वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 601–606
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 601–606
पृष्ठ 601
पाठ पढ़ें पाठ छिपाएँ
२१८ शुक्लयजुर्वेदसंहिता [ २०३ ९ मन्त्रार्थ -- प्रथम दिन का देवता सरिता है, उस दिन घर्मभेद होने पर प्रायश्चित्ताहुतिका मन्त्र ' सवित्रे स्वाहा ' है । दूसरे दिन का देवता अग्नि है, उस दिन घर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र 'अग्नये स्वाहा ' है । तीसरे दिन का देवता वायु है, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' वायवे स्वाहा ' है । चौथे दिन का देवता आदित्य है, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' आदित्याय स्वाहा ' है ।पाँचवें दिन का देवता चन्द्रमा है, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' चन्द्रमसे स्वाहा ' है । छठे दिन का देवता ऋतु है, उस दिन घर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ऋतवे स्वाहा ' है । सातवें दिन का देवता महत् है, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' मरुद्भयः स्वाहा ' है । आठवें दिन का देवता बृहस्पति है, उस दिन धर्मभेद होनेपर प्रायश्चित्ताति का मन्त्र ' बृहस्पतये स्वाहा ' है । नवें दिन के देवता मित्र हैं, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' मित्राय स्वाहा ' है । दसवें दिन के देवता वरुण हैं, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुति का मन्त्र ' वरुणाय स्वाहा ' है । ग्यारहवें दिन के देवता इन्द्र हैं, उस दिन धर्मभेद होने पर प्रायश्चित्ताहुतिका मन्त्र ' इन्द्राय स्वाहा ' है । बारहवें दिन के देवता विश्वेदेव हैं, उस दिन घर्मभेद होने पर प्रायश्वित्ताहुति का मन्त्र ' विश्वेभ्यो देवेभ्यः स्वाहा ' है || ६ || ' सविता प्रथमेऽहन्निति च प्रत्यहम् ' ( का ० श्र ० २७१७२३५ ) । प्रथमेऽहन् दिने घर्मभेदे सवितृदेवतात्मको महावीरो भवति । तत्र सवित्रे स्वाहेति होमः । एवमग्रेऽपि । अग्निद्वितीये सविता देवता भवति तदानीम् । तृतीये वायुश्चतुर्थे आदित्यात्मकः, पञ्चमेऽह्नि चन्द्रमाः, दिवसेऽग्निरग्न्यात्मको बृहस्पतिरष्टमे नवमेऽह्नि मित्रात्मकः, दशमे दिने वरुणः, एकादशेऽह्नि इन्द्रः षष्ठे दिवसे ऋतुः मरुतः सप्तमेऽह्नि, विश्वेभ्यो देवेभ्यः स्वाहेत्याहुतिः । एकाहे सूपसदां हुतत्वात् प्रवर्ग्यस्यापि, द्वादशे विश्वे देवाः । तत्र भेदे चित्येषु षदिवसेष्वहीनाहर्गणेषु सर्वत्र द्वादशोपसद इति द्वादशदिवसेषु दिवसत्रय उपसत्प्रवृद्धौ एवानुष्ठानम् । साग्नि-पुनरादित आवर्त्यते । एता एवाहुतयः अध्यात्मपक्षे - प्रथमादिदिवसेषु धर्मभेदे दिवसभेदेन देवताभेदोऽपि ब्रह्मविस्तारत्वाद् ब्रह्मात्मकएव । दयानन्दस्तु —– ' हे मनुष्याः, अनेन जीवेन प्रथमेऽहन सविता द्वितीयेऽग्नि " द्वादशेऽहनि विश्वे प्राप्यन्ते ' इति, तदपि यत्किचित् सर्वस्य निर्मूलत्वात्, देहत्यागानन्तरं जीवः प्रथमादिदिनेषु देवाश्च प्राप्नोतीत्यत्र मानाभावात् । न चायं मन्त्र एव प्रमाणमिति, जीवेन तांस्तान् देवान् मन्त्रेऽभावात् । किमर्थं चंते प्राप्यन्ते जीवेन विश्वे देवाः? सर्वे उत्तमगुणा देहत्यागानन्तरं इत्यपि निर्मूलम् प्राप्यन्त इत्यंशस्य तद्वत्त्वोपलम्भापातात् ॥ ६ ॥, तथात्वे सर्वेषां
॥ महावीरप्रायश्चित्तानि समाप्तानि ॥ उ॒पव॑ भ॒मश्च॒ ध्वान्तश्च॒ धुनि॑श्च । स॒स॒ह्वांश्चा॑ऽभियुग्वा च॑ वि॒क्षयः॒ स्वाहा॑ ॥ ७ ॥
मन्त्रार्थ- - उग्र, भीम, ध्वान्त, धुनि सासह्वान्, अभियुग्वा और विक्षिप नाम वाले महतों के लिये मैं यह श्रेष्ठ आहुति समर्पित करता हूँ ॥ ७ ॥
पृष्ठ 602
पाठ पढ़ें पाठ छिपाएँ
वेदार्थपारिजातभाष्यसहिता म ० ७-८ 1 श्याभ्या॑म् ॥ ८ ॥
२१ ९ भ॒वं य॒क्ना । शर्व वसिष्ठहनुः शिङ्खनि महादेव को पसलियों के मांस से, प्रसन्न करता हूँ ॥ ८ ॥
' विमुखाच्च परेभ्यः, मा नो मित्र इति च प्रत्यचमनुवाकाभ्याम् अन्त्यां द्यावापृथिवीयामिति ' ( का ० श्री ० २०१८।५ - ७ ) । तदर्थस्तु - विमुखसंज्ञकादुग्रश्चेत्यस्मात् परेभ्य उत्तरकालपठितेभ्यो देवता-श्वाङ्गेभ्योऽऽग्न हृदयेनेत्यादिभ्यश्चतुर्गृहीतेनाज्येनाग्नये स्वाहा, हृदयाय स्वाहा, अशनये स्वाहा, हृदयाग्राय स्वाहेति चतुर्गृहीतं जुहुयात् । हरिस्वामिरीत्या अग्नि हृदयेन प्रीणामि स्वाहेत्यादिप्रयोगः । ततश्चाग्नि हृदयेनेत्यादीन् विश्वेभ्यो देवेभ्यः स्वाहेत्यन्तान् होमान् कृत्वा मा न इत्यनुवाकाभ्यां ( मा ० सं ० २५।२४-३९ ) षोडशाहुतीर्हुत्वा द्यावापृथिवीभ्यां स्वाहेति चरमामाहुति जुहुयात्, ' अरण्येऽनुच्यान् हुत्वा द्यावापृथिव्या-मुत्तमामाहुति जुहोति ' इति श्रुतेः । अरण्येऽनूच्यानरण्ये पठितार्नाग्नि हृदयेनेत्यादीन् विश्वेभ्यो देवेभ्यः स्वाहेत्यन्तान् होमान् कृत्वा द्यावापृथिवीयामुत्तमामाहुति जुहोतीति श्रुत्यर्थ: । ' अग्नि " हृदयेनाश्वमेधिकानि ' हस्तेन मारुतान् जुहोति शुक्रज्योतिरिति प्रतिमन्त्रम्, विमुखेनारण्येऽनुच्यमिति ' ( का ० श्री ० १८।४।२३-२४ ) इति कात्यायनरीत्या चयने मारुतान् षट् पुरोडाशान् शुक्रज्योतिश्चेत्यादिषण्मारुतमन्त्रैः ( मा ० सं ० १७१८०-८५ ) हुत्वाऽरण्येऽनूच्यसंज्ञं सप्तमं पुरोडाशं विमुखसंज्ञेन ' उग्रश्च ' इति मन्त्रेण जुहुयात् । उग्रश्च मारुती गायत्री । विमुखाख्यो मन्त्रोऽग्नौ विनियुक्तस्तस्मादाग्निक एवास्यषिः, ' परमेष्ठी प्राजापत्यो वा ' ( ४१८ ) इत्यनुक्रमणीवचनादाग्निकः प्रजापतिऋषिः । अस्य मन्त्रस्यात्र पाठोऽरण्येऽध्येयत्वसामान्यात् । य एते उग्रादिनामकाः सप्त मरुतस्तेभ्यः स्वाहा सुहुतमस्तु । उग्र उत्कृष्टः । भीमः बिभेत्यस्मादिति भीमो भयङ्करः । ध्वान्तः, अन्धकारसदृशः, ध्वनति शब्दं करोतीति वा ध्वान्तः । धुनिः धूनयति कम्पयति यः सः । सासह्वान् असत्यार्थानामभिभविता, सहते शत्रूनभिभवति यः स सासह्वान्, क्वसुप्रत्ययः, संहितायां दीर्घः । अभियुक्ती -त्यभियुग्वा अस्मत्संमुखं योगं प्राप्नोतीत्यभियुग्वा, अभिपूर्वस्य युजेः क्वनिप्प्रत्ययः । विक्षिपो विक्षेपणकारी, विविधं क्षिपति रिपून् वेति, ' इगुपध ' ( पा ० सू ० ३ | १ | १३५ ) इति कप्रत्ययः । परस्परसमुच्चयार्थाश्चकाराः । अध्यात्मपक्षे - परमेश्वरः शिव एव तत्तद्गुणविशिष्ट उग्रादिशब्दैर्बोध्यः । उद्गूर्णत्वात् स उग्रः । विमुखानां भयङ्करत्वाद्भीमः । प्रकाशरूपोऽपि तेषामन्धकारवद्भासमानत्वाद् ध्वान्तः । धुनिः खलानां कम्पयितृत्वात् । असतामभिभवितृत्वात् सासह्वान् । अभियोक्तृत्वादभियुग्वा । रिपूणां विक्षेपकत्वाद्विक्षिपः । एवंगुणविशिष्टभेदभिन्नेभ्यः स्वाहा सुहुतमस्तु । दयानन्दस्तु -- ' हे मनुष्याः! मरणं प्राप्तो जीवः स्वाहोग्रश्च विक्षिपो जायते ' इति, तदपि यत्किञ्चित् सम्बोधनादेनिर्मूलत्वात् मरणं प्राप्तो जीव उग्रो भवतीत्यादेर्निष्प्रमाणत्वात् । स्वाहा स्वकीया क्रियेत्यपि चिन्त्यम् ॥ ७ ॥
अ॒ग्निहृद॑येना॒शनि॑ हृदयाग्रेण पशुपतिं कृत्स्न॒ हृद॑येन मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तः परा॒व्येना॒ग्रं दे॒वं व॑नि॒ष्ठुन मन्त्रार्थ - अग्नि को मैं हृदय के द्वारा प्रसन्न करता हूँ । अशनि देव को हृदयाग्र से, पशुपति को सारे हृदय से, भव को कालखण्ड से, शर्व को मतस्ना नामक हृदयस्थल से, ईशान देवता को क्रोध से, उम्र देवता को बड़ी आँत से और शिंगी नामक देवताओं को हृदयकोषस्थित मांसपिण्ड से
पृष्ठ 603
पाठ पढ़ें पाठ छिपाएँ
२२० शुक्लयजुर्वेद संहिता [ अ ० ३ ९ तत्रत्य एवर्षिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् ' ( ४।८ ) इत्यनुक्रमणी । आ अध्यायपरिसमाप्ते-राश्वमेधिका मन्त्राः । अरण्येऽध्येयत्वसामान्यादिहाम्नाताः । तत्रापि - ' अग्नि हृदयेन, उग्रं लोहितेन ' srafsh ब्राह्मणरूपे । देवताश्वावयवसम्बन्धविधान ल्लोमादीन्यङ्गान्येव, आयासादयो देवता एव । मन्त्रार्थस्तु - अग्नि देवं हृदयेन अश्वसम्बन्धिना हृदयाख्येनावयवेन प्रीणामि तोषयामि । अशनिम् अशनिरूपां देवतां हृदयाग्रेण हृदयस्याग्रदेशेन प्रीणामि तोषयामि । पशूनां पति पालकं देवं कृत्स्नहृदयेन सकलेन हृदयेन प्रीणामि । यक्ता यकृन्नाम पशौर्हृदयसमीपवति कालखण्डाख्यं मांसम् तेन भवं देवं प्रीणामि, ' पन्नो ' ( पा ० सू ० ६।१।६३ ) इति यकृच्छब्दस्य यकन्नादेशः । मतस्ने हृदयास्थिविशेषौ ताभ्यां शवं देवं प्रीणामि । मन्युनाऽश्वक्रोधेन ईशानं देवं प्रीणामि । अन्तःपर्शव्येन, पर्शवः पार्श्वास्थिीनि तेष्वन्तर्वर्तमानेन पार्श्वास्थिसम्बन्धिना मांसेन महादेवं प्रीणामि । वनिष्ठुः स्थूलान्त्रम् तेनोग्रं देवं प्रीणामि । वसिष्ठ हनुर्वसिष्ठस्य देवस्य हनुः कपोलाधोदेशः, यद्वा वसिष्ठो यो हनुः कपोलाधोदेशः, ' तत्परो हनु: ' ( २२६ ९ ० ) इत्यमरवचनात्, तत्परः कपोलाधोभागस्थो हन्त्याहारमिति हनुः, लिङ्गव्यत्ययः, अतिशयेन वासयिता वसिष्ठ आहारस्तद्धननशीलो वा, तेन । कोश्याभ्यां च कोशो हृदयकोशः, तत्स्थाभ्यां मांसपिण्डाभ्यां च शिङ्गीनि दैवतानि प्रीणामि । अध्यात्मपक्षे --- द्रव्यं देवताश्च सर्वं ब्रह्मैवेति भावनया तत्तद्रव्यैस्तेषां देवानां प्रीणनं महते श्रेयसेऽव-कल्प्यते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु – ' हे मनुष्याः, ये ते मृता जीवास्ते हृदयेनाग्नि हृदयाग्रेणाशन कोश्याभ्यां शिङ्गीनि प्राप्नुवन्तीति विजानीत ' इति, तदपि न, सम्बोधनादेर्निर्मूलत्वात्, मृतानां हृदयादिसहितस्य देहस्य दग्धत्वात् कथं ते तैरग्न्यादिकं प्राप्नुवन्ति । किञ्च मृतानां कृत्स्नहृदयेनैव परमेश्वरप्राप्तिः स्यात्, तदा कृतमुपासनादिभिः । तस्मात् सर्वं निरर्थकमेव ॥ ८ ॥
उ॒ग्रं लो हि॑तेन मि॒त्रधि॑ सौव्रत्येन रुद्रं व॑त्य॒नेन्द्र प्रक्रीडेन॑ म॒रुतो बलेन सा॒ध्यान् प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्च॑ रु॒द्रस्या॑न्त पा॒श्र्व्यं म॑हादे॒वस्य॒ यवृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑श॒पते॑ः पुरो॒तत् ॥ ९ ॥
मन्त्रार्थ-- उग्र देवता को लोहित से, मित्र देवता को शुभ कर्मों के अनुष्ठान से, रुद्र देवता को शिष्यताड़न आदि अशोभन कार्यों से, इन्द्र देवता को क्रीड़ाओं से, मरुत् देवताओं को बल से, साध्य देवताओं को हर्ष से, भव देवता को कण्ठ के मांस से, रुद्र देवता को पसलियों के मांस से, महादेव को कालखण्ड से, शवं देवता को बड़ी आंत से और पशुपति देवता को पुरीतत् स्थित मांसखण्ड से सन्तुष्ट करता हूँ ॥ ९ ॥
उग्रम् उग्राख्यं देवं लोहितेन अप्संबन्धिना रुधिरेण मित्रं मित्राख्यं सर्वस्यानुकूलं देवं शोभनं व्रतं गत्यादिकर्म यस्य स सुव्रतः, सुव्रतस्य भावः सौव्रत्यम्, तेन शोभनगत्यादिकर्तृत्वेन प्रीणामि । रुद्रं देवं दौर्व्रत्येन दुष्टं स्खलनोच्छलनादि व्रतं यस्य स दुर्व्रतस्तस्य भावो दौर्प्रत्यम्, तेन प्रीणामि । इन्द्रं देवं प्रक्रीडेन प्रक्रीडनमश्वस्य विहारस्तेन प्रीणामि । मरुतो मरुत्संज्ञान् देवान् बलेनाश्वसंबन्धिना सामर्थ्येन प्रीणामि । साध्यान् देवान् प्रमुदा प्रकृष्टा मुत् प्रमुत्, तया प्रीणामि । भवस्य कण्ठ्यम्, अत्र षष्ठ्यन्तो देवः प्रथमान्तमङ्गम्, कण्ठे भव कण्ठ्यं पिशितं भवस्य सम्बन्धि, तेन भवं प्रीणामीत्यर्थः । पार्श्वस्यान्तर्मध्ये भवं पिशितमन्तः पार्थ्यम्,
पृष्ठ 604
पाठ पढ़ें पाठ छिपाएँ
म ० वेदार्थ पारिजातभाष्यसहिता २२१ तद्रुद्रस्यास्तु तेन रुद्रं प्रीणामि । यकृत् कालखण्डं महादेवस्य महादेवसम्बन्धि । वनिष्ठुः स्थूलान्त्रं शर्वस्यास्तु | पुरीतद् हृदयाच्छादकमन्त्रं पशुपतेरस्तु, हृदयपुण्डरीकमेव वा पुरीतत् । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - हे मनुष्याः! गर्भाशयस्था जीवा बाह्या वा लोहितेनोग्रं सौव्रत्येन मित्रं दौर्व्रत्येन रुद्रं प्रक्रीडिनमिन्द्रं बलेन मरुतः शर्वस्य वनिष्ठं पशुपतेः प्राप्नुवन्ति ' इति, तदपि यत्किञ्चित्, व्यभिचारात्, लोहिते सत्यपि केषाञ्चिदुग्रत्वादर्शनात् पार्थेन महादेवस्य यकृता सर्वस्य पशुरक्षकस्य पुरीतता कः सम्बन्ध इत्यनिरूपणात् ॥ ९ ॥
लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ स्व॒चे स्वाहा॑ त्व॒चे स्वाहा लोहि॑ताय॒ स्वाहा लोहि॑ताय॒ स्वाहा॒ मेदा॑भ्यः॒ स्वाहा॒ मेदा॑भ्यः॒ स्वाहा॑ । आ॒ध॑सेभ्यः॒ स्वाहा॑ माध॑सेभ्यः॒ स्वाहा॒ स्नाव॑भ्य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ऽस्थभ्यः॒: स्वाहा॑हा॒ऽस्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ । रेत॑ते॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥ १० ॥
मन्त्रार्थ - मैं समष्टि लोमों के लिये श्रेष्ठ आहुति देता हूँ, व्यष्टि लोमों के लिये, समष्टि त्वचा के लिये, व्यष्टि त्वचा के लिये, समष्टि रुधिर के लिये, व्यष्टि घर के लिये समष्टि मेदा के लिये, व्यष्टि मेदा के लिये, समष्टि मांस के लिये, व्यष्टि मांस के लिये समष्टि नसों के लिये, व्यष्टि नसों के लिये समष्टि अस्थियों के लिये, व्यष्टि अस्थियों के लिये, समष्टि मज्जा के लिये, व्यष्टि मज्जा के लिये, वीर्य के लिये और पायु इन्द्रिय के लिये में यह श्रेष्ट आहुति समर्पित करता हूँ ॥ १० ॥
लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् । लोमभ्यो रोमभ्योऽश्वसम्बन्धिभ्यस्तदभिमानिदेवतायै स्वाहा सुहुतमस्तु । सर्वेषां सकलावयवव्यापिनां रोम्णां परिग्रहार्थं द्विरुक्तिः । लोमान्यङ्गान्येवेति रीत्या तु लोमानि जुहोमीत्येवार्थः । त्वचे, लोहिताय, मेदोभ्यो रुधिरान्तर्वर्तिमांसच्छादको धातुर्वेदस्तस्मै, मांसेभ्यो मेदोऽन्तर्वर्तीनि मांसानि तेभ्यः, स्नावभ्यो मांसान्तर्वर्तिनः शिराविशेषाः स्नायव स्तेभ्यः, अस्थभ्यः स्नाय्वन्त-वर्तीनि अस्थीनि, ' छन्दस्यपि दृश्यते ' ( पा ० सू ० ७ १/७६ ) इत्यस्थिशब्दस्य हलादिविभक्तावप्यनङादेशः । मज्जभ्यः, अस्थ्नामन्तर्गता मज्जानस्तेभ्यः । एतदन्तं द्विरुक्तिः । रेतसे रेतो वीर्यम् । ततोऽप्यान्तरं पायवे अश्वसम्बन्धि गुदं पायुस्तस्मै । एवं केषाञ्चिद्रीत्या एषामङ्गानां होमः । केषाद्रिीत्या अश्वाङ्गाभिमानिनां देवानां होममन्त्राः । अध्यात्मपक्षे – अश्वाङ्गानां तदभिमानिनां देवानां वा पारम्पर्येण ब्रह्मकार्यत्वाद् ब्रह्मरूपत्वमनुसन्धेयम् । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - मनुष्यैः प्रेतक्रियायां घृतादेर्लोमभ्यः स्वाहा " पायवे स्वाहा सततं प्रयोज्या ' इति, तदपि यत्किञ्चित्, मृतानां देहावयवेभ्यः किं प्रयोजनमित्यनुक्तेः । किमिदं जडाभ्यर्चनं मूर्तिपूजनमिव त्वद्दृष्ट्या नापसिद्धान्तानुसरणम्? ॥ १० ॥
पृष्ठ 605
पाठ पढ़ें पाठ छिपाएँ
२२२ शुक्लयजुर्वेदसंहिता [ अ ० ३ ९ आय॒साय॒ स्वाहा॑ प्राय॒साय॒ स्वाहा॑ संग्रासाय॒ स्वाहा॑ विद्य॒साय॒ स्वाहा॑द्यासाय॒ स्वाहा॑ । शु॒चे स्वाहा शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥ ११ ॥
मन्त्रार्थ- - आयास देवता के लिये, प्रायास के लिये, संयास के लिये वियास और उद्यास के लिये शुचि के लिये, शोचत् के लिये, शोचमान और शोक के लिये मैं यह श्रेष्ठ आहुति देता हूँ ॥ ११ ॥।
आयासादयो देवविशेषाः । आयासाय स्वाहा, प्रायासाय स्वाहा, संयासाय स्वाहा, वियासाय स्वाहा, उद्यासाय स्वाहा, शुचे शोचते शोच्यमानाय शोकाय स्वाहा । यद्वा आयासः श्रमस्तस्मै अश्वसम्बन्धिने, प्रकृष्ट आयासः प्रायासः, संयासः प्रयत्नः, ' यसु प्रयत्ने ' इत्यस्माद् घञि रूपम् । विविधं यसनं प्रयत्नो वियासः, उत्कटं संयसनं सम्यक् प्रयत्नः । शुचे शोचनाय शीचते शोचनं कुर्वते, शोचमानाय शोकाय संज्ञपनजन्याय अन्तस्तापाय स्वाहा । अध्यात्मपक्षे – आयासप्रयासादयो भगवत्प्राप्तिसम्बन्धिनः पूज्या भवन्तीति तेभ्योऽपि स्वाहाकारेण सम्मानम् । दयानन्दस्तु – ' हे मनुष्याः! यूयमायासाय स्वाहा ' ' शोकाय स्वाहा प्रयुध्वम् ' इति, तदपि यत्किश्चित्, किमर्थं स्वाहाकारः प्रयोक्तव्य इत्यनुक्तेः ॥ ११ ॥
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ । निष्कृ॑त्य॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ १२ ॥
मन्त्रार्थ- -तप के लिये, तपकर्ता के लिये, तप्यमान और तप्त के लिये, धर्म के लिये, निष्कृति के लिये, प्रायश्चित्त के लिये और औषध के लिये मैं यह श्रेष्ठ आहुति समर्पित करता हूँ ॥ १२ ॥
तपसे, तप्यते 1 तप्यमानाय, तप्ताय घर्माय । विषयीक्रियमाणाय, तप्यमानाय सन्तप्यमानाय, तप्ताय समापनं निष्कृतिस्तस्यै, प्रायश्चित्त्यै प्रायो वैकल्यम्, तस्य रूपदोषस्य चिकित्सा भेषजम्, तस्मै स्वाहा सुहुतमस्तु । निष्कृत्यै, प्रायश्चित्त्यै भेषजाय । तपसे तापेन संतापेन विषयीक्रियमाणाय, निष्कृत्यै निःशेषेण करणं चित्तिः समाधानम्, तस्यै । भेषजाय अयथावदनुष्ठान-अध्यात्मपक्षे -- परमपुरुषार्थभगवत्पदप्राप्तिमूलानां तपआदीनां देवतारूपत्वात् तेभ्यः सुहुतं शुभावहमेव । दयानन्दस्तु – --- ' मनुष्यैस्तपसे स्वाहा भेषजाय स्वाहा निरन्तरं प्रयोक्तव्या ' इति, तदपि यत्किचित् प्रयोजनन्तरा तत्प्रयोज्यस्योन्मत्तचेष्टितत्वात् ॥ १२ ॥
य॒माय॒ स्वाहाऽन्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑ ब्रह्म॒ह॒त्यायै॒ स्वाहा॑ ॥ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा द्यावा॑पृथि॒वीभ्यः॒ स्वाहा॑ ॥ १३ ॥
॥ इत्येकीनचत्वारिंशोऽध्यायः ॥ मन्त्रार्थ - यम के लिये, अन्तक के लिये, मृत्यु के लिये, ब्रह्म के लिये, ब्रह्महत्या के लिये विश्वेदेव देवताओं के लिये और द्यावापृथिवी देवताओं के लिये मैं यह श्रेष्ठ आहुति समर्पित करता हूँ ॥ १३ ॥
पृष्ठ 606
पाठ पढ़ें पाठ छिपाएँ
म ० १३ ] वैदार्थपारिजात भाष्यसहिता २२३ यमाय अन्तकाय, मृत्यवे, ब्रह्मणे, ब्रह्महत्यायै, विश्वेभ्यो देवेभ्यः - एतेभ्यो देवेभ्यः सुहुतमस्तु । एता आहुतीर्हत्वा द्यावापृथिवीभ्यां स्वाहेत्यन्तामाहुति जुहुयात् । यच्छतीति यमो वैवस्वतस्तस्मै, अन्तकाय विनाशकाय, मृत्यवे मारयित्रे, ब्रह्महत्यायै ब्रह्मननरूपायै क्रियायै, विश्वेभ्यो देवेभ्यः । किमनया देवानां परिगणनया सर्वेभ्यो देवेभ्यः स्वाहा सुहुतमिदमस्तु सर्वेषां देवानामावासभूताभ्यां स्वाहा सुहृतमस्तु अध्यात्मपक्षे- - यमाय नियन्त्रे परमेश्वराय स्वाहा, अन्तकाय संहारकर्त्रे परमेश्वराय, मृत्यवे मृत्युरूपाय मृत्य्वन्तर्यामिणे परमात्मने । ब्रह्महत्यायै तदन्तर्यामिरूपाय । विश्वेभ्योऽखिलेभ्यो देवेभ्यः सर्वदेवान्तर्यामिणे परमात्मने । द्यावापृथिवीभ्यां तदन्तर्यामिणे परमात्मने स्वाहा सुहुतं सर्वमिदमहं च सुहुतमस्तु, ' अहमेवाहं मां जुहोमि ' ( त्रि ० म ० ना ० ८ ३ ) इति श्रुतेः । दयानन्दस्तु -- ' यमाय नियन्त्रे न्यायाधीशाय द्यावापृथिवीभ्यां सूर्यभूमिशोधनाय स्वाहा प्रयुध्वम् ' इति, तदपि यत्किञ्चित्, तेभ्यस्तेभ्यो जडेभ्योऽजडेभ्यः स्वाहाकारप्रयोगस्य प्रयोजनानुक्तेः । न च सूर्यभूमि-शोधनाय स्वाहाकारप्रयोग इति वाच्यम्, स्वाहाकारशब्दप्रयोगेण तदसम्भवात् । न च घृतचन्दनाहुत्यापि तच्छोधनं सम्भवति, चन्दनबिन्दुना समुद्रशोधनादर्शनात् । तस्मादुन्मादविलसितमेव तत् । सिद्धान्ते तु मन्त्रैराहुति -विधानेऽदृष्टातिशयाभ्युपगमान्नानुपपन्नं किञ्चित् । न च तवापि तदभ्युपगमः, अपसिद्धान्तापातात् ॥ १३ ॥
॥ इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातमाष्यमण्डितायाम् ऊनचत्वारिंशोऽध्यायः ॥