वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 591–600
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 591–600
पृष्ठ 591
पाठ पढ़ें पाठ छिपाएँ
२०८ शुक्लयजुर्वेदसंहिता [ अ ० ३८ अचि॑िक्रदद वृषा॒ हरि॑म॒हान्मि॒त्रो न द॑श॒तः । सधैँ सूर्येण विद्युतदुदधिनिधिः ॥ २२ ॥
मन्त्रार्थ---- प्रभासम्पन्न, मित्र के समान दर्शनीय, निज किरणों की वर्षा करने वाला सूर्यदेव विशेष रूप से प्रकाशित होता है । जल का धर्ता, निधियों का स्वामी समुद्र सूर्य रूप से प्रकाशित होता है ॥ २२ ॥
त्रिः परिषिच्याचिक्रददिति ' ( का ० श्र ० २६ / ७ / ९ ) । सामगानानन्तरमुत्सादनदेशे परिषिच्य अचिक्र -ददिति मन्त्रेण धर्मं सूर्यात्मना स्तौति । परोष्णिक्, घर्मदेवत्या । धर्मः सूर्यात्मना स्तूयते - वर्षतीति वृषा, आहुतिद्वारेण वृष्टिकर्ता धर्मः प्रवृज्यमानः सन् अचिक्रदत्, ' क्रदि शब्दे ' पुनः पुनः शब्दं करोति । कीदृशो धर्मः? हरिः, हरितवर्णो रसानां हर्ता वा हरिः, ' अथाह वार्षाहर " साम गायेति । एष वृषा हरियं एष तपत्येष उ प्रवर्ग्यस्ततमेवैतत्प्रीणाति ' ( श ० १४ | ३ | १ २६ ) इति श्रुतेः । परिषेचने क्रियमाणे प्रस्तोतारं प्रति सामगानार्थं हे प्रस्तोतः! गायेति प्रेषः । तदेतत् स्तौति - एष खलु सूर्यो वृषाहरिः, वर्षणाद् रसहरणाच्च । एष एव प्रवर्ग्यः । महान् प्रभावान् । मित्रो न दर्शतः, न उपमार्थकः, मित्र इव दर्शनीयः । अत एव सूर्येण सह संदिद्युतत् सूर्य तुल्यो द्योतते, तेलुङि णिजन्तस्य रूपमडभावश्च सूर्यवत् सर्वं द्योतयति । उदकं धीयते यस्मिन् स उदधिः, जलस्य धर्ता, निधिः सुखानामिति शेषः । अध्यात्मपक्षे - एष वृषा ज्ञानामृतं वर्षति, हरति दुःखमयं संसारमिति हरिः । तादृशो धर्मः, अचिक्रदद् अतिशयेन शब्दं करोति, वेदवेदान्तादिशास्त्रमूलकत्वाद् ज्ञानयज्ञस्य । स च महान् महद्ब्रह्मविषयत्वात् । मित्रो दर्शनीयः, उदधिर्ज्ञानामृतं जलनिधिश्व सुखानाम् 1 दयानन्दस्तु हे मनुष्याः! यो वृषा हरिर्महानचिक्रदत्, मित्रो न दर्शतः सूर्येण सह उदधिर्निधिरिव संदिद्युतत् स एव विद्रूपोऽग्निः सर्वैः संप्रयोज्यः ' इति, तदपि न, संबोधनस्य निर्मूलत्वात्, निर्मूलाध्याहाराच्च । उदधिनिधिरित्यनयोः समुद्राकाशार्थत्वे वृषादिभिः सामानाधिकरण्यानुपपत्तेश्च ॥ २४ ॥
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुमि॑त्र॒यास्तस्मै॑ सन्तु॒ यो॑ ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्विष्मः ॥ २३ ॥
मन्त्रार्थ - जलदेवता और औषधियाँ हमारे श्रेष्ठ मित्र हों । जो काम हमारे प्रतिकूल होता है और जिस कार्य को हम शत्रुदृष्टि से देखते हैं, उसके लिये ये शत्रुरूप हों ॥ २३ ॥
' चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति ' ( का ० श्र ० २६ | ७ | २८ ) । सपत्नीका ऋत्विग्यजमाना चात्वाले मार्जनं कुर्वते सुमित्रिया न इति मन्त्रेणेत्यर्थः । नोऽस्मदर्थम्, आप ओषधयश्च सुमित्रियाः साघुमित्रत्वेन स्थिताः सन्तु । योऽस्मान् द्वेष्टि यं च वयं द्विष्मः, तस्मै उभयात्मकाय शत्रवे ता दुर्मित्रिया अमित्रत्वेनावस्थिताः सन्तु । ( ६।२२ ) इत्यत्र व्याख्याता । ' अथ चात्वाले मार्जयन्ते । सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाऽऽप उपाचति वत्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते — ' योऽस्मान् द्वेष्टि यामस्य दिशं द्वेष्यः स्यात् तां दिशं परासिवेत्तेनैव तं पराभावयति ' ( श ० १४ । ३ । १ । २७ ) इति श्रुतिरस्मिन्नर्थे प्रमाणम् ॥ २३ ॥
उद्व॒यं तम॑स॒स्परि॒ स्व॒ पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ २४ ॥
पृष्ठ 592
पाठ पढ़ें पाठ छिपाएँ
म ० २४–२६ ] वेदार्थपारिजातभाष्यसहिता २०१ मन्त्रार्थं - अन्धकारमय लोक से परे परम श्रेष्ठ स्वर्ग लोक को देखते हुए, देवलोक में सूर्यदेवता को देखते हुए हम श्रेष्ठ ब्रह्मज्योति को प्राप्त करते हैं ॥ २४ ॥
' उद्वयमित्युत्क्रामत्युत्तरपूर्वार्द्धम् ' ( का ० श्र ० २६/७/२८ ) ऐशानीं दिशं प्रति यजमानो गच्छतीत्यर्थः । वयं तमसः परि तमसः सकाशात् तमोबहुलादस्माल्लोकात्, उदगन्म उद्गता निर्गताः । कीदृशा वयम्? उत्तरम् उत्कृष्टतरं स्वः स्वर्गं लोकं पश्यन्तः, देवत्रा देवलोके सूर्यं देवं पश्यन्तः, उत्तमं ज्योतिर्ब्रह्मरूपम्, उदगन्म प्राप्ताः । ( २०/२१ ) इत्यत्र व्याख्याता । अत्र ब्राह्मणम् -'उद्वयं तमसस्परीति पाप्मा वै तमः पाप्मानमेव तमोऽपहते स्वः पश्यन्त उत्तरमित्ययं वै
लोकोऽय उत्तरोऽस्मिन्नेव लोके प्रतितिष्ठति ' ( श ० १४ । ३ । १ । २८ ) इति ॥ २४ ॥
एर्धोऽस्येधिष॒महि॑ स॒मद॑सि॒ तेजोऽसि॒ तेज॒ मयि॑ धेहि ॥ २५ ॥
मन्त्रार्थ - आहुति के निमित्त समिधा उठाते हुए यजमान कहता है कि हे समित्काष्ठ! तुम प्रकाश देने वाले हो, अनुग्रह करके हमारे धन - धान्य की वृद्धि करो । समिधा को आहवनीय में छोड़ने को उद्यत होकर कहे कि हे समित्काष्ठ, तुम
पूर्ण प्रकाश करने वाले हो, तुम तेजःस्वरूप हो । मुझमें तेज का आधान करो ॥ २५ ॥
' अनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति ' ( का ० श्र ० २६ | ७ | २८ ) । यजमानः पश्चादनवलोकयन्नीशानदेशादेत्यैधोऽसीति मन्त्रेणैकां समिधं गृहीत्वा समिदसीति मन्त्रेणाहवनीये दधातीत्यर्थः । हे समित्! त्वमेधः एधयति दीपयत्यग्निमिति समिद्दीपिकाऽसि । वयं त्वत्प्रसादाद् एधिषीमहि धनधान्या-दिभिवृद्धि व्याप्नुयाम | तेजश्चासि, अतो मयि विषये तेजो धेहि धारय । २० । २३ इत्यत्र व्याख्याता ॥ २५ ॥
याव॑ति॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒िरे ।
ताव॑न्त॒मिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णाम्ययक्षतं॒ मयि॑ गृह्णाम्यक्षितम् ॥ २६ ॥
मन्त्रार्थ - हे इन्द्रदेव! पृथ्वी और स्वर्ग का जितना विस्तार है, जिस परिमाण वाले देश में सात समुद्र स्थित उस परिमाण वाले आपके कभी क्षीण न होने वाले ग्रह को अन्न के साथ में ग्रहण करता हूँ । ऐसा करने से वह हैं, क्षीण नहीं होगा, इसलिये मैं उसका ग्रहण करता हूँ ॥ २६ ॥ मुझसे कभी
' यावती द्यावापृथिवी इति दधिधर्मग्रहणम् ' ( का ० श्री ० २६ | ७ | ३८ ) । सपवित्रायामग्निहोत्रहवण्यां दधिधर्म गृह्णातीत्यर्थः । ब्राह्मी उष्णिक्, दधिघर्मदेवत्या, इन्द्रदेवत्या च । हे इन्द्र! ऊर्जा अन्नेन सह अक्षित -मनुपक्षीणं ते तव ग्रहं तावन्तं तत्परिमाणमहं गृह्णामि, मयि च अक्षितं यथा स्यात्तथा गृह्णामि ग्रहग्रहणेन मयि यज्ञक्षयो मास्त्वित्यर्थः । तावन्तं कियन्तम्? द्यावापृथिवी यावती द्यावाभूमी यावत्परिमाणे । तव च पुनः । सप्त सिन्धवः क्षीरोदाद्याः सप्त समुद्रायावत्परिमाणे देशे वितस्थिरे विशेषेण स्थिताः, तावन्तमति- । महत्तरं दधिघमं गृह्णामीत्यर्थः । अत्र ब्राह्मणम् -'अथ प्रसुते दधिघर्मेण चरन्ति ( श ० १४ । ३ । १ । २ ९ ) । अथ दधिघर्माख्यं यागं विधत्ते - तप्तदधिद्रव्यकेण दधिघर्माख्येन यागेनाध्वर्युप्रभृतयश्चरन्ति सौत्येऽहनि कर्तव्यं २७ । एतत् खलु सवन-
पृष्ठ 593
पाठ पढ़ें पाठ छिपाएँ
२१० शुक्लयजुर्वेदसं हिता | अ ० ३८ एव भागभूते मिन्द्रस्य निष्कैवलम्, केवलमिन्द्रस्यैव निष्कृष्य स्वभूतं माध्यन्दिनं सवनम् । अतस्तेन स्वकीय सवने एनमिन्द्रं प्रीणाति । सिन्धवो वितस्थिरे अध्यात्मपक्षे - हे इन्द्र परमैश्वर्यवन् परमेश्वर! यावती द्यावापृथिवी गृह्णामि यावच्च । अक्षितमक्षीणं सप्त यथा स्यात्तथा व्याप्नुवन्ति तावन्तं तावत्परिमाणं ते तव ग्रहमूर्जाऽनेन सदाऽहं गृह्णामि । , तावन्तमक्षितग्रहभूर्जाऽहं दयानन्दस्तु – हे इन्द्र! ते यावती द्यावापृथिवी यावच्च सप्त ग्रहपदस्य सिन्धवो सामर्थ्यार्थत्वे वितस्थिरे मानाभावात् । न च गृह्णामि, तावन्तमक्षितमहं मयि गृह्णामि ' इति, तदप्यसत्, । न च यावदीश्वरसामर्थ्यमस्ति तदनीश्वरे सामर्थ्यमेव ग्रहणसाधनम्, सोमग्रहाणामपि ग्रहणसाधनत्वप्रसिद्धेः २६ ॥ जीवे स्थापयितुं शक्यम्, घटे समुद्रधारणसामर्थ्याभावात् ॥ मा॑य॒ त्यदि॑न्द्रि॒यं बृहन्मा॑य॒ दक्षॊ मय॒ क्रत॑ः । " घ॒र्मंस्त्रि॒शुग् वि रा॑जति वि॒राजो॒ ज्योति॑षा स॒ह॒ ब्रह्म॑णा॒ तेज॑सा स॒ह ॥ २७ ॥
वह समष्टि प्राण, महान् मन्त्रार्थ - तीन प्रकार की दीप्ति वाला धर्म विराट् ज्योति के साथ मुझमें विराजमान है । विराजमान है ॥ २७ ॥
बल मुझमें विराजमान है । सब प्रकार की संकल्प - सिद्धि मुझमें सोपहवं भक्षयन्ती-' मयि त्यदिति भक्षणम् ' ( का ० श्रौ ० २६।७।३८ ) हुतशेषं दधिघमं यजमानत्विजः केचित् । त्यत् तद् बृहद् महद् त्यर्थः । पङ्क्तिः, अष्टाक्षरपञ्चपादा, दधिधर्मदेवत्या । यजमानाशीर्देवतेति, अस्तु । क्रतुः सत्संकल्पो मयि इन्द्रियं वीर्यं मयि विराजति विराजतु लकारव्यत्ययः । दक्षः सकल्पसंपत्तिः आदित्याख्येन सह ब्रह्मणा त्रयीलक्षणेन विराजतु । विराजा विशेषेण राजते यस्तेन जगत्प्रसिद्धेन ज्योतिषा धर्म:? त्रिशुक्, तिस्रः शुचो दीप्तयो यस्य सः । ज्योतिषा च सह घर्मो महावीरो मयि विराजतु । कीदृशो उपहवमिष्ट्वा भक्षयति । मयि त्यदिन्द्रियं... ता ' या ते धर्म दिव्या शुक् ' ( ३८ | १८ ) इत्यत्र दर्शिताः, ' स धत्ते " घर्मो ह्येष त्रिशुग्विराजति विराजा ह्येष य एष तपति मयि दक्षो मयि क्रतुरिति क्रतूदक्षावेवात्मन् सूर्यस्तपति, एतत्खलु बृहत्परिवृढम् इन्द्रियं ज्योतिषा ( श ० १४ | ३ | १ | ३१ ) इति श्रुतेः । य एष खलु तावेवात्मनि धारयति, ' प्राणो वै यज्ञोऽपानः वीर्यात्मकम्, अत ईग्विधमिन्द्रियं मयि भवतु । क्रतुदक्षौ प्राणापानौ त्रिविधं शोचमानो वैद्युतपार्थिवसूर्यात्मना त्रेधा क्रतुः ' ( तै ० सं ० २५२ ) इति श्रुतेः । एष खलु घर्मश्विशुग्, ' अग्निर्देवानां ज्योतिर्विराट् छन्दसां ज्योतिः ' दीप्यमानो विराजति, छन्दसां मध्ये विराट् खलु ज्योतिस्तेजोरूपा सह एष घर्मो विराजते, तथा ब्रह्मणा ब्रह्मजात्या ( तै ० सं ० ७ १1१ ) इति श्रुतेः । अतो यथा विराजा ज्योतिषा पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये त्रयीरूपेण तेजसा सहः एष सूर्यात्मको घर्मो विराजति ' ऋग्भिः सू ० ता ० उ ० १।५ ) इति श्रुतेः । अह्नः । सामवेदेनास्तमये महीयते वेदैरशून्यस्त्रिभिरेति सूर्यः ॥ ' ( विराजतु । मयि दक्षो अध्यात्मपक्षे - हे परमेश्वर! त्यत् तत्, बृहद् महत्, इन्द्रियं वीर्यं ज्ञानयज्ञो मयि मयि विराजतु । स दाक्ष्यम्, क्रतुः शुभसंकल्पश्च भवतु | त्रिशुग् धर्मश्च कर्मोपासनज्ञानदीप्तियुक्तो प्रत्यक्चैतन्याभिन्नेन परमात्मना तेजसा निर्गुणेन विराजा विशेषेण राजमानेन सगुणेन ज्योतिषा ब्रह्मणा च सह विराजते ।
पृष्ठ 594
पाठ पढ़ें पाठ छिपाएँ
म ० २७-२८ ] वेदार्थं पारिजातभाष्यसहिता २११ दयानन्दस्तु - हे मनुष्याः, यथा विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह त्रिशुग् धर्मो विराजति, तथा मयि बृहत् त्यदिन्द्रियं मयि दक्षो मयि क्रतुर्विराजति, तथा युष्मासु स्वयं विराजताम् ' इति, तदपि न, संबोधनस्य निर्मूलत्वात्, घर्मशब्दस्य प्रताप इत्यर्थस्तु निर्मूल एव । यज्ञोऽपि न साधारणः, प्रवर्ग्याख्यस्यैव विवक्षितत्वात् । तथैव त्रिशुग् मृदुमध्यतीव्रा दीप्तय इत्यादि व्याख्यानं साहसमात्रम् श्रुतिविरुद्धत्वात् ॥ २७ ॥
पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरायं॒ समा॑म् 1 । त्विषः संवृक् क्रत्वे॒ दक्ष॑स्य॒ ते सुषुम्णस्य॑ ते सुषुम्णाग्निहुतः । इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥ २८ ॥
इत्यष्टात्रिशोऽध्यायः ॥ मन्त्रार्थ - जल के सार की मैं अग्नि में आहुति देता हूँ, उसकी पूर्णता के लिये मैं उत्तरोत्तर वर्ष को व्याप्त करता रहूँ । हे क्रान्ति के कर्ता सुखदाता धर्म! अग्नि में आहुति देने के साथ आपका आह्वान किया जाता है । संकल्प की सिद्धि के दाता सुखरूप इन्द्र तुम्हारा पान करते हैं, प्रजापति तुम्हारा भक्षण करते हैं । हें मधुर स्वाद वाले धर्म! देवताओं के निमित्त अर्पित तुम्हारे बने हुए अंश का मैं प्रसाद ग्रहण करता हूँ ॥ २८ ॥
गायत्र्यवसानहीना दधिधर्मभक्षण एव विनियुक्ता । पयसो रेतो वीर्यं सारं जगदुत्पत्तिबीजं यद् आभृतमाहृतं दधिधर्मरूपम्, तस्य दोहं प्रपूरणं वयमुत्तरामुत्तरां समामुत्तरोत्तरस्मिन् वर्षे अशीमहि व्याप्नुयाम, ' कालाध्वनो ' ( पा ० सू ० २२३५ ) इति द्वितीया, वयं सर्वदा यायजुकाः स्यामेत्यर्थः । ' त्विषः संवृगिति महाव्रतीये ' ( का ० श्र ० २६ | ७ | ३ ९ ) । महाव्रतीयेऽहनि त्विष इति मन्त्रेण हुतशेषदधिघर्मभक्षणं कार्यमित्यर्थः । अतिजगती दधिधर्मदेवत्या । संवृणक्ति स्वीकरोतीति संवृक् स्वीकर्ता, सम्पूर्वको वृद्धिः स्वीकरणार्थः । हे त्विषः संवृक् कान्तेः स्वीकर्तः! हे सुषुम्ण शोभनं सुम्नं सुखं यस्मात् तत्संबोधने हे सुखप्रद, हे दधिधर्म! अहमुपहूतः कृतोपहवः सन् ते तवांशं भक्षयामि कर्मणि षष्ठी वा त्वां भक्षयामि । एकस्ते शब्दः पादपूरणः । कीदृशस्य ते? क्रत्वे दक्षस्य, षष्ठ्यर्थे चतुर्थी, क्रतोः संकल्पस्य दक्षः सिद्धिदाता, तस्य संकल्पसिद्धिदातुः । क्रतुशब्दस्य चतुर्थ्येकवचने गुणाभाव आर्षः । तथा सुषुम्णस्य शोभनसुखभूतस्य । अग्निहुतः, अग्नौ हूयत इति अग्निहुत् तस्य अग्नौ हुतस्य । इन्द्रपीतस्य, इन्द्रेण पीतस्य भक्षितस्य । प्रजापतिभक्षितस्य प्रजापतिना भक्षितस्य । मधुमतो मधुरस्वादोपेतस्य । उपहृतस्य कृतोपहवस्य । एवंविधस्य तवांशं हे दधिधर्मं! अहं भक्षयामि । अत्र ब्राह्मणम् - ' पयसो रेत आभृतमिति पयसो ह्येतद्रेत आभृतं तस्य दोहमशीमयुत्तरामुत्तराध् समामित्याशिषमेवैतदाशास्ते ' ( श १४ | ३ | १ | ३१ ) इति । पयसः क्षीरसकाशात् खल्वेतद्रेतो वीर्यहेतुभूतं दधिघर्माख्यं हविः, आभृतं सम्पादितम् । दोहं दोहनीयं भोगमशीमहि प्राप्नुयाम । उत्तरामुत्तरां समाम् एतस्मिन् संवत्सर इव आगामिन्यपि सर्वस्मिन् संवत्सरे तत्प्राप्नुयामेति । आशिषमेव एतन्मन्त्रेण यजमान आशास्ते आशंसते । अध्यात्मपक्षे — प्रवर्ग्यान्तकर्मणां परमेश्वराराधनरूपत्वाद् यष्टारः प्रार्थयन्ते - हे दधिधर्माधिष्ठातृ देव! पयसः क्षीरस्य सकाशाद् दधिघर्माख्यं रेतो वीर्यं विश्वोत्पत्तिहेतुभूतं यद् आभृतमाहृतम्, तस्य दोहं प्रपूरणं वयमुत्तरामुत्तरां समामुत्तरोत्तरस्मिन् वर्षे अशीमहि व्याप्नुयाम । वयं सर्वदा यायजूकाः स्याम । हे त्विषः कान्तेः सर्वस्य प्रकाशस्य स्वीकर्त्तः! ज्योतिषामपि ज्योतिः परमेश्वर! हे सुषुम्ण शोभनसुखप्रापक दधि-घर्मान्तर्यामिन्! अहमुपहूतः कृतोपहवः सन् ते त्वदधिष्ठितमंशं भक्षयामि । कीदृशस्य ते? क्रत्वे दक्षस्य क्रतोः
पृष्ठ 595
पाठ पढ़ें पाठ छिपाएँ
२१२ शुक्लयजुर्वेद संहिता [ अ ० ३८ संकल्पस्य दक्षः सिद्धिदाता यस्तस्य संकल्पसिद्धिसम्पादकस्य । पुनः कीदृशस्य सुषुम्णस्य शोभनसुखदातुः । अग्निहुतोऽग्नौ हुतस्य, इन्द्रपीतस्य प्रजापतिभक्षितस्य, मधुमतो मधुरास्वादस्य, उपहूतस्य कृतोपहवस्य, तवांशं भक्षयामीत्यनुषङ्गः । दयानन्दस्तु – सुषुम्ण! यथा त्वया यस्य पयसो रेत आभृतम्, तस्य दोहमुत्तरामुत्तरां समां वय-मशीमहि । तस्य त्वे क्रत्वे त्विषो दक्षस्य त आभृतमशीमहि, सुषुम्णस्येन्द्रपीतस्य प्रजापतिभक्षितस्योपहूतस्य मधुमतः पयसो दोषान् संवृक् सन्नुपहतोऽग्निहुतोऽहं भक्षयामि ' इति, तदपि यत्किञ्चित्, विशृङ्खलत्वात् । रेतः-पदस्य पराक्रमार्थत्वं च निर्मूलमेव, तस्य बीजार्थत्वेन प्रसिद्धेः । न च पयसि जले पराक्रमो भवति, पराक्रमस्य चेतनधर्मत्वात् । न चान्यस्य पराक्रमोऽन्येन धारयितुं शक्यते । नान्येन पुष्टं धृतं वा वीर्यं पराक्रमं वा वयमशीमहि प्राप्नुयाम, तथा सामर्थ्यादर्शनात् । नहि रामेण संभृतं पुष्टं धृतं वा वीर्यं पराक्रमं वा तदन्यः कोऽपि प्राप्तुं शक्नोति । किं बहुना, हिन्दी भाषामयेन व्याख्यानेनापि न कश्चन स्पष्टोऽर्थो विज्ञातुं शक्यः । सुन्दर-सुखोपेतस्य क्रत्वे प्रज्ञायै प्रदीप्तस्य बलस्य किमित्यसंबद्धमेव । दक्षस्येति पदस्य आभृतमित्यनेन कथं सम्बन्धः । सुषुम्णस्य इन्द्रपीतस्य उपहूतस्य जलस्य दुग्धस्य मधुमतः के दोषाः? प्रजापतिना कथं दोषवत् तत्पीतम्? कथं च साधारणजनो दोषान् संवृत्ते? सर्वथापि मत्तप्रलपितमेवैतत् ॥ २८ ॥
इति श्रीशुक्लयजुर्वेदमाध्यन्दिनसंहितायां वेदार्थपारिजातमाध्यमण्डितायाम् अष्टात्रिंशोऽध्यायः ॥
पृष्ठ 596
पाठ पढ़ें पाठ छिपाएँ
एकोनचत्वारिंशोऽध्यायः स्वाहा॑ प्रा॒णेभ्य॒ः साधि॑पतिकेभ्यः । पृथि॒व्यै स्वाहा॑हा॒ग्नये स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ वायवे स्वाहा॑ । दिवे स्वाहा सूर्याय स्वाहा॑ ॥ १ ॥
मन्त्रार्थ - सर्वान्तर्यामी प्राणों के लिये अथवा सब प्राणियों के लिये यह आहुति समर्पित है । पृथ्वी के निमित्त, अग्नि के निमित्त अन्तरिक्ष के निमित्त वायु के निमित्त स्वर्ग के निमित्त और सूर्य के निमित्त यह आहुति समर्पित है ॥ १ ॥
प्रवर्ग्यं घर्मभेदे प्रायश्चित्तम् । तत्र - ' स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकृतिमिति ' ( का ० श्र ० २६ | ७ | ३३ ) । अस्यायमर्थः - अध्वर्युः ' भूमिर्भूमिम्, य ऋते चित् ' इति मन्त्राभ्यां भग्नं धर्ममभिमृश्य परमेष्ठ्यादिचतुस्त्रिशदाहुतीर्हत्वा, स्वाहा प्राणेभ्य इत्याद्यां पूर्णाहुति हुत्वा, पृथिव्यै स्वाहेत्याहुतिविर्शात सकृद्गृहीतेन हुत्वा, मनस इत्यन्त्यां पूर्णाहुति करोतीति । मन्त्रार्थस्तु - अधिपतिना हिरण्यगर्भेण सह वर्तमानेभ्यः साधिपतिकेभ्यः प्राणेभ्यः स्वाहा सुहुतमस्तु - इति पूर्णाहुतिमन्त्रः । ततो विशतिः स्पष्टार्था मन्त्राः । पृथिव्यै स्वाहा पृथिव्यै सुहुतमस्तु । अग्नये अन्तरिक्षाय वायवे दिवे सूर्याय स्वाहेत्यादि स्पष्टम् । अध्यात्मपक्षे – हिरण्यगर्भः समष्टिलिङ्गशरीराभिमानी, प्राणप्राधान्येन स सूत्रात्मा, बुद्धिप्राधान्येन हिरण्यगर्भः । तद्विभूतिभूता अन्ये देवा हिरण्यगर्भश्च परमेश्वरस्यैवावस्थाविशेषः । तेनाधिपतिना सह वर्तमानाः प्राणास्तद्विभूतिभूताः तेभ्यः स्वाहा सुहुतमस्तु । पृथिव्यादयोऽपि कारणब्रह्मविकारभूतत्वात् तद्रूपा एवातस्तेभ्यः सुहुतेन परमात्मा प्रसीदति । सर्वत्र तत्तदभिमानिनो देवा अन्तर्याम्येव वा समर्हणीयाः । दयानन्दस्तु - ' हे मनुष्याः! युष्माभिः साधिपतिकेभ्यः प्राणेभ्यः स्वाहा सत्यक्रिया, पृथिव्यै स्वाहा ' ' ' ' सूर्याय स्वाहा च यथावत् प्रयोज्या ' इति, तदपि यत्किञ्चित् त्वद्रीत्या पृथिव्यादिभ्यो जडेभ्यः स्वाहा सत्या वाक् किमर्थं प्रयोज्येत्यनुक्तेः । भावार्थस्तु सर्वथा मूलासंस्पर्शी प्रमाणविधुरत्वादुपेक्ष्य एव ॥ १ ॥
दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहाऽधः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ । नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ॥ २ ॥
1 मन्त्रार्थ --- दिशाओं के लिये, चन्द्रमा के लिये, नक्षत्रों के लिये, जल के अधिपति देवताओं के लिये, वरुण के लिये, विष्णु की नाभि के लिये और प्रजापति के लिये यह श्रेष्ठ आहुति समर्पित है ॥ २ ॥
दिग्भ्यः स्वाहा, चन्द्राय नक्षत्रेभ्यः स्वाहा, अद्भूयो वरुणाय नाभ्यै देवतायै, पूताय, पुनातीति पूतः, पावित्र्य सम्पादयित्रे देवाय स्वाहा ।
पृष्ठ 597
पाठ पढ़ें पाठ छिपाएँ
२१४ शुक्लयजुर्वेदसंहिता [ अ ०.३ ९ अध्यात्मपक्षे - दिगादयो देवाः परमात्मविकाररूपाः । तद्द्वारा परमात्मन एव आहुत्या समर्हणम् । दयानन्दस्तु - ' हे मनुष्याः! यूयं शरीरस्य दाहे दिग्भ्यः स्वाहा, चन्द्राय स्वाहा पूताय स्वाहा त्यां क्रियां सम्प्रयुध्वम् ' इति, तदपि यत्किञ्चित् निर्मूलत्वात् मन्त्राणां मृतानां शरीरदाहे विनियोगस्य श्रुति-सूत्रादिभिर्दर्शनीयत्वात् । सूत्राणि तु घर्मभेदे प्रायश्चित्तशेषत्वमेषां मन्त्राणां प्रतिपादयन्ति । श्रुत्यारूढत्वात्तु तदेव युक्तम्, ' सर्वेषां वा एष भूतानाम् । सर्वेषां देवानामात्मा यद्यज्ञस्तस्य समृद्धिमनु यजमानः प्रजया पशुभि -ऋद्धते वि वा एष प्रजया पशुभिर्ऋद्धयते यस्य धर्मो विदीर्यते तत्र प्रायश्चित्ति: ' ( श ० १४।३।२१ ) इति श्रुतेः । अयं यज्ञः सर्वेषां भूतानां मनुष्यपश्वादीनां सर्वेषामिन्द्रादीनां च आत्मा स्वरूपम्, यज्ञक्रियापरिणामत्वात् तेषाम्, ' अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ' ( म ० स्मृ ० ३।७६ ) इति स्मृतेः । तथाविधस्य यज्ञस्य समृद्धिमनु यजमानस्तत्फलभूतैः प्रजादिभिर्ऋध्नोति । यस्य यजमानस्य यज्ञे धर्मो महावीरो विदीर्यते भिद्यते स एष यजमानो यज्ञाङ्गवैकल्येन समृद्ध्यभावात् स्वयमपि वृद्धयते ऋद्धि-भवति । तेन तत्प्रायश्चित्तं कुर्यात् । कात्यायनेनापि तथैवोक्तम् - ' घर्मभेदे यथोक्तम्, उखावच्चान्यं कुर्यात्, अभिन्नेन चरेत्, स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति ' ( का ० श्रौ ० २६ / ७ / ३०-३३ ) । अस्यायमर्थः -- प्रचरणीयस्य महावीरस्य भेदे सति तं संपिष्य अन्यया मृदा संसृज्य अन्यं महावीरं पूर्ववत् कुर्यादिति । ' अथ तं चोपशयां च पिष्ट्वा । मानया मृदा ससृज्यावृता करोत्यावृता पचत्युत्सादनार्थम् " ( श ० १ ४ | ३ | २ | २१ ) | महावीरनिर्माणकाले या मृत् तदर्थत्वेन स्थापिता, तामुपशयां च पिष्ट्वा महावीरं निर्मायाभिन्नेन द्वितीयेन तृतीयेन वा महावीरेण तु प्रवृञ्जनं कुर्यात् । भेदनप्रायश्चित्त्यर्थं स्वाहा प्राणेभ्य इत्यादिभिर्द्वादशसंख्याका आहुतीर्जुहोति । तासामाद्यामुत्तमां च ' मनसः काममाकूतिम् ' इति मन्त्राभ्यामाज्यपूर्णया स्रुचा पूर्णाहुति कुर्यात् । ' पूर्णाहुतिमुत्तमां जुहोति सर्वं वै पूर्ण " सर्वेणैवैतद्भिषज्यति यत्किञ्च विवृढं यज्ञस्य ' ( श ०१४ | ३ | २ | १८ ) । तत्राद्यां पूर्णाहुतिं विधाय स्तौति पूर्णाहुतिमिति । पूर्णं यत्तत्त्वं तत्सर्वं वै जगदात्मकम् । अतः पूर्णत्वगुणविशिष्टया आहुत्या प्रायश्चित्तं कुर्वन् यज्ञसम्बन्धि यत्किञ्चिदङ्गजातं विवृढं विकलं भग्नमासीत्, एतत् सर्वेणैव वस्तुजातेन भिषज्यति चिकित्सति । ' स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति । मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद् भिषज्यति यत्किञ्च विवृढं यज्ञस्य ' ( श ० १४ | ३ | २ | ३ ) । सुखाद्यपरोक्षज्ञानसाधनमान्तरमिन्द्रियं खलु मनः प्राणानां चक्षुरादीनामधिपतिः, तेषामन्वय-व्यतिरेकाभ्यां मनःसाहित्येनैव विषयप्रकाशनसामर्थ्यदर्शनात् । ' पृथिव्यै स्वाहेति । पृथिवी वै सर्वेषां देवाना-मायतनं तत् सर्वाभिरेवैतद्देवताभिभिषज्यति यत्किञ्च विवृढं यज्ञस्य ' ( श ० १४ | ३ | ४ ), ' अग्नये स्वाहेति । अग्निर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिभिषज्यति ' ( श ० १४ | ३ | २ | ५ ), ' ते देवा बिभ्यतोऽग्नि प्राविशन् तस्मादाहुरग्निः सर्वा देवता: ' ( तै ० सं ० ६ २ २ ) । ' अन्तरिक्षाय स्वाहेति । अन्तरिक्षं वै सर्वेषां देवानामायतनं तत्सर्वाभि ॥ वायवे स्वाहेति । वायुर्वे सर्वेषां देवानामात्मा ॥ दिवे स्वाहेति । द्यौर्वै सर्वेषां देवानामायतनम् ॥ सूर्याय स्वाहेति । सूर्यो वै सर्वेषां देवानामात्मा || दिग्भ्यः स्वाहेति । दिशो वै सर्वेषां देवानामायतनम् || चन्द्राय स्वाहेति । चन्द्रो वै सर्वेषां देवानामात्मा ॥ नक्षत्रेभ्यः स्वाहेति । नक्षत्राणि वै सर्वेषां देवानामायतनम् ॥ अद्भयः स्वाहेति । आपो वै सर्वेषां देवानामायतनम् ॥ वरुणाय स्वाहेति ॥ ' ( श ० १४।३।२६ - १४ ) इति ब्राह्मणवचनैर्घर्मभेदनिमित्तकप्रायश्चित्तहोमे मन्त्राणां विनियोगः स्पष्ट एवेति दयानन्दस्य व्याख्यानमेतैश्च मन्त्रैः शवदाहविधानं सर्वथा विरुद्धमेव ॥ २ ॥
पृष्ठ 598
पाठ पढ़ें पाठ छिपाएँ
म ० ३–४ ] वेदार्थ पारिजातभाष्यसहिता २१५ वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा श्रोत्रा॑य॒ स्वाहा॑ ॥ ३ ॥
मन्त्रार्थ -- वाणी की प्राप्ति के लिये, वाम और दक्षिण नासिका में संचरण करने वाले प्राण के लिये, वाम और दक्षिण गोलक में विराजमान नेत्रों के लिये. वाम और दक्षिण कर्णकुहर में विद्यमान श्रवणेन्द्रिय के लिये मैं यह श्रेष्ठ आहुति समर्पित करता हूँ ॥ ३ ॥
वाचे वागधिष्ठात्रे स्वाहा । प्राणाय स्वाहा प्राणेन्द्रियाधिष्ठात्रे, प्राणादीनां द्वित्वान्मन्त्रावृत्तिः । चक्षुषे तदधिष्ठात्रे, श्रोत्राय तदधिष्ठात्रे स्वाहा | तत्र शतपथश्रुतिः -- ' वाचे स्वाहेति । मुखमेवास्मिन्नेतद्दधाति प्राणाय स्वाहा प्राणाय स्वाहेति नासिके एवास्मिन्नेतद्दधाति चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्द्धाति श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति ' ( श ० १४ | ३ | २ | १७ ) । मन्त्रे वाक्शब्देन वागिन्द्रियस्याभिधानान्महावीरेऽनेन मन्त्रेण वागिन्द्रियविशिष्टं मुखमेव दधाति । प्राणेन प्राणनव्यापारेण सह वर्तमानं प्राणेन्द्रियं तत्र नासिकयोर्वर्तते । अधिष्ठानद्वयविशिष्टस्य प्राणस्य मन्त्राभ्यां प्रतिपादनात् प्राणेन्द्रियाधिष्ठि नासिके एवास्मिन् महावीरे स्थापितवान् भवति । तथैवान्यदपि व्याख्येयम् । अध्यात्मपक्षे - वागादीनामपि ब्रह्मविकारत्वाद् ब्रह्मरूपतैव | सार्वात्म्यप्रतिपिपादयिषया तेभ्यस्तेभ्यः स्वाहाकारेण परमात्मानमेव प्रीणाति । दयानन्दस्तु – ' हे मनुष्याः! यूयं मृतशरीरस्य वाचे स्वाहा, प्राणाय स्वाहा ' ' ' ' श्रोत्राय स्वाहेत्याद्या घृताहुतीश्चितायां प्रक्षिपत ' इति, तदपि निर्मूलमेव, तथा विधानानुपलम्भात् । न च मृतशरीरे वागादयः सन्ति, तेन तेभ्यः स्वाहाकारस्य त्वद्रीत्या कः संबन्धः? ॥ ३ ॥
मन॑स॒ः काम॒माके॑तं व॒चः स॒त्यम॑शीय ।
मा॑य॒ स्वाहा॑ ॥ ४ ॥
प॒श॒नाभे॑ रू॒पमन्न॑स्य॒ रस॒ यश॒ः श्रीः भ॑यतां॒ मन्त्रार्थ - मैं मन की अभिलाषा और प्रयत्न को प्राप्त करूँ, वाणी की सत्यता को प्राप्त करूँ । पशुओं की शोभा, विविध अन्नों का रस, कीर्ति और लक्ष्मी मेरे पास सदा स्थिर होकर रहें ॥ ४ ॥
द्वितीयः पूर्णाहुतिमन्त्रः । अहं मनसः काममभिलाषम्, आकवनमाकुञ्चनं वा आकृतिः प्रयत्नस्तं चाशीय प्राप्नुयाम् । वाचः सत्यं चाशीय, मद्वाक् सत्यं वदतु । पशूनां रूपं पशूपकारः पशुसंबधिनी शोभा वा, अन्नस्य रसः स्वादुत्वम्, यशः कीर्तिः श्रीलक्ष्मीश्च सर्वमेतन्मयि तिष्ठतु । • . अत्र ब्राह्मणम् – ' मनसा वा इद ९९ सर्वमाप्तं तन्मनसैवैतद्भिषज्यति यत्किश्च विवृढं यज्ञस्य ॥ वाचा वा इद ँ सर्वमाप्तं पशूना, रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहेत्याशिषमेवैतदाशास्ते ' ( श १४।३।२।१ ९ -२० ) । नह्यविषयं मनसः किचित् । तत्तथा सर्वव्यापकेन मनसैवैतद्विकलं कर्म भिषज्यति । वाचा वागिन्द्रियेणाभिवदनव्यापारेण इदं सर्वं जगद् व्याप्तम् । प्रायश्चित्तहोमानन्तरं गवादिपशूनां सम्बन्धि रूपम्, अन्नस्य यो रसः, यच्च यशः, या च कीर्तिः, तत्सर्वं मयि श्रयतामित्याशिषमेवाशास्ते ।
पृष्ठ 599
पाठ पढ़ें पाठ छिपाएँ
२१६ शुक्लयजुर्वेदसंहिता [ अ ० ३ ९ अध्यात्मपक्षे - अहं साधको मनसः कामं ब्रह्मप्राप्तिसम्बन्ध्यभिलाषम्, आकूति तद्विषयं प्रयत्नं च अशीय प्राप्नुयाम् । वाचः सत्यं तदनुगुणं सत्यं ब्रह्मप्राप्त्यनुगुणदानयागाद्यर्थम्, पशूनां रूपम्, तदनुगुण एवान्नस्य रसः, यशः, श्रीश्च मयि श्रयताम् । दयानन्दस्तु - ' हे मनुष्याः! यथाहं स्वाहा एवं पूर्वोक्तप्रकारेण मृतानि शरीराणि दग्ध्वा मनसो वाचश्च सत्यं काममाकूति पशूनां रूपमशीय, यथा मय्यन्नस्य रसो यशः श्रीः श्रयताम्, तथैव कृत्वा यूयमेनं प्राप्नुत ' इति, तदपि यत्किचित् निर्मूलत्वस्योक्तत्वात् । न च मृतशरीरदाहस्य मनसो वाचश्च सत्यकामपूर्तिहेतुत्वं
श्रुतम्, न च पशुरूपयशः श्रीप्राप्तिहेतुत्वं श्रुतम् । तेन निर्मूलमेव तदपि ॥ ४ ॥
प्र॒जाप॑तिः सम्प्र॒यमा॑णः स॒म्राट् सम्मृ॑तो वैश्वदे॒वः स॑स॒न्नो घ॒र्मः प्रवृ॑क्तस्तेज उच्च॑त आश्व॒िनः पय॑स्थानीयम ने पौष्णो वि॑ष्य॒न्द्रमा॑ने मारु॒तः क्लर्थन् । मै॒त्रः शरसि सन्ताय्यमाने वाय॒व्यो ह्रियमा॑ण आग्ने॒यो इ॒यमा॑नो॒ वाग्घुतः ॥ ५ ॥
मन्त्रार्थ - निश्चित अभिमर्शन से लेकर अजादुग्ध के सेचन तक संनियमाण नाम वाले महावीर देवता का नाम प्रजापति है । इस अवस्था में महावीर का भेद होने पर प्रायश्चित्त की आहुति का मन्त्र ' प्रजापतये स्वाहा ' है । दुग्ध-सेचन के बाद और कुशासादन से पूर्वं संभ्रान्त नामक महावीर का देवता सम्राट् है, इसका भेद होने पर प्रायश्चित्त की आहुति का मन्त्र ' सम्राजे स्वाहा ' है । आसादन से लेकर मुंजप्रलव पर अधिश्रयण से पूर्व संसन्न नामक महावीर के देवता विश्वेदेव हैं । इस बीच भेद होने पर प्रायश्चित्त की आहुति का मन्त्र ' विश्वेभ्यो देवेभ्यः स्वाहा ' है । अधिश्रयण से लेकर परिशास के ग्रहण के पूर्व महावीर घर्म का नाम प्रवृक्त है, वहाँ भेद होने पर प्रायश्चित्त का मन्त्र ' धर्माय स्वाहा ' है । उद्यमन से लेकर अजापय- सेचन से पूर्व तक उद्यत नामक महावीर तेजोरूप है । वहाँ भेदन होने पर प्रायश्चित्ताहुति का मन्त्र ' तेजसे स्वाहा ' है । अजादुग्ध के सींचने पर महावीर के देवता अश्विनीकुमार हैं, वहाँ भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' अश्विभ्यां स्वाहा ' है । विशेष रूप से स्यन्दमान होने पर महाबीर का देवता पूषा है । वहीं भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' पूष्णे स्वाहा ' है । घृत मध्य रहते समय महावीर के देवता मरुत् हैं । वहाँ भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' मरुद्भयः स्वाहा ' है । शर में इध्ममान महावीर का देवता मित्र है, वहाँ भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' मित्राय स्वाहा ' है । होम से पूर्व आहवनीय के निकट ले जाये जा रहे महावीर का देवता वायु है, वहाँ भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' वायवे स्वाहा ' है । हूयमान महावीर का देवता अग्नि है, वहाँ भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' अग्नये स्वाहा ' है । हुत होम के बाद और उत्तर कर्मारम्भ के पूर्व महावीर का देवता वाक् है, वहीं भेद होने पर प्रायश्चित्ताहुति का मन्त्र ' वाचे स्वाहा ' है । ये सब आहुतियाँ एक बार लिये हुए घृत से होती हैं ॥ ५ ॥
' प्रजापतिः सम्भ्रियमाण इति च यथाकालम् ' ( का ० श्र ० २६/७ ३४ ) | सम्भ्रियमाणाद्यवस्थाविशेषेषु महावीरभेदे तत्तदवस्थाप्रतिपादकैर्मन्त्रः प्रजापतये स्वाहेत्यादिभिर्यथाकालमाहुतयो होतव्याः । सम्भ्रियमाणो
पृष्ठ 600
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थपारिजातभाष्यसहिता २१७ मृद्वल्मीकवराहविहतादिसंभारैर्निष्पाद्यमानो यदि भिद्येत तदा प्रायश्चित्तहोमे प्रजापतिर्देवता, तदा प्रजापतये स्वाहेति मन्त्रेण प्रायश्चित्ताहुतितव्या प्रजापतिः सम्भ्रियमाणो यथाकालं प्रायश्चित्तदेवतेत्युक्तत्वात् ( अनु ० ४।८ ) । निष्ठिताभिमर्शनादारभ्याऽजापयोऽवसेचनान्तं सम्भ्रियमाणो महावीरः प्रजापत्यात्मको भवति । पयोऽवसेकानन्तरं कुशासादनात् प्राक् सम्भृत इत्युच्यते । संभारैनिष्पन्नः स महावीरः सम्यग् भ्राजमानत्वात् सम्राड् भवति । तदानीं भेदे सम्राट् प्रायश्चित्तदेवता । तदा सम्राजे स्वाहेति मन्त्रेण प्रायश्चित्ताहुतितव्या । वैश्वदेवः संसन्नः, आसादनादारभ्य मुञ्जप्रलवेष्वधिश्रयणात् प्राक् संसन्नो भवति । स च वैश्वदेवात्मको भवति । तदानीं महावीरे भिन्ने विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयात् । घर्मः प्रवृक्तः, अधिश्रयणादारभ्य परीशासाभ्यां ग्रहणात् प्राक् प्रवृक्तः, गार्हपत्यस्योत्तरतः प्रवृञ्जनेन संस्कृतो महावीरो घर्मो घर्मशब्दाभिधेयः सूर्यो भवति । तदा भेदे धर्माय स्वाहेत्याहुतिः । तेज उद्यतः, उद्यम्यत इत्युद्यतः । उद्यमनादारभ्य शफाभ्यामूर्ध्वमाधृतः प्रागजापयसोऽवसेकात् तेजस्तेजोरूपो भवति । तत्र भेदे तेजसे स्वाहेति जुहुयात् । आश्विनः पयस्यानीयमाने, अजापयस्यासिच्यमाने महावीरभेदे आश्विनोऽश्विदेवत्यो भवति । तदानीमश्विभ्यामिति जुहोति । पौष्णो विष्यन्दमाने विशेषेण स्यन्दमाने, ' स्यन्दू प्रस्रवणे ', घृते बहिर्निःसृते सति भेदे महावीर: पौष्णः पूषदेवत्यो भवति । पूष्णे स्वाहेति जुहोति । मारुतः क्लथन् । क्लथनं मध्ये घृतस्यावर्तनम् । तदा भेदे मद्देवत्यो भवति । मरुद्भयः स्वाहेत्याहुतिः । मैत्रः शरसि । संताय्यमाने पयोऽवसेके या उपरि तरिका जायते सा शरः शब्देनोच्यते । तस्मिन् ताय्यमाने मथ्यमाने घर्मो मैत्रो मित्रदेवत्यो भवति, ' ताय पालन-सन्तत्योः ' । शरआदिहरणात् प्राग्भेदे मैत्राय स्वाहेति मन्त्रेण जुहुयात् । वायव्यो ह्रियमाणः । आहवनीयं प्रति हियमाणो होमात् प्राग् वायुदेवत्यः । तत्र वायवे स्वाहेति जुहोति । आग्नेयो हूयमानः । हूयमानो घर्मोऽग्नि-दैवतो भवति । तत्र भेदेऽग्नये स्वाहेति जुहुयात् । वाग्घुतः । होमादूर्ध्वं प्रागुत्तरघर्मारम्भाद् वाग् वाग्देवत्यो भवति । तत्र भेदे वाचे स्वाहेति जुहोति । सकृद्गृहीतैराज्यैरेता आहुतयः । अध्यात्मपक्षे — ज्योतिष्टोमादौ प्रवर्गे महावीरसंभरणादिहोमान्तं कर्म भवति । तस्य तस्यां तस्यामवस्थायां महावीरस्य तदनुगुणानि गुणनामानि च भिद्यन्ते । तत्र सर्वत्र घर्मान्तर्यामी परमेश्वर एव तत्तद्भावापन्नः स्वाहाकारादिना सम्मानं प्राप्नोति तस्यैव सर्वकर्मसमर्हणीयत्वात् । यदा धर्मः सम्भ्रियमाणो भवति, तदा तदवस्थापन्नः प्रजापतिर्भवति । संभृतः सम्राट्पदव्यपदेश्यो भवति । संसन्न आसादितो धर्मः सूर्यो भवति । प्रवृक्तस्तेजः, उद्यत आश्विनः पयस्यानीयमान: पौष्णः । विस्यन्दमानो मारुतः । प्रियमाण आग्नेयः । हुतो वा भवति । दयानन्दस्तु - ' हे मनुष्याः, येनेश्वरेण सम्भ्रियमाणः सम्राड् वैश्वदेवः संसन्नो घर्मस्तेजः प्रवृक्त उद्यत आश्विनो विस्यन्दमानो मारुतः क्लथन्, मैत्रः संताय्यमाने शरसि, वायव्य ध्रियमाणः आग्नेयो हूयमानः, वाग हुतः, प्रजापतिः सम्भृतोऽस्ति, तमेव परमात्मानं भूय उपासध्वम् ' इति, तदपि निरर्थकम्, परमेश्वरेण सम्भ्रियमाणः सम्राड् वैश्वदेवः संसन्नो घर्मादिरूपो भवतीत्यस्य निष्प्रमाणत्वात् । ' सरसि तडागे ' इति च निर्मूलम्, निष्प्रमाणत्वादेव, उन्मत्तप्रलपितत्वाच्च ॥ ५ ॥
6 स॒वि॒ता प्र॑थ॒मेऽहि॑न्न॒ग्ना॑िह॒तीयो॑ वा॒यु॒स्त॒तीय॑ भादि॒त्यव॑त॒ये॑ च॒न्द्रमा॑ः पञ्च॒म ऋतुः षष्ठे म॒रुत॑ः सप्त॒मे बृह॒स्पति॑रष्ट॒मे । मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑ दे॒वा द्वाद॒शे ॥ ६ ॥
२८