वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 371–380
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 371–380
पृष्ठ 371
पाठ पढ़ें पाठ छिपाएँ
म ० ४६-४७ ] वेदार्थपारिजातभाष्यसहिता ३३५ इन्द्र स्वाहा, देवाः, नामैकदेशे नामग्रहणम्, स्वाहाकृतयो देवाश्च मादयन्तां तृप्यन्तु, ' मद तृप्तियोगे ' चीरादिकः । किमुद्दिश्य? स्तोकानामिन्दुं प्रति स्तोका वपासम्बन्धिनो घृतबिन्दवः, तत्सम्बन्धी य इन्दुः सोमस्तं प्रति, तमुद्दिश्येति यावत् । इह वपास्तोकेषु सोमत्वमारोप्यते, वपास्तोकरूपं सोममुद्दिश्य इन्द्रः स्वाहाकृतयश्च तृप्यन्तामित्यर्थः । कीदृश इन्द्रः? शूरः शौर्यवान्, वृषायमाणो वृषवदाचरति वृषायते, वृषायते यः स वृषायमाणः, शत्रून् प्रति गर्जन्नित्यर्थः । वृषभः, वर्षति कामानिति वृषभः, ' ऋषिवृषिभ्यां कित् ' ( उ ० ३ १२३ ) इत्यभच्-प्रत्ययेन साधुः वर्षिता । तुराषाट् तूर्णं सहतेऽभिभवति शत्रूनिति तुराषाट् । कीदृशाः स्वाहाकृतयः? घृतप्रुषा प्रुष्णाति स्नेहनं करोति पूरयति वेति प्रुट्, सम्पदादिभ्यः क्विप्, घृतस्य प्रुड् घृतप्रुट् तेन घृतबिन्दुनापि मनसा मोदमानाः सन्तुष्टा इति यावत् । अमृताः, नास्ति मृतं मरणं येषां ते तथोक्ता अमरणधर्माणः । आचार्योव्वरीत्या तु वपास्तोकानां सम्बन्धिनमिन्दुं सोमं प्रति गमनाय शूरो विक्रान्तो वृषायमाणस्तुराषाट् स इन्द्रः स्वाहाकृतिभि-मदयतां तृप्यतु । घृतप्रुषा घृतावयवेन च मनसा मोदमाना हृष्यन्तः स्वाहा स्वाहाकृतिभिर्देवा अमृता अमरण-धर्माणो मादयन्तां तृप्यन्तु । अध्यात्मपक्षे — स्तोकानां रससिन्धुबिन्दूनां सम्बन्धिनमिन्दुं चन्द्रं प्रति गमनाय शूरो विक्रान्तो वृषायमाणस्तुराषाट् स्वाहा सर्वस्वात्मनिवेदनेः सह मादयताम् । घृतप्रुषा घृतबिन्दुभिः " इन्द्रावयवभूता देवा अपि घृतगन्धिस्नेहेन तद्युक्तेन मनसा मोदमाना हृष्यन्तु, स्वाहाकारैः सर्वसमर्पणैः सह अमृताः सन्तो मादयन्ताम् । दयानन्दस्तु - ' यथा वृषायमाणो वृषभस्तुराषाट् तुरान् सहते यः स शूर इन्द्रः स्तोकानामिन्दुं प्रत्या-नन्दति तथा घृतषा प्रकाशसेविना मनसा स्वाहा सत्यक्रियमा च मोदमाना अमृता देवा मादयन्ताम् ' इति, तदपि तुच्छम्, घृतप्रषा मनसा प्रकाशसेविना विज्ञानेनेति व्याख्यानस्य निर्मूलत्वात् मनःपदस्य विज्ञानार्थ-स्वायोगात् । घृतशब्दस्य कथञ्चित् प्रकाशार्थत्वेऽपि प्रुषेत्यस्य सेवार्थता निर्मूलैव । भावार्थस्तु सर्वथा मूलार्था -संस्पर्शीत्य परकीय रन्ध्रान्वेषणेन ॥ ४६ ॥
आय॒त्विन्द्रोऽव॑से॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूर॑ः ।
वा॒वृधा॒नस्तवि॑षी॒र्य॑स्य॑ पू॒र्वीद्येनं॑ क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥ ४७ ॥
मन्त्रार्थ - जिस इन्द्र के पूर्वकाल में किये हुए वृत्रवध आदि पराक्रमों की स्वर्ग में चर्चा होती रहती है और जो कभी तिरस्कृत न होने वाले हमारे क्षात्र तेज को पुष्ट करता है, वह शूरवीर, स्तुति करने से वृद्धि को प्राप्त हुआ इन्द्रदेव हमारी रक्षा के लिये यहाँ आवे, इस यज्ञ में देवताओं के साथ आकर भोजन करे || ४७ || ' याज्यानुवाक्याश्च वपा - पशु - पुरोडाशानामायात्विन्द्र इति ' ( का ० श्रो ० १ ९ | ६ | १३ ) । वपा - पशु-पुरोडाशानां याज्यानुवाक्या वर्ण्यन्ते । ' आयात्विन्द्रः ' ( २०४७ ) इति वपायाः पुरोऽनुवाक्या, ' आ न इन्द्रो दूरात् ' ( २०४८ ) इति याज्या, ' आ न इन्द्रो हरिभि: ' ( २०१४ ९ ) इति पशुपुरोडाशस्य पुरोऽनुवाक्या, ' त्रातारमिन्द्रम् ' ( २०/५० ) इति याज्या, ' इन्द्रः सुत्रामा ' ( २०५१ ) इति पशुयागे पुरोऽनुवाक्या, ' तस्य वयम् ' ( २०/५२ ) इति याज्येति सूत्रार्थः । सप्त त्रिष्टुभ इन्द्रदेवत्याः । इन्द्रः परमेश्वर्ययुक्तो देवो नोऽस्माकमुप समीपे, अवसे अवितुम्, तर्पणाय रक्षणाय वा आयातु । ' तुमर्थे सेसेनसेऽसेन् ' ( पा ० सू ० ३।४ / ९ ) इति तुमर्थेऽवतेरसेन्प्रत्ययः । हायातः सन् अस्माभिः स्तुतः सधमात् सह देवैः सार्धं मादयति तृप्यतीति सधमात् सहभोजनकर्तास्तु,
पृष्ठ 372
पाठ पढ़ें पाठ छिपाएँ
३३६- शुक्लयजुर्वेदसंहिता [ ० २० ' सधमादस्थयोश्छन्दसि ' ( पा ० सू ० ६ । ३ ९ ६ ) इति सहशब्दस्य सधादेशः । कीदृश इन्द्रः? शूरः शौर्यगुणोपेतः । स्तुतोऽस्माभिः । स्तुत्या स्वबलैर्वा वावृधानो वर्धमानः । यस्य इन्द्रस्य पूर्वीस्तविषीः पूर्वास्तविष्यः, पूर्वाणि कृतानि बलानि वृत्रवधादयः पराक्रमाः, द्यौर्न स्वर्ग इवोच्चैः कथ्यन्ते, तविषीति बलनाम ( निघ ० २२ ९ / १० ), ' तविषीति बलनाम, तवतेर्वा वृद्धिकर्मणः ' ( नि ० ९ | २५ ) । तुधातुः सौत्र: ' तुरुस्तुशम्यमः सार्वधातुके ' ( पा ० सू ० ७ | ३ | ९ ५ ) इति सूत्रे पठितो गतिवृद्धिहिसार्थकः । यद्वा द्यौः स्वर्गे यथा स्तूयते तथेन्द्रस्य पराक्रमाः स्तूयन्ते । यश्चेन्द्रः क्षत्रमस्मदीयमभिभूति अभिभवितृ अभिभवनशीलं क्षतत्राणकरं क्षत्रं पुष्यात् पुष्णाति स इन्द्र आयत्विति सम्बन्धः । अध्यात्मपक्षे – इन्द्रः परमात्मा अवसेऽवनाय तर्पणाय वा नोऽस्माकं समीपे आयातु आगच्छतु, श्री रामादिविग्रहवान् भूत्वेत्यभिप्रायः । इहागत्यास्माभिः स्तुतः सन् सधमात् सह स्वपरिकरैः सार्धं मादयतीति तथोक्तः, सहभोजनोऽस्तु । स च कीदृश:? शूरो विक्रान्तः । वावृधानः प्रतिक्षणं नवनवायमानबलेन वर्धमानः । यस्य पूर्वीस्तविषीः पूर्वाणि रावणवधादीनि बलानि, द्यौरिवोच्चैर्वसिष्ठवाल्मीक्यादिभिः स्तूयन्ते यश्च क्षत्रं क्षतात् त्राणकरं क्षात्रं धर्मं पुष्यात् पुष्यति, स आयात्वित्यर्थः । दयानन्दस्तु - ' य इन्द्र इह स्तुतः शूरः पूर्वीस्तविषीः सेनाः पूर्वीः पूर्वैविद्वद्भिः सुशिक्षयोत्तमाः कृता वावृधानोऽत्यन्तं वर्धमानो यस्याभिभूति शत्रुणामभिभवनकर्त्री क्षत्रं राज्यं द्यौर्न द्यौरिव वर्तते, यो नः पुष्यात्, सोऽस्माकमवसे उपायातु, सधमात् समानस्थानाद् अस्तु ' इति, तदपि यत्किञ्चित्, अनुपपत्तेः । तथाहि — पूर्वीति-पदस्य पूर्वैर्विद्वद्भिः सुशिक्षयोत्तमाः कृता इति व्याख्यानं कथमिवोपपद्यते? पूर्वंशब्दस्य तादृशेऽर्थेऽशक्तत्वात् । विषति पदमपि न सेनापरम्, प्रमाणशून्यत्वात् । क्षत्रं राज्यमित्यपि निर्मूलम् । अभिभूतिपदं शत्रूणामभि-भवकर्त्रीति त्वया व्याख्यातं कस्य विशेषणम्? न तविषोरित्यस्य वचनवेषम्यात् ॥ ४७ ॥
आन॒ इन्द्रो ' दूरादान॑ आ॒साद॑भिष्ट॒कृदव॑से यास दुग्रः । ह ओजि॑ष्ठेभन॒पति॒र्वत्र॑बाहुः स॒ङ्गे स॒मत्सु ' तुर्वर्णः पृत॒न्यून् ॥ ४८ ॥
८ : मन्त्रार्थ --- मनोरथों को पूर्ण करने वाला, उत्कृष्ट गुणों वाला, अतितेजस्वी, बलशाली, मनुष्यों का पालन के लिये करने वाला, वज्रधारी, एक अथवा अनेक बड़े - बड़े संग्रामों में शत्रुओं का नाश करने वाला इन्द्र हमारी रक्षा सुदूर स्वर्ग से यहां आवे हमारे निकट इस यज्ञस्थल पर विराजमान हो ॥ ४८ ॥
इन्द्रो दूराद् द्युलोकादेः, नोऽस्माकमासाद् अन्तिकाच्च आयासद् आगच्छतु, आ उपसर्गों यासदित्यनेन सम्बद्धयते । यदि दूरे द्युलोकादौ यदि वान्तिके यत्रैव भवेत्तत एवागच्छत्वित्यर्थः । आसादित्यन्तिकनामसु १ | ३४ ) ( निघ ० २।१६।२ ), यातेर्लेटि ' लेटो s डाटो ' ( पा ० सू ० ३।४ / ९ ४ ) इत्यडागमे, ' सिब्बहुलं लेटि ' ( पा ० सू ० ३ | इति सिपि च रूपम् । किमर्थमागच्छत्विति चेत्, तत्राह — अवसेऽवितुमस्माकं रक्षणं कर्तुम् । कीदृश इन्द्रः? तथोक्तो मनोऽभिलषितकार्यकारी । उग्र उच्यति समवैति अभिष्टिकृद् अभिष्टिमभिलाषं करोति पूरयतीति रन् प्रत्यया, महापुरुषानित्युग्रः, उत्कृष्ट इत्यर्थः । ' उच् समवाये ' दैवादिकात् ' ऋजेन्द्र ' ( उ ० २ २ ९ ) ओजस्विनः इत्यादिना । ' अस्माया-चकारस्य गकारश्वादेशः । ओजिष्ठेभिस्तेजस्वितमैर्बलैः, युक्त इति शेषः । ओजोऽस्त्येषां त मेधास्रजो विनिः ' ( पा ० सू ० ५ | २ | १२१ ) इति विनिः, अतिशयेन ओजस्विन ओजिष्ठाः, ' विन्मतोर्लुक् ' ( पा ० सू ० ५/३/६५ ) इति विनो लुक, तैरतिशयतेजस्विभिः । नृपतिर्नृणां पालकः । वज्रबाहुर्वज्रं बाहौ यस्य सः ।
पृष्ठ 373
पाठ पढ़ें पाठ छिपाएँ
म०,४१-४९ ] वेदार्थ पारिजातभाष्यसहिता ३३७ सङ्गे एकस्मिन् संग्रामे समत्सु बहुष्वपि संग्रामेषु युगपदुत्थितेषु । सङ्गे ( निघ ० २।१७ / ८ ), समत्सु ( निघ ० २।१७।२२ ) इत्युभे अपि संग्रामनामनी । पृतन्यून् पृतनामिच्छन्ति पृतन्यन्ति, सुप आत्मनः क्यच् ' ( पा ० सू ० ३।११८ ) इति क्यचि, ' कव्यध्वरप्तनस्यच लोप: ' ( पा ० सू ० ७ / ४ / ३ ९ ) इत्यन्त्यलोपे, ' क्याच्छन्दसि ' ( पा ० सू ० ३ | २ | १७० ) इत्युप्रत्यये पृतन्युरिति रूपम्, शत्रुन् । तुर्वणिः, तुर्वतीति तुर्वणिर्हन्ता । एवंभूत इन्द्रः समायात्वित्यर्थः । अध्यात्मपक्षे- - इन्द्रः परमेश्वरो रामः, नोऽस्माकं दूराद् दूरदेशात् साकेत लोकादेरासाद् निकट-प्रदेशाच्च, आयासद् आगच्छतु । किमर्थम्? अवसे अवितुं भक्तान् रक्षितुम् । अभिष्टिकृद् भक्ताभिलषित कार्यकारी, उग्रः शत्रूणां दर्पदलनादा ओजिष्ठेभिरोज स्वितमैर्लक्ष्मणहनूमदङ्गदादिभिः सेवितः नृपती राजा वज्रबाहु -रनिवारणीयबाणबाहुः, स द्वन्द्वयुद्धे रावणेन सह समत्सु सामूहिकयुद्धेषु पृतन्यून् शत्रून् तुर्वणिर्हन्ता । दयानन्दस्तु – ' योऽभिष्टिकृद् अभिष्टि सर्वत इष्टिं सुखं करोति सः, वज्रबाहुर्नृपति रोजिष्ठैरुग्रस्तुर्वणि-रिन्द्रो नोऽवसे समत्सु सङ्गे दूरादासादायासन्नोऽस्मान् पृतन्यून् सततमा रक्षेद् मानयेच्च, सोऽस्माभिरपि सदा माननीयः ' इति, तदपि यत्किञ्चित्, अध्याहारादिमूलकत्वात् औपचारिकत्वाच्च । नहि कस्यचिद्वाहू वज्रवद् दृढौ भवतः । न वा अजिष्ठा योद्धारो मनुष्येषूपलभ्यन्ते । सङ्गे प्रसङ्गे इत्यप्यश्लिष्टमेव । न च तुर्वणि-रित्यस्य शीघ्रं शत्रुहन्तेत्यर्थः सम्भवति, ' तुर्वं हिंसायाम् ' इति धातोर्निष्पन्नत्वात् । आरक्षेन्मानयेच्चेत्यपि निर्मूलमेव ॥ ४८ ॥
आ न इन्द्रो हरि॑िभिय॒स्वच्छर्वाचनोऽव॑से॒ राध॑से च ।
तिष्ठति व॒ज्री म॒घवा॑ विर॒प्शमं य॒ज्ञमन् ' नो॒ वाज॑सातौ ॥ ४ ९ ॥
मन्त्रार्थ --- परिपूर्ण धन वाला महान् वज्रधारी इन्द्र हमारी रक्षा के निमित्त और धन देने के निर्मित हरि नामक अश्वों के साथ भली प्रकार से हमारे सामने आवे । हमारे इस यज्ञ में अन्न का भण्डार बनाकर यहाँ रहे, अर्थात् धन - धान्य से हमारी रक्षा करे ॥ ४ ९ ॥ इन्द्रोऽर्वाचीनाऽर्वागञ्चनशीलोऽच्छाभिमुखः सन् नोऽस्मान् हरिभिर्हरितवर्णैरश्वैरायात् । किमर्थम्? अवसे, अवनमवः, ' सर्वधातुभ्योऽसुन् ' ( उ ० ४ १ ९ ० ) इत्यसुन्, तस्मै रक्षणाय । राधसे धनाव अन्नाय च । आगत्य च वज्री इन्द्रो नोऽस्माकमिमं यज्ञमनु प्रति वाजसातौ अन्त्रसम्भजने निमित्ते तिष्ठाति तिष्ठतु, लेट् । कीदृश इन्द्रः? मघवा मधं धनमस्त्यस्येति । विरप्सी विविधं रपति लपति यः स विरप्शी महान् विरमणशीलो वा । विरशीति महन्नामसु ( निघ ० ३।३।२२ ) । अध्यात्मपक्षे- - इन्द्रः परमेश्वरः, अर्वाचीनः सर्वोत्कृष्टोऽपि सन् करुणया भक्तोद्धरणे अर्वागञ्चनशीलो भवति । नोऽस्मानच्छ हरिभिर्हनुमदादिवानरैः सह आयातु । किमर्थम्? अस्मानवसे रक्षितुम् । अन्नाय अभीष्ट -भौग्यप्रापणाय वा । राधसे धनाय ब्रह्मविद्यारूपधनाय । आगत्य चास्माकमिमं यज्ञमाराधनलक्षणमनु प्रति वाजसातौ अन्नसम्भजने निमित्ते तिष्ठति तिष्ठतु, अन्नविभाजननिमित्तेन तिष्ठतु । कीदृश इन्द्रः? वज्री वज्रोपमास्त्रः, मघवा अनन्तब्रह्माण्डैश्वर्ययुक्तः, विरप्शी महान् स्वरूपतो गुणतश्व निरतिशयमहत्त्वोपेतः । ४३
पृष्ठ 374
पाठ पढ़ें पाठ छिपाएँ
३३८ -शुक्लयजुवेदसंहिता | अ ० २० दयानन्दस्तु – ' यो मघवा विरप्शी अर्वाचीनो वज्री इन्द्रो हरिभिर्नोऽवसे राधसे च वाजसातौ तिष्ठाति तिष्ठतु, स इमं यज्ञमच्छान्वयातु ' इति, तदप्यसङ्गतम्, अनुपपत्तेः । तथाहि नहि वज्रीतिपदस्य शस्त्रविद्या कुशल इत्यर्थः, न च सेनापतिरैश्वर्यदाता भवति, राज्ञ एवंश्वर्याधिपतित्वात् । न वा स निरतिशयैश्वर्यवान् भवति, तस्य राजधीनत्वात् । न वा हरिशब्दस्य सुशिक्षितोऽश्वोऽर्थः निष्प्रमाणत्वात् ॥। ४ ९ ॥
ऋ॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ ँ हवे हवे ' सु॒हव॒ शूर॒मिन्द्र॑म् ।
श॒क्रं पुंरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥
५० ॥
मन्त्रार्थ - योग्य --रक्षक इन्द्र को मैं बुलाता हूँ, प्रत्येक यज्ञ में यजमान की रक्षा करने वाले सुख से बुलाने शूरवीर इन्द्र का आह्वान करता हूँ । सम्पन्न आहुतियों के द्वारा पूजित इन्द्र का आह्वान करता हूँ । धनवान् इन्द्र हमारा कल्याण करें ॥ ५० ॥
गर्गदृष्टा । त्रातारं रक्षितारमिन्द्रमवितारं प्रीणयितारमिन्द्रम् | हवे हवे प्रत्याह्वानं प्रतियज्ञं वा सुहवं सुखेन हूत आहूयत इति सुहवः तम् । शूरं शौर्योपेतं शक्रम्, शक्नोति कर्तुमकर्तुमन्यथाकर्तुमिति शक्रः, ' स्फायि ....? ( उ ० २।१३ ) इत्यादिना शके रक्प्रत्ययः तं समर्थम् । पुरुहूतं पुरुभिर्बहुभिहूयत इति पुरुहूतस्तं बहुभि-राहूतमदृशमिन्द्रं ह्वयामि आह्वयामि । मघवा धनवानिन्द्र आहूतः सन्नोऽस्मभ्यं स्वस्ति अविनाशं धातु दधातु करोत्वित्यर्थः । विकरणव्यत्ययः । अध्यात्मपक्षे - यमिन्द्रं परमेश्वरं वेदास्तज्ज्ञाश्च त्रातारं रक्षितारमवितारं तर्पयितारं कथयन्ति यं च हवे हवे सुहवं शोभनाह्वानं शूरं विक्रान्तं शक्रं शक्तं समर्थं च वदन्ति तमीदृशमिन्द्रमहं आहूतः ह्वयामि । स सन्नेत्य नोऽस्मभ्यं स्वस्ति क्षेमं कल्याणं धातु दधातु, करोतीति यावत् । दयानन्दस्तु — ' हे सभाध्यक्ष, यं हवे हवे त्रातारमवितारमिन्द्रं दुष्टविदारकं सुहवं शूरमिन्द्रमैश्वर्य-दातारं शक्रं पुरुहूतं शूरमिन्द्रं राज्यं कारयितारं त्वां ह्वयामि स मघवेन्द्रो नः स्वस्ति दधातु ' इति, तदपि यत्किञ्चित्, सभाध्यक्षस्य मनुष्यमात्रस्य तादृग्विशेषणानुपपत्तेः, वेदस्य धर्मब्रह्मपरत्वेन मनुष्यपरत्वायोगात् ॥५० ॥
इन्द्र॑ः सु॒त्रामा॒ स्वव॒२ ॥ अवभिः सुमृडीको भ॑वतु वि॒श्ववेदाः ।
द्वेष अभयं कृणोतु स॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ५१ ॥
मन्त्रार्थ - भली - भांति रक्षा करने वाला धनवान् सर्वज्ञ इन्द्र हमें अन्न प्रदान कर सुखी करें, हमारे दुर्भाग्य को दूर करें, हमें अमय प्रदान करें । हम श्रेष्ठ धन के और पुत्रों के स्वामी हों ॥ ५१ ॥
सुत्रामा सुष्ठु त्रायते रक्षतीति सुत्रामा साधुत्राणः, ' त्रैङ् पालने ' इति धातो: ' आतो मनिन्क्वनिप्-निपश्च ' ( पा ० सू ० ३ | २ | ७४ ) इति मनिन्प्रत्यये सुत्रामा । स्ववान् स्वं धनमस्यास्तीति तथोक्तः, विशिष्ट -धनोपेतः । ' दीर्घादट समानपादे ' ( पा ० सू ० ८ ३ ९ ) इति नकारस्य रुत्वे, ' आतोऽटि नित्यम् ' ( पा ० सू ० ८ | ३ | ३ ) इत्यनुनासिके च रूपम् । विश्वं सर्वं वेदो धनं यस्य स विश्ववेदाः । अवोभिरन्नैः सुमृडीकः शोभनसुखकारी भवतु । अव इत्यन्ननामसु ( निघ ० २२७ / ९ ) । ' मृड: कीकन्कङ्कणौ ' ( उ ० ४।२५ ) इति ' मृड सुखने ' इति
पृष्ठ 375
पाठ पढ़ें पाठ छिपाएँ
५१-५२ ] वेदार्थपारिजातभाष्यसहिता ३३ ९ तौदिकात् ककन्प्रत्यये मृडीक इति । सुष्ठु शोभनं मृडीकं सुखं यस्मात् सः । किञ्च स इन्द्रो द्वेषो दौर्भाग्यं बाधतां निवर्तयतु, अभयं च भयाभावं च कृणोतु करोतु । किञ्च, हे इन्द्र! त्वत्प्रसादाद् वयं सुवीर्यस्य शोभनाश्च ते वीराश्च सुवीराः पुत्रादयः, तेभ्यो हितं सुवीर्यम्, तस्य धनस्येति यावत्, पतयः स्वामिनः स्याम भवेम । अध्यात्मपक्षे - इन्द्रः परमेश्वरः सुत्रामा, पूर्ववदेव विशेषणानामाञ्जस्येन परमात्मन्येव सङ्गतेः । देवविशेषोऽपि तदनुगृहीत एव सुत्रामा स्ववांश्च भवति । दयानन्दस्तु — ' या सुत्रामा स्ववान् इन्द्रः, अवोभिन्ययपुरःसरे रक्षणादिभिः प्रजा रक्षेत्, स द्वेषो बाधतामभयं कृणोतु स्वयमपि तादृश एवं विश्ववेदाः समग्रधनो भवतु, यतो वयं सुवीर्यस्य पतयः स्याम ' इति, तदपि यत्किञ्चित् मनुष्ये राजनि सभाध्यक्षे वा तदसम्भवात्, समग्रधनत्वासम्भवादिति यावत् ॥ ५१ ॥
तस्य॑ व॒ सम॒तौ य॒ज्ञिय॒स्यापि भ॒द्रे सौमन॒से स्या॑म ।
स सुत्रामा॒ स्वव॒२ ॥ इन्द्रो ' अ॒स्मे आ॒राच्चि॒द् द्वेष॑ः सनुतयैोतु ॥ ५२ ॥
मन्त्रार्थ- - यज्ञ का सम्पादन करने वाले हम लोगों को इन्द्र की सुमति प्राप्त हो, कल्याण रूप श्रेष्ठ मन से हम सम्पन्न हों, अर्थात् हमारे मन को इन्द्रदेव सुमति और कल्याण से युक्त करें । सबको भली - भाँति देखरेख करने वाला वह धनवान् इन्द्र हमसे दूर रहकर भी हमारे सभी दुर्भाग्यों का नाश कर दे ॥ ५२ ॥
तस्य सुत्राण इन्द्रस्य सुमतौ सानुग्रहायां बुद्धौ वयं स्याम भवेम । तथा भद्रे कल्याणरूपे सौमनसे सुमनसो भावे शोभनमनस्कत्वेऽपि वयं स्याम । सोऽस्मासु शोभनां बुद्धि शोभनं भद्रं मनश्च करोत्वित्यर्थः । कोदृशस्येन्द्रस्य? यज्ञियस्य यज्ञाय हितस्य यज्ञसम्पादिनः । स सुत्रामा सुरक्षकः स्ववान् धनवानिन्द्रः अस्मे अस्मत्तः, आराच्चिद् दूरादपि वर्तमानं द्वेषो दौर्भाग्यं सनुतरन्तर्हितं कृत्वा युयोतु पृथक्करोतु । सनुत इति निर्णीतान्तर्हितनामसु ( निघ ० ३।२५ ३ ) । निर्णीतं बहिनतं निर्गतमन्तर्हितं वा । यद्वा दूरे वर्तमानं दौर्भाग्यादिकं प्रकटं कृत्वा युयोतु पृथक्करोतु । अध्यात्मपक्षे - तस्येन्द्रस्य परमात्मनः सुमतौ शोभनायां मतौ वयं स्याम | तदनुगृहीतबुद्धिगोचराणां पावित्र्यमुक्तम् । ' यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वार्थगोचरा । तद्दृष्टिगोचराः सर्वे पूता एव न संशयः ॥ ' तोक्तेः । किमु वक्तव्यं परमात्मन एव शोभनमतिगोचराणां कृतार्थत्वे? तस्यैव यज्ञियत्वमपि तन्नामोच्चा- इत्या-रणेनैव यज्ञव्यङ्गतानिवारणात् ' यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ' इत्युक्तेः । तस्य सौमनसं भद्ररूपं भद्रकरम् । तत्सम्बन्धेनापि जीवानां कृतकृत्यता भवति । स एवानायासेन सर्वरक्षकः, सङ्कल्पमात्रेण सर्वपालकत्वात् । तस्य स्मरणमेव दौर्भाग्यनाशकमभयकरं च । किं पुनस्तस्यैव तत्सम्पादने प्रवृत्तस्य तथात्वे? स एवानन्तैश्वर्य वानिन्द्रोऽस्मत्त आराच्चिद् दूरादपि वर्तमानं द्वेषो दौर्भाग्यमन्तर्हितं प्रविलापितं कृत्वा युयोतु समूलघातं हन्तु । दयानन्दस्तु – ' यः सुत्रामा स्ववानिन्द्रः सभेशः अस्मै द्वेष आराच्चित् सनुतर्ययोतु, तस्य पूर्वोक्तस्य सभेशस्य राज्ञः सुमतौ भद्रे सौमनसेऽप्यनुकूलाः स्याम । सोऽस्माकं राजा तस्य वयं प्रजाश्च ' इत्यादिकम्, तदपि मन्दम्, मनुष्ये सभेशे तदसम्भवात् । नहि तस्य परिच्छिन्नायां मतौ सर्वे जना भवितुं शक्नुवन्ति । इन्द्रः पितृ-वद्वर्तमान इत्यर्थोऽपि निर्मूलः ॥ ५२ ॥
पृष्ठ 376
पाठ पढ़ें पाठ छिपाएँ
३४० शुक्ल यजुर्वेद संहिता [ अ ० २ ९
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूर॑रोममिः ।
मा त्वा के चन्नियमन् वि न पाशिनोऽति॒ध॒न्वे व त २ ॥ इहि ॥ ५३ ॥
1 मन्त्रार्थ - हे इन्द्र! गंभीर हिनहिनाहट वाले और मयूर के समान रोम वाले अपने घोड़ों के साथ आप यहाँ पधारिये । आते समय आपको कोई भी बाधा न पहुँचा सके । जैसे पाशधारी बहेलिये पक्षी को पकड़ते हैं, उसी तरह आप भी महभूमि के सभी विघ्नों को बाँध कर हमारे इस यज्ञ में आइये ॥ ५३ ॥ से
विश्वामित्रदृष्टा बृहती । तृतीयो द्वादशार्णोऽन्ये त्रयः पादा अष्टवर्णाः । आमन्द्रः, एवेत् - इत्यनयोर्ऋचो-विनियोगाभावः । लैङ्गिको विनियोगोऽवगन्तव्यः । हे इन्द्र त्वं मन्त्रैर्गम्भीरहेषारवैः, मयूररोमभिर्मयूरस्येव रोमाणि येषां ते, हरिभिर्हरिद्वर्णेरश्रायाहि । किञ्च ये केचिदस्मद्विरोधिनस्ते आगच्छन्तं त्वा त्वां मा नियमन् नियच्छन्तु मा निबध्नन्तु । कथमिव? पाशिनः पाशोऽस्ति येषां ते पाशप्रतिबन्धका आखेटकिनो व्याधा वा, वि शकुनिमिव । यथा व्याधादयः पाशिनः शकुनीन् निबध्नन्ति, तथा त्वां मा केचन निबध्नन्त्वित्यर्थः । अथ ये परिपन्थिनो भवेयुः " तानतिक्रम्य इहि आगच्छ । किमिव? धन्व इव । धन्व निरुदकदेशः । यथा free कदेशमतिक्रम्य गच्छति तथा । पान्थो अध्यात्मपक्षे -- भक्ता भगवन्तमाह्वयन्ति । सोत्कण्ठं तदागमनं प्रतीक्षमाणाः प्रतिबन्धकान् कल्पयन्त-स्तदतिक्रमण कल्पयन्ति । हे इन्द्र परमैश्वर्योपेत भगवन्, त्वं मयूर रोमभिर्हरिद्वर्णैरचिन्त्यरूपैरश्वैरायाहि । त्वां केचिद् विघ्नकारका वि शकुनिं पाशिन इव मा नियमन् मा निबध्नन्तु । यथा निरुदकं मरुमतीत्य पान्थः सुदेशमागच्छति, तथा त्वं प्रतिबन्धकानतीत्य अस्मान् इहि आगच्छ । दयानन्दस्तु - ' हे इन्द्र सेनेश, एवं मन्द्रैर्मयूररोमभिर्हरिभिस्तान् शत्रून् विजेतुं याहि । त्वां पाशिनो विन पक्षिणमिव केचिन्मा नियमन् । त्वमतिधन्वेवेहि ' इति, तदपि मन्दम्, अध्याहारादिदोषयुक्तत्वात् । शत्रुनु विजेतुं याहोत्यंशस्य मन्त्रेऽभावात्, सेनापत्यादिव्यवहारस्य लौककत्वेनापौरुषेये वेदे तदयोगात् ॥ ५३ ॥
एवेदिन्द्रो॒ वृष॑णं वज्रबाहुं वसिष्ठासो अ॒भ्यर्चन्त्यः ।
स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द् यू यं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ५४ ॥
मन्त्रार्थ --- परब्रह्म के स्वरूप पर विचार करने में लगे हुए महर्षिगण इसी प्रकार मन्त्रों के द्वारा मनोरथ पूर्ण करने वाले वज्रधारी इन्द्र की अर्चना करते हैं । हमारी स्तुति से प्रसन्न हुए इन्द्र पुत्र - पौत्र आदि संतति और पशुधन से हमें सम्पन्न करें । हे ऋत्विजों! आप लोग अनेक कल्याणों को देने वाली स्तुतियों से निरन्तर हमारी रक्षा करें ॥ ५४ ॥
वसिष्ठ दृष्टा इन्द्रदेवत्या त्रिष्टुप् । वसिष्ठासो वसिष्ठा वसिष्ठापत्यानि बहूनि यद्वा वस्तृतमा ऋषयः अर्कैरर्चनीयैर्मन्त्रैरेव इत् पादपूरण:, इन्द्रम् अभ्यर्चन्ति । कीदृशमिन्द्रम्? वृषणं वर्षितारम् । वज्रबाहु, वज्रहस्तम् । स इन्द्रः स्तुतः सन् वीरवद् वोराः पुत्रपौत्रादयो विद्यन्ते यत्र तादृशं गोमद् गोयुक्तं धनं नोऽस्मभ्यं धातु दधातु । विकरणव्यत्ययः । एवं पादत्रयेण इन्द्रं स्तुत्वा ऋत्विज आह - हे ऋत्विजः यूयं स्वस्तिभिं-रविनाशैः सदास्मान् पात रक्षत ।
पृष्ठ 377
पाठ पढ़ें पाठ छिपाएँ
३४१ म ० ५४-५५ ] वेदार्थपारिजातभाष्यसहिता अध्यात्मपक्षे – वसिष्ठासो वसिष्ठापत्यानि तद्गोत्रपुरुषाः, उपलक्षणमेतत्, अन्येऽपि मुनयः एव इद् एवमेव अर्कैर्मन्त्रैरिन्द्रं परमात्मानमभ्यर्चन्ति पूजयन्ति । कीदृशम्? वज्रबाहुं वज्रवद् दृढो धनं बाहू नोऽस्मभ्यं यस्य तं विग्रह- धातु । वन्तं विष्णुं रामं कृष्णं वा वृषणमभीष्टवषितारम् । स एवं स्तुत इन्द्रो वीरवद् गोमद् १।३।१० ) । एवं ' अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् || ' ( भा ० पु ० त्रिभिः पादैर्भगवन्तं स्तुत्वा याजयितृनाह - हे याजका गुरवः, यूयं सदा स्वस्तिभिः क्षेमैः प्राप्तज्ञानवेराग्यादिरक्षाभिर्नः महात्मनः ॥ ' पात रक्षत । ' यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते , तमेव दयानन्दस्तु — हे वसिष्ठासः, अतिशयेन वसवः ये वृषणं कल्याणकरैः वज्रबाहुमर्कै कर्मभिः विद्वांसोऽर्चन्ति सदा पात ' इति, यूयमर्चत । स स्तुतो नो गोमद् वीरवद्राज्यं धातु । यूयं स्वस्तिभिः य इति कर्तृपद-तदपि यत्किञ्चित्, अनुपपत्तेः । तथाहि-- वसिष्ठास इत्युपस्थितं । वीरवद् कर्तृपदमुपेक्ष्य गोमद्राज्यं यो धारयति, स एव कल्पनस्य निर्मूलत्वात् । तमेव यूयमचंतेति वाक्यकल्पनमपि निर्मूलमेव प्रापणोपदेशोऽपि व्यर्थ एव, रागतो सभेशो भवतीति धारकस्यैव धारणप्रार्थनमपि निरर्थकमेव । रागास्पदस्य नित्यप्राप्तत्वात् ॥ ५४ ॥
समिद्धो अ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सुतः ।
द॒हे धे॒नुः सर॑स्वती॒ सोम॑ शु॒क्रम॒हेन्द्रि॒यम् ॥ ५५ ॥
, सभी मन्त्रार्थ - हे अश्विनीकुमारों! अग्नि प्रज्वलित हुई, प्रवग्यं तप गया, विराजमान सोम अभिषुत हुआ सोम को दुहा ॥ ५५ ॥
को तृप्त करने वाली धेनुरूप सरस्वती देवी ने इस यज्ञ में शुद्ध इन्द्रियों के निमित्त बलदायक ' आप्रियश्च समिद्धो अग्निरश्विनेति ' ( का ० श्री ० १ ९ | ६ | १५ ) | समिद्ध इत्याद्या द्वादशर्चोऽनुष्टुभ- द्वादशानुष्टुभः । श्चकारात् त्रिपशोः प्रयाजयाज्या इति सूत्रार्थः । विदभिदृष्टाऽश्विसरस्वतीन्द्रदेवत्या, अग्निर्हविःक्षपणसमर्थोऽस्ति आप्रोसंज्ञा । अश्विनौ देवानामध्वर्यू । तौ प्रति होता प्राह - हे अश्विना अश्विनौ, समिद्धः सन्दीप्तः । धेनुः, धिनोति प्रीणाति तर्पयतीति धर्मः प्रवर्ग्यः, तप्तोऽस्ति । विराड् विविधं राजमानः सोमः सुतोऽभिषुतः दुग्धे प्रपूरयति । ' दुह प्रपूरणे ' धेनुः, धिवेरोणादिको नुः, वलोपो गुणश्च प्रीणयित्री सरस्वती इह यज्ञे सोमं दुहे ) इति तकारलोपे, ' दुहे ' इति इत्यस्माल्लटि तङि प्रथमैकवचने टेरेल्वे, ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ १/४१ हितम्, बलकरमिति यावत् । रूपम् । कीदृशं सोमम्? शुकं शुक्लं शुद्धम् । पुनः कीदृशम्? इन्द्रियम्, इन्द्राय एतावता यज्ञसम्पत्तिरस्ति युवामागच्छतमिति । अध्यात्मपक्षे - हे अश्विनौ, सीतारामौ वा पार्वतीपरमेश्वरौ वा सम्बोद्धय भक्तः धर्मा ध्यानम् प्राह – अग्निः । तप्त प्रेमाग्निः, विरहाग्निर्वा समिद्धः । धर्मः, जिर्घात क्षरति नश्यति आमूलचूलं द्रुतः पापं । धेनुः येन सरस्वती स सर्वविधपापताप-ऐश्वर्यस्य परां काष्ठां प्राप्तः । विराड् विविधरूपेण राजमानमन्तःकरणं सुतो सम्पन्ना, शामकं नामोच्चारणं शुक्रमिन्द्रियं शुद्धमात्महितकारि दुहे दुग्धे । एवं सर्वापि समागमनप्राकट्य सामग्री अतः शीघ्रमागच्छतम्, मा विलम्बं कुरुतम् । च दोग्धि, दयानन्दस्तु - ' यथेह धेनुः सरस्वती शास्त्रविज्ञानयुक्ता वाक् शुक्रं सोममैश्वर्यमिन्द्रियं विश्व पाति, तथैतमहं दुहे | अश्विनी शुभगुणव्याप्तौ स्त्रोपुरुषौ । तप्तो विराट् सुतः समिद्धो घर्मोऽग्निर्यथा । तथाहमेतत् सर्वं रक्षेयम् ' इति, तदपि यत्किञ्चित्, लुप्तोपमालङ्कारच्छलेन निष्प्रमाणाध्याहारमूलकत्वात् धनमित्यादिकमप्यश्लिष्ट-अश्विनौ स्त्रीपुरुषावित्यपि प्रमाणशून्यमेव । धर्मपदं यज्ञपरमित्यपि चिन्त्यम् । इन्द्रियं मेव ॥ ५५ ॥
पृष्ठ 378
पाठ पढ़ें पाठ छिपाएँ
३४२ शुक्लयजुर्वेद संहिता त॒नू पा भि॒षजा॑ सु॒तेऽश्विनो॒भा सर॑स्वती । 100 मध्व॒ रजा॑न्द्रि॒यमिन्द्रा॑य प॒थिभिर्वहान् ॥ ५६ ॥
[ अ ० २०-मन्त्रार्थ - शरीर के रक्षक वैद्य दोनों अश्विनीकुमार और सरस्वती देवी मधु से लोकों को पूर्ण करती करते हैं । सोम का अभिषव होने पर उसको इन्द्र को इन्द्रियों की वृद्धि के निमित्त ये देवता मार्ग में उस सोम का वहन हैं ॥ ५६ ॥
उभा अश्विना उभौ अश्विनौ सरस्वती सुते अभिषुते मध्वा मधुना रजांसि लोकान् दुहते पूरयन्ति । पूर्वच ' दुहे ' इत्यस्य ' दुहते ' इति वचनव्यत्ययेनेहानुषङ्गः । रजः शब्दोऽत्र लोकवाची । तथा चाह तनूपी यास्कः- शरीर-' लोका रजांस्युच्यन्ते ' ( नि ० ४। १ ९ ) इति । कीदृशावश्विनौ? तनूपा तनूः शरीराणि पात इति वहन्ति । रक्षितारौ । भिषजा भिषजौ वैद्यौ । किञ्च, अश्विसरस्वत्य इन्द्राय इन्द्रियं वीर्यं पथिभिर्यज्ञमार्गेर्वहान् च ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४ / ९ ७ ) इतीकारलोपे ' लेटोऽडाटा ' ( पा ० सू ० ३।४२ ९ ४ ) इत्याडागमे वहानिति रूपम् । यद्वा- - तनूपौ भिषजो उभौ अश्विनौ सरस्वती च सुतेऽभिषुते सोमे मध्वा मधुररसेन इन्द्रोपभोगाय रजांसि लोकान्, पूरयन्त्विति शेषः । इन्द्रियं वीर्यम् इन्द्राय इन्द्राप्यायनार्थम् पथिभिर्मार्गेर्यज्ञे-हान् वहन्तु । अध्यात्मपक्षे - तौ पूर्वोक्तावश्विनौ अश्विवत् परमसुन्दरी तनूपौ शरीराणां पातारौ रक्षितारो भिषजो भवरोगवैद्यौ सरस्वती च ज्ञानविज्ञानाधिष्ठात्री सीतोपनिषदुक्ता सीता मध्वा मधुरेण यशसा कीर्तिसुधया वहान् वहन्ति रजांसि, लोकान् दुहन्ति पूरयन्ति । इन्द्राय जीवोपलब्धिमते इन्द्रियं वीर्यं पथिभिर्वेदिकैर्मार्गेः श्रोत्रमार्गैर्वा ( २/८/५ ), ' शृण्वतां ' प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ ' श्रीमद्भागवत-स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत् सताम् || ' ( १ २ १७ ) इति महापुराणवचनाभ्याम् । सरस्वती दयानन्दस्तु - ' हे मनुष्याः, यथा भिषजा तनूपा उभा अश्विना विद्यासु शिक्षितौ पथिभिरिन्द्राय स्त्रीपुरुषी रजांसि च सरो बहु ज्ञानं विद्यते ययोस्तौ मध्वा मधुरेण द्रव्येण सुते उत्पन्नेऽस्मिन् जगति स्थित्वा, सरस्वतीतिपदस्य लोकान् इन्द्रियं धनं दध्याताम्, तथैतद्वहान् वहन्तुं प्राप्नुवन्तु ' इति, तदपि यत्किञ्चित् इति व्याख्यानस्य द्विवचनान्तत्वानुपपत्तेः । पूर्वसवर्णात् सिद्धेऽपि द्विवचनान्तत्वेऽश्विनावित्यस्य ' स्त्रीपुरुष ' - ' स्वर्वैद्या-निर्मूलत्वात् । अश्विनी, भिषजौ, नासत्यौ - इतिशब्दानां देव विशेषयोः प्रसिद्धेः । तथा चाहामरसिंहः पुरुषौ वश्विनीसुतौ । नासत्यावश्विनो दस्रावाश्विनेयौ च तावुभौ || ( १ | १ | ५१ ) इति । गौणार्थत्वेऽपि तद्वत् सुन्दरौ पदकृत्यं विवक्षितौ न तु स्त्रीपुरुषौ । न चात्र द्विवचनस्य स्वारस्यं व्यावृत्त्यं वा च धारयन्ति दृश्यते । ॥ सुते ५६ जगतीत्यस्यापि ॥ न पश्यामः, तदनुक्तावपि तात्स्थ्यात् । न च मनुष्या राज्ञे लोकान् धनं
इन्द्रायेन्दुद्ध् सर॑स्वती॒ नरा॒शसेन न॒ग्नह॑म् ।
अधा॑तम॒श्विना॒ मधु॑ भेष॒जं भिषजा॑ स॒ते ॥ ५७ ॥
मन्त्रार्थं – सरस्वती ने यज्ञ के साथ इन्द्र के निमित्त सोम नामक महान औषधि के कन्द को धारण किया ॥ और वैद्य अश्विनीकुमारों ने अभिवुत होने पर इस मधुर औषधि को धारण किया ॥ ५७
पृष्ठ 379
पाठ पढ़ें पाठ छिपाएँ
म ० ५७-५८ ] वेदार्थपारिजातभाष्य सहिता ३४३ सरस्वती नराशंसेन, नरा आशंसन्ति प्रशंसन्ति देवान् यत्र स यज्ञः, यज्ञेन सह इन्द्राय इन्द्रार्थमिन्दुं सोमं सुराकन्दं पूर्वोक्तमधाद् धृतवती । अधातामित्युत्तरार्धक्रियाया व्यत्ययेनाधादिति पूर्वार्धेऽपि योजनम् । किञ्च, भिषजी अश्विनी सुते सोमेऽभिषुते सति मधु मधुरं भेषजमौषधमघातां धारितवन्तौ । यद्वा सरस्वती इन्द्राय इन्द्रार्थमिन्दुं सोममभिषुणोदिति वाक्यपूर्तिः कर्तव्या । कीदृशी सरस्वती? नराशंसेन यज्ञेन सहिता । अश्विनौ च सुते सोमे सुरायां मधुररसरूपं भेषजमधातां धारितवन्तौ । कीदृशो तो? भिषजो वेद्यो । अध्यात्मपक्षे – इन्द्राय परमात्मने इन्दुं सोमं प्रेमामृतरसं सरस्वती विज्ञानजननी भक्तिरधाद् धृतवती । कीदृशी सा? नराशंसेन यज्ञेन कर्मणा युक्ता सती, ' वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ' ( वि ० पु ० ३२८ ९ ) इत्युक्तेः । कीदृशमिन्दुम्? नग्नहं नग्ना वीतरागा अपि हूयन्ते बलादाकृष्यन्ते येन तं तादृशम् । अश्विनौ च ज्ञानवैराग्ये सुते सोमे प्रेम्णि मधु भेषजमधातां धारितवन्तौ ताभ्यां प्रेम्ण माधुर्यातिशयाधानात् । दयानन्दस्तु - ' अश्विना भिषजेन्द्राय दुःखदारणाय सुते मधु भेषजमधाताम् । नराशंसेन नरैः स्तुतेन सरस्वती नग्नहुमिन्दुमैश्वर्यमादधातु । यो नन्दयति स नग्नः, तमाददातीति नग्नहुस्तम् ' इति, तदपि यत्किञ्चित्, अश्विनाविति द्विवचनस्य निष्प्रयोजनत्वापत्तेः । यो नन्दयति स नन्दनो भवति न नग्नः, कथञ्चित् तत्सम्पादनं श्रुतिषु बलात्कार एव । नराशंसेन नरैः प्रशंसितेन वचनेनेत्यत्रापि किं बीजम्? नरैः प्रशंसिता अन्येऽपि पदार्थाः सन्तीति तेन वचनग्रहणे का विनिगमनेति तव निरूपणाशक्तेः ॥ ५७ ॥
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॑म् ।
इभिर॒श्विना॒विषि॒ समूर्जं सर॒यि द॑धुः ॥ ५८ ॥
मन्त्रार्थ - इन्द्र को बुलाती हुई देवी सरस्वती और वैद्य अश्विनीकुमार इन्द्र के निमित्त चक्षु आदि और उनकी सामर्थ्य को स्थापित करते हैं । गो आदि पशुधन, अन्न, दही आदि रस और धन इन्द्रियों को भी ये स्थापित करते हैं ॥ ५८ ॥
आजुह्वाना आह्वयतीति आजुह्वाना, ' छन्दसि लुङ्लुङ्लिट: ' ( पा ० सू ० ३ | ४/६ ) इति कालसामान्ये धात्वर्थमात्रे लिट्, लिटः कानचि सम्प्रसारणे द्वित्वे च रूपम् । अर्थाद् इन्द्रमाह्वयन्ती सरस्वती इन्द्रियाणि चक्षुरादीनि वीर्यं वीरकर्म सामथ्यं च सन्दधुः । इडाभिर्यज्ञियाभिर्हेतुभूताभिः पशुभिः सह अश्विना इषमभीष्ट- चेन्द्राय मन्नं सन्दधुः, ' पशवो वा इडा ( श ०१८ | १ | १२ ) इति श्रुतेः । ऊर्जं तदुपसेचनं च दध्यादि सन्दधुः, रयिं धनं च सन्दधुः । अश्विनो सरस्वती च इन्द्रायैतानि चक्षुरादीनि ददुरित्यर्थः । अध्यात्मपक्षे -- आजुह्वाना परमात्मानमाह्वयन्ती सरस्वती पूर्वोक्तभक्तिमन्दाकिनी इन्द्राय दीप्तिमते भक्तायेन्द्रियाणि भगवतो दिव्यरूपदर्शनक्षमाणि चक्षुरादीनि वीर्यं सामर्थ्यं च अधात् । भिषजौ सरस्वती च इडाभिर्वेदवेदान्तलक्षणाभिर्वाग्भिः 1 इषमभिलषितमन्नं भगवन्माधुर्यादिकमूर्जं अश्विनौ ज्ञानवेराग्यौ दाढ्यं धनं च देवीं सम्पदं सन्दधुः । रयि दयानन्दस्तु - ' आजुह्वाना सरस्वती प्रशस्तज्ञानवती स्त्रीन्द्रायेन्द्रियाणि वीर्यं चाश्विनाविडाभिरोष-धिभिरिषं समूर्जं रयिं सन्दधुः ' इति, तदपि न युक्तम्, शब्दानामर्थापने निरङ्कुशत्वात् इन्द्रपदस्य करणस्य निर्मूलत्वात् ' इन्द्राय पत्ये ' इत्यप्यसङ्गतमेव, सर्वस्य पत्युः परमैश्वर्यवत्त्वायोगाच्च । यथेष्टार्थाङ्गी- इन्द्रियशब्दः सुवर्णादिपरः, वीर्यं घृतादिपरम्, इडाशब्द ओषधिपर इत्येतत् सर्वमर्थकरणे स्वातन्त्र्यमेव ॥ ५८ ॥
पृष्ठ 380
पाठ पढ़ें पाठ छिपाएँ
३४४ शुक्लयजुर्वेदसंहिता अ॒श्विना॒ नम॑चेः सं॒ सोम॑४, शुक्रं प॑रि॒स्रुता॑ । सर॑स्वती॒ तमाभि॑रद् बहिषेन्द्रीय पात॑वे ॥ ५ ९ ॥ [ अ ० २० मन्त्रार्थ - अश्विनीकुमारों के द्वारा महान् औषधियों के रस के साथ अभि g त पवित्र सोम को नमुचि असुर के पास से सरस्वती ने हरण कर लिया, उसको इन्द्र की रक्षा के निमित्त कुशाओं पर स्थापित किया ॥ ५ ९ ॥ अश्विनो परिस्रुता सुरया सह सुतमभिषुतं शुक्रं शुद्धममलिनं सोमं नमुचेस्तन्नाम्नोऽसुरात् सकाशाद् आहरताम् । सरस्वती च तमेव सोमं बर्हिषा स्तरणार्थेन दर्भेण सह आभरत् आहरत् आहृतवती । किमर्थम्? इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे ' तुमर्थे सेसेन '...... ( पा ० सू ० ३ / ४ / ९ ) इति तवेङ्प्रत्ययः । अध्यात्मपक्षे - अश्विवत् परममनोहरे सर्वाधिव्याधिविनाशिनी ज्ञानवैराग्ये नमुचेरज्ञानरूपादसुरात् सकाशात् परिता विश्वविस्मारकेण मादकगुणेन सह सोमं प्रेमामृतं शुक्रमाहरताम् । सरस्वती भक्तिमन्दाकिन बर्हिषा यज्ञेन तज्जन्येन शुभादृष्टेन सह तमाभरत् पोषणं कृतवती । किमर्थम्? इन्द्रस्य परमात्मनः पातवे पानाय । प्रेमामृतभोक्ता भगवानेव । दयानन्दस्तु - ' यौ परिता परितो गच्छन्तो अश्विना अश्विनौ सरस्वती च बहिषा सुखवर्धकेन कर्मणा इन्द्राय नमुचेरसाध्य रोगस्य निवारणाय च शुकं सुतं सोमं सोमाद्योषधिगणं पातवे तमाभरतु, सदा तावेव सुखिनो ' इति, तदपि न व्यक्तिविशेषस्य घटनावर्णनाय वेदस्याप्रवृत्तेः, अश्विसरस्वत्यादिपदानां त्वदुक्तार्थताया निर्मलत्वात् ॥ ५ ९ ॥ क॒व॒ध्यो न व्यच॑स्वतीर॒श्विभ्यां न दुरो दिशः 1 इन्द्रो॒ न रोद॑सी उ॒भे दुहे कामान् सर॑स्वतो ॥ ६० ॥
मन्त्रार्थ - अश्विनीकुमारों के साथ सरस्वती ने और इन्द्र ने भी दोनों द्यावापृथिवी, छिद्रयुक्त, अवकाश-युक्त यज्ञीय द्वार एवं सब दिशाओं से कामनाओं को दुहा ॥ ६० ॥
अस्यामृचि त्रयो नकाराः समुच्चयार्थीयाः । अश्विभ्यां न अश्विभ्यां च सहिता सरस्वती इन्द्रो न इन्द्रच उभे रोदसी द्यावापृथिव्यो कामान् दुहे दुग्धे, दुहेर्द्विकर्मकत्वात् । द्यावापृथिवीभ्यां सकाशादिन्द्रोऽ-श्विभ्यां सरस्वती च कामान् अभिलषितपदार्थान् प्रपूरयतीत्यर्थः । ' अकथितं च ' ( पा ० सू ० १/४/५१ ) इति द्वारां दिशां रोदसोश्च कर्मत्वम् । तथैव दुरो द्वार:, यज्ञगृहद्वारेभ्यो दिशो दिग्भ्यश्च सकाशात् कामान् दोग्धि । कीदृश्यो द्वारः? कवयः, ' कुष निष्कर्षे ', निष्कर्षो बहिर्निःसारणम् । ' सर्वधातुभ्योऽसुन् ' ( उ ०४ / १ ९ ० ) इत्यनुप्रत्ययः षकारलोपश्च कुषिताः सच्छिद्राः । तथा व्यचस्वतीः व्यचनं व्यचोऽवकाशः, तद्वत्यः । अध्यात्मपक्षे - पूर्वोक्ताभ्यामश्विभ्यां ज्ञानवैराग्याभ्यां सहिता सरस्वती, ज्ञानवैराग्ययुक्ता भक्तिरिति यावत् । इन्द्रो भजनीयो भगवांश्च उभे रोदसी उभाभ्यां द्यावापृथिवीभ्यां सकाशाद् दिशो दिग्भ्यः सकाशाद् दुरो यज्ञगृहद्वाश्च सकाशाद् भक्ताय कामान् दोग्धि । सर्वा दिशः सर्वा द्वारा द्यावापृथिव्यात्मकं सर्वं जगत् तेषां कृपया कामपूरकाणि भवन्तोत्यर्थः । दयानन्दस्तु - ' सरस्वत्य हमिन्द्रो न इव अश्विभ्यां सूर्यचन्द्रमोभ्यां न इव व्यचस्वतीर्व्याप्तिमत्यः कवष्यः प्रशस्ता दिशो न इव दुरो न उभे रोदसी न वा कामान् दुहे पिपम, यथा विद्युत् सूर्यचन्द्रमोभ्यां प्रशस्ता दिशो