वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 321–330
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 321–330
पृष्ठ 321
पाठ पढ़ें पाठ छिपाएँ
२८८ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ परिवाररूपान् शत्रून् । कीदृश्यों कोटी? आचरन्ती आचरन्त्यौ आगच्छन्त्यौ धानुष्कं शिवं प्रति । तत्र दृष्टान्तः-समना योषेव, वचनव्यत्ययः, समानमेकपतिगतं मनो ययोस्ते तादृश्यौ योषे स्त्रियों यथा कान्तमागच्छतः । संविदाने सङ्केतं कुर्वाणे अमित्रान् पापादिलक्षणान् प्रति विष्फुरन्ती टङ्कारं कुर्वाणे । एवमेव प्रणवधनुषोऽपि अकारमकारौ कोटी, ते अपि शरवज्जीवमुत्सङ्गे धारयतः, ब्रह्मात्मतादात्म्य सम्पादनाय तदैक्यप्रतिबन्धका -नुपाधीन् समष्टिव्यष्टिरूपान् अमित्रान् विध्यताम् । अन्यदपि पूर्ववद्योज्यम् । -दयानन्दस्तु – ' हे वीराः, ये योषा समनेव पति मातेव पुत्रं बिभृतामुपस्थे आचरन्ती शत्रूनपविध्यताम्, इमे संविदाने आर्ली अमित्रान् विष्फुरन्ती वर्तेते, ते यथावत् सम्प्रयुध्वम् ' इति, तदपि यत्किञ्चित्, अध्याहारस्य निर्मूलत्वात् । सम्बोधनमपि निर्मूलमेव । ते धनुर्ज्ये इत्यप्यसङ्गतम्, धनुष्येकस्मिन् ज्याया एकत्वेन द्वित्वस्या-साम्प्रतिकत्वात् । ' ते ' इत्यपि ' आन ' इत्यनेन पदेन संसृज्यते । ' प्राप्यमाणे ' इति तद्वयाख्यानमप्यसङ्गतम्, आनिपदस्य धनुषः कोट्योः प्रसिद्धत्वात् ॥ ४१ ॥
ब॒ह्वीनां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्वकृ॑णोति॒ सम॑नाऽव॒त्य॑ ।
इ॒षधिः सङ्काः पृत॑नाश्च॒ सर्वा॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ ४२ ॥
मन्त्रार्थ यह तरकस बहुत से बाणों का पालक है, उनको अपने में धारण करता है । इसके पुत्रों की संख्या बहुत है । संग्रामों में जाकर यह ची - ची शब्द करता है । पृष्ठ पर बँधा होने पर भी आज्ञा मिलने पर सब योद्धाओं के गति-स्थान युद्ध में शत्रु सेना पर विजय प्राप्त करता है ॥ ४२ ॥
या त्रिष्टुभा इषुधिः स्तूयते । य इषुधिस्तूणो बह्वीनामिषूणां शराणां पिता पालयिता, तेन सहिताः पाल्यन्ते सहिताः सन्निदधति । यस्येषुधेर्बहुरिषुकलापः पुत्रः पुत्रतुल्यः तेन परिपाल्यमानत्वात्, पुरून् बहून् त्रायत इति पुत्रः, स हि तेनेषुकलापेन त्रायत इति वा पुत्रः, बहु वा तदर्थं हितं करोतीति पुत्रः, स इषुधिः समना संग्रामानवगत्य ज्ञात्वा चिश्चाकृणोति चिश्चिरिति शब्दं करोति । शब्दानुकरणमेतत् । निषङ्गान्निष्कास्यमाणो बाणश्चिश्चिरिति शब्दं करोति । च पुनः स इषुधिर्धानुष्केण पृष्ठे निनद्धो बद्धः प्रसूतोऽनुज्ञातः सन् सर्वाः पृतनाः शत्रुसेना जयति पराभवति । कीदृश्यः पृतनाः? सङ्काः सचन्ते सम्बद्ध्यन्ते सङ्कीर्यन्ते वा योधा यासु ताः सङ्काः । ' सङ्काः सचते, सम्पूर्वाद्वा किरते: ' ( निरु ० ९ १४ ) इति यास्क: । विवक्षातः कारकाणि भवन्तीति वैयाकरणानां सिद्धान्तेन इषुधेः कर्तृत्वम् । सचन्ते समवयन्त्या स्विति सङ्काः, अथवा सङ्कीर्यन्त आस्व-रय इति सङ्काः शत्रुसङ्कटम् । पृतनाश्च सर्वाः प्रियन्ते सर्वावयवावच्छेदेन जना यत्र सा पृतना, प्रियते-र्बाहुलकात्तनन्, स्पर्धनीयतमाः संग्रामभक्तीः सर्वाः पृष्ठे निनद्धो धानुष्कस्य पृष्ठे बद्धः । प्रसूतो धानुष्केणाभ्यनु-ज्ञातः सन् जयतीत्याशास्महे - इत्युव्वाचार्यः । अध्यात्मपक्षे-- यः र समष्टिजीवरूपो हिरण्यगर्भः, स इषुधिरिव, जीवधनत्वात् स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते ' ( प्रश्नोप ० ५।५ ) इति श्रवणात् । स बह्वीनां पृथकचितीनां पिता पालयिता । बहुरिषुसमूहो ः जीवसमूहोऽस्य पुत्रस्थानीयः । स एव चिज्जीवसमूहस्य संज्ञानं करोति । समना सचेतनान्, विभक्तेराकारादेशः, अवगत्य ज्ञात्वा पृष्ठे निनद्धः सर्वाः पृतनाः स्पर्धनीयतमाः कामक्रोधादिशत्रुसेनाः सङ्काः शत्रुसङ्कटं जयति । अधिष्ठानभूते ब्रह्मण्यध्यस्तो हिरण्यगर्भः पृष्ठे निनद्ध उच्यते । स च प्रसूतो ब्रह्मणाभ्यनु-ज्ञातः सर्वाः कामक्रोधादिपृतनाः सर्वाणि सङ्कटानि च जयति । हिरण्यगर्भस्यापरब्रह्मरूपत्वेन माहाभाग्यात् तदनुग्रहेण कामादिशत्रुसेनापराभवः सङ्कटनाशश्चानायासेन सम्पद्यते ।:
पृष्ठ 322
पाठ पढ़ें पाठ छिपाएँ
म ० ४२-४४ ] वैदार्थ पारिजात भाष्यसहिता २८ ९ दयानन्दस्तु - ' हे वीराः, यो बह्वीनां पितेवास्य बहुपुत्र इव पृष्ठे निनद्ध इषुधिः प्रसूतः सन् समनावगत्य यत्किञ्चित् चिश्चाकृणोति, येन वीरः सर्वाः सङ्काः पृतनारच जयति तं यथावद् रक्षत ' इति, तदपि बह्वीनामित्यस्य प्रत्यचाबोधकत्वे मानाभावात् इषुधिशब्दसान्निध्येन बह्वीनामिषूणां बोधकत्वस्यैव न्यायप्राप्तवात् ॥ ४२ ॥
रथ॒तिष्ठ॑न्नयति वा॒जिन॑ः पु॒रो यत्र यत्र क॒मय॑ते सुषारथिः ।
अ॒भीश॑नां महिमानं॑ पनायत॒ मनः॑ प॒श्चाद्यच्छन्ति र॒श्मय॑ः ॥ ४३ ॥
मन्त्रार्थ - यहाँ आधे मन्त्र में सारथि की और आधे में बागडोर की स्तुति की गई है । रथ में बैठा हुआ अच्छा अश्व को सारथि जहाँ - जहाँ चाहता है, रथ में जुते हुए घोड़ों को वहाँ पहुँचा देता है । उसके हाथ में विद्यमान बागडोर अपने वश में रखती है, अतः हे मनुष्यों! इस बागडोर की महिमा का गान करी ॥ ४३ ॥
अत्र जगतीच्छन्दः । अर्धेन सारथिरर्धेन रश्मयः स्तूयन्ते । सुषारथिः शोभनः सारथिर्यन्ता । यत्र कीदृशः यत्र प्रदेशे कामयते इच्छति, मयात्र गन्तव्यमिति तत्र तत्र पुरो वर्तमानान् वाजिनोऽश्वान् नयति प्रापयति सुषारथिः? रथे तिष्ठन् तं स्तुम इति शेषः । अथ रश्मयः स्तूयन्ते । हे जनाः, अभीशूनां प्रग्रहाणां चित्तमनुयच्छन्ति महिमानं, महाभाग्यं यूयं पनायत पूजयत । हे जनाः, ये रश्मयः प्रग्रहाः पश्चाद्वर्तमानाः सन्तो मनोऽश्वानां अनुगम्य गृह्णन्ति वशवर्तिनं कुर्वन्ति । अध्यात्मपक्षे - सुषारथिः शोभनः सारथिर्बुद्धिरूपो यत्र यत्र विषयेषु कामयते इच्छति, तत्र तत्र भोगाय- पुरो-वर्तिनोऽश्वान् इन्द्रियरूपान् नयति प्रापयति । कीदृशः सुषारथिः? रथे शरीररूपे तिष्ठन्, शरीरस्यैव तनत्वात् । तं बुद्धिरूपं सारथि स्तुमः । अथ रश्मयः स्तूयन्ते - हे साधकाः, यूयमभीशूनां प्रग्रहाणां महिमानं महाभाग्यं पनायत स्तुत । ये रश्मयः पश्चाद्वर्तमानाः सन्तो मनोऽश्वानां चित्तमनुयच्छन्ति निगृह्णन्ति वशवर्तिनं कुर्वन्ति इन्द्रियाणि नियच्छन्ति - ' आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ' ( कठोप ० १।३ - ४ ) । यथा प्रग्रहाधीना या भवन्ति, तथैव मनोऽधीनानीन्द्रियाणि भवन्ति । प्रग्रहस्तु सारथ्यधीनो भवति, तत एव सारथिस्तुतिवत् प्रग्रहस्तुतिरपि युक्तैव । येषां दयानन्दस्तु – ' - हे विद्वांसः, सुषारथी रथे तिष्ठन् यत्र यत्र कामयते, तत्र तत्र वाजिनः पनायत पुरो ' नयति इति, तदपि । मनः सुशिक्षितं हस्तगता रश्मयः पश्चादश्वाननुयच्छन्ति तेषामभीशूनां महिमानं यूयं रूढम्, यत्किञ्चित्, रश्मिषु रूढस्य अभीशुशब्दस्याभितः सद्योगन्तरि प्रवृत्त्यसम्भवात् । वाजिपदमपि अश्व एव अग्न्यादिषु तत्प्रयोगस्तु निर्मूल एव ॥ ४३ ॥
त॒व्रान् घोषा॑न् कृ॒ण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒ः प्रप॑द॑र॒मित्रा॑न् क्षणन्ति॒ शत्रूं १ ॥ रनपव्ययन्तः ॥ ४४ ॥
मन्त्रार्थ - प्रस्तुत मन्त्र में घोड़ों की स्तुति की गई है । अश्वावार पुरुष जब जयघोष करते हैं, तब रथ में जुते हुए घोड़े खुरों से शत्रुओं पर आक्रमण करते हैं । ये घोड़े शत्रुओं का नाश करने में समर्थ हैं ॥ ४४ ॥
३७
पृष्ठ 323
पाठ पढ़ें पाठ छिपाएँ
२ ९ ० शुक्लयजुर्वेदसंहिता [ अ ० २ ९ त्रिष्टुभाश्वाः स्तुयन्ते । वृषपाणयो वृषा अश्वाः पाणी हस्ते येषां ते संग्रहीतृप्रभृतयो योक्तारश्च वाजयन्तो रथे युक्ताः सन्तो गच्छन्तः श्वसन्तश्च तीव्रान् जय जयेत्युग्रान् शब्दान् कृण्वते कुर्वन्ति, अवा अपि रथेभी रथैः संह वाजयन्तः पूजयन्तः, रथिन इति शेषः तीव्रानेव घोषान् हेषितादीन् कृण्वते । वजतेश्र्वौरादिकस्यात्र स्तुतौ वृत्तिः । ' वज - ब्रजौ ' चुरादावपीति माधवः । अवक्रामन्तः प्रपदैः पादाग्रैः खुरैरिति यावत् । अमित्रान् शत्रून् क्षिणन्ति क्षिण्वन्ति हिंसन्ति । अनपव्ययन्तः, ' व्यय वित्तसमुत्सर्गयोः ' अदन्तश्चुरादिः । अपपूर्वादस्मात् शता, अपव्ययन्तो नश्यन्तः, अपव्ययस्य नाशप्रायत्वात्, न अपव्ययन्तोऽनपव्ययन्तो न नश्यन्तः, अपरित्य-जन्तो वा स्वामिनम् । यद्वा वृषपाणयोऽश्ववारा अश्वारोहिणोऽश्वनियन्तारो वा जय जयेति तीव्रान् शब्दान् कुर्वन्ति । अश्वा अपि रथेभी रथैः सह वाजयन्तो गच्छन्तस्तीत्रान् घोषान् हृषितशब्दान् कुर्वन्ति, शत्रून् क्षिणन्ति नाशयन्ति । कीदृशा अश्वाः? प्रपदैः पादाग्रैः खुरैरमित्रान् शत्रून् अवक्रामन्त आक्रामन्तोऽनपव्ययन्तोऽ-नश्यन्तः, समर्था इति यावत् । वाजिनः, स्वार्थे णिच् । अध्यात्मपक्षे - वृषपाणयो जितेन्द्रियाश्वास्तीवान् पापनाशकान् उग्रान् मन्त्रान् भगवन्नामशब्दान् कुर्वन्ति । अश्वा इन्द्रियाश्वा अपि रथेभी रथैर्देहैर्वाजयन्तो भगवन्तं पूजयन्तः प्रपदैः खुराग्रैः अमित्रान् अवक्रामन्तो भगवद्विषयैः स्वस्वव्यापारैः शत्रून् पापान् कामादीन् अरातींश्च क्षिणन्ति क्षिण्वन्ति नाशयन्ति । कीदृशा अश्वाः? भगवद्विषयव्यापारश्चानपव्ययन्तोऽनश्यन्तः समर्थाः सन्तः, ' मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ' ( भ ० गी ० १०१६ ) इति भगवदुक्तेः । विषयविषयाः प्राणाः क्षीयन्ते, भगवद्विषयाश्च अनुपक्षी गाः सन्तोऽमित्रानवक्रामन्तः शत्रून् क्षिणन्ति हिंसन्ति । दयानन्दस्तु – ' हे वीराः, ये वृषपाणयः, रथेभिः सह वाजयन्तः प्रपदैरमित्रानवक्रामन्तोऽश्वास्तीव्रान् घोषान् कृण्वते, अनपव्ययन्तः सन्तः शत्रून् क्षिणन्ति तान् यूयं प्राणवत् प्रतिपालयत ' इति, तदपि यत्किञ्चित्, सम्बोधन-स्यैव निर्मूलत्वात् । वृषशब्दस्य बलिष्ठा वृषभादय इति गौण एवार्थः । पाणिशब्दस्य पाणिवद्रक्षका इत्याद्यर्थं-स्तथाविध एव, लक्षणादौ बीजाभावात् । यानादयस्तु स्वयं शीघ्रं चलन्तोऽपि न वीरान् चालयन्ति । प्रपदैः प्रकृष्टपारगमनैरित्यपि निर्मूलमेव ॥ ४४ ॥
रथवाह॑ण॒धि॑ ह॒विर॑स्य॒ नाम॒ यत्रायु॑षं॒ निहि॑तमस्य॒ 1 तत्रा रथमुप॑ श॒ग्म संदेम विश्वाहा॑ व॒य स॑मन॒स्यमा॑नाः ॥ ४५ ॥
मन्त्रार्थ-- इस रथ का रथवाहन नाम है, शकट इसका हविर्धान है, जिसमें इस योद्धा के कवच और आयुष स्थापित हैं । योद्धाओं को सदा अनुकूल सुविधा देने वाले सुखदाता रथ को हम यहाँ स्थापित करते हैं ॥ ४५ ॥
रथस्तुतिः, त्रिष्टुप् । रथश्च शकटरूपः । अस्यानसो रथवाहणं नाम । रथं वहतीति रथवाहनम्, वाजपेयेऽनसि रथस्यारोप्यमाणत्वात् । तथास्य हविर्हविर्धानमिति द्वितीयं नाम । पृषोदरादित्वादुत्तरार्ध लोपः । ' विमुच्य सयन्तृक रथवाहणे करोति, अनस्तत्कर्म ' ( का ० श्र ० १५।६।२७ - २८ ) इति परमर्षिः कात्यायनः । ' तस्मादनस एव पौरोडाशिकेषु यजुषि ' इति च श्रुतिः । यत्र यस्मिन्ननसि योद्धर्वर्म कवचमायुधं शस्त्रास्त्रादिकं निहितं स्थापितम्, तत्रानसि वयं रथमुपसदेम उपसादयामः कल्पयामः । कीदृशं रथम्? शग्मं सुखकरम् । कीदृशा वयम्? विश्वाहा, विश्वेष्वहः स्विति विश्वाहा, विभक्तेर्डादेिश: । सर्वदा सुमनस्यमानाः सु शोभनं मनो येषां ते सुमनसः, असुमनसः सुमनसो भवन्तीति, ' भृशादिभ्यो भुव्यच्वेर्लोपश्च हल: ' ( पा ० सू ० ३।१।१२ ) इति क्य
पृष्ठ 324
पाठ पढ़ें पाठ छिपाएँ
म ० ४५-४६ ] वेदार्थ पारिजातभाष्यसहिता २ ९ १ सलोपे शानचि रूपम्, अनुकुलचित्ता इत्यर्थः । तत्रेत्यत्र संहितायाम् ' निपातस्य च ' ( पा ० सू ० ६।३।१३६ ) दीर्घः । अध्यात्मपक्षे -- अस्य देहस्य रथवाहणमिति प्रथमं नाम, हविर्धानमिति द्वितीयं नाम । यत्रास्य साधकस्या-ज्ञानादिकमायुधम्, वर्मं शत्रुप्रहार निरोधकं कवचं नारायणकवच - शिवकवच - चण्डीकवचादिकं न्यासजालादिकं च निहितं स्थापितं भवति, तत्र वयं शग्मं सुखकरं रथमुपसदेम उपसादयाम उपकल्पयामः, संसारपारगमनसाधन-त्वात् । कीदृशा वयम्? विश्वाहाः सुमनस्यमानाः सर्वदानुकूलचित्ता इत्यर्थः । , दयानन्दस्तु - ' हे वीराः, अस्य यत्र रथवाहनं हविरायुधमस्य वर्मं च नाम निहितम्, तत्र सुमनस्यमाना वयं शग्मं रथं विश्वाहा उपसदेम ' इति, तदपि यत्किञ्चित् हविः शब्देनाग्नीन्धनादिग्रहणस्य निर्मूलत्वात् । एवमुक्तदिशान्यदपि दूषणमूहनीयम् ॥ ४५ ॥
स्वा॒दप॒सद॑ पि॒तरो॑ वयो॒धाः कृच्छ्रेश्रितः शक्तवन्तो गभीराः । चि॒त्रमे॑ना॒ इषु॑बल॒ अमृद्धः स॒तोवी॒रा उ॒रवो॑ व्रातसाहाः ॥ ४६ ॥
मन्त्रार्थ - रथ के रक्षकों की हम स्तुति करते हैं । रथ में आराम से बैठने वाले रक्षक अन्न और आयुध का संग्रहकरते । कष्ट को सहन करने को सामर्थ्य वाले अथवा आयुध को धारण करने योग्य गम्भीर बल और बुद्धि वाले, नाना प्रकार की सेवा वाले, बाग के बल को धारण करने वाले, कठोर अवयव वाले, उम्र शासन के कर्ता, बल के प्रेरक, विशाल वक्षस्थल वाले ये योद्धा शूरवीरों के समूह को जीतते हैं ॥ ४६ ॥
रथगोपान् स्तौति स्वाद्विति । ईदृशा नराः अस्माकं रथगोप्तारो भवन्त्विति शेषः । कीदृशाः? स्वादु-षंसदः स्वादु सुखं यथा स्यात्तथा संसीदन्तीति तथोक्ताः । यद्वा स्वादु सुखकरं संसदनं येषां ते । पितरः पान्ति ते पितरः पातेस्तृचि ' नप्तृनेष्ट ' ( उ ० २० ९ ७ ) इति निपातनाद् धातोराकारस्य इकारः, रक्षितारः । वयोधा वयसोऽन्नस्य आयुषो वा धारयितारः । कृच्छ्र श्रीयन्ते सेव्यन्ते ते कृच्छ्रश्रितः कर्मणि क्विप् सप्तम्या अलुक् दुःखे सति प्राणिभिराश्रयणीयत्वात्, दुःखनाशकत्वात् । यद्वा सप्तमी द्वितीयार्थे, कृच्छ्रं श्रयन्तीति कृछ्र श्रिताः, दुःखं प्राप्यापि स्वामिसेवनतत्पराः । शक्तीवन्तः शक्तिः सामर्थ्यमायुधविशेषो वा अस्ति येषां ते, ' अश्वराशी मति ' ( प्रा ० शा ० ३ ९ ८ ) इत्यादिसूत्रेण वकारे परे शक्तिशव्दस्य दीर्घः । गभीराः, गम्भीरं बलं प्रज्ञानं वा अस्ति येषां ते, ' गभीरगम्भीरौ ( उ ० ४ | ३६ ) इति निपातनात् साधु, ततोऽच्प्रत्ययः । चित्रसेनाः चित्रा नानाविधा हस्त्यश्वरथादियुताः सेना येषां ते । इषुबलाः, इषुभिर्बाणैर्बलं येषां ते, विशिष्टबाणबला इत्यर्थः । इषुषु विशेषतो वा बलं येषां ते तथोक्ताः । अमृध्रा अमृदवः, उग्रशासना इत्यर्थः कठिनाङ्गा वा । सतोवीराः सतः प्रशस्तस्या-श्वमेधस्य वीरा अश्वमेधसम्बन्धिवीरा इत्यर्थः । यद्वा सतो विद्यमानस्य बलस्य विविधमीरयितारः, शूरा इत्यर्थः, षष्ठ्या अलुक् । उरवो विशालाः पृथुजघनोरस्का उरुमनस्का वा । व्रातसाहाः, व्रातान् शूरसमूहान् गणान् वा सहन्तेऽभिभवन्ति ये ते तथोक्ताः, ' अभिमातिपृतना ' ( शु ० य ० प्रा ० ३।६।२७ ) इत्यादिना सहेरुपधादीर्घः । अध्यात्मपक्षे - शमदमादयः परमार्थमार्गसहायका अपेक्ष्यन्ते । तेषामेव विशेषणानि । । शमदमादीनां संसदनं स्वादु सुखकरं भवति । ते च पितरः पातारो भवन्ति । ते च वयोधा आयुषो धातारो भवन्ति, अजितेन्द्रियाणामदान्तमनस्कानामल्पायुष्ट्वदर्शनात् । कृच्छ्र सत्याश्रयणीया भवन्ति, तदानीं तदन्यस्य
पृष्ठ 325
पाठ पढ़ें पाठ छिपाएँ
२ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ दुःखनाशकत्वायोगात् । शक्तीवन्तोऽपारसामर्थ्याः, गभीरा गम्भीरं बलं प्रज्ञानं वा यत्र ते, चित्रसेनाश्चित्रा विविधाः क्रोधकामादिनिवारकाः सेना भटानां समूहा येषां ते, इषुबला इषुभ्योऽप्यधिकबलवन्तः, अमृध्राः कठिनाङ्गाः, सतोवीराः सतो ब्रह्मणः प्रापकाः । उरवो विशालाः । व्रातसाहा व्रातान् कामादिगणान् सहन्ते ये ते तथोक्ताः । दयानन्दस्तु -- ' हे योद्धारो वीराः, यूयं ये स्वादुसंसदो वयोधाः कृच्छ्रश्रिताः शक्तीवन्तो गम्भीराश्चित्र-सेना उरुबला उरवो व्रातसाहाः सतोवीराः पितरः स्युः, तानाश्रित्य युद्धं कुरुत ' इति, तदपि यत्किञ्चित्, सम्बोधनस्य निर्मूलत्वात्, तानाश्रित्य युद्धं कुरुतेत्यादीनां मन्त्रेऽभावाच्च विशेषणानां राजपुरुषेष्वसङ्गतेश्व । स्वादुषु भोज्याद्यन्नेषु सम्यक् सीदन्तीति व्याख्यानमपि निर्मूलम्, सर्वेषामेव तथात्वसम्भवात्, स्वाद्वन्नभोजने
समेषां रागात् प्रवृत्तेः । अन्यत्तु महीधराद्यनुकरणमेव ॥ ४६ ॥
ब्राह्मणास: पित॑रः सोम्यासः शिवे नो द्यावा॑पृथि॒वी अ॑ने॒हसः॑ ।
७नः पातु दुरि॒तार्दृतावृधो रक्षा माहि॑नो॑ अ॒घश॑स ईशत ॥ ४७ ॥
मन्त्रार्थ - ब्राह्मणगण, सोमपान करने वाले पितृगण और सत्य को वृद्धि करने वाले देवगण हमारी रक्षा करें । सबका कल्याण करने वाले, अपराधों से दूर रखने वाले पृथ्वी, स्वर्ग और सूर्य हमारी रक्षा करें, पापों से हमारी रक्षा करें । कोई दुष्ट हमसे बढ़कर ऐश्वर्यं को न प्राप्त कर सके ॥ ४७ ॥
जगती, लिङ्गोक्तदेवता । ऋतावृध इत्यादिः प्रत्यक्षकृतः 1 ब्राह्मणास इत्यादिः परोक्षकृतः । ऋतावृध ऋतं सत्यं यज्ञं वा वर्धयन्ति ये ते ऋतावृधः, संहितायाम् ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । देवा इति सामर्थ्यादध्याहारः । रक्षा रक्षतेति वचनव्यत्ययः । संहितायाम् ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६।३।१३५ ) इति दीर्घः । माकि:, मा कश्चन अघशंसः पापी नोऽस्माकमीशत ईष्टे ऐश्वर्यं मा करोतु । वयं तद्वशामा भूमेत्यर्थः । अघं पापं शंसति वक्ति प्रकाशयतीति वा तथोक्तः । दुष्ट ईशतेत्यपि वचनव्यत्ययः । भवत्प्रसादाच्च ब्राह्मणासो ब्राह्मणा नोऽस्मान् पातु पान्तु वचनव्यत्ययः । पितरच पान्तु रक्षन्तु । कीदृशाः पितरः? सोम्यासः सोमसम्पादिनः सोमपानयोग्याः । द्यावापृथिवी द्यावापृथिव्यो नः पाताम् । कीदृश्यौ? शिवे कल्याणकारिण्यो । अनेहसा अनेहसौ, ईहते जनः स्वाभाविक्या रागोपहतया बुद्ध्या कर्तुं यत् तद् एह, औणादि-को s न्, बाहुलकाद् ईकारस्य एकारादेशः, पापमपराधो वेत्यर्थः । नास्ति एहो ययोस्ते तथोक्ते, अनुपहसिन्यौ, अपराधनिवर्ति वा । किञ्च पूषा सूर्यो नोऽस्मान् दुरितात् पातु रक्षतु । अध्यात्मपक्षे — ऋतं सत्यं यज्ञं वा वर्धयन्ति ये ते ऋतावृधः परमेश्वराः, पूजायां बहुवचनम् । हे ऋतावृधः परमेश्वराः, रक्षा रक्षत । अन्यत् पूर्ववद् व्याख्येयम्, परमेश्वरस्य सर्वान्तर्यामित्वात् सर्वेषामभ्य-र्थनायास्तत एव पूर्तिसम्भवात् । भगवत्प्रसादाच्च ब्राह्मणादयोऽस्मान् पान्तु । दयानन्दस्तु - ' हे मनुष्याः, हे सोम्यास ऋतावृधः पितरो ब्राह्मणासस्ते विद्वांसो नः कल्याणकरा अनेहसा द्यावापृथिवीं च शिवे भवतः । पूषा परमात्मा नो दुरितात् पातु । यतो नो हिंसितुमघशंसो माकिरीशत तान् रक्ष स्तेनान् जहि ' इति, तदपि यत्किञ्चित् नः कल्याणकरा इत्यस्य मन्त्रबाह्यत्वात्, सोम्यास आनन्द-कारकगुणयोग्या इति हिन्दीव्याख्यानस्य निर्मूलत्वाच्च द्यावापृथिव्योस्त्वद्रीत्या जडत्वेन कल्याणकरत्वायोगाच्च । ब्राह्मणासो वेदेश्वरविद इत्यपि निर्मूलम्, ' ब्राह्मोऽजातो ' ( पा ० सू ० ६ । ४ । १७१ ) इति विरोधात् । स्तेनान् जहीत्यपि मन्त्रबाह्यमेव ॥ ४७ ॥
पृष्ठ 326
पाठ पढ़ें पाठ छिपाएँ
म ० ४८ ] वेदार्थपारिजातभाष्यसहिता २ ९ ३ सुप॒र्णं व॑स्ते म॒गो अ॑स्या॒दन्तो॒ गोभिः॒ सन॑द्धा पतति॒ प्रसू॑ता । 14 यत्र॒ नर॒ः सं च॒ वि च॒ द्रव॑न्ति॒ तत्र॒स्मभ्य॒मिष॑व॒ शर्म॑ यन् ॥ ४८ ॥
मन्त्रार्थ -- जो बाण श्रेष्ठ पक्षी के पंख को धारण करता है, उस बाग का फलक शत्रुओं को खोजता है और किरणों से सन्नद्ध धनुषधारी से प्रेरित होकर शत्रुसेना पर गिरता है । जहाँ योद्वागग जाते हैं, नाना प्रकार की गति करते हैं, उस युद्ध में बाण हमारे सहायक हों ॥ ४८ ॥
द्वाभ्यामिषं स्तौति । आद्या त्रिष्टुबपराऽनुष्टुप् । या इषुः सुपर्णं पक्षिपिच्छं वस्ते आच्छादयति, ' वस आच्छादने ' सुष्ठु शोभनं पर्णं पिच्छं यस्य सः, सुपर्णः पक्षी, तस्य विकारोऽपि सुपर्णः, ' कृत्स्नवन्निगमा भवन्ति ' ( निरु ० २२५ ) इति यास्कोक्तेः सुपर्णशब्देन तत्पिच्छं गृह्यते, बाणपुच्छे पिच्छस्य आरोप्यमाणत्वात् । यस्या अस्या इषोर्मृगो मृगयते वेध्यमिति मृगो दन्तः, मृगयतेऽन्विष्यति रिपून् हन्तुमिति मृगः । ' मृग अन्वेषणे ' चुरादिरदन्तः, पचाद्यच्, ' मृगमयोऽस्था दन्तो मृगयतेर्वा ' ( निरु ० २।१ ९ ) इति यास्कोक्तेः । दन्तः फलं शल्यम् । तच्च वेध्यस्य मार्गणान्मृग उच्यते । किन, या इषुर्गोभिर्गोविकारैः स्नायुभिः सन्नद्धा बद्धा प्रसूता धनुष्मता प्रेरिता सती पतति, शत्रुबलं प्रति गच्छति । यत्र नरो योद्धपुरुषाः सं च वि च द्रवन्ति सन्द्रवन्ति सम्यग्गच्छन्ति, विद्रवन्ति विविधं प्रसरन्ति च । चकारौ समुच्चयार्थी । तत्र रथे इषवो बाणा अस्मभ्यं शर्म सुखं यंसत् यच्छन्तु, सुखं दधत्वित्यर्थः । ' यमु उपर मे ' इत्यस्माल्लेटि ' सिब्बहुलं लेटि ' ( पा ० सू ० ३ | १ | ३४ ) इति सिबागमे, अनुबन्धलोपे तिथि इकारलोपे, ' लेटोऽडाटा ' ( पा ० सू ० ३ | ४ | ९ ४ ) इत्यडागमे यंसदिति रूपम् । अध्यात्मपक्षे या प्रत्यक्चितिरूपा इषुः सुपर्णं वस्ते सुपर्णपिच्छं परिधत्ते, तेनैव परमेश्वरवज्जीवोऽपि सुपर्ण उच्यते, ' द्वा सुपर्णा सयुजा ' ( ऋ ० सं ० १।१६४ / २० ) इति मन्त्रवर्णात् । अस्या इषोः सोपाधिकस्य जीवस्य फलं वृत्त्यभिव्यक्तः प्रकाशो मृगो लक्ष्यं ब्रह्मभूतं मृगयते । या चेषुर्गोभिरिन्द्रियैर्बद्वा उपहिता प्रसूता प्रणवधनुः सन्धात्रा प्रेरिता पतति लक्ष्यं प्रति गच्छति, यत्र च नरः साधकाः सन्द्रवन्ति सम्यग् गच्छन्ति विच द्रवन्ति विविधं प्रसरन्ति तत्र साधनाभ्यासे धनुष्मतेव प्रेषितोऽस्मभ्यं साधकेभ्यः, इषव इषुः यंसत् शर्म ब्रह्मरूपं सुखं प्राप्योपरतो भवति, ' अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ' ( मु ० उ ० २।२1४ ) इति श्रुतेः । अत्र पदपाठे ' यंसन् ' इत्येव पठ्यते वैदिकैः । अत्र जीव एव साधकरूपेण धानुष्को भवति । स एव शररूपो भवति, लक्ष्यं ब्रह्म प्राप्य तन्मयतायां जातायामपि तत्प्राप्तिसुखानुभवितृत्वेन चिदाभासस्य साधकस्य विद्यमानत्वात् । अतः परोक्षाप [ रो ] क्षे ज्ञाने जीवन्मुक्तिनिरङ्कुशा तृप्तिरित्यादिकमपि साधकैः प्राप्येत । दयानन्दस्तु -- ' हे वीराः, यत्र सेवायां नरो नायकाः स्युः, या सुपर्णं वस्ते, यत्र गोभिः सह तत्रास्मभ्यं दन्तो मृग इव इव धावन्ति या सन्नद्धा प्रसूता शत्रुषु पतति, इतस्ततश्र्वास्या वीराः संद्रवन्ति विद्रवन्ति च भवन्तः शर्म यंसन् ' इति, तदप्यसत्, विसङ्गतेः, गृहादिष्वपि तत्सङ्गत्या विनिगमनाविरहाच्च । वस्ते धरतीत्य-प्यशुद्धम् धात्वर्थविरोधात् । यो माष्टि कस्तूर्या स मृग इत्यप्यसङ्गतम्, हरिणादावपि तत्प्रयोगदर्शनात् । सह दान्तो मृग इव इषवो धावन्तीत्यपि निर्मूलमेव, धावन्तीति क्रियापदस्य मन्त्रेऽदर्शनात्, गोभिः सहेत्यस्य स्वारस्यानुक्तेः, मूले इवपदासत्त्वाच्च । ' तत्र सेनायामस्मभ्यं शर्म भवन्तो यच्छन्तु ' इत्यप्यसङ्गतम्, इषव इत्यस्य कर्तृत्वेनान्वये सति भवन्त इत्यस्याध्याहारे श्रुतहान्यश्रुत कल्पनादिप्रसङ्गात् । दन्त इत्यस्य स्थाने दान्त इति कल्पनापि निर्मूलैव ॥ ४८ ॥
पृष्ठ 327
पाठ पढ़ें पाठ छिपाएँ
२ ९ ४ शुक्लयजुर्वेदसंहिता
ऋजी॑ते॒ परि॑वृध॒ि नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो अधिं ब्रवीत् नोऽदितः शर्म॑ यच्छतु ॥ ४ ९ ॥
2 [ अ ० २ ९ मन्त्रार्थ - हे ऋजुगामी बाण, तुम हमें छोड़ दो, अर्थात् हमारे ऊपर प्रहार मत करो । हमारा शरीर पाषाण के
समान दृढ़ हो जाय । ईश्वर हमारी रक्षा करें । भगवती अदिति हमें सुख दें ॥ ४ ९ ॥
हे ऋजीते ऋजुः सरला ईतिर्गतिर्यस्याः सा ऋजीतिः, टिलोप आर्षः, तत्सम्बुद्धौ । हे इषो, नोऽस्मान् परिवृधि परिवर्जय, अस्मासु मा पतेत्यर्थः । नोऽस्माकं तनूः शरीरम् अश्मा अश्मवत् पाषाणवत् भवतु । सोमो नोऽस्मानधित्रवीतु अधिकान् वदतु । अदितिश्च देवमाता शर्म शरणं सुखं वा यच्छतु ददातु । सुदृढा अध्यात्मपक्षे - हे ऋजीते ऋजुगामिनि प्रत्यक्चिते, हे इषो, नोऽस्मान् साधकान् परिवृधि परिवर्जय, रक्ष व्यसनादिभ्य इति यावत् । प्रत्यकुचिते राजराजेश्वरीरूपत्वात् परप्रेमास्पदत्वात् परमानन्दरूपत्वाच्च त्वत्प्रसादान्नोऽस्माकं तनुः शरीरम् अरमा वज्रोपमा भवतु । त्वत्प्रसादादेव सोमोऽस्मानधिब्रवीतु, अदिति -रखण्डनीया पर चितिर्नः शर्म शरणं यच्छतु । दयानन्दस्तु - ' हे विद्वन् त्वमृजीते सरलव्यवहारे नोऽस्माकं शरीराद् रोगान् परिवृधि परिवर्जय । यतो नस्तनूर्नोऽस्माकं शरीरमश्मा भवतु । यः सोमोऽस्ति तं या चादितिरस्ति, ते भवान्नोऽधिब्रवीतु नः शर्म यच्छतु ' इति, तदपि यत्किञ्चित् रोगानिति पदस्य मूलेऽभावात् । अदितिः सोमश्च कर्तृपदे । अध्याहारेण तयोः कर्तृत्वापादनमपि निर्मूलमेव ॥ ४ ९ ॥
आ ज॑न्ति॒ सान्वॆषां ज॒घाँ २ । उप॑ जिघ्नते ।
अश्वा॑नि॒ प्रचे॑त॒सोऽश्वा॑न् स॒मत्सु॑ चोदय ॥ ५० ॥
मन्त्रार्थ - प्रस्तुत मन्त्र में चाबुक की स्तुति की गई है । हे कशे, संग्रामों में तुम शूर मन वाले बहादुर घोड़ों को हमारी विजय के लिये प्रेरित करो । इन घोड़ों के सानुतुल्य मांसल अंगों का हम ताड़न करते हैं, कटिभाग का ताड़न करते हैं ॥ ५० ॥
अनुष्टुप् । कशास्तुतिः । हे अश्वाजनि, अश्वा अज्यन्ते क्षिप्यन्ते यया सा अश्वाजनी, तत्सम्बुद्धौ । हे कशे, ' अज गतौ क्षेपणे च ', समत्सु संग्रामेषु त्वमश्वान् चोदय प्रेरय, जयायेति शेषः । कीदृशानश्वान् प्रचेतसः प्रकृष्टं शूरं चेतो मनो येषां ते प्रचेतसः, तान् परिदृष्टकारिणः प्रकृष्टज्ञानान् वा । हे कशे? त्वया अश्ववारा अश्वारोहिण एषामश्वानां सानु सानूनि सानुतुल्यानि मांसोपचितान्यङ्गानि, आजङ्घन्ति , यथा आघ्नन्ति ताडयन्ति, जघनान् कटिभागान्, उपजिघ्नते निघ्नन्ति अश्वारोहा यथाश्वान् वशयन्ति तथा त्वमश्वान् प्रेरयेति भावः । अध्यात्मपक्षे -- इन्द्रियाश्वा अज्यन्ते क्षिप्यन्ते यया सा कशा श्रद्धारूपा, तत्सम्बुद्धौ हे अश्वाजनि समत्सु संसारसङ्गरेष्विन्द्रियाश्वान् चोदय । कीदृशान्? प्रचेतसः प्रकृष्टज्ञानान् । येषामेषामश्वानामश्वारोहाः! सानु सानूनि सानुतुल्यान्यु चिताङ्गान्याघ्नन्ति येषामेषां जघनान् कटिप्रदेशान् उपजिघ्नते निघ्नन्ति तानश्वान् प्रेरयेत्यर्थः ।
पृष्ठ 328
पाठ पढ़ें पाठ छिपाएँ
म ० ५०-५१ ] वेदार्थपारिजातभाष्यसहिता २ ९ ५ दयानन्दस्तु – हे ' अश्वाजनि विदुषि राज्ञि यथा वीरा एषां सानु आजङ्घन्ति जघनानुपजिघ्नते, तथा त्वं समत्सु प्रचेतसोऽश्वान् प्रचोदय ' इति, तदपि यत्किञ्चित् विरोधात् । ' या अश्वान् जनयति सुशिक्षितान् करोति, तत्सम्बुद्धौ हे अश्वाजनि ' इति व्याख्यानस्य निर्मूलत्वात् धात्वर्थविरोधाच्च । नहि जननं शिक्षणमिति प्रसिद्धम्, अश्वाजनीत्यत्र दीर्घस्य स्त्रीलिङ्गस्य च स्वारस्यानुपपत्तिः । जघनान् यून इत्यपि निर्मूलम्, स्वारस्यशून्यं च ॥ ५० ॥
अहिंरिब भोगेः पर्येति बाहुं ज्याय हेति प॑रि॒बाध॑मानः ।
हस्त॒मो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॑न् पुमा॑सं॒ परि॑पातु वि॒श्वत॑ः ॥ ५१ ॥
मन्त्रार्थ प्रस्तुत मन्त्र में हस्तघ्न की स्तुति करते हुए कहा गया है कि सब ज्ञानों का ज्ञाता शूर खेटक या प्रकोष्ठ-त्राण मेरी सब ओर से रक्षा करे, जो कि ज्या के प्रहार का निवारण करता है और भुजा को उसी तरह से घेरे रहता है, जैसे सर्प अपने देह से हाथ आदि को ॥ ५१ ॥
हस्तघ्नः स्तूयते । सप्त त्रिष्टुभः । हस्तघ्नो हस्ते स्थित एव हन्तीति हस्तघ्नः खेटकः, अथवा हस्तं हन्ति प्राप्नोतीति हस्तघ्नः प्रकोष्ठत्राणं पुमांसमक्लीबं मां विश्वतः सर्वतः परिपातु रक्षतु । कथम्भूतो हस्तघ्नः? विश्वा विश्वानि सर्वाणि वयुनानि ज्ञानानि विद्वान् जानानः, अर्थात् सर्वज्ञानोपेतः " परिदृष्टकारी वा पुमान् शूरोऽक्लीबो वा । यश्व अहिरिव सर्प इव भोगैः स्वशरीरावयवैः कृत्वा बाहुं पर्येति हस्तादिकं वेष्टयति । यथा सर्पो भोगैः स्वदेहैर्हस्तादिकं परिवेष्टयति, तथा यः स्वशरीरावयवैर्बाहुं परिवेष्टयति । पुनः कीदृशः? ज्यायाः प्रत्यवायाति बाणं शत्रुप्रेरितं परिवाधमानो निवर्तयन्, यद्वा ज्याया आयुधविशेषाद् हेति बाणं परिबाधमानः । प्रकोष्ठत्राणपक्षे तु ज्याया हेतिं घातं प्रहारं निवारयन् प्रकोष्ठत्राणस्य ज्याघातनिवारकत्वात् । भूतो हस्तघ्न न सर्वज्ञो न वा प्रार्थनां शृणोति तथापि तदधिष्ठातृभूता देवतैवात्र स्तूयते, माहा-भाग्यच सा सर्वं कर्तुं प्रभवत्येव । अध्यात्मपक्षे - यो देवोऽकारण कारुण्यवशाद् हस्तं हन्ति प्राप्नोति, हस्तप्राप्त इव सुलभोऽस्ति स परमेश्वर एव हस्तघ्न उच्यते । स एवात्र स्तूयते । एतादृशो हस्तघ्नो भगवान् मां पुमांसं पुरुषार्थरतं विश्वतः सर्वतः परिपातु रक्षतु । कीदृश:? विश्वानि वयुनानि विज्ञानानि विद्वान् जानन् । सर्वज्ञः पुमान् शूरः । यश्च अहिरिव सर्प इव भोगैः स्वशरीरावयवैर्बाहुं पर्येति परिवेष्टयति स्वशरीरं कवचं कृत्वा भक्तं पालयति, यथा श्रीरामो रावणेनामोघशक्त्या हन्यमानं विभीषणं पृष्ठतः कृत्वा स्वात्मानमग्रतः कृत्वा तं रक्षितवान्, तथा रक्षति । ज्यायाः प्रत्यवाया हेतिमाघातं परिबाधमानो निवर्तयन् । ज्याया हेतिमित्याभ्यां पदाभ्यां विविधायुधप्रहारो लक्ष्यते । तेन शत्रुकृत विविधायुधप्रहारं परिबाधमानः, निवर्तयन्नित्यर्थः । दयानन्दस्तु - हे मनुष्य, यो हस्तघ्नो यो हस्ताभ्यां हन्ति स विद्वान् पुमान् पुरुषार्थी भवान् ज्याया हेत बाणं प्रक्षिप्य बाहुं बाधकं शत्रु परिबाधमानः पुमांसं विश्वतः परिपातु । योऽहिरिव मेघ इव भोगविश्वा वयुनानि पर्येति ' इति, तदपि यत्किचित्, बाहुपदस्य बाधकशत्रुबोधकत्वे मानाभावात् । हेति प्रक्षिप्येत्यध्याहारस्यापि निर्मूलत्वमेव, बीजाभावात् । अहिरिव भोगैरित्यप्यसम्बद्धमेव । यत्तु टीकायां गर्जन्निवेत्युक्तम्, तदपि मन्त्र -बाह्यमेव । भोगविश्वा वयुनानि पर्येतीत्यपि निर्मूलम् भोगानां ज्ञानसाधनत्वाश्रवणात् ॥ ५१ ॥
पृष्ठ 329
पाठ पढ़ें पाठ छिपाएँ
२ ९ ६ शुक्लयजुर्वेदसंहिता वन॑स्पते वी॒ड्व॑यो॒ हि भुगा अ॒स्मत्स॑खा व्र॒तर॑णः सु॒वीर॑ः । गोभिः॒ सन्त॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ मन्त्रार्थ - हे वनस्पति के विकार काष्ठमय रथ तुम्हारे अंग दृढ़ हों । रथी योद्धा रत्नों की किरणों से सन्नद्ध हो । तुम शत्रुओं को स्तम्भित कर दो, प्राप्त करे ॥ ५२ ॥
जेत्वानि ॥ ५२ ॥
[ अ ० २ ९ तुम्हारा सखा संग्राम के पार पहुँचने वाला तुम्हारा वीर रथी जेतव्य शत्रु पर विजय तिस्र ऋचो रथदेवत्याः । हे वनस्पते! वानस्पत्य काष्ठमयरथ, ' ताद्धितेन कृत्स्नवन्निगमा भवन्ति ' ( निरु ० २१५ ) इति वनस्पतिशब्देन रथ उच्यते । त्वं वीड्वङ्गः, वीडूनि दृढान्यङ्गान्यवयवा यस्य ' दृढाङ्गो हि भव ' ( निरु ० ९ ।१२ ) इति यास्कः । कथम्भूतस्त्वम्? अस्मत्सखा अस्माकं मित्रभूतः स तथा । प्रतरणः भूयाः, प्रतरति संग्राम पारं गच्छतीति तथोक्तः । सुवीरः शोभनो वीरो रथी यस्मिन् सः । किञ्च, हे वनस्पते! हि यतस्त्वं गोभिर्गोविकारैश्वर्मभिः सन्नद्धो बद्धोऽसि, अतो वीडयस्व आत्मानं संस्तम्भयस्व । आस्थाता ते तव संस्थाता आरोढा रथी जेत्वानि जेतव्यानि शत्रुधनानि जयतु स्वायत्तं करोतु । अध्यात्मपक्षे - हे वनस्पते! संसारवृक्षोपलक्षित तदधिष्ठानभूत परमेश्वर, त्वं वीड्वङ्गो दृढाङ्गो भूयाः । त्वमस्मत्सखा अस्माकं मित्रभूतः प्रतरणः प्रतरति संसारसागरमनेनेति तथोक्तः, अधिष्ठानसाक्षात्कारेणैव संसार-बाधात् । सुवीरः शोभना वीरा यस्मिन् स त्वं गोभिः सन्नद्धः परिवृतोऽसि, श्रीकृष्णरूपेण तवैव गोपालत्वात् । त्वमात्मानं वीडयस्व स्तभान, त्वत्स्थित्यैव त्वदधिष्ठितानां स्थितिसम्भवात् । आस्थाता ते त्वामाश्रित्य स्थितो जेत्वानि जेतव्यानि कामादीनि जयतु । 1 दयानन्दस्तु – हे ' वनस्पते, त्वमस्मत्सखा प्रतरणः सुवीरो वीड्वङ्गो हि भूयाः, यतो गोभिः सन्नद्धोऽसी-त्यतोऽस्मान् वी s यस्व । त आस्थाता वीरो जेत्वानि जयतु ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणस्यैव दूषणत्वात्, यास्कादिव्याख्यानविरोधाच्च । पृथिव्यादिभिः सर्व एव सम्बद्ध इति तैः सह सन्नद्धत्वे विशेषाभावात् ॥ ५२ ॥
दि॒वः पृ॑थि॒व्याः पर्योज॒ उद॒भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ सह॑ः ।
अपामोज्मानं परि गोभिरावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ ह॒विषा॒ रथं यज ॥ ५३ ॥
मन्त्रार्थ - हे अध्वर्यु, तुम स्वर्ग और पृथ्वी से उद्धृत तेजोमय वृक्षों से बने हुए, बलरूप जल के सार, दिव्य किरणों से वेष्टित, वज्र से उत्पन्न रथ का हविप्रदान द्वारा यजन करो ॥ ५३ ॥
हे अध्वर्यो, त्वं हविषा रथं रथाधिष्ठातारं देवं यज । कीदृशं रथम्? दिवो द्युलोकात् पृथिव्या भूमेः सकाशाच्च यदोजस्तेजः परि सर्वत उद्भूतम् उद्धृतम्, यच्च वनस्पतिभ्यो वृक्षेभ्यः सकाशात् परि सर्वत आभृतमानीतं सहो बलम् यच्च अपां जलानां सम्बन्धि तथा अज्मानमोजः परिमाणं तेजःसारभूतं वा । ओजः शब्दाद् आचारक्विपि धातुत्वात् ' अन्येभ्योऽपि दृश्यते ' ( पा ० सू ० ३।२७५ ) इति मनिनि ओज्मेति, तम् । द्यावापृथिवीवृक्षजलानां तेजश्चतुष्टयेन निर्मितमित्यर्थः । पुनः कीदृशम्? रथम्, गोभिः किरणैः पर्यावृतं वेष्टितम्, तेजोनिर्मितत्वात् । यद्वा गोभिर्गोविकारैश्वर्मभिर्वेष्टितम्, तथा इन्द्रस्य वज्रम् इन्द्रवज्रादुत्पन्नम् ' इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्धाऽभवत्तस्य स्पयस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा
पृष्ठ 330
पाठ पढ़ें पाठ छिपाएँ
म ० ५३-५४ ] वेदार्थ पारिजात भाष्य सहिता २ ९ ७ यावद्वाथ यत्र प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शरोऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रोऽभवत् ॥ ततो द्वाभ्यां ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः ' ( श ० १ २ ४ । १-२ ) इति श्रुतेः । एतदभिप्रायस्तु-इन्द्रो यदा वृत्राय वज्रं प्रजहार तदा वृत्रशरीरकाठिन्येन प्रतिहृतं वज्रं चतुर्धा जातम् - ( १ ) यूप:, ( २ ) स्पयः, ( ३ ) रथ:, ( ४ ) शरश्चेति । तत्र यूपस्यौ विप्रैर्गृहीतौ रथशरौ राजन्यैरिति । ईदृशं रथं रथाधिष्ठातारं देवं यजेत्यर्थः । अध्यात्मपक्षे - हे अध्वर्यो, त्वं वनस्पतिविकारभूतं रथं यज । वनस्पतिः संसारवृक्षाधिष्ठानभूतः संसार-मूलमतः परमात्मैव, ' ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ' ( भ ० गी ० १५०१ ) इति गीतोक्तेः । ऊर्ध्वमुत्कृष्टं कारणत्वाद् व्यापकत्वात् सूक्ष्मत्वात् प्रकाशकत्वात् परब्रह्म मूलं यस्य तत्, अधः शाखम् अधः पदवाच्यानि महदादीनि शाखास्थानीयानि यस्य तत् छन्दांसि गायत्र्यादीनि यस्य पर्णानि पत्राणि, तं तादृशं समूलं वृक्षं प्रतिक्षणं कालासिना छिद्यमानं यो वेद स वेदवित् । वेदार्थभूतब्रह्ममूल-त्वात् समूलाश्वत्थविज्ञानेन ब्रह्मैव विज्ञातं भवति । कीदृशं रथम्? दिवः पृथिव्याः परित उद्भुतम् उद्धृतम् । ओजस्तेजोभूतं वनस्पतिभ्यश्व पर्याभृतम् । सहो वनस्पतिसकाशाच्च परित आहृतं सहो बलम् अपामोज्मानं च अपां सम्बन्धि ओजःपरिणामं च उपलक्षणमेतत् सर्वेषामपि पदार्थानाम्, सारभूतं तं रथं रमणीयं गोभिः परिवृतं श्रीकृष्णरूपेण गोभिरावृतमिन्द्रस्य वज्रं वज्रवद् दुर्भेद्यं तादृशं रथं रमणीयं भगवन्तं यजेत्यर्थः । दयानन्दस्तु – ' हे विद्वन् त्वं दिवः पृथिव्या उद्घृतमोजः परियज । वनस्पतिभ्य आभृतं सह परियज । अपां सकाशादोज्मानं च परियज । इन्द्रस्य गोभिरावृतं वज्रं रथं हविषा यज ' इति, तदपि यत्किञ्चित्, निरर्थकत्वात्, कस्यचिन्मनुष्यस्य तादृशसामर्थ्यासम्भवात् । सूर्यात् पृथिव्या ओजस उद्भरणे तस्यान्येभ्यो दानस्य च मनुष्ये सामर्थ्यादृष्टेः । तथैव वटादिवनस्पतिभ्यः सहस आभरणम्, अपां सम्बन्धनम्, पराक्रमस्य सङ्कलन-मन्यत्र सञ्चारणं च न मानवशक्तिगम्यम्, अलौकिकशक्तीनां देवानां त्वयाऽनङ्गीकाराच्च ॥ ५३ ॥
इन्द्र॑स्य॒ वज्द्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो वरु॑णस्य॒ नाभः ।
सेमां नौ हव्यति जुषा॒णो देव॑ रथ॒ प्रति॑ह॒व्या गृभाय ॥ ५४ ॥
मन्त्रार्थ - हे देव रथ, तुम वज्र से उत्पन्न हो, जयदाता मरुद्गण के साधक, सूर्य के गर्भरूप और वरुण के नाभिरूप हो । तुम हमारी दी हुई इन हवियों का सेवन करो, उनका ग्रहण करो ॥ ५४ ॥
रथ हे देव, स त्वं हव्या हव्यानि हवींषि प्रतिगृभाय प्रतिगृहाण, गृह्णातेः ' हलः श्नः शानज्झौ ' ( पा ० सू ० ३ | १ | ८३ ) इत्यनुवृत्तौ ' छन्दसि शायजपि ' ( पा ० सू ० ३ | १ | ८४ ) इति हौ परे श्नाप्रत्ययस्य शायजादेशे, ' हृग्रहोर्भश्छन्दसि ' ( पा ० सू ० ८ २२३२, वा ० १ ) इति हकारस्य भकारे रूपम् । इन्द्रस्य वज्रोऽसि, वज्रोत्पन्न-त्वात् । मरुतां देवानामनीकं मुखमसि, देवानां जयप्रापकत्वात् । मित्रस्य देवस्य गर्भोऽसि, गीर्यते स्तूयत इति गर्भः, ‘ अर्तिगृभ्यां भन् ’ ( उ ० ३ । १५२ ) इति गृणाते रूपम् । वरुणस्य नाभिः " नह्यते बध्यतेऽरिरनेनेति नाभिः, ' नहो भव ' ( उ ० ४। १२७ ) इति इञ प्रत्यये हकारस्य भकारे च रूपम्, वरुणस्य देवस्य बन्धनसाधनम्, माकमिमां व्यदाति हविषो दानं जुषाणः सेवमानः । स इमामित्यत्र ' सोऽचि लोपे चेत् पादपूरणम् ' ( पा ० सू ० ६ | १ | १३४ ) इति सन्धिः । ३८