति॒स्रो दे॒वोह॒विषा॒ वर्ध॑माना॒ इन्द्र॑ जुषा॒णा जन॑यो॒ न पत्नौः ।
अच्छ॑न्तं॒ तन्तु॒ पय॑सा॒ सर॑स्व॒तीवा॑ दे॒वी भार॑ती वि॒श्वत॑तः ॥ ४३ ॥
मन्त्रार्थ -- दीप्यमान सर्वगामिनी वाणी की अधिष्ठात्री भारती शुभ गुणों के कारण स्तुति के योग्य पुष्टि-विघ्न-युक्त साध्वी स्त्रियों के समान इन्द्र या यजमान की सेवा करती हुईं तीनों देवियाँ दूध और हवि से यज्ञ को रहित करें || ४३ ॥ यास्तिस्रः सरस्वती, इडा, भारती च देवी देव्यो हविषा आज्येन वर्धमाना जनयो न पत्नीः पत्न्यो यज्ञसम्बन्धिन्यो जाया इव इन्द्रं जुषाणाः सेवमानास्ता अच्छिन्नं तन्तुमविस्रस्तं निर्विघ्नं यज्ञं पयसा हविषा कुर्वन्त्विति शेषः । पुनस्ताः कीदृश्यः? देवी देव्यो दीप्यमानाः, विश्वतुतिः सर्वत्र तूर्णगामिन्यः । इदं विशेषणद्वयं तिसृणामपि ।
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
५० ४३-४४ ] वेदार्थं पारिजात भाष्यसहिता ३३३ • अध्यात्मपक्षे— सरस्वती वाग्देवता तत्सम्बन्धिनी नाडी तदुपलक्षिता सुषुम्ना च, इडा प्रसिद्धा चन्द्रनाडी, भारती आदित्यप्रभारूपा सूर्यनाडी, एतास्तिस्रो नाड्यो जनयो न पत्नीः साध्व्यो जाया इव इन्द्रं दीप्तिमन्तं जीवात्मानं जुषाणाः सेवमानाः पयसा आज्यादिलक्षणेन हविषान्नेन वर्धमाना तन्तुं जीवनयज्ञमच्छिन्न-मविघ्नं सम्पादयन्तीत्यर्थः । कीदृश्यस्ताः? देवी दीप्यमाना विश्वतिविश्वस्मिन् त्वरते तूर्णं गच्छतीति । एतासां पुष्ट जीवति क्षीणतायां च क्षीयते जीवात्मा । -दयानन्दस्तु – ' हे मनुष्याः, या विश्वतूर्तिर्विश्वस्मित्वरमाणा देवी सरस्वती प्रशस्तविज्ञानवती इडा स्तुत्या भारती धारणपोषणकर्त्री च तिस्रोदेवीर्देव्यः पयसा शब्दार्थसम्बन्धेन हविषा दानादानेन प्राणेन वा वर्धमाना जनयो जनयित्र्या पत्नी न इव छिन्नं तन्तुमिन्द्रं जुषाणाः सन्ति, ता यूयं सेवध्वम् ' इति, तदपि न सङ्गतम्, कास्ता इत्यस्पष्टत्वात् । न च शक्तय एव ताः, तासां स्वातन्त्र्येण ज्ञानवत्त्वभरणपोषणकर्तृत्वायोगात् । नवा दानादानसमर्थाः, तयोश्चेतनधर्मत्वात् । न च पयः शब्देन शब्दार्थसम्बन्धरसार्थता, न वा शब्दार्थसम्बन्धानां
रसरूपता, प्रमाणशून्यत्वात् । तासां विद्युत्सेवनमपि प्रमाणसापेक्षमेव ॥ ४३ ॥
त्वष्टा॒ दध॒च्छ॒हम॒मिन्द्रा॑य॒ वृष्णे ऽवा॒कोऽचि॑िष्ट॒र्य॒शसे ' पु॒रूणि॑ वृषा॒ यज॒न् वृष॑णं॒ भूरि॑रे॒ता मूर्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥ ४४ ॥
मन्त्रार्थ - अतिप्रशंसनीय, अर्चनशील, सब ओर से गमन करने वाला, मनोरथों की वृष्टि करने वाला, परम वीर्यवान्, सबका उत्पादक त्वष्टा देवता यज्ञ के निमित्त सेचन करने वाले इन्द्र के लिये बहुत बलशाली और धर्म-सम्पन्न इन्द्र का पूजन करते हुए यज्ञ के शिरोभाग आहवनीय में देवताओं को तृप्त करे ॥ ४४ ॥
त्वष्टा, त्वक्षति करोति रूपमिति त्वष्टा, ' स्वक्षतेर्वा स्यात् करोतिकर्मणः ' ( नि ० ८ ( १३ ), देवो यज्ञस्य मूर्धन् मूर्ध्नि शिरसि तद्रूप आहवनीये देवानाहवनीयात्मना स्थितान् समनक्तु भोजयतु, अन्तर्भावितणिजर्थो द्रष्टव्यः । कीदृशस्त्वष्टा? यशसे यशस्विने वृष्णे सेक्त्रे इन्द्राय पुरूणि भैषज्यान्यकरोत् । वचनव्यत्ययो वा, पुरु बहु शुष्मं बलं दधद् धारयन् । तथा अपाकः, पाक इति प्रशस्यनामसु ( निघ ० ३८८ ), न विद्यते पाकः प्रशस्यो यस्मात् सः, परमप्रशस्तस्त्वष्टा । ' नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः ' ( पा ० सू ० २२ २४, वा ० २ ) इति समासः । अचिष्टुरञ्चनशीलः सर्वत्र गत इति यावत् । वृषा वर्षिता वृषणं सेक्तारमिन्द्रं यजन् पूजयन् । भूरिरेता भूरि बहु रेतो वीर्यं यस्य स सर्वजनकः । अध्यात्मपक्षे— त्वष्टा सर्वकर्ता परमेश्वर इन्द्राय दीप्तिमते इन्द्राय उरु बहु शुष्मं बलं दधद् धारयन् यज्ञस्य मूर्धन् मूर्ध्नि यज्ञादिप्रधानकर्मनिमित्तं देवान् इन्द्रियाणि समनक्तु भोजयति । कीदृशस्त्वष्टा? अपाक सर्वश्रेष्ठः, अचिष्टुः सर्वत्राञ्चनशीलः सर्वगतः भूरिरेता । सर्वकारणः । कीदृशाय इन्द्राय? वृष्णे सेक्त्रे, यशसे यशस्विने । दयानन्दस्तु – ' हे विद्वन्, यथा त्वष्टा विद्युदिव वर्तमानो विद्वान् वृषा सेक्ता इन्द्राय परमेश्वर्याय वृष्णे परशक्तिबन्धकाय शुष्मं बलम्, अपाको प्रशस्यः, अचिष्टुः गमनकर्ता, यशसे पुरूणि बहूनि दधद् भूरिरेता वृषणं मेघं यजन् सङ्गच्छमानो यज्ञस्य सङ्गतस्य जगतो मूर्धन् मूर्ध्नि देवान् समनक्तु कामयताम् ' इति, तदप्यसङ्गतम्, त्वष्टृपदस्य विद्युत्तुल्यविद्वदर्थे मानाभावात् । इन्द्रशब्दस्य परमैश्वर्यवत्वार्थकत्वेऽप्यैश्वर्यमात्रं लक्षणामन्तरा नार्थः ।
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
३३४ शुक्लयजुर्वेद संहिता [ अ ० २८ पुरूणि बहूनि सा च तात्पर्यानुपपत्तिरूपबीजसापेक्षा । वृष्ण इत्यस्य परमैश्वर्योधनार्थतापि स चिन्त्येव तादृशो । यो यो मेघं यशसे सङ्गच्छते, यश्च धारयति यश्चात्यन्तबहुवीर्यः, स कथमप्रशस्य इत्यपि चिन्तनीयम् । कश्च काम्याः? इत्यादिप्रश्नपरम्परा अनिरा-विदुषः कामयताम्? जगत उत्तमभागः कः? किमर्थं च तत्रैव विद्वांसः देवेन्द्रादिशब्दा अर्थविशेषेषु काङ्क्षैव । अतः सर्वस्याप्येतस्य गौणार्थस्याश्रयणं निर्मूलमेव । काव्यकोषादिषु प्रसिद्धाः । कथङ्कारं तेषामपलापः? ॥ ४४ ॥
वन॒स्पति॒रव॑सृष्टो न पाशैस्त्मन्या॑ सम॒ञ्जञ्छंमिता न दे॒वः ।
इन्द्र॑स्य हव्य॑ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ॥ ४५ ॥
मन्त्रार्थ -- यूप देवता यज्ञ के समान, आज्ञा दिये हुए के समान, पाशों से अपने को युक्त करती हवियों के है ॥ ४५ ॥
द्वारा इन्द्र के उदर को पूर्ण कर मधुर रस और घृत के द्वारा यज्ञ का आस्वादन करता स्वदति वनस्पतिस्तद्विकारो यूपो देवो दीप्यमानो मधुना मधुररसेन घृतेन इव आज्येन पाशैः कृत्वा च युक्तं त्मन्या यज्ञं आत्मनि यागं समञ्जन् स्वदतु आस्वादयतु समनक्तु वा । कीदृशो वनस्पतिः? अवसृष्टो न आज्ञप्त ' ( पा ० सू ० ६ | ३ | १४१ ) इति लोपे विभक्ते-पशुं संयोजयन् । आत्मन्शब्दस्य आदेराकारस्य ' मन्त्रेष्वाङयादेरात्मनः पशुमात्मनि संयोजयति, तद्वद् र्यादेशे च रूपम् । कथमिव? शमिता न देवः, यथा शमिता मृत्युदेवता पाशैः पूरयन् वनस्पतिर्यज्ञं स्वदति । वनस्पतिरप्यात्मनि पशुं संयोजयति । तथा इन्द्रस्य जठरमुदरं हव्यैः पृणानः अध्यात्मपक्षे – वनस्पतिर्यूपभावापन्नः परमेश्वरः, अवसृष्ट इव यज्ञं स्वदातीति कृष्णमात्मनि पूर्ववदेव व्याख्यानम् समञ्जन् । थद्वा वनस्पतिर्यमलार्जुनो वृक्षत्वेन एकत्वविवक्षया एकवचनम् देवः पाशैर्बद्धं माधुर्य सौन्दर्य यज्ञं विष्णुं सौरस्य सौगन्ध्यादिविशिष्टस्य संयोजयन् मधुना घृतेन मधुरेण घृतगन्धिस्नेहेन यज्ञं कृष्णं स्वदाति शमं गच्छन्नुपासकः परमेश्वरस्य माधुर्यादिकमास्वादयति । कथमिव? शमिता न शमं गच्छन्निव । ध्यानादिबलेन योजयति, तद्वत् । कृष्णस्य जठरं हव्यैर्दध्योदननवनीतादिभिः पूणानः पूरयन् भक्त्या तमात्मनि दयानन्दस्तु —– ' यः पाशैर्वनस्पतिर्वनस्य वृक्षसमूहस्य पतिः पालकः, अवसृष्ट आज्ञप्तः ऐश्वर्यस्य पुरुष जटरं इव पृणानो त्मन्या आत्मना समञ्जन् सम्पृचानो देवो दिव्यसुखदाता शमिता यज्ञो न रोगहीनो यज्ञ इव भवति इन्द्रस्य ' इति, तदपि यत्किञ्चित्, हव्यैरत्तुमः, मधुना क्षोद्रेण घृतेनाज्येन च सह यज्ञं कुर्वन् खादति स ते वनस्पतयः स्मृताः ' ( १/४७ ) गौणार्थाश्रयणाध्याहारमूलकत्वात् । वनस्पतिशब्दश्च - ' अपुष्पाः फलवन्तो ये मनुष्ये प्रयुञ्जानस्य इति मनुसंहितारीत्या न्यग्रोधाश्वत्थादिविशिष्टवृक्षेषु रूढः । रूढिमपहाय वृक्षसमूहपालके तन्मनःस्थमेव । शाब्दन्याये सर्वथा निरङ्कुशत्वमेव द्योतयति । दृढबन्धनैश्व कथं वक्षसमूहस्य कोशं पालनमित्यपि पूरयन् हव्येरत्तुमर्हेर्मधुना आत्मना कस्य सम्पर्को विवक्षितः? शमिता यज्ञः कथम्? इन्द्रस्य जठरमैश्वर्यस्य ॥ घृतेन च यज्ञं कुर्वन् स्वदाति स रोगहोनो भवतीत्यादिकं सर्वं सापेक्षमेव, पूर्वोक्तदोष दूषितं च ॥ ४५
तोकानामिन्धुं प्रति शूर इन्द्रो ' वृषा॒यमा॑णो वृष॒भस्त॑रा॒षाट् ।
घृ॒त॒श्रु॒षा॒ मन॑सा॒ मद॑माना॒ः स्वाहा॑ दे॒वा अ॒मृत॑ मावयन्ताम् ॥ ४६ ॥
मन्त्रार्थ - शूरवीर, शत्रुओं के ऊपर गरजने वाला वृष्टि का प्रेरक, शत्रुजयी इन्द्र तथा स्वाहाकार घृतके ॥ बिन्दु से भी मन में प्रसन्न होते हुए मरणधर्मरहित देवता घृतबिन्दु युक्त सोम से तृप्त हों ॥ ४६