1.ऋणादानम्
ऋणं देयं अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्माच्च ऋणादानं इति स्मृतम् । । १.०१ । ।
पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः ।
विभक्ता ह्यविभक्ता वा यस्तां उद्वहते धुरम् । । १.०२ । ।
पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् ।
मात्रा वा यत्कुटुम्बार्थे दद्युस्तद्रिक्थिनोऽखिलम् । । १.०३ । ।
क्रमादव्याहतं प्राप्तं पुत्रैर्यन्नर्णं उद्धृतम् ।
दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते । । १.०४ । ।
इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः ।
उत्तमर्णाधमर्णेभ्यो मां अयं मोचयिष्यति । । १.०५ । ।
अतः पुत्रेण जातेन स्वार्थं उत्सृज्य यत्नतः ।
पिता मोक्षितव्य ऋणाद्यथा न नरकं पतेत् । । १.०६ । ।
तपस्वी चाग्निहोत्री च ऋणवान्म्रियते यदि ।
तपश्चैवाग्निहोत्रं च सर्वं तद्धनिनां धनम् । । १.०७ । ।
न पुत्रर्णं पिता दद्याद्दद्यात्पुत्रस्तु पैतृकम् ।
कामक्रोधसुराद्यूत प्रातिभाव्यकृतं विना । । १.०८ । ।
पितुरेव नियोगाद्यत्कुटुम्बभरणाय च ।
कृतं वा यदृणं कृच्छ्रे दद्यात्पुत्रस्य तत्पिता । । १.०९ । ।
शिष्यान्तेवासिदासस्त्री वैयावृत्त्यकरैश्च यत् ।
कुटुम्बहेतोरुत्क्षिप्तं वोढव्यं तत्कुटुम्बिना । । १.१० । ।
नार्वाग्विंशतिमाद्वर्षात्पितरि प्रोषिते सुतः ।
ऋणं दद्यात्पितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा । । १.११ । ।
दाप्यः परर्णं एकोऽपि जीवत्स्वधिकृतैः कृतम् ।
प्रेतेषु तु न तत्पुत्रः परर्णं दातुं अर्हति । । १.१२ । ।
न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा ।
अभ्युपेतादृते यद्वा सह पत्या कृतं भवेत् । । १.१३ । ।
दद्यादपुत्रा विधवा नियुक्ता या मुमूर्षुणा ।
यो वा तद्रिक्थं आदद्याद्यतो रिक्थं ऋणं ततः । । १.१४ । ।
न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः । । १.१५ । ।
अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् । । १.१६ । ।
पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यं आश्रयेत् ।
ऋक्थं तस्या हरेत्सर्वं निःस्वायाः पुत्र एव तु । । १.१७ । ।
या तु सप्रधनैव स्त्री सापत्या चान्यं आश्रयेत् ।
सोऽस्या दद्यादृणं भर्तुरुत्सृजेद्वा तथैव ताम् । । १.१८ । ।
अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते तदेवास्य धनं स्मृतम् । । १.१९ । ।
धनस्त्रीहारिपुत्राणां ऋणभाग्यो धनं हरेत् ।
पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः । । १.२० । ।
उत्तमा स्वैरिणी या स्यादुत्तमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद्यस्तां उपाश्नुते । । १.२१ । ।
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।
विशेषतो गृहक्षेत्र दानाधमनविक्रयाः । । १.२२ । ।
एतान्यपि प्रमाणानि भर्ता यद्यनुमन्यते ।
पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः । । १.२३ । ।
भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् ।
सा यथाकामं अश्नीयाद्दद्याद्वा स्थावरादृते । । १.२४ । ।
तथा दासकृतं कार्यं अकृतं परिचक्षते ।
अन्यत्र स्वामिसंदेशान्न दासः प्रभुरात्मनः । । १.२५ । ।
पुत्रेण च कृतं कार्यं यत्स्यात्पितुरनिच्छतः ।
तदप्यकृतं एवाहुर्दासः पुत्रश्च तौ समौ । । १.२६ । ।
अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि न र्णभाक् ।
स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् । । १.२७ । ।
त्रयः स्वतन्त्रा लोकेऽस्मिन्राजाचार्यस्तथैव च ।
प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही । । १.२८ । ।
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ।
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता । । १.२९ । ।
अस्वतन्त्राः स्त्रियः पुत्रा दासाश्च सपरिग्रहाः ।
स्वतन्त्रस्तत्र तु गृही यस्य यत्स्यात्क्रमागतम् । । १.३० । ।
गर्भस्थैः सदृशो ज्ञेय आ वर्षादष्टमाच्छिषुः ।
बाल आ षोडशाज्ज्ञेयः पोगण्डश्चापि शब्द्यते । । १.३१ । ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना ।
जीवतोरस्वतन्त्रः स्याज्जरयापि समन्वितः । । १.३२ । ।
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः । । १.३३ । ।
स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा ।
अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः । । १.३४ । ।
यद्बालः कुरुते कार्यं अस्वतन्त्रस्तथैव च ।
अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः । । १.३५ । ।
स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः ।
तदप्यकृतं एवाहुरस्वतन्त्रः स हेतुतः । । १.३६ । ।
कामक्रोधाभियुक्तार्त भयव्यसनपीडिताः ।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः । । १.३७ । ।
कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् ।
तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम् । । १.३८ । ।
धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः ।
रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् । । १.३९ । ।
तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलं एव च ।
कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् । । १.४० । ।
श्रुतशौर्यतपःकन्या शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुक्लं उदयोऽप्यस्य तद्विधः । । १.४१ । ।
कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् । । १.४२ । ।
पार्श्विकद्यूतदौत्यार्ति प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् । । १.४३ । ।
तेन क्रयो विक्रयश्च दानं ग्रहणं एव च ।
विविधाश्च प्रवर्तन्ते क्रियाः संभोग एव च । । १.४४ । ।
यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः ।
तथाविधं अवाप्नोति स फलं प्रेत्य चेह च । । १.४५ । ।
तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयात्स्मृतम् ।
साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् । । १.४६ । ।
क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।
अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् । । १.४७ । ।
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ।
प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा । । १.४८ । ।
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
युद्धोपलब्धं कारश्च दण्डश्च व्यवहारतः । । १.४९ । ।
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस्त्वनुग्रहात् । । १.५० । ।
सर्वेषां एव वर्णानां एष धर्म्यो धनागमः ।
विपर्ययादधर्म्यः स्यान्न चेदापद्गरीयसी । । १.५१ । ।
आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथंचन । । १.५२ । ।
न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः । । १.५३ । ।
उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते । । १.५४ । ।
आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या हृतैर्धनैः ।
उत्सृजेत्क्षत्रवृत्तिं तां कृत्वा पावनं आत्मनः । । १.५५ । ।
तस्यां एव तु यो वृत्तौ ब्राह्मणो रमते रसात् ।
काण्डपृष्ठश्च्युतो मार्गात्सोऽपाङ्क्तेयः प्रकीर्तितः । । १.५६ । ।
वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि ।
घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः । । १.५७ । ।
मांसौदनतिलक्षौम सोमपुष्पफलपलाः ।
मनुष्यविषशस्त्राम्बु लवणापूपवीरुधः । । १.५८ । ।
नीलीकौषेयचर्मास्थि कुतपैकशफा मृदः ।
उदश्वित्केशपिण्याक शाकाद्यौषधयस्तथा । । १.५९ । ।
ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च ।
गन्धद्रव्यैरकावेत्र तूलमूलतुशादृते । । १.६० । ।
स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे ।
रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् । । १.६१ । ।
अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च ।
यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्सामाः । । १.६२ । ।
अविक्रेयाणि विक्रीणन्ब्राह्मणः प्रच्युतः पथः ।
मार्गे पुनरवस्थाप्य राज्ञा दण्डेन भूयसा । । १.६३ । ।
प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । । १.६४ । ।
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
धनस्वीकरणे येन धनी धनं उपाश्नुते । । १.६५ । ।
लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः ।
कालातिहरणाद्भुक्तिरिति शास्त्रेषु निश्चयः । । १.६६ । ।
त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिरेभ्यो गरीयसी । । १.६७ । ।
विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु ।
विशेषतः स्थावराणां यन्न भुक्तं न तत्स्थिरम् । । १.६८ । ।
भुज्यमानान्परैरर्थान्यः स्वान्मौर्ख्यादुपेक्षते ।
समक्षं जीवतोऽप्यस्य तान्भुक्तिः कुरुते वशे । । १.६९ । ।
यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुं अर्हति । । १.७० । ।
उपेक्षां कुर्वतस्तस्य तूष्णीं भूतस्य तिष्ठतः ।
कालेऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति । । १.७१ । ।
अजडश्चेदपोगण्डो विषये चास्य भुज्यते ।
भुक्तं तद्व्यवहारेण भोक्ता तद्धनं अर्हति । । १.७२ । ।
आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते । । १.७३ । ।
प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः ।
आध्यादीन्यपि जीर्यन्ते स्त्रीनरेन्द्रधनादृते । । १.७४ । ।
स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते ।
अनागमं भुज्यमानं वत्सराणां शतैरपि । । १.७५ । ।
निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न भोगस्तत्र कारणम् । । १.७६ । ।
अनागमं भुज्यते यन्न तद्भोगोऽतिवर्तते ।
प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् । । १.७७ । ।
आहर्तैवाभियुक्तः सन्नर्थानां उद्धरेत्पदम् ।
भुक्तिरेव विशुद्धिः स्यात्प्राप्तानां पितृतः क्रमात् । । १.७८ । ।
अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् ।
अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना । । १.७९ । ।
तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थः संशोध्यो न तं भोगोऽतिवर्तते । । १.८० । ।
यद्विनागमं अप्यूर्ध्वं भुक्तं पूर्वैस्त्रिभिर्भवेत् ।
न तच्छक्यं अपाकर्तुं क्रमात्त्रिपुरुषागतम् । । १.८१ । ।
सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः ।
अन्यत्र श्रावितं यत्स्यात्स्वयं आसन्नमृत्युना । । १.८२ । ।
न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः ।
साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्चये । । १.८३ । ।
श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः ।
मृतेऽपि तत्र साक्षी स्यात्षट्सु चान्वाहितादिषु । । १.८४ । ।
क्रिय र्णादिषु सर्वेषु बलवत्युत्तरोत्तरा ।
प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी । । १.८५ । ।
स्थानलाभनिमित्तं हि दानग्रहणं इष्यते ।
तत्कुसीदं इति प्रोक्तं तेन वृत्तिः कुसीदिनाम् । । १.८६ । ।
कायिका कालिका चैव कारिता च तथा स्मृता ।
चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा । । १.८७ । ।
कायाविरोधिनी शश्वत्पणपाद्या तु कायिका ।
प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता । । १.८८ । ।
वृद्धिः सा कारिता नाम य र्णिकेन स्वयंकृता ।
वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता । । १.८९ । ।
ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः ।
देशाचारविधिस्त्वन्यो यत्र र्णं अवतिष्ठति । । १.९० । ।
द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम् ।
तथाष्टगुणं अन्यस्मिन्देशे देशेऽवतिष्ठते । । १.९१ । ।
हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः । । १.९२ । ।
सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च ।
आयुधानां च सर्वेषां चर्मणस्ताम्रलोहयोः । । १.९३ । ।
अन्येषां चैव सर्वेषां इष्टकानां तथैव च ।
अक्षय्या वृद्धिरेतेषां मनुराह प्रजापतिः । । १.९४ । ।
तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च । । १.९५ । ।
न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् ।
अनाकारितं अप्यूर्ध्वं वत्सरार्धाद्विवर्धते । । १.९६ । ।
एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः ।
वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् । । १.९७ । ।
आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा ।
आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् । । १.९८ । ।
ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः ।
स्वकुल्यस्यास्य निवपेत्तदभावेऽस्य बन्धुषु । । १.९९ । ।
यदा तु न स्वकुल्याः स्युर्न च संबन्धिबान्धवाः ।
तदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् । । १.१०० । ।
गृहीत्वोपगतं दद्यादृणिकायोदयं धनी ।
अददद्याच्यमानस्तु शेषहानिं अवाप्नुयात् । । १.१०१ । ।
लेख्यं दद्यादृणे शुद्धे तदभावे प्रतिश्रवम् ।
धनिकर्णिकयोरेवं विशुद्धिः स्यात्परस्परम् । । १.१०२ । ।
विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च ।
लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारके । । १.१०३ । ।
उपस्थानाय दानाय प्रत्ययाय तथैव च ।
त्रिविधः प्रतिभूर्दृष्टस्त्रिष्वेवार्थेषु सूरिभिः । । १.१०४ । ।
ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते ।
प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथा । । १.१०५ । ।
बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते ह्येषु धनिनश्छन्दतः क्रिया । । १.१०६ । ।
यं चार्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् । । १.१०७ । ।
अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा । । १.१०८ । ।
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ।
प्रतिदानं तथैवास्य लाभहानिर्विपर्यये । । १.१०९ । ।
प्रमादाद्धनिनस्तद्वदाधौ विकृतिं आगते ।
विनष्टे मूलनाशः स्याद्दैवराजकृतादृते । । १.११० । ।
रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् ।
आधिरन्योऽधिकर्तव्यो देयं वा धनिने धनम् । । १.१११ । ।
अथ शक्तिविहीनः स्यादृणी कालविपर्ययात् ।
शक्यप्रेक्षं ऋणं दाप्यः काले काले यथोदयम् । । १.११२ । ।
शक्तो वा यदि दौरात्म्यान्न दद्याद्धनिने धनम् ।
राज्ञा दापयितव्यः स्याद्गृहीत्वांशं तु विंशकम् । । १.११३ । ।
नश्येदृणपरीमाणं कालेनेह र्णिकस्य चेत् ।
जातिसंज्ञाधिवासानां आगमो लेख्यतः स्मृतः । । १.११४ । ।
लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः । । १.११५ । ।
देशाचाराविरुद्धं यद्व्यक्ताधिकृतलक्षणम् ।
तत्प्रमाणं स्मृतं लेख्यं अविलुप्तक्रमाक्षरम् । । १.११६ । ।
मत्ताभियुक्तस्त्रीबाल बलात्कारकृतं च यत् ।
तदप्रमाणकरणं भीतोपधिकृतं तथा । । १.११७ । ।
मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तदप्यपार्थं लिखितं ऋते त्वाधेः स्थिराश्रयात् । । १.११८ । ।
आधिर्यो द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा ।
सिद्धिरत्रोभयस्यास्य भोगो यद्यस्ति नान्यथा । । १.११९ । ।
दर्शितं प्रतिकालं यच्छ्रावितं श्रावितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु । । १.१२० । ।
अश्रुतार्थं अदृष्टार्थं व्यवहारार्थं एव च ।
न लेख्यं सिद्धिं आप्नोति जीवत्स्वपि हि साक्षिषु । । १.१२१ । ।
लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते ।
सतस्तत्कालकरणं असतो दृष्टदर्शनम् । । १.१२२ । ।
यस्मिन्स्यात्संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत्स्वहस्तक्रियाचिह्न प्राप्तियुक्तिभिरुद्धरेत् । । १.१२३ । ।
लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः । । १.१२४ । ।
लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत्संबन्धागमहेतुभिः । । १.१२४*१ । ।
लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ।
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः । । १.१२५ । ।
छिन्नभिन्नहृतोन्मृष्ट नष्टदुर्लिखितेषु च ।
कर्तव्यं अन्यल्लेख्यं स्यादेष लेख्यविधिः स्मृतः । । १.१२६ । ।
संदिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः ।
दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् । । १.१२७ । ।
समक्षदर्शनात्साक्षी विज्ञेयः श्रोत्रचक्षुषोः ।
श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् । । १.१२८ । ।
एकादशविधः साक्षी स तु दृष्टो मनीषिभिः ।
कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते । । १.१२९ । ।
लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः । । १.१३० । ।
अकृतः षड्विधश्चापि सूरिभिः परिकीर्तितः ।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् । । १.१३१ । ।
कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।
कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः । । १.१३२ । ।
कुलीना ऋजवः शुद्धा जन्मतः कर्मतोऽर्थतः ।
त्र्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः । । १.१३३ । ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्यनिन्दिताः ।
प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः । । १.१३४ । ।
श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याश्च स्त्रियः स्त्रिषु च साक्षिणः । । १.१३५ । ।
श्रेण्यादिषु तु वर्गेषु कश्चिच्चेद्द्वेष्यतां इयात् ।
तेभ्य एव न साक्षी स्याद्द्वेष्टारः सर्व एव ते । । १.१३६ । ।
असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात्स्वयमुक्तेर्मृतान्तरः । । १.१३७ । ।
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणः । । १.१३८ । ।
स्वयमुक्तेरनिर्दिष्टः स्वयं एवैत्य यो वदेत् ।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते । । १.१३९ । ।
श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः । । १.१४० । ।
स्तेनाः साहसिकाश्चण्डाः कितवा वधकास्तथा ।
असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते । । १.१४१ । ।
राज्ञा परिगृहीतेषु साक्षिष्वेकार्थनिश्चये ।
वचनं यत्र भिद्यते ते स्युर्भेदादसाक्षिणः । । १.१४२ । ।
अनिर्दिष्टस्तु साक्षित्वे स्वयं एवैत्य यो वदेत् ।
सूचीत्युक्तः स शास्त्रेषु न स साक्षित्वं अर्हति । । १.१४३ । ।
योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि ।
क्व तद्वदतु साक्षित्वं इत्यसाक्षी मृतान्तरः । । १.१४४ । ।
योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि ।
क्व तद्वदतु साक्षित्वं इत्यसाक्षी मृतान्तरः । । १.१४४*१ । ।
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः । । १.१४५ । ।
आधर्यं पूर्वपक्षस्य यस्मिन्नर्थे वशाद्भवेत् ।
प्रष्टव्याः साक्षिणस्तत्र विवादे प्रतिवादिनः । । १.१४६ । ।
न परेण समुद्दिष्टं उपेयात्साक्षिणं रहः ।
भेदयेत्तं न चान्येन हीयेतैवं समाचरन् । । १.१४७ । ।
साक्ष्युद्दिष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम् ।
तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्युत्तरक्रिया । । १.१४८ । ।
सुदीर्घेणापि कालेन लिखितं सिद्धिं आप्नुयात् ।
जानता चात्मना लेख्यं अजानानस्तु लेखयेत् । । १.१४९ । ।
सिद्धिरुक्ताष्टमाद्वर्षात्स्मारितस्येह साक्षिणः ।
आ पञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य तु । । १.१५० । ।
आ तृतीयात्तथा वर्षात्सिद्धिर्गूढस्य साक्षिणः ।
आ वै संवत्सरात्सिद्धिं वदन्त्युत्तरसाक्षिणः । । १.१५१ । ।
अथवा कालनियमो न दृष्टः साक्षिणं प्रति ।
स्मृत्यपेक्षं हि साक्षित्वं आहुः शास्त्रविदो जनाः । । १.१५२ । ।
यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स साक्षी साक्ष्यं अर्हति । । १.१५३ । ।
असाक्षिप्रत्ययास्त्वन्ये षड्विवादाः प्रकीर्तिताः ।
लक्षणान्येव साक्षित्वं एषां आहुर्मनीषिणः । । १.१५४ । ।
उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिस्तु घातकः ।
केशाकेशिगृहीतश्च युगपत्पारदारिकः । । १.१५५ । ।
कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारपाणिश्च वनछेत्ता प्रकीर्तितः । । १.१५६ । ।
अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् । । १.१५७ । ।
कश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परं उपद्रवेत् ।
हेत्वर्थगतिसामर्थ्यैस्तत्र युक्तं परीक्षणम् । । १.१५८ । ।
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः प्रष्टव्याश्न व्याध्यार्ता न दूषिताः । । १.१५९ । ।
दासनैकृतिकाश्रद्ध वृद्धस्त्रीबालचाक्रिकाः ।
मत्तोन्मत्तप्रमत्तार्त कितवग्रामयाजकाः । । १.१६० । ।
महापथिकसामुद्र वणिक्प्रव्रजितातुराः ।
लुब्धकश्रोत्रियाचार हीनक्लीबकुशीलवाः । । १.१६१ । ।
नास्तिकव्रात्यदाराग्नि त्यागिनोऽयाज्ययाजकाः ।
एकस्थालीसहायारि चरज्ञातिसनाभयः । । १.१६२ । ।
प्राग्दृष्टदोषशैलूष विषजीव्यहितुण्डिकाः ।
गरदाग्निदकीनाश शूद्रापुत्रोपपातिकाः । । १.१६३ । ।
क्लान्तसाहसिकश्रान्त निर्धनान्त्यावसायिनः ।
भिन्नवृत्तासमावृत्त जडतैलिकमूलिकाः । । १.१६४ । ।
भूताविष्टनृपद्विष्ट वर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृ हीनाङ्गभगवृत्तयः । । १.१६५ । ।
कुनखी श्यावदन्श्वित्रि मित्रध्रुक्शठशौण्डिकाः ।
ऐन्द्रजालिकलुब्धोग्र श्रेणीगणविरोधिनः । । १.१६६ । ।
वधकृच्चित्रकृन्मङ्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस्तस्करो राजपूरुषः । । १.१६७ । ।
मनुष्यविषशस्त्राम्बु लवणापूपवीरुधाम् ।
विक्रेता ब्राह्मणश्चैव द्विजो वार्धुषिकश्च यः । । १.१६८ । ।
च्युतः स्वधर्मात्कुलिकः स्तावको हीनसेवकः ।
पित्रा विवदमानश्च भेदकृच्चेत्यसाक्षिणः । । १.१६९ । ।
असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।
कार्यगौरवं आसाद्य भवेयुस्तेऽपि साक्षिणः । । १.१७० । ।
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
पारुष्ययोश्चाप्युभयोर्न परीक्षेत साक्षिणः । । १.१७१ । ।
तेषां अपि न बालः स्यान्नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर्ब्रूयुस्ते साक्ष्यं अन्यथा । । १.१७२ । ।
बालोऽज्ञानादसत्यात्स्त्री पापाभ्यासाच्च कूटकृत् ।
विब्रूयाद्बान्धवः स्नेहाद्वैरनिर्यातनादरिः । । १.१७३ । ।
अथवानुमतो यः स्याद्द्वयोर्विवदमानयोः ।
असाक्ष्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्स संसदि । । १.१७४ । ।
यस्त्वात्मदोषभिन्नत्वादस्वस्थ इव लक्ष्यते ।
स्थानात्स्थानान्तरं गच्छेदेकैकं चोपधावति । । १.१७५ । ।
कासतेऽनिभृतोऽकस्मादभीक्ष्णं निश्वसत्यपि ।
भूमिं लिखति पादाभ्यां बाहु वासो धुनोति च । । १.१७६ । ।
भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा ।
शोषं आगच्छतश्चोष्ठावूर्ध्वं तिर्यक्च वीक्षते । । १.१७७ । ।
त्वरमाण इवाबद्धं अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयस्तं पापं विनयेन्नृपः । । १.१७८ । ।
श्रावयित्वा च योऽन्येभ्यः साक्षित्वं तद्विनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः । । १.१७९ । ।
आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् । । १.१८० । ।
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः । । १.१८१ । ।
पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश्च भृशं उत्त्रास्य साक्षिणः । । १.१८२ । ।
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
दीनः शत्रुगृहं गच्छेद्यः साक्ष्यं अनृतं वदेत् । । १.१८३ । ।
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयशः पश्येद्यः साक्ष्यं अनृतं वदेत् । । १.१८४ । ।
यां रात्रिं अधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् । । १.१८५ । ।
साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति । । १.१८६ । ।
तस्य वर्षशते पूर्णे पाशं एकं प्रमुच्यते ।
एवं स बन्धनात्तस्मान्मुच्यते नियुताः समाः । । १.१८७ । ।
यावतो बान्धवांस्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् ।
तावतः संख्यया तस्मिन्शृणु सौम्यानुपूर्वशः । । १.१८८ । ।
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतं अश्वानृते हन्ति सहस्रं पुरुषानृते । । १.१८९ । ।
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः । । १.१९० । ।
एकं एवाद्वितीयं तत्प्राहुः पावनं आत्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव । । १.१९१ । ।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यं एव विशिष्यते । । १.१९२ । ।
वरं कूपशताद्वापि वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् । । १.१९३ । ।
भूर्धारयति सत्येन सत्येनोदेति भास्करः ।
सत्येन वायुः पवते सत्येनापः स्रवन्ति च । । १.१९४ । ।
सत्यं एव परं दानं सत्यं एव परं तपः ।
सत्यं एव परो धर्मो लोकानां इति नः श्रुतम् । । १.१९५ । ।
सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः । । १.१९६ । ।
सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गं एष्यसि ।
उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते । । १.१९७ । ।
निरयेषु च ते शश्वज्जिह्वां उत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिंकराः । । १.१९८ । ।
शूलैर्भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तं अपरायणम् ।
अवाक्शिरसं उत्क्षिप्य क्षेप्स्यन्त्यग्निह्रदेषु च । । १.१९९ । ।
अनुभूय च दुःखास्ताश्चिरं नरकवेदनाः ।
इह यास्यस्यभव्यासु गृध्रकाकादियोनिषु । । १.२०० । ।
ज्ञात्वैताननृते दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् ।
सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि । । १.२०१ । ।
न बान्धवा न सुहृदो न धनानि महान्त्यपि ।
अलं तारयितुं शक्तास्तमस्युग्रे निमज्जतः । । १.२०२ । ।
पितरस्त्ववलम्बन्ते त्वयि साक्षित्वं आगते ।
तारयिष्यति किंवास्मानात्मानं पातयिष्यति । । १.२०३ । ।
सत्यं आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि । । १.२०४ । ।
यां च रात्रिं अजनिष्ठा यां रात्रिं च मरिष्यसि ।
वृथा तदन्तरं ते स्यात्कुर्याश्चेत्सत्यं अन्यथा । । १.२०५ । ।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यं एव वदेत्ततः । । १.२०६ । ।
यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्यात्स पापो नरकनिर्भयः । । १.२०७ । ।
अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः ।
यो ह्येतां स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः । । १.२०८ । ।
साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये स्मृतिमत्तराः । । १.२०९ । ।
स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
सूक्ष्मत्वात्साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः । । १.२१० । ।
निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्यं आगतः ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् । । १.२११ । ।
देशकालवयोद्रव्य प्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात्साक्ष्यं तदसदुच्यते । । १.२१२ । ।
ऊनं अभ्यधिकं चार्थं प्रब्रूयुर्यत्र साक्षिणः ।
तदप्यनुक्तं विज्ञेयं एष साक्ष्यविधिः स्मृतः । । १.२१३ । ।
प्रमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः ।
अर्थं चापह्नुयाद्वादी तत्रोक्तस्त्रिविधो विधिः । । १.२१४ । ।
चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथश्चोक्तस्तैरेवं साधयेत्क्रमात् । । १.२१५ । ।
अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तं आवहेत् । । १.२१६ । ।
चोदनाप्रतिघाते तु युक्तिलेशैस्तं अन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः । । १.२१७ । ।
युक्तिष्वप्यसमर्थासु शपथैरेनं अर्दयेत् ।
अर्थकालबलापेक्षं अग्न्यम्बुसुकृतादिभिः । । १.२१८ । ।
दीप्ताग्निर्यं न दहति यं अन्तर्धारयन्त्यापः ।
स तरत्यभिशापं तं किल्बिषी स्याद्विपर्यये । । १.२१९ । ।
स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोरपि ।
एष एव विधिर्दृष्टः सर्वार्थापह्नवेषु च । । १.२२० । ।
शपथा ह्यपि देवानां ऋषीणां अपि च स्मृताः ।
वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः । । १.२२१ । ।
सप्तर्षयस्तथेन्द्राय पुष्करार्थे समागताः ।
शेपुः शपथं अव्यग्राः परस्परविशुद्धये । । १.२२२ । ।
अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः ।
ब्रूयात्स्वयं वा सदसि तस्यार्धविनयः स्मृतः । । १.२२३ । ।
गूहमानस्तु दौरात्म्याद्यदि पापं स जीयते ।
सभ्याश्चात्र न तुष्यन्ति तीव्रो दण्डश्च पात्यते । । १.२२४ । ।
2.निक्षिपः
स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः । । २.०१ । ।
अन्यद्रव्यव्यवहितं द्रव्यं अव्याकृतं च यत् ।
निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् । । २.०२ । ।
स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये । । २.०३ । ।
याच्यमानस्तु यो दात्रा निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् । । २.०४ । ।
यश्चार्थं साधयेत्तेन निक्षेप्तुरननुज्ञया ।
तत्रापि दण्ड्यः स भवेत्तच्च सोदयं आवहेत् । । २.०५ । ।
ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितम् । । २.०६ । ।
एष एव विधिर्दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च । । २.०७ । ।
प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः ।
तस्याप्येष भवेद्धर्मः षडेते विधयः समाः । । २.०८ । ।
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
तत्संभूयसमुत्थानं व्यवहारपदं स्मृतम् । । ३.०१ । ।
फलहेतोरुपायेन कर्म संभूय कुर्वताम् ।
आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः । । ३.०२ । ।
समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।
क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधाः । । ३.०३ । ।
भाण्डपिण्डव्ययोद्धार भारसारान्ववेक्षणम् ।
कुर्युस्तेऽव्यभिचारेण समये स्वे व्यवस्थिताः । । ३.०४ । ।
प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् ।
असंदिष्टश्च यत्कुर्यात्सर्वैः संभूयकारिभिः । । ३.०५ । ।
दैवतस्करराजोत्थे व्यसने समुपस्थिते ।
यस्तत्स्वशक्त्या संरक्षेत्तस्यांशो दशमः स्मृतः । । ३.०६ । ।
एकस्य चेत्स्याद्व्यसनं दायादोऽस्य तदाप्नुयात् ।
अन्यो वासति दायादे शक्ताश्चेत्सर्व एव वा । । ३.०७ । ।
ऋत्विजां व्यसनेऽप्येवं अन्यस्तत्कर्म निस्तरेत् ।
लभेत दक्षिणाभागं स तस्मात्संप्रकल्पितम् । । ३.०८ । ।
ऋत्विग्याज्यं अदुष्टं यस्त्यजेदनपकारिणम् ।
अदुष्टं व र्त्विजं याज्यो विनेयौ तावुभावपि । । ३.०९ । ।
ऋत्विक्तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः ।
यदृच्छया च यः कुर्यादार्त्विज्यं प्रीतिपूर्वकम् । । ३.१० । ।
क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम् ।
यादृच्छिके तु संयाज्ये तत्त्यागे नास्ति किल्बिषम् । । ३.११ । ।
शुल्कस्थानं वणिक्प्राप्तः शुल्कं दद्याद्यथोपगम् ।
न तद्व्यतिहरेद्राज्ञां बलिरेष प्रकल्पितः । । ३.१२ । ।
शुल्कस्थानं परिहरन्न काले क्रयविक्रयी ।
मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणं अत्ययम् । । ३.१३ । ।
कश्चिच्चेत्संचरन्देशात्प्रेयादभ्यागतो वणिक् ।
राजास्य भाण्डं तद्रक्षेत्यावद्दायाददर्शनम् । । ३.१४ । ।
दायादेऽसति बन्धुभ्यो ज्ञातिभ्यो वा तदर्पयेत् ।
तदभावे सुगुप्तं तद्धारयेद्दशतीः समाः । । ३.१५ । ।
अस्वामिकं अदायादं दशवर्षस्थितं ततः ।
राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते । । ३.१६ । ।
दत्त्वा द्रव्यं असम्यग्यः पुनरादातुं इच्छति ।
दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् । । ४.०१ । ।
अदेयं अथ देयं च दत्तं चादत्तं एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः । । ४.०२ । ।
तत्र ह्यष्टावदेयानि देयं एकविधं स्मृतम् ।
दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् । । ४.०३ । ।
अन्वाहितं याचितकं आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति । । ४.०४ । ।
आपत्स्वपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् । । ४.०५ । ।
कुटुम्बभरणाद्द्रव्यं यत्किंचिदतिरिच्यते ।
तद्देयं उपहृत्यान्यद्ददद्दोषं अवाप्नुयात् । । ४.०६ । ।
पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः । । ४.०७ । ।
अदत्तं तु भयक्रोध शोकवेगरुजान्वितैः ।
तथोत्कोचपरीहास व्यत्यासच्छलयोगतः । । ४.०८ । ।
बालमूढास्वतन्त्रार्त मत्तोन्मत्तापवर्जितम् ।
कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् । । ४.०९ । ।
अपात्रे पात्रं इत्युक्ते कार्ये चाधर्मसंहिते ।
यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् । । ४.१० । ।
गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
अदत्तादायको दण्ड्यस्तथादेयस्य दायकः । । ४.११ । ।
अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते । । ५.०१ । ।
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः । । ५.०२ । ।
शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः । । ५.०३ । ।
सामान्यं अस्वतन्त्रत्वं एषां आहुर्मनीषिणः ।
जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च । । ५.०४ । ।
कर्मापि द्विविधं ज्ञेयं अशुभं शुभं एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् । । ५.०५ । ।
गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् । । ५.०६ । ।
इष्टतः स्वामिनश्चाङ्गैरुपस्थानं अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् । । ५.०७ । ।
आ विद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च । । ५.०८ । ।
ब्रह्मचारी चरेद्भैक्षं अधःशाय्यनलङ्कृतः ।
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर्गृहे । । ५.०९ । ।
नासंदिष्टः प्रतिष्ठेत तिष्ठेद्वापि गुरुं क्वचित् ।
संदिष्टः कर्म कुर्वीत शक्तश्चेदविचारयन् । । ५.१० । ।
यथाकालं अधीयीत यावन्न विमना गुरुः ।
आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः । । ५.११ । ।
अनुशास्यश्च गुरुणा न चेदनुविधीयते ।
अवधेनाथवा हन्यात्रज्ज्वा वेणुदलेन वा । । ५.१२ । ।
भृशं न ताडयेदेनं नोत्तमाङ्गे न वक्षसि ।
अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः । । ५.१३ । ।
समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात्स्वगृहानेषा शिष्यवृत्तिरुदाहृता । । ५.१४ । ।
स्वशिल्पं इच्छन्नाहर्तुं बान्धवानां अनुज्ञया ।
आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् । । ५.१५ । ।
आचार्यः शिक्षयेदेनं स्वगृहाद्दत्तभोजनम् ।
न चान्यत्कारयेत्कर्म पुत्रवच्चैनं आचरेत् । । ५.१६ । ।
शिक्षयन्तं अदुष्टं च यस्त्वाचार्यं परित्यजेत् ।
बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति । । ५.१७ । ।
शिक्षितोऽपि कृतं कालं अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् । । ५.१८ । ।
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश्चानुमान्यैनं अन्तेवासी निवर्तयेत् । । ५.१९ । ।
भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः । । ५.२० । ।
उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः । । ५.२१ । ।
अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि ।
सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः । । ५.२२ । ।
शुभकर्मकरास्त्वेते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः । । ५.२३ । ।
गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।
अनाकालभृतस्तद्वदाधत्तः स्वामिना च यः । । ५.२४ । ।
मोक्षितो महतश्चर्णात्प्राप्तो युद्धात्पणे जितः ।
तवाहं इत्युपगतः प्रव्रज्यावसितः कृतः । । ५.२५ । ।
भक्तदासश्च विज्ञेयस्तथैव वडवाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः । । ५.२६ । ।
तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्रसादाद्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् । । ५.२७ । ।
यश्चैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् ।
दासत्वात्स विमुच्येत पुत्रभागं लभेत च । । ५.२८ । ।
अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।
संभक्षितं यद्दुर्भिक्षे न तच्छुध्येत कर्मणा । । ५.२९ । ।
आधत्तोऽपि धनं दत्त्वा स्वामी यद्येनं उद्धरेत् ।
अथोपगमयेदेनं स विक्रीतादनन्तरः । । ५.३० । ।
दत्त्वा तु सोदयं ऋणं ऋणी दास्यात्प्रमुच्यते ।
कृतकालाभ्युपगमात्कृतकोऽपि विमुच्यते । । ५.३१ । ।
तवाहं इत्युपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा । । ५.३२ । ।
राज्ञ एव तु दासः स्यात्प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन । । ५.३३ । ।
भक्तस्योपेक्षणात्सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद्वडवायाश्च मुच्यते वडवाभृतः । । ५.३४ । ।
विक्रीणीते य आत्मानं स्वतन्त्रः सन्नराधमः ।
स जघन्यतरस्तेषां नैव दास्यात्प्रमुच्यते । । ५.३५ । ।
चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते । । ५.३६ । ।
वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता । । ५.३७ । ।
तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् । । ५.३८ । ।
अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् । । ५.३९ । ।
स्वदासं इच्छेद्यः कर्तुं अदासं प्रीतमानसः ।
स्कन्धादादाय तस्यापि भिन्द्यात्कुम्भं सहाम्भसा । । ५.४० । ।
अक्षताभिः सपुष्पाभिर्मूर्धन्येनं अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तं अथोत्सृजेत् । । ५.४१ । ।
ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः । । ५.४२ । ।
भृतानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् । । ६.१ । ।
भृताय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् ।
आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् । । ६.२ । ।
भृतावनिश्चितायां तु दशभागं समाप्नुयुः ।
लाभगोबीजसस्यानां वणिग्गोपकृषीबलाः । । ६.३ । ।
कर्मोपकरणं चैषां क्रियां प्रति यदाहृतम् ।
आप्तभावेन कुर्वीत न जिह्मेन समाचरेत् । । ६.४ । ।
कर्माकुर्वन्प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिं आवहेत् । । ६.५ । ।
कालेऽपूर्णे त्यजेत्कर्म भृतिनाशोऽस्य चार्हति ।
स्वामिदोषादपाक्रामन्यावत्कृतं अवाप्नुयात् । । ६.६ । ।
भृतिषड्भागं आभाष्य पथि युग्यकृतं त्यजन् ।
अददत्कारयित्वा तु कर्मैवं सोदयां भृतिम् । । ६.७ । ।
अनयन्भाटयित्वा तु भाण्डवान्यानवाहने ।
दाप्यो भृतिचतुर्भागं समं अर्धपथे त्यजन् । । ६.८ । ।
अनयन्वाहकोऽप्येवं भृतिहानिं अवाप्नुयात् ।
द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नं आचरन् । । ६.९ । ।
भाण्डं व्यसनं आगच्छेद्यदि वाहकदोषतः ।
दाप्यो यत्तत्र नष्टं स्याद्दैवराजकृतादृते । । ६.१० । ।
गवां शताद्वत्सतरी धेनुः स्याद्द्विशताद्भृतिः ।
प्रति सम्वत्सरं गोपे सदोहश्चाष्टमेऽहनि । । ६.११ । ।
उपानयेत्गा गोपाय प्रत्यहं रजनीक्षये ।
चीऋणाः पीताश्च ता गोपः सायाह्ने प्रत्युपानयेत् । । ६.१२ । ।
स्याच्चेद्गोव्यसनं गोपो व्यायच्छेत्तत्र शक्तितः ।
अशक्तस्तूर्णं आगम्य स्वामिने तन्निवेदयेत् । । ६.१३ । ।
अव्यायच्छन्नविक्रोशन्स्वामिने चानिवेदयन् ।
वोढुं अर्हति गोपस्तां विनयं चापि राजनि । । ६.१४ । ।
नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण गोपायैव निपातयेत् । । ६.१५ । ।
अजाविके तथारुद्धे वृकैः पाले त्वनायति ।
यत्प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् । । ६.१६ । ।
तासां चैवानिरुद्धानां चरन्तीनां मिथो वने ।
यां उत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी । । ६.१७ । ।
विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति । । ६.१८ । ।
एतेन सर्वपालानां विवादः समुदाहृतः ।
मृतेषु च विशुद्धिः स्यात्पालस्याङ्कादिदर्शनात् । । ६.१९ । ।
शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस्तदावहेत् ।
अप्रयच्छंस्तदा शुल्कं अनुभूय पुमान्स्त्रियम् । । ६.२० । ।
अयोनौ क्रमते यस्तु बहुभिर्वापि वासयेत् ।
शुल्कं अष्टगुणं दाप्यो विनयस्तावदेव च । । ६.२१ । ।
पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत्तु यः ।
स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् । । ६.२२ । ।
स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत् ।
ग्रहीतुराभवेद्भग्नं नष्टं चान्यत्र संप्लवात् । । ६.२३ । ।
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः । । ७.१ । ।
द्रव्यं अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् । । ७.२ । ।
अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः ।
हीनमूल्यं अवेलायां क्रीणंस्तद्दोषभाग्भवेत् । । ७.३ । ।
न गूहेतागमं क्रेता शुद्धिस्तस्य तदागमात् ।
विपर्यये तुल्यदोषः स्तेयदण्डं च सोऽर्हति । । ७.४ । ।
विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् ।
दद्याद्दण्डं तथा राज्ञे विधिरस्वामिविक्रये । । ७.५ । ।
परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते । । ७.६ । ।
ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भूञ्जीत स्तेनः स्यादनिवेदयन् । । ७.७ । ।
स्वं अप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात्तत्र तं शुद्धं अशुद्धं स्यात्ततोऽन्यथा । । ७.८ । ।
विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।
विक्रीयासंप्रदानं तद्विवादपदं उच्यते । । ८.१ । ।
लोकेऽस्मिन्द्विविधं द्रव्यं जङ्गमं स्थावरं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत्पण्यं उच्यते । । ८.२ । ।
षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया । । ८.३ । ।
विक्रीय पण्यं मूल्येन क्रेतुर्यो न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् । । ८.४ । ।
अर्घश्चेदपहीयेत सोदयं पण्यं आवहेत् ।
स्थायिनां एष नियमो दिग्लाभो दिग्विचारिणाम् । । ८.५ । ।
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः । । ८.६ । ।
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च । । ८.७ । ।
तथान्यहस्ते विक्रीय योऽन्यस्मै संप्रयच्छति ।
सोऽपि तद्द्विगुणं दाप्यो विनेयस्तावदेव च । । ८.८ । ।
दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् । । ८.९ । ।
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।
अदत्तेऽन्यत्र समयान्न विक्रेतुरतिक्रमः । । ८.१० । ।
लाभार्थे वणिजां सर्व पण्येषु क्रयविक्रयः ।
स च लाभोऽर्घं आसाद्य महान्भवति वा न वा । । ८.११ । ।
तस्माद्देशे च काले च वणिगर्घं पराक्रमेत् ।
न जिह्मेन प्रवर्तेत श्रेयानेवं वणिक्पथः । । ८.१२ । ।
क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीत्वानुशय इत्येतद्विवादपदं उच्यते । । ९.१ । ।
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतम् । । ९.२ । ।
द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशं आवहेत् ।
द्विगुणं तत्तृतीयेऽह्नि परतः क्रेतुरेव तत् । । ९.३ । ।
क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः । । ९.४ । ।
त्र्यहाद्दोह्यं परीक्षेत पञ्चाहाद्वाह्यं एव तु ।
मुक्तावज्रप्रवालानां सप्ताहं स्यात्परीक्षणम् । । ९.५ । ।
द्विपदां अर्धमासं स्यात्पुंसां तद्द्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानां एकाहं लोहवाससाम् । । ९.६ । ।
परिभुक्तं च यद्वासः क्लिष्टरूपं मलीमसम् ।
सदोषं अपि विक्रीतं विक्रेतुर्न भवेत्पुनः । । ९.७ । ।
मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस्त्रिस्त्रिभागस्तु चतुःकृत्वोऽर्धं एव च । । ९.८ । ।
अर्धक्षयात्तु परतः पादांशापचयः क्रमात् ।
यावत्क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये । । ९.९ । ।
लोहानां अपि सर्वेषां हेतुरग्निक्रियाविधौ ।
क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसंगमात् । । ९.१० । ।
सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् ।
शतं अष्टपलं ज्ञेयं क्षयस्स्यात्त्रपुसीसयोः । । ९.११ । ।
ताम्रे पञ्चपलं विद्याद्विकारा ये च तन्मयाः ।
तद्धातूनां अनेकत्वादयसोऽनियमः क्षये । । ९.१२ । ।
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते ।
सूत्रकार्पासिकोर्णानां वृद्धिर्दशपलं शतम् । । ९.१३ । ।
स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् ।
त्रिपलं तु सुसूक्ष्माणां अन्तःक्षय उदाहृतः । । ९.१४ । ।
त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु ।
कौषेयवल्कलानां तु नैव वृद्धिर्न च क्षयः । । ९.१५ । ।
क्रीत्वा नानुशयं कुर्याद्वणिक्पण्यविचक्षणः ।
वृद्धिक्षयौ तु जानीयात्पण्यानां आगमं तथा । । ९.१६ । ।
पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् । । १०.१ । ।
पाषण्डनैगमश्रेणी पूगव्रातगणादिषु ।
संरक्षेत्समयं राजा दुर्गे जनपदे तथा । । १०.२ । ।
यो धर्मः कर्म यच्चैषां उपस्थानविधिश्च यः ।
यच्चैषां वृत्त्युपादानं अनुमन्येत तत्तथा । । १०.३ । ।
प्रतिकूलं च यद्राज्ञः प्रकृत्यवमतं च यत् ।
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् । । १०.४ । ।
मिथः संघातकरणं अहितं शस्त्रधारणम् ।
परस्परोपघातं च तेषां राजा न मर्षयेत् । । १०.५ । ।
पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः ।
आवहेयुर्भयं घोरं व्याधिवत्ते ह्युपेक्षिताः । । १०.६ । ।
दोषवत्करणं यत्स्यादनाम्नायप्रकल्पितम् ।
प्रवृत्तं अपि तद्राजा श्रेयस्कामो निवर्तयेत् । । १०.७ । ।
सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजस्तु सः । । ११.१ । ।
क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः । । ११.२ । ।
ग्रामसीमासु च बहिर्ये स्युस्तत्कृषिजीविनः ।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः । । ११.३ । ।
समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् ।
तुषाङ्गारकपालैश्च कुम्भैरायतनैर्द्रुमैः । । ११.४ । ।
अभिज्ञातैश्च वल्मीक स्थलनिम्नोन्नतादिभिः ।
केदाराराममार्गैश्च पुराणैः सेतुभिस्तथा । । ११.५ । ।
निम्नगापहृतोत्सृष्ट नष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच्च प्रमाणैर्भोगदर्शनैः । । ११.६ । ।
अथ चेदनृतं ब्रूयुः सामन्तास्तद्विनिश्चये ।
सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । । ११.७ । ।
गणवृद्धादयस्त्वन्ये दण्डं दाप्याः पृथक्पृथक् ।
विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः । । ११.८ । ।
नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि ।
गुरुत्वादस्य धर्मस्य क्रियैषा बहुषु स्थिता । । ११.९ । ।
एकश्चेदुन्नयेत्सीमां सोपवासः समाहितः ।
रक्तमाल्याम्बरधरः क्षितिं आरोप्य मूर्धनि । । ११.१० । ।
यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमां उद्धरेदिष्टतः स्वयम् । । ११.११ । ।
एतेनैव गृहोद्यान निपानायतनादिषु ।
विवादविधिराख्यातस्तथा ग्रामान्तरेषु च । । ११.१२ । ।
अवस्करस्थलश्वभ्र भ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थान रथ्यामार्गान्न रोधयेत् । । ११.१३ । ।
परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ।
महागुणोऽल्पबाधश्च वृद्धिरिष्टा क्षये सति । । ११.१४ । ।
सेतुस्तु द्विदिधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।
तोयप्रवर्तनान्खेयो बन्ध्यः स्यात्तन्निवर्तनात् । । ११.१५ । ।
नान्तरेणोदकं सस्यं नश्येदभ्युदकेन तु ।
य एवानुदके दोषः स एवाभ्युदके स्मृतः । । ११.१६ । ।
पूर्वप्रवृत्तं उत्सन्नं अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् । । ११.१७ । ।
मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे ।
राजानं आमन्त्र्य ततः प्रकुर्यात्सेतुकर्म तत् । । ११.१८ । ।
अतोऽन्यथा क्लेशभाक्स्यान्मृगव्याधानुदर्शनात् ।
इषवस्तस्य नश्यन्ति यो विद्धं अनुविध्यति । । ११.१९ । ।
अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः ।
क्षेत्रं चेद्विकृषेत्कश्चिदश्नुवीत स तत्फलम् । । ११.२० । ।
विकृष्यमाणे क्षेत्रे चेत्क्षेत्रिकः पुनराव्रजेत् ।
खिलोपचारं तत्सर्वं दत्त्वा स्वक्षेत्रं आप्नुयात् । । ११.२१ । ।
तदष्टभागापचयाद्यावत्सप्त गताः समाः ।
संप्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः । । ११.२२ । ।
संवत्सरेणार्धखिलं खिलं तद्वत्सरैस्त्रिभिः ।
पञ्चवर्षावसन्नं तु स्यात्क्षेत्रं अटवीसमम् । । ११.२३ । ।
क्षेत्रं त्रिपुरुषं यत्स्याद्गृहं वा स्यात्क्रमागतम् ।
राजप्रसादादन्यत्र न तद्भोगः परं नयेत् । । ११.२४ । ।
उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालः शास्यो भवेत्तत्र न चेच्छक्त्या निवारयेत् । । ११.२५ । ।
समूलसस्यनाशे तु तत्स्वामी समं आप्नुयात् ।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् । । ११.२६ । ।
गौः प्रसूता दशाहात्च महोक्षाजाविकुञ्जराः ।
निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् । । ११.२७ । ।
माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा ।
अजाविके सवत्से तु दण्डः स्यादर्धमाषकः । । ११.२८ । ।
अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः ।
अदण्ड्या गर्भिणी गौश्च सूतिका चाभिसारिणी । । ११.२९ । ।
प्रोक्तस्तु द्विर्निषण्णानां वसन्त्यां तु चतुर्गुणम् ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस्तथा । । ११.३० । ।
या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः ।
न तत्र गोमिनो दण्डः पालस्तं दण्डं अर्हति । । ११.३१ । ।
राजग्राहगृहीतो वा वज्राशनिहतोऽपि वा ।
अथ सर्पेण दष्टो वा गिर्यग्रात्पतितोऽपि वा । । ११.३२ । ।
सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः ।
न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम् । । ११.३३ । ।
गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ।
सामन्तस्य शदो देयो धान्यं यत्तत्र वापितम् । गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु । । ११.३४ । ।
ग्रामोपान्ते च यत्क्षेत्रं विवीतान्ते महापथे । अनावृते चेत्तन्नाशे न पालस्य व्यतिक्रमः । । ११.३५ । ।
पथि क्षेत्रे वृतिः कार्या यां उष्ट्रो नावलोकयेत् । न लङ्घयेत्पशुर्नाश्वो न भिद्याद्यां च सूकरः । । ११.३६ । ।
गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् । तस्मात्तन्नाक्षिपेद्राजा तद्धि मूलं कुटुम्बिनाम् । । ११.३७ । ।
वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते । हीयते हीयमाने च वृद्धिहेतुं अतः श्रयेत् । । ११.३८ । ।
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगनामैतद्विवादपदं उच्यते । । १२.१ । ।
स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते ।
वरणाद्ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः । । १२.२ । ।
तयोरनियतं प्रोक्तं वरणं दोषदर्शनात् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् । । १२.३ । ।
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः स्त्रियाः । । १२.४ । ।
ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः । । १२.५ । ।
द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती ज्ञेयावेकोऽन्यः क्षत्रियापतिः । । १२.६ । ।
आ सप्तमात्पञ्चमाद्वा बन्धुभ्यः पितृमातृताः ।
अविवाह्याः सगोत्राः स्युः समानप्रवरास्तथा । । १२.७ । ।
परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः ।
पुमांश्चेदविकल्पेन स कन्यां लब्धुं अर्हति । । १२.८ । ।
सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः ।
स्थूलघाटस्तनूरुत्वगविलग्नगतिस्वरः । । १२.९ । ।
विट्चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।
पुमान्स्यांल्लक्षणैरेतैर्विपरीतैस्तु पण्डकः । । १२.१० । ।
चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।
चिकित्स्यश्चाचिकित्स्यश्च तेषां उक्तो विधिः क्रमात् । । १२.११ । ।
निसर्गपण्डो वध्रिश्च पक्षपण्डस्तथैव च ।
अभिशापाद्गुरो रोगाद्देवक्रोधात्तथैव च । । १२.१२ । ।
ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः ।
आक्षिप्तो मोघबीजश्च शालीनोऽन्यपतिस्तथा । । १२.१३ । ।
तत्राद्यावप्रतीकरौ पक्षाख्यो मासं आचरेत् ।
अनुक्रमात्त्रयस्यास्य कालः संवत्सरः स्मृतः । । १२.१४ । ।
ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः ।
संत्यक्तव्याः पतितवत्क्षतयोन्या अपि स्त्रियाः । । १२.१५ । ।
आक्षिप्तमोघबीजाभ्यां पत्यावप्रतिकर्मणि ।
पतिरन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु । । १२.१६ । ।
शालीनस्यापि धृष्टस्त्री संयोगाद्भज्यते ध्वजः ।
तं हीनवेगं अन्यस्त्री बालाद्याभिरुपक्रमेत् । । १२.१७ । ।
अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारं एतत्कार्यं प्रजापतेः । । १२.१८ । ।
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रं अर्हति । । १२.१९ । ।
पिता दद्यात्स्वयं कन्यां भ्राता वानुमते पितुः ।
मातामहो मातुलश्च सकुल्या बान्धवास्तथा । । १२.२० । ।
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्यां अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः । । १२.२१ । ।
यदा तु नैव कश्चित्स्यात्कन्या राजानं आव्रजेत् ।
अनुज्ञया तस्य वरं प्रतीत्य वरयेत्स्वयम् । । १२.२२ । ।
सवर्णं अनुरूपं च कुलरूपवयःश्रुतैः ।
सह धर्मं चरेत्तेन पुत्रांश्चोत्पादयेत्ततः । । १२.२३ । ।
प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीनृतून्समतिक्रम्य कन्यान्यं वरयेद्वरम् । । १२.२४ । ।
कन्या नर्तुं उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन्न दद्युस्तां भर्त्रे ते स्युर्भ्रूणहभिः समाः । । १२.२५ । ।
यावन्तश्च र्तवस्तस्याः समतीता पतिं विना ।
तावत्यो भ्रूणहत्याः स्युस्तस्य यो न ददाति ताम् । । १२.२६ । ।
अतोऽप्रवृत्ते रजसि कन्यां दद्यात्पिता सकृत् ।
महदेनः स्पृशेदेनं अन्यथैष विधिः सताम् । । १२.२७ । ।
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् । । १२.२८ । ।
ब्राह्मादिषु विवाहेषु पञ्चस्वेषु विधिः स्मृतः ।
गुणापेक्षं भवेद्दानं आसुरादिषु च त्रिषु । । १२.२९ । ।
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेद्वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् । । १२.३० । ।
नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् ।
दोषे तु सति नागः स्यादन्योन्यं त्यजतोस्तयोः । । १२.३१ । ।
दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्यस्तत्र चोरवत् । । १२.३२ । ।
यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् । । १२.३३ । ।
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं प्राप्नुयाद्दण्डं तस्या दोषं अदर्शयन् । । १२.३४ । ।
प्रतिगृह्य तु यः कन्यां अदुष्टां उत्सृजेद्वरः ।
विनेयः सोऽप्यकामोऽपि कन्यां तां एव चोद्वहेत् । । १२.३५ । ।
दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः । । १२.३६ । ।
उन्मत्तः पतितः क्लीबो दुर्भगस्त्यक्तबान्धवः ।
कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे । । १२.३७ । ।
अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च । । १२.३८ । ।
आर्षश्चैवाथ दैवश्च गान्धर्वश्चासुरस्तथा ।
राक्षसोऽनन्तरस्तस्मात्पैशाचस्त्वष्टमः स्मृतः । । १२.३९ । ।
सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद्त्वलंकृताम् ।
सह धर्मं चरेत्युक्त्वा प्राजापत्यो विधीयते । । १२.४० । ।
वस्त्रगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्यादृत्विजे कर्म कुर्वते । । १२.४१ । ।
इच्छन्तीं इच्छते प्राहुर्गान्धर्वो नाम पञ्चमम् ।
विवाहस्त्वासुरो ज्ञेयः शुल्कसंव्यवहारतः । । १२.४२ । ।
प्रसह्य हरणादुक्तो विवाहो राक्षसस्तथा ।
सुप्तमत्तोपगमनात्पैशाचस्त्वष्टमोऽधमः । । १२.४३ । ।
एषां तु धर्म्यास्चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्याद्गान्धर्वस्त्रयोऽधर्म्यास्त्वतः परे । । १२.४४ । ।
परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा । । १२.४५ । ।
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारं अर्हति । । १२.४६ । ।
कौमारं पतिं उत्सृज्य यान्यं पुरुषं आश्रिता ।
पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता । । १२.४७ । ।
असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता । । १२.४८ । ।
स्त्री प्रसूताप्रसूता वा पत्यावेव तु जीवति ।
कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा । । १२.४९ । ।
मृते भर्तरि या प्राप्तान्देवरानप्यपास्य तु ।
उपगच्छेत्परं कामात्सा द्वितीया प्रकीर्तिता । । १२.५० । ।
प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहं इत्युपगता सा तृतीया प्रकीर्तिता । । १२.५१ । ।
देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता । । १२.५२ । ।
पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः ।
पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा । । १२.५३ । ।
अपत्यं उत्पादयितुस्तासां या शुल्कतो हृता ।
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत्फलम् । । १२.५४ । ।
क्षेत्रिकस्य यदज्ञातं क्षेत्रे बीजं प्रदीयते ।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद्भवेत् । । १२.५५ । ।
ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।
फलभुग्यस्य तत्क्षेत्रं न बीजी फलभाग्भवेत् । । १२.५६ । ।
महोक्षो जनयेद्वत्सान्यस्य गोषु व्रजे चरन् ।
तस्य ते यस्य ता गावो मोघं स्यन्दितं आर्षभम् । । १२.५७ । ।
क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते ।
तदपत्यं द्वयोरेव बीजिक्षेत्रिकयोर्मतम् । । १२.५८ । ।
नर्ते क्षेत्रं भवेत्सस्यं न च बीजं विनास्ति तत् ।
अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः । । १२.५९ । ।
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे । । १२.६० । ।
प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।
स्वेच्छयोपेयुषो दारान्न दोषः साहसो भवेत् । । १२.६१ । ।
परस्त्रिया सहाकालेऽदेशे वा भवतो मिथः ।
स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः । । १२.६२ । ।
नदीनां संगमे तीर्थेष्वारामेषु वनेषु च ।
स्त्री पुमांश्च समेयातां ग्राह्यं संग्रहणं भवेत् । । १२.६३ । ।
दूतीप्रस्थापनैश्चैव लेखासंप्रेषणैरपि ।
अन्यैरपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् । । १२.६४ । ।
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्शयेत्तथा ।
परस्परस्यानुमते तच्च संग्रहणं भवेत् । । १२.६५ । ।
भक्षैर्वा यदि वा भोज्यैर्वस्त्रैर्माल्यैस्तथैव च ।
संप्रेष्यमानैर्गन्धैश्च सर्वं संग्रहणं स्मृतम् । । १२.६६ । ।
दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् ।
ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् । । १२.६७ । ।
पाणौ यश्च निगृह्णीयद्वेण्यां वस्त्रान्तरेऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रुयात्सर्वं संग्रहणं स्मृतम् । । १२.६८ । ।
स्वजात्यतिक्रमे पुंसां उक्तं उत्तमसाहसम् ।
विपर्यये मध्यमस्तु प्रातिलोमे प्रमापणम् । । १२.६९ । ।
कन्यायां असकामायां द्व्याङ्गुलस्यावकर्तनम् ।
उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा । । १२.७० । ।
सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः ।
किंत्वलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् । । १२.७१ । ।
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा । । १२.७२ । ।
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या । । १२.७३ । ।
आसां अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते । । १२.७४ । ।
पशुयोन्यां अतिक्रामन्विनेयः स दमं शतम् ।
मध्यमं साहसं गोषु तदेवान्त्यावसायिषु । । १२.७५ । ।
अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।
प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् । । १२.७६ । ।
स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः । । १२.७७ । ।
आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् ।
गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः । । १२.७८ । ।
अनुत्पन्नप्रजायास्तु पतिः प्रेयाद्यदि स्त्रियाः ।
नियुक्ता गुरुभिर्गच्छेद्देवरं पुत्रकाम्यया । । १२.७९ । ।
स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः ।
पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा । । १२.८० । ।
घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।
मुखान्मुखं परिहरन्गात्रैर्गात्राण्यसंस्पृशन् । । १२.८१ । ।
स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्कां अनिच्छन्तीम् ।
न गच्छेद्गर्भिणीं निन्द्यां अनियुक्तां च बन्धुभिः । । १२.८२ । ।
अनियुक्ता तु या नारी देवराज्जनयेत्सुतम् ।
जारजातं अरिक्थीयं तं आहुर्धर्मवादिनः । । १२.८३ । ।
तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।
यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ । । १२.८४ । ।
कुले तदवशेषे तु संतानार्थं न कामतः ।
नियुक्तो गुरुभिर्गच्छेद्भ्रातृभार्यां यवीयसः । । १२.८५ । ।
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।
ततस्तद्वचनाद्गच्छेदनुशिष्य स्त्रिया सह । । १२.८६ । ।
पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।
सकृदा गर्भाधानाद्वा कृते गर्भे स्नुषैव सा । । १२.८७ । ।
अतोऽन्यथा वर्तमानः पुमान्स्त्री वापि कामतः ।
विनेयौ सुभृशं राज्ञा किल्बिषी स्यादनिग्रहात् । । १२.८८ । ।
ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि । । १२.८९ । ।
अन्योन्यं त्यजतोर्नागः स्यादन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर्निगूढाया व्यभिचारादृते स्त्रियाः । । १२.९० । ।
व्यभिचारे स्त्रिया मौण्ड्यं अधःशयनं एव च ।
कदन्नं वा कुवासश्च कर्म चावस्करोञ्झनम् । । १२.९१ । ।
स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश्च वधं इच्छन्तीं स्त्रियं निर्वासयेद्गृहात् । । १२.९२ । ।
अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद्बुधः । । १२.९३ । ।
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्नेवं स दोषभाक् । । १२.९४ । ।
अनुकूलां अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन्भार्यां अवस्थाप्यो राज्ञा दण्डेन भूयसा । । १२.९५ । ।
अज्ञातदोषेणोढा या निर्गता नान्यं आश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयं आश्रयेत् । । १२.९६ । ।
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते । । १२.९७ । ।
अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् । । १२.९८ । ।
क्षत्रिया षट्समास्तिष्ठेदप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे त्वितरा वसेत् । । १२.९९ । ।
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।
विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः । । १२.१०० । ।
अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् ।
जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः । । १२.१०१ । ।
प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः ।
अतोऽन्यगमने स्त्रीणां एवं दोषो न विद्यते । । १२.१०२ । ।
आनुलोम्येन वर्णानां यज्जन्म स विधिः स्मृतः ।
प्रातिलोम्येन यज्जन्म स ज्ञेयो वर्णसंकरः । । १२.१०३ । ।
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा ।
द्व्यन्तरश्चानुलोम्येन तथैव प्रतिलोमतः । । १२.१०४ । ।
उग्रः पारशवश्चैव निषादश्चानुलोमतः ।
उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः । । १२.१०५ । ।
ब्राह्मण्या अपि चाण्डाल सूतवैदेहका अपि ।
अपरेभ्यस्त्रयस्त्रिभ्या विज्ञेयः प्रतिलोमतः । । १२.१०६ । ।
अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः । । १२.१०७ । ।
वैश्यापुत्रास्तु दौष्षन्त यवनायोगवा अपि ।
प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ । । १२.१०८ । ।
सूताद्याः प्रतिलोमास्तु ये जातिप्रतिलोमजाः ।
ते संकराः श्वपाकाद्यास्तेषां त्रिः सप्तको गणः । । १२.१०९ । ।
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायां अनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्रावेवं क्षत्रियवैश्ययोः । । १२.११० । ।
एकान्तरस्तु दौष्षन्तो वैश्यायां ब्राह्मणात्सुतः ।
शूद्रायां क्षत्रियात्तद्वन्निषादो नाम जायते । । १२.१११ । ।
शूद्रा पारशवं सूते ब्राह्मणादुत्तरं सुतम् ।
आनुलोम्येन वर्णानां पुत्रा ह्येते प्रकीर्तिताः । । १२.११२ । ।
सूतश्च मागधश्चैव पुत्रावायोगवस्तथा ।
प्रातिलोम्येन वर्णानां तद्वदेतेऽप्यनन्तराः । । १२.११३ । ।
अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात्सुतः ।
मागधायोगवौ तद्वद्द्वी पुत्रौ वैश्यशूद्रयोः । । १२.११४ । ।
ब्राह्मण्येकान्तरं वैश्यात्सूते वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात्पुत्रं एकान्तरं तथा । । १२.११५ । ।
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे ।
चाण्डालो जायते शूद्राद्ब्राह्मणी यत्र मुह्यति । । १२.११६ । ।
राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः ।
तस्माद्राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् । । १२.११७ । ।
13.दायभागः
विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद्विवादपदं बुधैः । । १३.१ । ।
पितर्यूर्ध्वं मृते पुत्रा विभजेयुर्धनं पितुः ।
मातुर्दुहितरोऽभावे दुहितारं तदन्वयः । । १३.२ । ।
मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निरष्टे वाप्यमरणे पितर्युपरतस्पृहे । । १३.३ । ।
पितैव वा स्वयं पुत्रान्विभजेद्वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर्भवेत् । । १३.४ । ।
बिभृयाद्वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षः कुले क्रिया । । १३.५ । ।
शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः । । १३.६ । ।
मात्रा च स्वधनं दत्तं यस्मै स्यात्प्रीतिपूर्वकम् ।
तस्याप्येष विधिर्दृष्टो मातापीष्टे यथा पिता । । १३.७ । ।
अध्यग्न्यध्यावहनिकं भर्तृदायस्तथैव च ।
भ्रातृमातृपितृभ्यश्च षड्विधं स्त्रीधनं स्मृतम् । । १३.८ । ।
स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु च ।
ब्राह्मादिषु चतुःष्वाहुः पितृगामीतरेषु तु । । १३.९ । ।
कुटुम्बं बिभृयाद्भ्रातुर्यो विद्यां अधिगच्छतः ।
भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् । । १३.१० । ।
वैद्योऽवैद्याय नाकामो दद्यादंशं स्वतो धनात् ।
पितृद्रव्यं तदाश्रित्य न चेत्तेन तदाहृतम् । । १३.११ । ।
द्वावांशौ प्रतिपद्येत विभजन्नात्मनः पिता ।
समांशभागिनी माता पुत्राणां स्यान्मृते पतौ । । १३.१२ । ।
ज्येष्ठायांशोऽधिको देयः ज्येष्ठाय तु वरः स्मृतः ।
समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा । । १३.१३ । ।
क्षेत्रजेष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः ।
वर्णावरेष्वंशहानिरूढाजातेष्वनुक्रमात् । । १३.१४ । ।
पित्रैव तु विभक्ता ये हीनाधिकसमैर्धनैः ।
तेषां स एव धर्मः स्यात्सर्वस्य हि पिता प्रभुः । । १३.१५ । ।
कानीनश्च सहोढश्च गूढायां यश्च जायते ।
तेषां वोढापिता ज्ञेयस्ते च भागहराः स्मृताः । । १३.१६ । ।
अज्ञातपितृको यश्च कानीनोऽनूढमातृकः ।
मातामहाय दद्यात्स पिण्डं रिक्थं हरेत च । । १३.१७ । ।
जाता ये त्वनियुक्तायां एकेन बहुभिस्तथा ।
अरिक्थभाजस्ते सर्वे बीजिनां एव ते सुताः । । १३.१८ । ।
दद्युस्ते बीजिने पिण्डं माता चेच्छुल्कतो हृता ।
अशुल्कोपगतायां तु पिण्डदा वोढुरेव ते । । १३.१९ । ।
पितृद्विट्पतितः पण्डो यश्च स्यादौपपातिकः ।
औरसा अपि नैतेऽंशं लभेरन्क्षेत्रजाः कुतः । । १३.२० । ।
दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः ।
भर्तव्याः स्युः कुले चैते तत्पुत्रास्त्वंशभागिनः । । १३.२१ । ।
द्विरामुष्यायणा दद्युर्द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थादर्धांशं आदद्युर्बीजिक्षेत्रिकयोस्तथा । । १३.२२ । ।
संसृष्टिनां तु यो भागस्तेषां एव स इष्यते ।
अतोऽन्यथांशभाजो हि निर्बीजिष्वितरानियात् । । १३.२३ । ।
भ्रातां अप्रजः प्रेयात्कश्चिच्चेत्प्रव्रजेत्तु वा ।
विभजेयुर्धनं तस्य शेषास्तु स्त्रीधनं विना । । १३.२४ । ।
भरणं चास्य कुर्वीरन्स्त्रीणां आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु । । १३.२५ । ।
स्याद्यस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद्भजेदेनां परतो बिभृयात्पतिः । । १३.२६ । ।
मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः । । १३.२७ । ।
परिक्षीणे पतिकुले निर्मणुष्ये निराश्रये ।
तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः । । १३.२८ । ।
पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान्निगृह्णीयात्पथश्च्युताम् । । १३.२९ । ।
स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यं अतस्तासां प्रजापतिरकल्पयत् । । १३.३० । ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रा रक्षन्ति वैधव्ये न स्त्री स्वातन्त्र्यं अर्हति । । १३.३१ । ।
यच्छिष्टं पितृदायेभ्यो दत्त्व र्णं पैतृकं च यत् ।
भ्रातृभिस्तद्विभक्तव्यं ऋणी न स्याद्यथा पिता । । १३.३२ । ।
येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस्तेषां पैतृकादेव ते धनात् । । १३.३३ । ।
अविद्यमाने पित्र्येऽर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातरं पूर्वसंस्कृतैः । । १३.३४ । ।
कुटुम्बार्थेषु चोद्युक्तस्तत्कार्यं कुरुते च यः ।
स भ्रातृभिर्बृंहणीयो ग्रासाछादनवाहनैः । । १३.३५ । ।
विभागधर्मसंदेहे दायादानां विनिर्णये ।
ज्ञातिभिर्भागलेख्यैश्च पृथक्कार्यप्रवर्तनात् । । १३.३६ । ।
भ्रातां अविभक्तानां एको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेदेषां पृथक्पृथक् । । १३.३७ । ।
दानग्रहणपश्वन्न गृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग्ज्ञेयाः पाकधर्मागमव्ययाः । । १३.३८ । ।
साक्षित्वं प्रातिभाव्यं च दानं ग्रहणं एव च ।
विभक्ता भ्रातरः कूर्युर्नाविभक्ता परस्परम् । । १३.३९ । ।
येषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तानवगच्छेयुर्लेख्यं अप्यन्तरेण तान् । । १३.४० । ।
यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न ते कृत्येषु संमताः । । १३.४१ । ।
स्वान्भागान्यदि दद्युस्ते विक्रीणीरन्नथापि वा ।
कुर्युर्यथेष्टं तत्सर्वं ईशन्ते स्वधनस्य ते । । १३.४२ । ।
औरसः क्षेत्रजश्चैव पुत्रिकापुत्र एव च ।
कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च । । १३.४३ । ।
पौनर्भवोऽपविद्धश्च लब्धः क्रीतः कृतस्तथा ।
स्वयं चोपगतः पुत्रा द्वादशैत उदाहृताः । । १३.४४ । ।
तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेयाज्जघन्यो यो य उत्तरः । । १३.४५ । ।
क्रमाद्ध्येते प्रपद्येरन्मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् । । १३.४६ । ।
पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् ।
पुत्रश्च दुहिता चोक्तौ पितुः संतानकारकौ । । १३.४७ । ।
अभावे तु दुहितॄणां सकुल्या बान्धवास्ततः ।
ततः सजात्याः सर्वेषां अभावे राजगामि तत् । । १३.४८ । ।
अन्यत्र ब्राह्मणात्किंतु राजा धर्मपरायणः ।
स स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः । । १३.४९ । ।
14.साहसम्
सहसा क्रियते कर्म यत्किंचिद्बलदर्पितैः ।
तत्साहसं इति प्रोक्तं सहो बलं इहोच्यते । । १४.१ । ।
तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् । । १४.२ । ।
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् । । १४.३ । ।
वासःपश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् । । १४.४ । ।
व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच्चान्यदुक्तं उत्तमसाहसम् । । १४.५ । ।
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर्ज्ञेयः पञ्चशतावरः । । १४.६ । ।
वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे । । १४.७ । ।
अविशेषेण सर्वेषां एष दण्डविधिः स्मृतः ।
वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति । । १४.८ । ।
शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च । । १४.९ । ।
स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः ।
धृतदण्डोऽप्यसंभोज्यो ज्ञेय उत्तमसाहसे । । १४.१० । ।
तस्यैव भेदः स्तेयं स्याद्विशेषस्तत्र चोच्यते ।
अतिसाहसं आक्रम्य स्तेयं आहुश्छलेन तु । । १४.११ । ।
तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः ।
क्षुद्रमध्योत्तमानां तु द्रव्याणां अपकर्षणात् । । १४.१२ । ।
मृद्भाण्डासनखट्वास्थि दारुचर्मतृणादि यत् ।
शमीधान्यमुद्गादीनि क्षुद्रद्रव्यं उदाहृतम् । । १४.१३ । ।
वासः कौशेयवर्जं च गोवर्जं पशवस्तथा ।
हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि । । १४.१४ । ।
हिरण्यरत्नकौशेय स्त्रीपुंगोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयं उत्तमम् । । १४.१५ । ।
उपायैर्विविधैरेषां छलयित्वापकर्षणम् ।
सुप्तप्रमत्तमत्तेभ्यः स्तेयं आहुर्मनीषिणः । । १४.१६ । ।
सहोढग्रहणात्स्तेयं होढेऽसत्युपभोगतः ।
शङ्का त्वसज्जनैकार्थ्यादनायव्ययतस्तथा । । १४.१७ । ।
भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।
शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः । । १४.१८ । ।
उत्क्रोशतां जनानां च ह्रियमाणे धनेऽपि च ।
श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः । । १४.१९ । ।
साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् । । १४.२० । ।
गवादिषु प्रणष्टेषु द्रव्येष्वपहृतेषु वा ।
पदेनान्वेषणं कुर्युरा मूलात्तद्विदो जनाः । । १४.२१ । ।
ग्रामे व्रजे विवीते वा यत्र संनिपतेत्पदम् ।
वोढव्यं तद्भवेत्तेन न चेत्सोऽन्यत्र तन्नयेत् । । १४.२२ । ।
पदे प्रमूढे भग्ने वा विषमत्वाज्जनान्तिके ।
यस्त्वासन्नतरो ग्रामो व्रजो वा तत्र पातयेत् । । १४.२३ । ।
समेऽध्वनि द्वयोर्यत्र तेन प्रायोऽशुचिर्जनः ।
पूर्वापदानैर्दृष्टो वा संसृष्टो वा दुरात्मभिः । । १४.२४ । ।
ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः ।
रात्रिसंचारिणो ये च बहिः कुर्युर्बहिश्चराः । । १४.२५ । ।
स्तेनेष्वलभ्यमानेषु राजा दद्यात्स्वकाद्धनात् ।
उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते । । १४.२६ । ।
देशजातिकुलादीनां आक्रोशन्यङ्गसंहितम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते । । १५.१ । ।
निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
गौरवानुक्रमादस्य दण्डोऽप्यत्र क्रमाद्गुरुः । । १५.२ । ।
साक्षेपं निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंयुतम् ।
पातनीयैरुपक्रोशैस्तीव्रं आहुर्मनीषिणः । । १५.३ । ।
परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश्चोपघातो दण्डपारुष्यं उच्यते । । १५.४ । ।
तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् ।
अवगूरणनिःसङ्ग पातनक्षतदर्शनैः । । १५.५ । ।
हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ।
त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् । । १५.६ । ।
विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि ।
विशुद्धिर्दण्डभाक्त्वं च तत्र संबध्यते यथा । । १५.७ । ।
पारुष्ये सति संरम्भादुत्पन्ने क्षुब्धयोर्द्वयोः ।
स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते । । १५.८ । ।
पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयोः ।
विशेषश्चेन्न दृश्येत विनयः स्यात्समस्तयोः । । १५.९ । ।
पूर्वं आक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ।
पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । । १५.१० । ।
द्वयोरापन्नयोस्तुल्यं अनुबध्नाति यः पुनः ।
स तयोर्दण्डं आप्नोति पूर्वो वा यदि वेतरः । । १५.११ । ।
श्वपाकपण्डचण्डाल व्यङ्गेषु वधवृत्तिषु ।
हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च । । १५.१२ । ।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ।
न च तद्दण्डपारुष्ये दोषं आहुर्मनीषिणः । । १५.१३ । ।
यं एव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।
स एव विनयं कुर्यान्न तद्विनयभाङ्नृपः । । १५.१४ । ।
मला ह्येते मनुष्येषु धनं एषां मलात्मकम् ।
अपि तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् । । १५.१५ । ।
शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति ।
वैश्योऽध्यर्धं शतं द्वे वा शूद्रस्तु वधं अर्हति । । १५.१६ । ।
विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः । । १५.१७ । ।
समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् । । १५.१८ । ।
काणं अप्यथवा खञ्जं अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो राज्ञा कार्षापणावरम् । । १५.१९ । ।
न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् ।
न राज्ञा धृतदण्डं च दण्डभाक्तद्व्यतिक्रमात् । । १५.२० । ।
लोकेऽस्मिन्द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ ।
ब्राह्मणश्चैव राजा च तौ हीदं बिभृतो जगत् । । १५.२१ । ।
पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः ।
वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेत् । । १५.२२ । ।
नामजातिग्रहं तेषां अभिद्रोहेण कुर्वतः ।
निखेयोऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः । । १५.२३ । ।
धर्मापदेशं दर्पेण द्विजानां अस्य कुर्वतः ।
तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः । । १५.२४ । ।
येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गं तस्य छेत्तव्यं एवं शुद्धिं अवाप्नुयात् । । १५.२५ । ।
सहासनं अभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ।
कट्यां कृटाङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् । । १५.२६ । ।
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतः शिश्नं अवशर्धयतो गुदम् । । १५.२७ । ।
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्नासिकायां च ग्रीवायां वृषणेषु च । । १५.२८ । ।
उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिह्वाछेदाद्भवेच्छुद्धिः सर्वस्वहरणेन वा । । १५.२९ । ।
राजनि प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ।
शूले तं अग्नौ विपचेद्ब्रह्महत्याशताधिकम् । । १५.३० । ।
पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् ।
न मर्कटे च तत्स्वामी तैरेव प्रहितो न चेत् । । १५.३१ । ।
अक्षवर्ध्रशलाकाद्यैर्देवनं जिह्मकारितम् ।
पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् । । १६.१ । ।
सभिकः कारयेद्द्यूतं देयं दद्याच्च तत्कृतम् ।
दशकं तु शतं वृद्धिस्तस्य स्याद्द्यूतकारिता । । १६.२ । ।
द्विरभ्यस्ताः पतन्त्यक्षा ग्लहे यस्याक्षदेविनः ।
जयं तस्यापरस्याहुः कितवस्य पराजयम् । । १६.३ । ।
कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति ।
त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः । । १६.४ । ।
अशुद्धः कितवो नान्यदाश्रयेद्द्यूतमण्डलम् ।
प्रतिहन्यान्न सभिकं दापयेत्तत्स्वं इष्टतः । । १६.५ । ।
कूटाक्षदेविनः पापान्निर्भजेद्द्यूतमण्डलात् ।
कण्ठेऽक्षमालां आसज्य स ह्येषां विनयः स्मृतः । । १६.६ । ।
17.प्रकीर्णकम्
प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञां आज्ञाप्रतीघातस्तत्कर्मकरणं तथा । । १७.१ । ।
पुरप्रदानं संभेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणी गणधर्मविपर्ययाः । । १७.२ । ।
पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश्च कोप आश्रमिणां अपि । । १७.३ । ।
वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात्प्रकीर्णके । । १७.४ । ।
राजा त्ववहितः सर्वानाश्रमान्परिपालयेत् ।
उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा । । १७.५ । ।
यो यो वर्णोऽवहीयेत यो वोद्रेकं अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि । । १७.६ । ।
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् । । १७.७ । ।
श्रुतिस्मृतिविरुद्धं च जनानां अहितं च यत् ।
न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् । । १७.८ । ।
न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् ।
तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् । । १७.९ । ।
राज्ञा प्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
दण्ड्यः स पापो वध्यश्च लोपयन्राजशासनम् । । १७.१० । ।
आयुधान्यायुधीयानां वाह्यादीन्वाह्यजीविनाम् ।
वेश्यास्त्रीणां अलंकारं वाद्यातोद्यानि तद्विदाम् । । १७.११ । ।
यच्च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणेऽप्येतान्न राजा हर्तुं अर्हति । । १७.१२ । ।
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।
दीप्तिमत्वाच्छुचित्वाच्च यदि न स्यात्पथश्च्युतः । । १७.१३ । ।
यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।
कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः । । १७.१४ । ।
ब्राह्मण्यं ब्राह्मणो जह्यात्क्षत्रियः क्षात्रं उत्सृजेत् ।
स्वकर्म जह्याद्वैश्यस्तु शूद्रः सर्वान्विशेषयेत् । । १७.१५ । ।
राजानश्चेन्नाभविष्यन्पृथिव्यां दण्डधारणम् ।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः । । १७.१६ । ।
सतां अनुग्रहो नित्यं असतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञां अर्थश्चामित्रपीडनात् । । १७.१७ । ।
न लिप्यते यथा वह्निर्दहञ् छश्वदिमाः प्रजाः ।
न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् । । १७.१८ । ।
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद्ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् । । १७.१९ । ।
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञां अतिक्रम्य संतिष्ठेरन्प्रजाः क्वचित् । । १७.२० । ।
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव राजा कुरुते तत्प्रमाणं इति स्थितिः । । १७.२१ । ।
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः । । १७.२२ । ।
तपःक्रीताः प्रजा राज्ञा प्रभुरासां ततो नृपः ।
ततस्तद्वचसि स्थेयं वार्ता चासां तदाश्रया । । १७.२३ । ।
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च । । १७.२४ । ।
कारणादनिमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते । । १७.२५ । ।
यदा तेजः समालम्ब्य विजिगीषुरुदायुधः ।
अभियाति परान्राजा तदेन्द्रः स उदाहृतः । । १७.२६ । ।
विगतक्रोधसंतापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा । । १७.२७ । ।
धर्मासनगतः श्रीमान्दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतः यमः । । १७.२८ । ।
यदा त्वर्थिगुरुप्राज्ञ भृत्यादीनवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः । । १७.२९ । ।
तस्मात्तं नावजानीयान्नाक्रोशेन्न विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमात् । । १७.३० । ।
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणां आत्मनश्चाभिरक्षणम् । । १७.३१ । ।
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे । । १७.३२ । ।
ब्राह्मणस्यापरीहारो राजन्यासनं अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश्चाभिवादनम् । । १७.३३ । ।
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशस्त्वनिवारितः । । १७.३४ । ।
समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् ।
अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया । । १७.३५ । ।
नदीष्ववेतनस्तारः पूर्वं उत्तरणं तथा ।
तरेष्वशुल्कदानं च न चेद्वाणिज्यं अस्य तत् । । १७.३६ । ।
वर्तमानोऽध्वनि श्रान्तो गृह्णन्ननिवसन्स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलकान् । । १७.३७ । ।
नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् ।
न सोपधान्नानिमित्तं न दातारं प्रपीड्य च । । १७.३८ । ।
अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् ।
श्रेयान्प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणादृते । । १७.३९ । ।
ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ ।
नैतयोरन्तरं किंचित्प्रजाधर्माभिरक्षणात् । । १७.४० । ।
धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् ।
मेध्यं एव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः । । १७.४१ । ।
शुचीनां अशुचीनां च संनिपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद्राज्ञो धनागमः । । १७.४२ । ।
यथा चाग्नौ स्थितं दीप्ते शुद्धिं आयाति काञ्चनम् ।
एवं एवागमा सर्वे शुद्धिं आयान्ति राजसु । । १७.४३ । ।
य एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद्राज्ञाप्यनुमन्तव्यं एष धर्मः सनातनः । । १७.४४ । ।
अन्यप्रकारादुचिताद्भूमेः षड्भागसंज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनम् । । १७.४५ । ।
शक्यं तत्पुनरादातुं यदब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद्दत्तं न तस्य हरणं पुनः । । १७.४६ । ।
दानं अध्ययनं यज्ञस्तस्य कर्म त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः । । १७.४७ । ।
स्वकर्मणि द्विजस्तिष्ठेद्वृत्तिं आहारयेत्कृताम् ।
नासद्भ्यः प्रतिगृह्णीयाद्वर्णेभ्यो नियमेऽसति । । १७.४८ । ।
अशुचिर्वचनाद्यस्य शुचिर्भवति पुरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् । । १७.४९ । ।
विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः ।
तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः । । १७.५० । ।
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः । । १७.५१ । ।
एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् ।
प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते । । १७.५२ । ।
18.स्तेयम्
द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः ।
प्रकाशाश्चाप्रकाशाश्च तान्विद्यादात्मवान्नृपः । । १८.१ । ।
प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः ।
उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः । । १८.२ । ।
प्रतिरूपकराश्चैव मङ्गलोद्देशवृत्तयः ।
इत्येवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः । । १८.३ । ।
अप्रकाशाश्च विज्ञेया बहिरभ्यन्तराश्रिताः ।
सुप्तान्प्रमत्तांश्च नरा मुष्णन्त्याक्रम्य चैव ते । । १८.४ । ।
देशग्रामगृहघ्नाश्च पथिघ्ना ग्रन्थिमोचकाः ।
इत्येवमादयो ज्ञेया अप्रकाशाश्च तस्कराः । । १८.५ । ।
तान्विदित्वा सुकुशलैश्चारैस्तत्कर्मकारिभिः ।
अनुसृत्य गृहीतव्या गूढप्रणिहितैर्नरैः । । १८.६ । ।
सभाप्रपापूपशाला वेशमद्यान्नविक्रयाः ।
चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च । । १८.७ । ।
शून्यागाराण्यरण्यानि देवतायतनानि च ।
चारैर्विनेयान्येतानि चौरग्रहणतत्परैः । । १८.८ । ।
तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः ।
चरा ह्युत्साहयेयुस्तांस्तस्करान्पूर्वतस्कराः । । १८.९ । ।
अन्नपानसमादानैः समाजोत्सवदर्शनैः ।
तथा चौर्यापदेशैश्च कुर्युस्तेषां समागमम् । । १८.१० । ।
ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि ।
तेऽभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः । । १८.११ । ।
यांस्तत्र चौरान्गृह्णीयात्तान्विताड्य विडम्ब्य च ।
अवघुष्य च सर्वत्र वध्याश्चित्रवधेन ते । । १८.१२ । ।
न त्वहोढान्विताश्चौरा राज्ञा वध्या ह्यनागमाः ।
सहोढान्सोपकरणान्क्षिप्रं चौरान्प्रशासयेत् । । १८.१३ । ।
स्वदेशघातिनो ये स्युस्तथा पन्थावरोधिनः ।
तेषां सर्वस्वं आदाय भूयो निन्दां प्रकल्पयेत् । । १८.१४ । ।
अहोढान्विमृशेच्चौरान्गृहीतान्परिशङ्कया ।
भयोपधाभिश्चित्राभिर्ब्रूयुस्तथा यथाकृतम् । । १८.१५ । ।
देशं कालं दिशं जातिं नाम वा संप्रतिश्रयम् ।
कृत्यं कर्मकरा वा स्युः प्रष्टव्यास्ते विनिग्रहे । । १८.१६ । ।
वर्णस्वराकारभेदात्ससंदिग्धनिवेदनात् ।
अदेशकालदृष्टत्वाद्वासस्याप्यविशोधनात् । । १८.१७ । ।
असद्व्ययात्पूर्वचौर्यादसत्संसर्गकारणात् ।
लेशैरप्यवगन्तव्या न होढेनैव केवलम् । । १८.१८ । ।
दस्युवृत्ते यदि नरे शङ्का स्यात्तस्करेऽपि वा ।
यदि स्पृश्येत लेशेन कार्यः स्याच्छपथः ततः । । १८.१९ । ।
चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।
आवासदा देशिकदास्तथैवोत्तरदायकाः । । १८.२० । ।
क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् । । १८.२१ । ।
राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश्चैव चोदिताः ।
अभ्याघातेषु मध्यस्था यथा चौरास्तथैव ते । । १८.२२ । ।
गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः ।
मृग्या दाप्योऽन्यथा मोषं पदं यदि न निर्गतम् । । १८.२३ । ।
निर्गते तु पदे तस्मिन्नष्टेऽन्यत्र निपातिते ।
सामन्तान्मार्गपालांश्च दिक्पालांश्चैव दापयेत् । । १८.२४ । ।
गृहे वै मुषिते राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकान्राष्ट्रिकांश्च यदि चौरो न लभ्यते । । १८.२५ । ।
यदि वा दाप्यमानानां तस्मिन्मोषे तु संशयः ।
मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् । । १८.२६ । ।
अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् ।
चौरे लब्धे लभेयुस्ते द्विगुणं प्रतिपादिताः । । १८.२७ । ।
चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्याद्दण्डं दाप्यश्च तत्समम् । । १८.२८ । ।
काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च ।
वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् । । १८.२९ । ।
शाकहरितमूलानां हरणे फलपुष्पयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः । । १८.३० । ।
पक्वान्नानां कृतान्नानां मद्यानां आमिषस्य च ।
सर्वेषां अल्पमूल्यानां मूल्यात्पञ्चगुणो दमः । । १८.३१ । ।
तुलाधरिममेयानां गणिमानां च सर्वशः ।
एभ्यस्तूत्कृष्टमूल्यानां मूल्याद्दशगुणो दमः । । १८.३२ । ।
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
न्यूनं त्वेकादशगुणं दण्डं दाप्योऽब्रवीन्मनुः । । १८.३३ । ।
सुवर्णरजतादीनां उत्तमानां च वाससाम् ।
रत्नानां चैव मुख्यानां शतादभ्यधिकं वधः । । १८.३४ । ।
पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः ।
सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः । । १८.३५ । ।
महापशून्स्तेनयतो दण्ड उत्तमसाहसः ।
मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् । । १८.३६ । ।
चतुर्विंशावरः पूर्वः परः षण्णवतिर्भवेत् ।
शतानि पञ्च तु परो मध्यमो द्विशतावरः । । १८.३७ । ।
सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः ।
त्रिविधः साहसेष्वेव दण्डः प्रोक्तः स्वयंभुवा । । १८.३८ । ।
प्रथमे ग्रन्थिभेदानां अङ्गुल्यङ्गुष्ठयोर्वधः ।
द्वितीये चैव तच्छेषं दण्डः पूर्वश्च साहसः । । १८.३९ । ।
गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ।
दासीं तु हरतो नित्यं अर्धपादविकर्तनम् । । १८.४० । ।
येन येन विशेषेण स्तेनाङ्गेन विचेष्टते ।
तत्तदेवास्य छेत्तव्यं तन्मनोरनुशासनम् । । १८.४१ । ।
गरीयसि गरीयांसं अगरीयसि वा पुनः ।
स्तेने निपातयेद्दण्डं न यथा प्रथमे तथा । । १८.४२ । ।
दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर्ब्राह्मणो रक्षितः सदा । । १८.४३ । ।
उपस्थं उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च । । १८.४४ । ।
अपराधं परिज्ञाय देशकालौ च तत्त्वतः ।
सारानुबन्धावालोक्य दण्डानेतान्प्रकल्पयेत् । । १८.४५ । ।
न मित्रकारणाद्राज्ञा विपुलाद्वा धनागमात् ।
उत्स्रष्टव्यः साहसिकस्त्यक्तात्मा मनुरब्रवीत् । । १८.४६ । ।
यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे ।
भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः । । १८.४७ । ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
निर्वासं कारयेत्कामं इति धर्मो व्यवस्थितः । । १८.४८ । ।
सर्वस्वं वा हरेद्राजा चतुर्थं वावशेषयेत् ।
भृत्येभ्योऽनुस्मरन्धर्मं प्राजापत्यं इति स्थितिः । । १८.४९ । ।
ब्राह्मणस्यापराधे तु चतुःस्वङ्को विधीयते ।
गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने । । १८.५० । ।
गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः ।
स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् । । १८.५१ । ।
विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः ।
असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् । । १८.५२ । ।
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्स्तेयं एवं कर्तास्मि शाधि माम् । । १८.५३ । ।
अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् ।
राजानं तत्स्पृशेदेन उत्सृजन्तं सकिल्बिषम् । । १८.५४ । ।
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा । । १८.५५ । ।
शासनाद्वा विमोक्षाद्वा स्तेनो मुच्यते किल्बिषात् ।
अशासनात्तु तद्राजा स्तेनस्याप्नोति किल्बिषम् । । १८.५६ । ।
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः । । १८.५७ । ।
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
द्विरष्टापाद्यं वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु । । १८.५८ । ।
ब्राह्मणस्य चतुःषष्टीत्येवं स्वायंभुवोऽब्रवीत् ।
तत्रापि च विशेषेण विद्वत्स्वभ्यधिकं भवेत् । । १८.५९ । ।
शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः ।
शारीरा दशधा प्रोक्ता अर्थदण्डास्त्वनेकधा । । १८.६० । ।
काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ।
शारीरस्त्ववरोधादिर्जीवितान्तस्तथैव च । । १८.६१ । ।
काकण्यादिस्तु यो दण्डः स तु माषापरः स्मृतः ।
माषावराद्यो यः प्रोक्तः कार्षापणपरस्तु सः । । १८.६२ । ।
कार्षापणापराद्यस्तु चतुःकार्षापणः परः ।
द्व्यवरोऽष्टापरश्चान्यस्त्र्यवरो द्वादशोत्तरः । । १८.६३ । ।
कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः ।
एवं अन्ये तु विज्ञेयाः प्राक्च ते पूर्वसाहसात् । । १८.६४ । ।
कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते ।
पणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु । । १८.६५ । ।
माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागो माषस्य च पणस्य च । । १८.६६ । ।
पाञ्चनद्याः प्रदेशे तु संज्ञा या व्यावहारिकी ।
कार्षापणप्रमाणं तु निबद्धं इह वै तया । । १८.६७ । ।
कार्षापणोऽण्डिका ज्ञेयाश्चतस्रस्तास्तु धानकः ।
तद्द्वादश सुवर्णस्य दीनारश्चित्रकः स्मृतः । । १८.६८ । ।
वार्त्तां त्रयीं चाप्यथ दण्डनीतिं राजानुवर्तेत्संतताप्रमत्तः ।
हन्यादुपायैर्निपुणैर्गृहीतान्पुरे च राष्ट्रे निगृह्णीयात्पापान् । । १८.६९ । ।
19.दिव्यानि
यदा साक्षी न विद्यते विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः । । १९.१ । ।
सत्यं वाहनशस्त्राणि गोबीजरजतानि च ।
देवतापितृपादाश्च दत्तानि सुकृतानि च । । १९.२ । ।
महापराधे दिव्यानि दापयेत्तु महीपतिः ।
अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन्नरम् । । १९.३ । ।
एते हि शपथाः प्रोक्ताः सुकरास्स्वल्पसंशये ।
साहसेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः । । १९.४ । ।
संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः ।
दिव्यः पञ्चविधो ज्ञेय इत्याह भगवान्मनुः । । १९.५ । ।
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । १९.६ । ।
संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।
चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ ।
षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । ।
पादयोरन्तरं हस्तं भवेदध्यर्धं एव च ।
शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । १९.९ । ।
तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु ।
कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । १९.१० । ।
समयैः परिगृह्यैनं पुनरारोपयेन्नरः ।
तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । १९.११ । ।
तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । ।
धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । ।
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।
तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.१४ । ।
अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिं उत्तमम् ।
द्वात्रिंशदङ्गुलानि तु मण्डलान्मण्डलान्तरम् । । १९.१५ । ।
अष्टाभिर्मण्डलैरेवं अङ्गुलानां शतद्वयम् ।
चतुर्विंशत्समाख्यातं संख्यातत्त्वार्थदर्शिभिः । । १९.१६ । ।
कल्पितैर्मण्डलैरेवं उषितस्य शुचेरपि ।
सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः । । १९.१७ । ।
विदध्यात्तप्तलोहस्य पञ्चाशत्पलं संमितम् ।
हस्ताभ्यां पिण्डं आदाय शनैः सप्तपदं व्रजेत् । । १९.१८ । ।
न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् ।
न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता । । १९.१९ । ।
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।
अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । १९.२० । ।
भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।
पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । ।
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।
यथावदेव जानीषे न विदुर्यानि मानुषाः । । १९.२३ । ।
व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति ।
तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.२४ । ।
अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् ।
नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । १९.२५ । ।
मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा ।
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । १९.२६ । ।
अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् ।
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । ।
स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः ।
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।
सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । ।
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । ।
सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।
यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । १९.३० । ।
क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् ।
तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । १९.३१ । ।
अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् ।
तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । १९.३२ । ।
न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । १९.३३ । ।
भग्नं च दारितं चैव धूपितं मिश्रितं तथा ।
कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । १९.३४ । ।
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् ।
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । १९.३५ । ।
न बालातुरवृद्धेषु नैव स्वल्पापराधिषु ।
विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । १९.३६ । ।
विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः ।
तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । १९.३७ । ।
यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः ।
सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । १९.३८ । ।
विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।
विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । १९.३९ । ।
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः ।
शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । ।
अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । १९.४१ । ।
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसनिनः कोशपानं विधीयते । । १९.४२ । ।
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् ।
सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः ।
प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । २०.४३ । ।
द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् ।
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । २०.४४ । ।
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । २०.४५ । ।
यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् ।
दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । २०.४६ । ।
न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् ।
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । २०.४७ । ।
वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् ।
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । २०.४८ । ।
नारदीयधर्मशास्त्रमं समाप्तम्। ।