वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 331–340
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ शुक्लयजुर्वेदसंहिता [ अं ० २ ९ अध्यात्मपक्षे - हे देव, स्वप्रकाश परमेश्वर, रथवद् रमणकारक! त्वं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण । कीदृशस्त्वमिन्द्रस्य वज्रोऽसि वज्रवदविदुषां भयदोऽसि, ' महद्भयं वज्रमुद्यतम् ' ( कठो ० ६ २ ) इति काठकश्रुतेः । मरुतामनीकं सेनेव विजयहेतुरसि । मित्रस्य मित्रेण सूर्येण, विभक्तिव्यत्ययः, गर्भः स्तुत्योऽसि । वरुणस्य नाभिर्बन्धनसाधनशस्त्ररूपोऽसि । स त्वमिमां नो हव्यदातिं हविर्दानं जुषाणः सेवमानो हव्यानि प्रति-गृहाणेति सम्बन्धः । दयानन्दस्तु - ' हे देव रथ, इमां हव्यदातिं जुषाणः स त्वं य इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिरसि, नोऽस्मान् हव्या च प्रतिगृभाय ' इति, तदपि यत्किञ्चित् प्रसिद्धिविरोधात् । इन्द्रस्य विद्युतो वज्रनिपात इति प्रसिद्धिविरोध एव वज्रशब्दस्य निपातार्थत्वाभावात् । मरुतां मनुष्याणामित्यपि न, निर्मूलत्वात् । नाभिरात्मनो मध्यवर्ती विचार इत्यपि निर्मूलम्, आत्मनोऽणुत्वेन तन्मध्यत्वासिद्धेः । आत्मपदमप निर्मूलम् । विचारोऽपि नार्थः निर्मूलत्वादेव । हव्या आदातुमर्हाणि वस्तुनीत्यपि यत्किञ्चित्, रूढचा योगापहारात् ॥ ५४ ॥
उप॑श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनु॒तां विष्ठितं॒ जग॑त् । I स दुन्दुभे स॒रिन्द्रेण दे॒वैद॑राद् दवी॑यो॒ अव॑सेव॒ शत्रून् ॥ ५५ ॥
मन्त्रार्थ - हे दुन्दुभि, पृथ्वी और अन्तरिक्ष को अपने शब्द से भर दो । नाना रूपों में स्थित यह स्थावर - जंगम जगत् तुमसे भली प्रकार परिचित हो जाय । इन्द्र और देवताओं से प्रसाद प्राप्त कर तुम बहुत दूर - दूर के शत्रुओं को भी हटा दो ॥ ५५ ॥
तिस्र ऋचो दुन्दुभिदेवत्याः । हे दुन्दुभे, त्वं पृथिवीं भूमिमुत द्यामन्तरिक्षमपि उपश्वासय स्वनिनादेन निनादवन्तं कुरु । उपपूर्वकस्य शसेरत्र शब्दार्थे वृत्तिः । विष्ठितं विविधं स्थितं स्थावरजङ्गमात्मकं जगत् पुरुत्रा बहुधा ' ते त्वां मनुतां जानातु । स त्वं दूराद् दवीयोऽतिदूरं शत्रून अपसेध अपगमय अपसारय । अत्यन्तं दूरं दवीयः, दूरशब्दादीयसुनि ' स्थूलदूरयुवहस्व क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुण: ' ( पा ० सू ० ६ | ४ | १५६ ) इति रेफस्य लोपे ऊकारस्य गुणे रूपम् । कथम्भूतस्त्वम्? इन्द्रेण देवैश्व सः प्रीतियुक्तः । अध्यात्मपक्षे - हे दुन्दुभे, भगवदर्चनकीर्तनाद्युपयुक्त वाद्यविशेष! त्वं पृथिवीमुत द्यां द्युलोकमपि उपश्वासय उपश्लोकय निनादय, येन दिशाममङ्गलं विहन्येत । विष्ठितं विविधं स्थितं स्थावरं जगच्च सर्वं विश्वं पुरुत्रा बहुधा ते त्वां मनुताम् । स त्वं दवीयोऽत्यन्तं दूरं शत्रून कामादीनमङ्गलरूपान् अपसेध अपसारय । स त्वमिन्द्रेण परमात्मना देवैरन्यैश्व सजूः प्रीतियुक्त दवीयोऽत्यन्तं दूरं शत्रून् कामादीनम ङ्गलरूपान् अपसेध अपसारय । दयानन्दस्तु– ' हे दुन्दुभे, स त्वमिन्द्रेण देवैः सजूर्दूरात् शत्रून् दवीयोऽपसे । पुरुत्रा पृथिवीमुत द्यामुपश्वासय । भवान् ताभ्यां विष्ठितं जगन्मनुताम् । तस्य ते राज्यमनिन्दितं स्यात् ' इति, तदपि यत्किञ्चित्, मन्त्रबाह्यत्वात् । दुन्दुभिपदेन तद्वद् गर्जनशीलस्य वीरस्य ग्रहणमपि गौणार्थाश्रयणमेव, सत्यां शक्तौ भाक्तस्यार्थ -स्याग्राह्यत्वात्, मनुष्यस्य कस्यापि पृथिव्याकाशयोरुपजीवनासम्भवात् । ताभ्यां विष्ठितं जगन्मनुतामित्यपि यत्किञ्चित्, मन्त्रबाह्यत्वात् ॥ ५५ ॥
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
म ० ५६-५७ ] वेदार्थ पारिजातभाष्यसहिता
आक्र॑न्दय॒ बल॒मोजो॑ न॒ आधा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य म॒ष्टिर॑सि वि॒डय॑स्व ॥ ५६ ॥
२ ९९ मन्त्रार्थ – हे दुन्दुभि, तुम शत्रु सेना को रुला दो, हमें उत्साह से भर दो । पापों का निरादर करने वाले शब्द को चारों तरफ गुंजा दो । हमारी सेना के पास फटकने वाले शत्रुओं को कुत्तों के समान भगा दो, क्योंकि तुम द्वन्द्व की मुष्टि हो, अतः हमें सब तरह से मजबूत बना दो ॥ ५६ ॥
हे दुन्दुभे! त्वं बलं शत्रुसैन्यम्, आक्रन्दय रोदय, पलायध्वं मदीयाः सर्वे वीरा हता इत्यादिदीनान् शब्दान् कारय । नोऽस्माकमोजस्तेज आधा आधेहि । दुरिता दुरितानि पापानि बाधमानो निराकुर्वन् निष्टनिहि जयाय निश्चितं शब्दं कुरु । ' स्तनगदी देवशब्दे ' चुरादिरदन्तः । किञ्चतोऽस्मत्सेनायाः सकाशाद् दुछुना दुष्टाश्च ते श्वानः श्वसदृशाः शत्रवो दुश्छ्वानः तान् दुष्टान् श्वसदृशान् शत्रून् अपप्रोथय नाशय । ' प्रोथ पर्याप्तौ ' भौवादिकः अत्र नाशनार्थे वृत्तिः । यतस्त्वमिन्द्रस्य मुष्टिरसि मुष्टिवदङ्गभूतोऽसि, अतो वीड्यस्वात्मानम्, अस्मांश्च दृढय । यद्वा दुछुना दुष्टशुन इव या शत्रुसेनास्ता अपप्रोथ अपकृत्य नाशय । सुखवचनो वा शुनाशब्दः, शुनति प्राप्नोति प्राप्तुं प्रयतते सर्वोऽपि यं स शुनः । ' शुन गतौ ' तौदादिकः । इगुपधलक्षणः कः । स्त्रियां शुना । दुःखं बहुकष्टसाध्यं यथा स्यात्तथा शुना सुखं यस्याः सा दुछुना शत्रुसेना - इत्युव्वाचार्यः । अध्यात्मपक्षे हे दुन्दुभे, भगवदर्चनकीर्तनादिसम्बन्धिवाद्यविशेष! त्वं शत्रूणां कामादीनां बलं सैन्य-माक्रन्दय रोदय । नोऽस्माकं साधकानामोजो ध्यानज्ञानादिसामर्थ्यमाधा आधेहि । दुरिता दुरितानि बाधमानो निष्टनिहि निश्चितं भगवद्बोधकान् महावाक्यादीन् भगवन्नामशब्दांश्च कुरु । दुछुना दुष्टशुन इव याः शत्रुसेना दुःसुखा वा ता इतोऽस्माज्ज्ञानवैराग्यादिसेनायाः सकाशाद् अपत्रोय नाशय । त्वमिन्द्रस्य परमात्मनो मुष्टिरसि मुष्टिरिवमुष्टिरसि, तदर्चनकीर्तनादिसाधनत्वात् । अतो वीडयस्वात्मानमस्मान् वा दृढय । दयानन्दस्तु -- हे दुन्दुभे, दुरिता बाधमानस्त्वं नो बलमाक्रन्दय, ओज आधाः सैन्यं निष्टनिहि, दुश्छुनास्तानपाक़न्दय, यतस्त्वं मुष्टिरसि, तस्मादित इन्द्रस्य वीडयस्व सुखानि प्रोथ ' इति, तदपि यत्किञ्चित्, पूर्वोक्तदोषानुषङ्गात्, आक्रन्दयतेः प्रापणार्थे प्रयोगादर्शनाच्च । प्रोथतेः पूरणार्थतापि चिन्त्यैव ॥ ५६ ॥
आमूर॑ज प्रत्याव॑त॑ये॒माः प्र॒त्याव॑र्तये॒माः के॑तु॒मद् दुन्दुभिर्वादीति । समश्व॑प॒र्णाश्चर॑न्ति नो॒ नरोऽस्माक॑मिन्द्र र॒थिन जयन्तु ॥ ५७ ॥
मन्त्रार्थ - हे परमेश्वर, आप हमारी इन शत्रु सेनाओं को सब ओर से हटा दें । जिस तरह दुन्दुभि जान - बूझ कर जोरों से निनाद करती है, उसी तरह हमारी धीर गति से चलने वाले हमारे योद्धा हर्ष मनावें, सेनाएँ भी जयशब्द का घोष करती हुई वापिस आवें । अश्व के समान हमारे रथी विजय प्राप्त करें ॥ ५७ ॥
ऐन्द्री । हे इन्द्र! अभूः शत्रुसेनास्त्वमा समन्तादज क्षिप ' अज गतिक्षेपणयो: ' । इमा अस्मदीयाः सेनाः प्रत्यावर्तय जयं प्रापय्य प्रत्यानय । केतुमत् प्रज्ञानवद् दुन्दुभिर्वावदीति जितं जितमित्यत्यर्थं वदतु । लोडर्थे लट् । किञ्च, नोऽस्माकं नरो योधा अश्वपर्णा अश्ववत् पणं पतनं येषां ते, सञ्चरन्ति सञ्चरन्तु । नोऽस्माकं रथिनो जयन्तु त्वत्प्रसादादिति शेषः ।
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
३०० शुक्लयजुर्वेद संहिता [ अ ० २ ९ अध्यात्मपक्षे - हे इन्द्र परमेश्वर, अमूः कामादिशत्रु से नास्त्वमासमन्ताद् अज क्षिप । दुन्दुभिस्त्वदर्चन-कीर्तनसम्बद्धो वाद्यविशेषः, केतुमत् प्रज्ञानवान्, लिङ्गव्यत्ययः, जितं जितमिति वावदीति अत्यर्थं वदतु । इमा अस्मज्ज्ञानवैराग्यादिसेनाः प्रत्यावर्तय जयं प्रापय्य प्रत्यानय । किञ्च, नोऽस्माकं नरो योधाः सञ्चरन्तु । कीदृशाः? अश्वपर्णा अश्वपतनाः । किञ्चास्माकं रथिनो रथस्था इव युद्धे जयन्तु जयं प्राप्नुवन्तु । दयानन्दस्तु - ' हे इन्द्र, त्वमराज इमाः केतुमत् प्रत्यावर्तय । यथा दुन्दुभिर्वावदीति, तथा नोऽश्वपर्णाः सञ्चरन्ति । येऽस्माकं रथिनो नरः शत्रून् जयन्तु ते सत्कृताः स्युः ' इति, तदपि यत्किञ्चित्, ' केतुमत् ' इत्यस्य सेना इति पदेन सम्बन्धविप्रकर्षात् मूले सेनापदाभावाच्च, दुन्दुभिर्वावदीतीत्यस्य चासम्बद्धत्वात् । अश्वपर्णा अश्वानां पर्णानि पालनानि यासु ता इत्यप्यसङ्गतम्, सेनानामश्वपालनस्थलत्वासिद्धेः । अश्वशालासु पालन-मश्वानां भवति न सेनासु, सेनासु च युद्धार्थमश्वानां स्थितिः ॥ ५७ ॥
आ॒ग्ने॒यः क॒ष्णग्रवः सारस्व॒ती मेषी ब॒भ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बर्हस्प॒त्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मरुतः कल्माष ऐन्द्राग्नः सहितोऽधोरा॑मः सावि॒त्रो वरुणः कृष्ण एकशितिपात् वः ॥ ५८ ॥
मन्त्रार्थ -- कृष्णग्रीव पशु का देवता अग्नि है । मेषी की देवता सरस्वती, पिंगल वर्णं पशु का देवता सोम, कृष्ण-वर्ण पशु का देवता पूषा, श्यामपृष्ठ पशु का देवता बृहस्पति, विचित्र वर्णं पशु के देवता विश्वेदेव, रक्तवर्ण पशु का देवता इन्द्र, कर्बुरवर्ण पशु के देवता मरुद्गण, दृढ़ांग पशु के देवता इन्द्राग्नी, अघोदेश में श्वेत वर्ण के पशु के देवता सविता, एक श्वेत पाद वाले और अन्यत्र कृष्णवर्ण वेगवान् पशु के देवता वरुण हैं ॥ ५८ ॥
आग्नेयः कृष्णग्रीव इति श्रुतिरा अध्यायपरिसमाप्तेः, ' द्वे त्वेवैते एकादशिन्यावालभेत ' ( श ० १३ | ५ | ११३ ) इति श्रुतिरश्वमेधे पठिता । तयोरेकादशिन्योः पशवस्तद्देवताश्च कडकाद्वयेनोच्यन्ते । तेने मानि ब्राह्मणानि द्रव्यदेवताप्रतिपादकानि न तु मन्त्राः । कृष्णग्रीवः कृष्णा ग्रीवा यस्य सः पशुराग्नेयोऽग्निदेवत्यः । मेषी सारस्वती । बभ्रुः पिङ्गलवर्णः पशुः सोम्यः सोमदेवत्यः । श्यामः पौष्णः कृष्णवर्णः पशुः पूषदेवत्यः । शितिपृष्ठः शिति श्यामं पृष्ठ यस्य सः, बार्हस्पत्यो बृहस्पतिदेवत्यः । शिल्पो विचित्रवर्णो वैश्वदेवः, विश्वेदेव-देवत्यः । अरुणो रक्त ऐन्द्र इन्द्रदेवत्यः कल्माषः कर्बुरो मारुतो मरुद्देवत्यः । संहितो दृढाङ्ग ऐन्द्राग्न इन्द्राग्नि-देवत्यः । अधोरामोऽधोदेशे श्वेतः सावित्र सवितृदेवत्यः । ' रामा योषा हिङ्गुनद्योः क्लीबं वास्तुककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे ॥ हये च पशुभेदे च त्रिषु चारौ सितेऽसि ॥ ' ( ११०२६-२७ ) इति मान्तवर्गे मेदिनी । एकशितिपाद् एकः शितिः श्वेतः पादो यस्य सः, एकपादे श्वैत्यम्, अन्यत्र कृष्णत्वम्, पेत्वः पतनशील वेगवान् पशुः, वारुणी वरुणदेवत्यः । एवमेकादश पशवः । अध्यात्मपक्षे - सार्वात्म्य प्रदर्शनपराणि वाक्यानि । कृष्णग्रीवः पशुस्तेन समर्हणीया देवता च ब्रह्मैव वेदितव्यम्, ' सर्वं खल्विदं ब्रह्म ' ( छा ० ३ १४ १ ) इति श्रुतेः, ' सवं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ' ( बृ ० ४ । ५/७ ) इति च । एवमेव सारस्वती मेषीत्यादिकमपि व्याख्येयम् । दयानन्दस्तु - ' हे मनुष्याः, यूयं य आग्नेयः स कृष्णग्रीवः, या सारस्वती सा मेषी, यः सौम्यः स बभ्रुः ' ' ' ' य एकशितिपात् त्वः कृष्णः स वारुणश्चेत्येतान् विजानीत ' इति, तदपि यत्किञ्चित् व्यभिचारान्निर्मूलत्वाच्च, योऽग्निगुणकः स कृष्णग्रीवो भवतीत्यस्य निर्मूलत्वात्, अग्निगुणयुक्तेषु मनुष्यादिषु कृष्णग्रीवत्वाद्यदर्शनात् ।
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
म ० ५८-६० ] मन्यदप्यूह्यम् । ७ ३०१ वेदार्थ पारिजातभाष्यसहिता W ऊनत्रिंशोऽध्यायः ॥ मन्त्रार्थ - गायत्री से, त्रिवृत् सोम से और रथन्तर साम से स्तुत अग्नि के लिये अष्टाकपाल में संस्कृत पुरोडाश देना चाहिये । त्रिष्टुप् से, पंचदश स्तोम से और बृहत् साम से स्तुत इन्द्र के लिये एकादशकपाल में संस्कृत में पुरोडाश संस्कृत देना चाहिये । जगती छन्द से, सप्तदश स्तोम से और वैरूप साम से स्तुत विश्वेदेव देवताओं को द्वादशकपाल में पुरोडाश देना चाहिये । अनुष्टुप् छन्द से, एकविंश स्तोम से और वैराज साम से स्तुत मित्रावरुण देवताओं लिये को चरु दुग्ध देना शृत चरु अर्पित करना चाहिये । पंक्ति छन्द से, त्रिणव स्तोम से और शाक्वर साम से स्तुत बृहस्पति के एवमेकशितिपात् त्वो वारुण इत्यपि निर्मूलम् । सिद्धान्ते तु ब्राह्मणवाक्यबलात् कृष्णग्रीवस्याजपशोराग्नेयत्वं सिद्धम् । वचनबलादेव तादृशेन पशुनाग्नेर्यजनम् ॥ ५८ ॥
अ॒ग्नयेऽनीकवते रोहि॑िताञ्जरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पा॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्ग परौ मरुतः कल्माष॑ अग्ने॒यः कष्णोऽजः सारस्वती मे॒षो वा॑रु॒णः पेत्वंः ॥ ५ ९ ॥ मन्त्रार्थ – रक्ततिलक वाला वृषभ सेना वाले अग्नि के निमित्त है । अघोभाग में श्वेत दो पशु सविता देवता के, रजतवर्णं नाभि वाले दो पशु पूषा देवता के, पोत और बिना सींग के दो पशु विश्वेदेव देवताओं के, कर्बुरवर्ण पशु मरुद्गणों के, श्यामवर्ण मेष अग्नि देवता के मेषी सरस्वती देवता के और वेगवान् पशु वरुण देवता के निमित्त कल्पित हैं ॥ ५ ९ ॥ द्वितीयैकादशिनीपशून् देवांश्चाह -- रोहिताञ्जि: रोहितो रक्तोऽञ्जिस्तिलको यस्यासौ, अनड्वान् अधोभागे ऋषभोऽनीकवतेऽनीकं मुखं सैन्यं वा यस्यास्ति सोऽनीकवान् तस्मै अग्नये नियोज्यः । अधोरामौ श्वेतौ द्वौ पशू सावित्री सवितृदेवत्यौ । रजतनाभी रजतवद् रजतवर्णा नाभिर्ययोस्ती पोष्णौ पूषदेवत्यौ । पिशङ्गौ पीतौ तूपरो निःशृङ्गौ वैश्वदेवौ विश्वदेवदेवत्यौ । कल्माषः कर्बुरो मारुतो मरुद्देवत्यः । कृष्णः श्यामोऽजश्छाग आग्नेयोऽग्निदेवत्यः । सारस्वती सरस्वतीदेवत्या मेषी । पेत्वो वेगवान् वारुणो वरुणदेवत्यः । अध्यात्मपक्षे - रोहिताञ्जिरनड्वान् तेन यजनीयोऽनीकवानग्निश्च परब्रह्मैव तद्विकारत्वात् । एव-दयानन्दस्तु -- ' हे मनुष्याः, अनीकवतेऽग्नये रोहिताञ्जिरनड्वान् सावित्रावधोरामौ " वारुणः पेत्व- । श्चास्ति, तान् यथागुणं प्रयोजय ' इति, तदपि यत्किञ्चित् असम्बद्धत्वादेव, सेनापतये रक्तानुडुह उपयोगायोगात् न च कृषिकार्यार्थं तदिति वाच्यम्, रोहितादिविशेषणस्य वैयर्थ्यापातात्, निर्मूलत्वाच्च ॥ ५ ९ ॥ अ॒ग्नये॑ गाय॒त्राय॑ त्रवते॒ राय॒न्तरायाष्ट्राक॑पाल इन्द्रा॑य त्रैष्टभाव पञ्चदशाय बातायें -कोदकपालो विश्वेभ्यो दे॒वेभ्यो॒ जग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरूपेभ्यो॒ द्वादशकपालो मित्रा-वरु॑णाभ्या॒ामानु॑ष्टुभाभ्यामेका॑वि॒ध॒शाभ्यां॑ वैराजाभ्यां॑ पय॒स्या॒ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्र औ ð णहाय त्रयस्त्रिशायं रैवताय द्वादशकपालः प्राजाप॒त्य-च॒रुवि॑त्य॒ विष्णु॑पम्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकालोऽनु॑मत्या अ॒ष्टाक॑पाः ॥ ६० ॥
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
३०२ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ चाहिये । उष्णिक् छन्द से त्रयस्त्रिश स्तोम से और रैवत साम से स्तुत सविता अथवा शिव के निमित्त द्वादशकपाल में संस्कृत पुरोडाश देना चाहिये । प्रजापति देवता और विष्णुपत्नी अदिति के लिये चह अर्पित करना चाहिये । वैश्वानर अग्नि के लिये द्वादशकपाल में संस्कृत चरु और अनुमति देवी के लिये अष्टाकपाल में संस्कृत पुरोडाश अर्पित करना चाहिये ॥ ६० ॥
' अथाग्नीषोमीयस्य पशुपुरोडाशमनुदिशामवेष्टीर्निर्वपति ' ( ० ९ | ४ | ३ | १० ) इत्युपक्रम्य ' तदाहुर्दश-हविषमेवैतामिष्टि निर्वपेत् ' ( श ० ९ | ४ | ३ | ११ ) इति श्रुतौ दशहविष्कावेष्टिसंज्ञेष्टिः श्रुता । तस्या देवता हवींषि चाह - अग्नय इत्यादि । इमानि ब्राह्मणानि, न मन्त्राः । अग्नये ऽष्टादशकपालः पुरोडाशः कार्यः । अष्टासु कपालेषु संस्कृतः पुरोडाशोऽष्टाकपालः । ' तद्धितार्थोत्तरपदसमाहारे च ' ( पा ० सू ० २।१।५१ ) इति समासः । ' अष्टनः कपाले हविषि ' ( पा ० सू ० ६ | ३ | ४६, वा ० २ ) इत्यष्टन आत्वे रूपम् । कथम्भूतायाग्नये? गायत्राय गायत्र्या स्तुताय राथन्तराय रथन्तरसाम्ना स्तुताय । इन्द्राय एकादशकपालः पुरोडाशः कार्यः । समासः पूर्ववत् । कीदृशायेन्द्राय? त्रैष्टुभाय त्रिष्टुभा स्तुताय पञ्चदशाय पञ्चदशस्तो मस्तुताय बार्हताय बृहत्सामस्तुताय । विश्वेभ्यो देवेभ्यो द्वादशकपालः पुरोडाशः कार्यः । कीदृशेभ्यो विश्वेभ्यो देवेभ्यः? जागतेभ्यो जगत्या स्तुतेभ्यः सप्तदशेभ्यः सप्तदशस्तोमस्तुतेभ्यो वैरूपेभ्यो वैरूपसामस्तुतेभ्यः । मित्रावरुणाभ्यां पयस्या पयसि श्रितश्चरुः कार्यः । कीदृशाभ्यां मित्रावरुणाभ्याम्? अनुष्टुभाभ्याम् अनुष्टुभा स्तुताभ्याम् एकविंशाभ्याम् एकविंशस्तोम-स्तुताभ्यां वैराजाभ्यां वैराजसामस्तुताभ्याम् । बृहस्पतये चरुः कार्यः कीदृशाय बृहस्पतये? पाङ्क्ताय पङ्क्तिच्छन्दसा स्तुताय त्रिणवाय त्रिणवस्तोमस्तुताय शाक्वराय शाक्वरसामस्तुताय । सवित्रे द्वादशकपालः पुरोडाशः कार्यः । कीदृशाय सवित्रे? औष्णिहाय उष्णिक छन्दसा स्तुताय त्रयस्त्रिशाय त्रयस्त्रिशस्तोमस्तुताय रैवताय रैवतसामस्तुताय । एवं छन्दः स्तोमसहितान् षड्देवानभिधाय चतुरः केवलानाह - प्राजापत्यश्चरुः, प्रजापतिदेवत्यश्चरुः कार्यः । विष्णुपत्न्यै अदित्यै चरुरेव । वैश्वानराय वैश्वानरगुणविशिष्टायाग्नये द्वादशकपालः पुरोडाशः कार्यः । अनुमत्यै देवतायै अष्टाकपालः पुरोडाशः कार्यः । दशहविषावेष्टेर्देवता हवींष्यप्यश्वमेधोपयोगि-त्वादुक्तानि, ' समिद्धो अञ्जन् ' इत्याश्वमेधिकोऽध्याय इत्यनुक्रमण्यां कात्यायनोक्तेः । अध्यात्मपक्षे – छन्दः स्तोमसामसहिता देवास्तदुपयुक्तानि द्रव्याणि केवला देवा द्रव्याणि च ब्रह्मात्मका-न्येव तद्विवर्तत्वात् । दयानन्दस्तु – ' हे मनुष्याः, युष्माभिस्त्रिवृते राथन्तराय गायत्रायाग्नयेऽष्टाकपालः पञ्चदशाय त्रैष्टुभाय बार्हतायैन्द्रायैकादशकपालः अनुमत्या अष्टाकपालच निर्मातव्यः ' इति, तदपि यत्किञ्चित् वैदिकपदार्थ-ज्ञानशून्यत्वात् । यत्तु गायत्र्यादिच्छन्दोविज्ञापिताय, त्रिवृते यस्त्रिभिः सत्त्वरजस्तमोगुणैर्युक्तस्तस्मै, राथन्तराय यो रथैः समुद्रादीस्तरति तस्मै पावकायाष्टाकपालः पुरोडाश इत्यादिव्याख्यानम्, तदपि बालभाषितं मूर्खजन-प्रतारणं वा, त्रिवृदादिस्तोमानां रथन्तरादिसाम्नां ब्राह्मणग्रन्थेषु लक्षितत्वात् । त्रिवृद्गतत्रिशब्दश्रवणेन त्रयाणां गुणानां कल्पनं निर्मूलमेव । यथा घटपदेन चेष्टामात्रार्थग्रहणम्, पङ्कजशब्देन पङ्कजनिकर्तृत्वेन कुमुदादिग्रहणम्, व्याघ्रपदेन विशेषेण आसमन्ताद् घ्राणकर्तृत्वेन प्रसिद्धार्थातिरिक्तग्रहणम्, तद्वत् ॥ ६० ॥
इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायाम् ऊर्जाशोऽध्यायः ॥
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
देव सवितः प्रस॑ य॒ज्ञं प्रसव वाचस्पति॒र्वाच॑ नः स्वदतु ॥ १ ॥ त्रिंशोऽध्यायः य॒ज्ञप॑त॒ भर्गाय । दिव्यो ग॑न्ध॒र्वः कैत॒पुः केतं नः पुनातु मन्त्रार्थ - हे सबके प्रेरक सविता देव, आप यज्ञ को प्रेरित करें, करें । स्वर्ग में स्थित, दूसरे के चित्त में वर्तमान ज्ञान का शोधन करने वाले, हमारे चित्तवर्ती ज्ञान को ब्रह्मज्ञान से पवित्र करें । वाणी के पति सविता देव वाणी उन्हें भली लगे ॥ १ ॥
यजमान को भी सौभाग्य के निमित्त प्रेरित वाणी को धारण करने वाले सविता देवता हमारी वाणी को मधुरता से भर दें, हमारी अत्राध्याये पञ्चमीं कण्डिकामारभ्य यावदध्यायसमाप्ति ब्राह्मणम्, मन्त्रधर्मेण पश्यमानम् । हे देव सवितः, यज्ञं प्रसुव प्रकर्षेण प्रेरय, यज्ञपति यजमानं च भगाय सौभाग्याय प्रसुव । किञ्च दिव्यो दिवि भवः स्वर्गस्थः, केतपूः केतं परचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति तादृशः, गन्धर्वो गां वाचं धारयतीति गन्धर्वः सविता, नोऽस्माकं केतं चित्तवति विज्ञानं पुनातु अनात्मनिराकरणब्रह्माभिव्यञ्जनेन शोधयतु । वाचस्पतिः, वाचो वाण्याः पतिः सविता नोऽस्मदीयां वाचं स्वदतु स्वादयतु, अस्मदुक्ता वाक् तस्मै रोचतामित्यर्थः । अन्यद् यद्वक्तव्यं तदेकादशे सप्तम्यां कण्डिकायामुक्तम् । ' इत उत्तरं पुरुषमेधः । द्वावध्यायौ नारायणः पुरुषोऽपश्यत् । ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुष-मेधसंज्ञको यज्ञो भवति । सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लद्वादश्यामारम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति, द्वादशोपदसः, पञ्च सुत्या इति चत्वारिंशद्दिनैः सिद्ध्यति । अत्र यूपैकादशिनी भवति । एकादशाग्नीषो-मीयाः पशवो भवन्ति । तेषां च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन देव सवितरिति प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति ' इति महीधराचार्यः ॥ १ ॥
तत्स॑वि॒तुर्वरेण्यं भर्गो दे॒वस्य॑ धीमहि । धियो॒ यो नः प्रचो॒दया॑त् ॥ २ ॥
मन्त्रार्थ- -- उस सबके प्रकाशक और प्रेरक आदित्यान्तर्गत पुरुषरूप ब्रह्म का जो सभी के द्वारा प्रार्थनीय पाप-नाशक तेज है, उसका हम ध्यान करते हैं । वह सविता देवता हमारी बुद्धि को सत्कर्मानुष्ठान की प्रेरणा दे || २ || तत् तस्य देवस्य द्योतनात्मकस्य सवितु: प्रेरकस्यान्तर्यामिणो हिरण्यगर्भोपाध्यवच्छिन्नस्यादित्यान्तर्गत- च पुरुषस्य वा ब्रह्मणो वरेण्यं वरणीयं सर्वप्राणिपरप्रेमास्पदं सर्वसम्भजनीयं भर्गः सर्वपापानां सर्वसंसारस्य भर्जनसमर्थं तेजः स्वरूपभूतं सत्यज्ञानानन्दलक्षणं तेजो वयं धीमहि ध्यायामः । तस्य कस्य? यः सविता नोऽस्माकं धियो बुद्धीः कर्माणि वा प्रचोदयात् प्रकर्षेण प्रेरयति, सत्कर्मानुष्ठानायेति शेषः । अन्यद् यद्वक्तव्यं तत् तृतीये पञ्चत्रिंश्यां कण्डिकायामुक्तम् ॥ २ ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सु॒व । यद्भद्रं तन्न॒ आयु॑व ॥ ३ ॥
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
३०४ [ अ ० ३० मन्त्रार्थ - हे सूर्य भगवन्, अथवा नाना प्रकार के अवतारों से क्रीड़नशील विष्णुदेव, आप सारे पापों को हमसे दूर करें । जो कल्याण है, शुभ है, वह हमें प्राप्त करावें ॥ ३ ॥
हे देव सवितः! विश्वानि सर्वाणि दुरितानि पातकानि परासुव पनि गमय, दूरे गमय । यच्च भद्रं कल्याणं तन्नोऽस्मान् प्रति आसुव आगमय । अध्यात्मपक्षे - हे देव! द्योतमान सवितः, सर्वप्रेरकान्तर्यामिन्, विश्वानि सर्वाणि दुरितान्यज्ञानं तत्कार्याणि च परासुव ब्रह्मात्मसाक्षात्कारसम्पादनेन अपगमय । यच्च भद्रं भन्दनीयं कल्याणं ब्रह्मात्मकं वा वस्तु तन्नोऽस्मान् प्रति असुव आगमय प्रापय । दयानन्दस्तु - ' हे देव सवितः, त्वमस्मद्विश्वानि दुरितानि परासुव । यद् भद्रं तन्न आसुव जनय ' इति, तत्तु नःसङ्गतम्, किन्तु यत् ' देव उत्तमगुणकर्मस्वभावसवितः! उत्तमगुणकर्मस्वभावेषु प्रेरक ' इत्यादिकम्, तत्तु स्वाभ्यु हितमात्रम्, धात्वर्थाननुरोधात् ॥ ३ ॥
"
विभ॒क्तार॑यं॒ हवामहे॒ वसो॑श्चि॒ित्रस्य॒ राध॑सः । स॒वि॒तारः॑ न॒चक्ष॑सम् ॥ ४ ॥
मन्त्रार्थ- हम भक्तगण नाना प्रकार के धन और योगधन को विभक्त कर देने वाले, अन्तर्यामी, सबके प्रेरक परमात्मा का आह्वान करते हैं ॥ ४ ॥
वयं सवितारं विश्वस्य प्रसवितारं हवामहे आह्वयामः । कथम्भूतं सवितारम्? वसोर्वासयितुः, तथा चित्रस्य नानाविधस्य विलक्षणस्य वा राधसो धनस्य आयुषो वा विभक्तारं विभज्य कर्मानुसारं दातारं नृचक्षसं नृणां प्राणिनां चक्षसं द्रष्टारम् । ये नरो यथा क्रूरया सौम्यया अनुग्राहिकया वा दृष्ट्या बुद्धया वा द्रष्टव्यास्तां-तथा पश्यति । अध्यात्मपक्षे -- चित्रस्य विलक्षणस्य आश्चर्यरूपस्य सर्वातिशायिनो ज्ञानविज्ञानलक्षणस्य वसोरज्ञाना-च्छदस्य राधसोधनस्य आयुषो वा कर्मानुसारं यथायोग्यं विभज्य दातारं नृचक्षसं सर्वप्राणिसाक्षिणं सवितारं सर्वप्रपञ्चस्योत्पादयितारं हवामहे आह्वयामः । दयानन्दस्तु – ' हे मनुष्याः, यं वसोश्चित्रस्य राधसो विभक्तारं सवितारं नृचक्षसं वयं हवामहे, तं यूयमप्याह्वयत ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, हवामहे प्रशंसेमेत्यस्यापि निर्मूलत्वात् ॥ ४ ॥
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्य॑ म॒रुद्भ्यो॒ वैश्य॒ तप॑से शूद्रं तम॑से॒ तस्क॑रं नार॒काय॑ वोर॒हणं पाप्मनें क्लो॒बमा॑क्रयाया॑ अयोगं कामा॑य पुंश्च॒मति॑क्रुष्टाय माग॒धम् ॥ ५ ॥
मन्त्रार्थ - नारायण पुरुष की स्तुति करने के बाद प्रस्तुत मन्त्र में पुरुषमेध के पशु और देवताओं का उल्लेख है । ये सब पशु यज्ञान्त में छोड़ दिये जाते हैं । इस पुरुषमेध यज्ञ में ब्रह्म के लिये ब्राह्मण को, क्षत्र के लिये राजन्य को, मरुद्गणों के लिये वैश्य को, तप के लिये शूद्र को, तम के लिये स्तेन को, नारक के लिये नष्टाग्नि अथवा शूर को, पाप के लिये नपुंसक को, आक्रया देवता के लिये अयोग को, काम के लिये व्यभिचारिणी को और अतिक्रुष्ट के लिये मागध को नियुक्त किया गया है ॥ ५ ॥
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थपारिजातभाष्यसहिता ३०५ अतः परं पुरुषमेधीयाः पशव आ अध्याय समाप्तेरुच्यन्ते । प्रतियूपमेकैकमेकादशिनं नियुज्य ब्राह्मणा-दीनष्टचत्वारिंशत्संख्याकान् पुरुषान् प्रकामोद्याय सदमित्यन्तानग्निष्टे यूपे नियुनक्ति । इतरेषु यूपेषु एकादशैकादश पुरुषान् वर्णायानुरुधमित्यादीन्नियुनक्ति । ब्रह्मणे ब्राह्मणम् । तत्र ब्रह्मणे ब्रह्मदेवतायै ब्राह्मणं पुरुषं जुष्टं नियुनज्मीत्यग्निष्टे ब्राह्मणं प्रथमं नियुनक्ति । एवमग्रे सर्वेषां यूप एव बन्धनम् । अत्र चतुर्थ्यन्तं देवतापदं द्वितीयान्तं पुरुषपदं बोद्धव्यम् । क्षत्राय देवाय राजन्यं क्षत्रियत्वजातिविशिष्टं पुरुषं जुष्टम्, मरुद्भयो देवेभ्यो वैश्यं वैश्यत्वजातिविशिष्टं पुरुषम्, तपसे देवाय शूद्रत्वजातिविशिष्टं पुरुषम्, तमसे तमोऽधिष्ठातृदेवाय तस्करं स्तेनम्, नारकाय देवाय वीरहणं नष्टाग्नि पुरुषं शूरं वा, पाप्मने देवाय क्लीबं नपुंसकम्, आक्रयायै देवाय अयोगमयसो गन्तारम्, कामाय देवाय पुंश्चलं व्यभिचारिणीम्, अतिक्रुष्टाय मागधं मगधदेशजं क्षत्रियायां वैश्यपुंसो जातं वा, जुष्टं नियुनज्मीति नियुनक्ति । अध्यात्मपक्षे - ब्रह्मादयो देवास्तेषां यजनसाधनभूता तज्जलानत्वात् । ब्राह्मणादयः पुरुषाश्च ब्रह्मरूपा एव, दयानन्दस्तु - ' हे परमेश्वर राजन् वा, त्वमत्र ब्रह्मणे वेदेश्वरज्ञानप्रचाराय ब्राह्मणं वेदेश्वरविदम्, क्षत्राय राज्याय पालनाय वा राजन्यं राजपुरुषम्, मरुद्भयः पश्वादिभ्यः प्रजाभ्यो वैश्यं विक्षु प्रजासु भवम्, तपसे सन्तापजन्याय सेवनाय शूद्रं सेवकं शुद्धिकरं सर्वतो जनय । तमसेऽन्धकाराय तस्करं चोरम्, नारकाय दुःखबन्धने भवाय कारागाराय वा वीरहणं यो वीरान् हन्ति तम्, पाप्मने पापाचरणाय क्लीबम्, आक्रयायै आक्रमन्ति प्राणिनो यस्यां तस्यै हिंसायै प्रवर्तमानमयोगुमयसा शस्त्रविशेषेण सह गन्तारम्, कामाय विषयसेवनाय प्रवृत्तां पुचलूं युवभिः सह चलचित्ताम्, अतिक्रुष्टाय अत्यन्तनिन्दनाय प्रवर्तकं मागधं नृशंसं दूरे गमय ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारमूलकत्वात्, ब्रह्मपदस्य वेदेश्वरार्थत्वे सत्यपि तत्प्रचारार्थताया निर्मूलत्वाच्च । वेदेश्वर-विदुत्पत्तिप्रार्थनमपि निर्मूलम्, मन्त्रबाह्यत्वात् । क्षत्रपदमपि न राज्यपरम् प्रमाणशून्यत्वात् । मरुत्पदस्य प्रजार्थता, वैश्यपदस्य विक्षु प्रसिद्धता च निर्मूलैव । ' तपसे ' इत्यनेन दुःखोत्पन्नम्, शुद्रपदेन शुद्धिकारक इत्यपि निर्मूलम् | अन्धकाराय प्रत्तमित्यध्याहारोऽपि निर्मूल एव । नरकाय कारागारायेत्यपि निर्मूलम् । पाप्मने क्ली पापाचरणाय प्रवृत्तं क्लीवमित्युक्तेर्व्यर्थत्वात् । हिंसायै प्रवृत्तमयसा शस्त्रविशेषेण प्रवृत्तं दूरे गमयेत्यादिकमपि
निर्मूलम्, मन्त्रबाह्यत्वात् । एवमन्यदप्यूह्यम् ॥ ५ ॥
न॒ताय॑ स॒तं ग॒ताय॑ शैलूषं धर्माय समाचरं नरिष्ठयं भीम॒लं न॒मय॑ र॒भ हस कारि॑मान॒न्दाय॑ स्त्रीष॒खं प्र॒मदे कुमारीपुत्रं मेधायै रथकारं धैर्या॑य॒ तदा॑णम् ॥ ६ ॥
मन्त्रार्थ - नृत्त के लिये सूत को, गीत के लिये नट को, धर्म के लिये शैलूष को, नरिष्ठ देवता लिये भयंकर पुरुष को, नर्म के लिये वाचाल को, इस के लिये कारी को, आनन्द के लिये स्त्री के सखा को, प्रमद के लिये कानीन को, मेधा के लिये रथकार को और धैर्य के लिये सूत्रधार को नियुक्त किया गया है ॥ ६ ॥
नृत्ताय नृत्याधिष्ठातृदेवाय सुतं ब्राह्मण्यां क्षत्रियाज्जातं पुरुषं जुष्टं रुचितम् गीताय गीताधिष्ठात्रे देवाय शैलूषं नटम् । धर्माय देवाय सभाचरं सभायां चरतीति सभाचरस्तम्, नरिष्ठायै देवतायै भीमलं भयङ्करं पुरुषम्, नर्माय देवाय रेभं शब्दकर्तारं वाचाटम्, हसाय देवाय कारि करोतीत्येवंशीलं कारणविशिष्टम्, हसनाय देवाय हसनकारणविशिष्टम्, आनन्दाय देवाय स्त्रीषखं स्त्रियाः सखायम्, प्रमदे प्रमदाधिष्ठात्रे देवाय कुमारीपुत्रं ३ ९
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
३०६ शुक्लयजुर्वेदसंहिता | अ ० ३० कानीनम्, मेधायै रथकारं माहिष्येण करण्यां जातम्, धैर्याय तक्षाणं तक्षणक्रियाकर्तारं सूत्रधारं वर्धकिम्, जुष्टं नियुनज्मीति नियुक्ति । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । आनन्दाय दयानन्दस्तु -- ' नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नर्माय रेभं काव्यतायै स्तोतारम्, स्त्रीषखं मेधायै रथकारं धैर्याय तक्षाणमासुव । नरिष्ठायै भीमलं हसाय कारि प्रमदे कुमारीपुत्रं परासुव ' इति, तदपि यत्किञ्चित्, अध्याहाराणां निर्मूलत्वात् । अतिशयिता दुष्टा नरा सन्ति यस्यां तस्यै प्रवृत्तमित्यप्यसङ्गतम् गायनमर्थो भवति, निर्मूलत्वात् । न च सूतो नृत्योपयोगी, तस्य वंशगौरवस्तोतृत्वात् । न च शैलूषशब्दस्य कोऽप्युपयोगः । न च मेधायें निर्मूलत्वात् । न च धर्मशब्दस्य धर्माचरणमर्थः । न वा तत्र सभाचारिणः उपयोगः, कथञ्चिद् रथकारस्योपयोगः, किन्तु रथकरणाय मेधाया उपयोगो भवति । न वा धैर्याय तग तत्र प्रवृत्तेरिष्टापत्तेः । धैर्यस्यैव तक्षण उपयोगात्, तस्मात् प्रमादे प्रवृत्तं कुमारीपुत्रं परासुवेत्युक्त्याऽन्येषां एतस्मात् सिद्धान्तसम्मतमेव व्याख्यानं युक्तम् ॥ ६ ॥
तव॑से कल॒लं मा॒यायै॑ क॒र्मार॑ रू॒पाय॑ मणिकार शुभे व॒प श॑र॒व्याय॒ इषु॑कार ॥ हे॒त्य॑ ध॑नु॒ष्कारं कर्म॑णे ज्याका॒रं वि॒ष्टाय॑ रज्जुसर्जं मृ॒त्यवे॑ मृ॒ग॒युमन्त॑काय श्व॒निन॑म् ॥ ७ को, शुभ के लिये मन्त्रार्थ- -तप के लिये कुलालपुत्र को, माया के लिये लोहकार को, रूप के लिये मणिकार को, कर्म के लिये ज्याकर्ता को, दिष्ट बीजवता ( किसान ) को, शरव्या के लिये बाणकर्ता को, हेति के लिये धनुष्कर्ता को नियुक्त किया गया है ॥ ७ ॥
के लिये रज्जुस्रष्टा को, मृत्यु के लिये मृगग्राही को और अन्तक के लिये श्वानपाल रूपाभिमानि-तपसे तपोदेवतायै कौलालं कुलालापत्यम्, मायायै मायादेवतायै कर्मारं लोहकारम् लक्ष्याधिष्ठातृदेवतायै , रूपाय इषुकारं देवतायै मणिकारं रत्नपरिष्कर्तारम्, शुभे शुभाय देवाय वपं बीजवप्तारम्, शरव्यायै क्रियाधिष्ठातृदेवतायें ज्याकारं बाणकर्तारम्, हेत्यै शस्त्राधिष्ठातृदेवतायै धनुष्कारं चापनिर्मातारम् कर्मणे मृत्युदेवतायै मृगयुं मृगग्राहिणम्, प्रत्यञ्चनकर्तारम्, दिष्टाय भागधेयदेवतायै रज्जुसर्ज रज्जुनिर्मातारम्, मृत्यवे अन्तकाय देवाय श्वनिनं शुनो नेतारं जुष्टं नियुनज्मीति नियुनक्ति । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । तं रूपाय दयानन्दस्तु -- ' हे जगदीश नरेश वा, त्वं तपसे कौलालं मायायै कर्मारं यः रज्जुसर्जमासुव कर्माण्यलङ्करोति । मृत्यवे मृगयु-मणिकारं शुभे वर्षं शरव्यायै इषुकारं हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय, तस्यानुद्देश्यत्वात् । मन्तकाय श्वनिनं परासुव ' इति, तदपि यत्किञ्चित्, असङ्गतेः । नहि तापाय कुलालपुत्रसृष्टिः रूपनिर्मापकोऽर्थः, प्रमाण-नहि मायायै प्रज्ञायै कर्मारो भवति, प्रज्ञया कर्मारत्वसम्भवात् । न च रूपशब्दस्य कृषीबलानामशुभाचरणत्व-शून्यत्वात् । शुभे शुभाचरणमित्यप्यनर्थः, निर्मूलत्वात् । न च तत्र तपस्योपयोगः यत्किञ्चित् , निर्मूलत्वात् । शरव्यायै स्यापि सम्भवात् । यो वपति क्षेत्राणि कृषीबल इव विद्यादिशुभगुणानित्यपि उपयुज्यते, न वा क्रियासामान्य-शरनिर्माणायेत्यपि न सङ्गतम्, निर्मूलत्वात् । न वा वज्रादिनिर्माणाय धनुष्कार सिद्धये ज्याकारोपयोगः, प्रत्याकारस्य तन्निर्माण एवोपयोगात् ॥ ७ ॥
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
म ० ८ ] वेदार्थपारिजातभाष्यसहिता ३०७ ८ न॒दीभ्यः॑ पौत्रि॒ष्ठम॒क्षीका॑भ्यो॒ न॑षदं पुरुषव्याघ्राय॑ दर्मदं गन्धर्वाऽप्स॒रोभ्यो॒ व्रात्यं प्रयुग्भ्य॒ उन्मत्तः सर्वदेव ज॒नेभ्योऽप्रतिपदमयेभ्यः कितवमीर्यतोया अकितवं पिशाचेभ्यो विदलकारों यातुधानेभ्यः कण्टकीकारीम् ॥ ८ ॥
मन्त्रार्थ - नदियों के लिये पुल्कश की सन्तान को, ऋक्षीकों के लिये निषादपुत्र को पुरुषव्याघ्र के लिये उन्मत्त को, गन्धर्व और अप्सराओं के लिये सावित्रीपतित को, प्रयुगों के लिये उन्मत्त को, सर्पदेवजनों के लिये विकल को, अप के लिये द्यूतकार को, ईर्यता देवी के लिये अकितव को, पिशाचों के लिये वंशपात्रकारिणी को और यातुधानों के लिये कंटको कर्म करने वाली को नियुक्त किया गया है ॥ ८ ॥
नदीभ्यो देवताभ्यः पौञ्जिष्टं पुञ्जिष्ठोऽन्त्यजः पुल्कसस्तदपत्यम्, ऋक्षीकाभ्यो नैषादं निषादपुत्रम्, पुरुष-व्याघ्राय दुर्मदमुन्मत्तम्, गन्धर्वाप्सरोभ्यो व्रात्यं सावित्रीपतितम् प्रयुग्भ्य उन्मत्तम्, दीर्घकालादिति शेषः, सर्पदेवजनेभ्योऽप्रतिपदं प्रतिपद्यते झटिति जानातीति प्रतिपत्, न प्रतिपद् अप्रतिपत्, तं ज्ञानविकलम्, अयेभ्यः शुभावहविधिदेवताभ्यः कितवं द्यूतकारम्, ईर्यतायै ईर्ते कम्पयतीति ईर्यता, धातोर्यगागमोऽतच्प्रत्ययश्च औणादिकः, तस्यै अकितवम् अद्यूतकारम्, पिशाचेभ्यो विदलकारी वंशविदारिणीं वंशपात्रकारिणीम्, यातुधानेभ्यः कीका केषुचिदपि कर्मसु विघ्नकारिणी जुष्टं नियुनज्मि । अध्यात्मपक्षे- नदीभ्यस्तदधिष्ठात्रीभ्यो देवताभ्यः पौञ्जिष्ठमन्त्यजपुत्रम्, ऋक्षी भल्लूकी तदधिष्ठात्रीभ्यो नैषादम्, पुरुषव्याघ्राय पुरुषो व्याघ्र इव पुरुषव्याघ्रस्तस्मै तदधिष्ठातृदेवाय दुर्मदमुन्मत्तम्, सर्पंजनदेवेभ्योऽ-प्रतिपदं ज्ञानविकलम्, अयेभ्यः कितवम्, ईर्यतायै अकितवम्, पिशाचेभ्यो विदलकारी यातुधानेभ्यः कण्टकी-कारीम् - एते देवास्तद्यजनसाधनभूताश्च पुरुषा ब्रह्मरूपा एव ब्रह्मकारणकत्वात्, देवबोधकपदानां विविध-व्याख्यासम्भवेऽपि प्रसिद्धेः प्राधान्यबोधनाय व्याख्यायामनाग्रहः । दयानन्दस्तु - ' हे जगदीश्वर, नृप वा, नदीभ्यः सरिद्विनाशाय प्रवृत्तं पौञ्जिष्ठं पुकसम, ऋक्षीकाभ्यो या ऋक्षा गतीः कुर्वन्ति ताभ्यः प्रवृत्तं नैषादं निषादस्य पुत्रम्, पुरुषव्याघ्राय व्याघ्र इव पुरुषस्तरमै हितं दुर्मदं दुष्टाभिमानम्, गन्धर्वाप्सरोभ्यः प्रवृत्तं व्रात्यमसंस्कृतं प्रयुग्भ्यो ये प्रयुञ्जते तेभ्यः प्रवृत्तमुन्मत्तं सर्पदेवजनेभ्यो हितमप्रतिपदमनिश्चितबुद्धिमयेभ्योऽय्यन्ते प्राप्यन्ते पदार्थास्तेभ्यः प्रवृत्तं कितवम्, ईर्यतायै प्रवृत्तमकितवं पिशिता नष्टा आशा येषां ते पिशाचाः पिशितं सरक्तं मांसमाचामन्ति ये ते वा पिशाचास्तेभ्यो विदलकारीम्, यातुधानेभ्यो यान्ति येषु ते यातवो मार्गस्तिभ्यो धनं येषां तेभ्यः प्रवृत्तं कण्टकीकारी या कण्टकीं करोति तां परासुव ' इति, तदपि यत्किञ्चित् सम्बोधनादीनां निर्मूलत्वात् । परासुवेत्यध्याहारोऽपि मन्त्रबाह्य एव । नदीभ्य इत्यस्य सरिद्विनाशाय प्रवृत्तमित्यर्थकरणं तु सर्वथैव निर्मूलं मूर्खजनप्रतारणं च । ऋक्षीकाभ्य इत्येतदर्थोऽपि यत्किञ्चित्, निर्मूलत्वादेव । पुरुषव्याघ्रपदे समासोऽपि - ' उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ' ( पा ० सू ० २।१।५६ ) इति सूत्रेण भवति, उपमानोपमेयोभयसमभिव्याहारे उपमानस्यैव विशेषणत्वात् पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्व-निपातार्थमस्य सूत्रस्य आवश्यकत्वात् । उत्तरपदे विद्यमानानां व्याघ्रादिपदानां श्रेष्ठार्थवाचकत्वममरसिंहेन प्रोक्तम् । तथाहि - ' स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ' ( अ ० को ० ३ | १ | ५ ९ ) । तथा च पुरुषव्याघ्राय पुरुषश्रेष्ठाय दुर्मदः कथं हितकारी स्यात्? गन्धर्वाप्सरोभ्यो व्रात्यः किमर्थं प्रवर्तेत? अब्रात्यानामपि तत्र प्रवृत्तिदर्शनात् । प्रयोक्तारः के? कस्य वा? इत्यस्पष्टमेव । सर्पजन-देवेभ्योऽप्रतिपदस्य कः सम्बन्धः? अप्रतिपदस्य पदार्थाचेदर्थस्तर्हि कितवेन तस्य कः सम्बन्धः? अकितवानामपि