Nyaya1
प्रथमभागः
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम् तत्त्वज्ञानात् निःश्रेयसाधिगमः ।। १ ।। {पदार्थोद्देशसूत्रम्}
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरापायादपवर्गः ।। २ ।। {पदार्थोद्देशसूत्रम्}
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।। ३ ।। {प्रमाणौद्देशसूत्रम्}
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।। ४ ।। {प्रत्यक्षलक्षणम्}
अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च ।। ५ ।। {अनुमानलक्षणम्}
प्रसिद्धसाधर्म्यात्साध्यसाधनम् उपमानम् ।। ६ ।। {उपमानलक्षणम्}
आप्तोपदेशः शब्दः ।। ७ ।। {शब्दलक्षणम्}
स द्विविधो दृष्टादृष्टार्थत्वात् ।। ८ ।। {शब्दभेदः}
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् ।। ९ ।। {प्रमेयौद्देशसूत्रम्}
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति ।। १० ।। {आत्मलक्षणम्}
चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। {शरीरलक्षणम्}
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। {इन्द्रियलक्षणम्}
पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। {भूतलक्षणम्}
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।
बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।। {बुद्धिलक्षणम्}
युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् ।। १६ ।। {मनोलक्षणम्}
प्रवृत्तिः वाग्बुद्धिशरीरारम्भः ।। १७ ।। {प्रवृत्तिलक्षणम्}
प्रवर्त्तनालक्षणाः दोषाः ।। १८ ।। {दोषलक्षणम्}
पुनरुत्पत्तिः प्रेत्यभावः ।। १९ ।। {प्रेत्यभावलक्षणम्}
प्रवृत्तिदोषजनितः अर्थः फलम् ।। २० ।। {फललक्षणम्}
बाधनालक्षणं दुःखम् ।। २१ ।। {दुःखलक्षणम्}
तदत्यन्तविमोक्षः अपवर्गः ।। २२ ।। {अपवर्गलक्षणम्}
समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ।। २३ ।। {संशयलक्षणम्}
यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ।। २४ ।। {प्रयोजनलक्षणम्}
लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ।। २५ ।। {दृष्टान्तलक्षणम्}
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ।। २६ ।। {अभ्युपगमसिद्धान्तलक्षणम्}
सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। २७ ।। {तन्त्रभेदौद्देशसूत्रम्}
सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः ।। २८ ।। {सर्वतन्त्रसिद्धान्तलक्षणम्}
समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ।। २९ ।। {प्रतितन्त्रसिद्धान्तलक्षणम्}
यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ।। ३० ।। {अधिकरणसिद्धान्तलक्षणम्}
अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः ।। ३१ ।। {अभ्युपगमसिद्धान्तलक्षणम्}
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ।। ३२ ।। {अवयवौद्देशसूत्रम्}
साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।। {प्रतिज्ञालक्षणम्}
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।। {हेतुलक्षणम्}
तथा वैधर्म्यात् ।। ३५ ।। {हेतुलक्षणम्}
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।। {उदाहरणलक्षणम्}
तद्विपर्ययात्वा विपरीतम् ।। ३७ ।। {उदाहरणलक्षणम्}
उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।। {उपनयलक्षणम्}
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।। {निगमनलक्षणम्}
अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। ४० ।। {तर्कलक्षणम्}
विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ।। ४१ ।। {निर्णयलक्षणम्}
द्वितीयभागः
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ।। १ ।। {वादलक्षणम्}
यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ।। २ ।। {जल्पलक्षणम्}
सः प्रतिपक्षस्थापनाहीनः वितण्डा ।। ३ ।। {वितण्डालक्षणम्}
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ।। ४ ।। {हेत्वाभासौद्देशसूत्रम्}
अनैकान्तिकः सव्यभिचारः ।। ५ ।। {सव्यभिचारलक्षणम्}
सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ।। ६ ।। {विरुद्धलक्षणम्}
यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ।। ७ ।। {प्रकरणसमलक्षणम्}
साध्याविशिष्टः साध्यत्वात्साध्यसमः ।। ८ ।। {साध्यसमलक्षणम्}
कालात्ययापदिष्टः कालातीतः ।। ९ ।। {कालातीतलक्षणम्}
वचनविघातः अर्थविकल्पोपपत्त्या छलम् ।। १० ।। {छललक्षणम्}
तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ।। ११ ।। {छलभेदौद्देशसूत्रम्}
अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ।। १२ ।। {वाक्छललक्षणम्}
सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ।। १३ ।। {सामान्यच्छललक्षणम्}
धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ।। १४ ।। {उपचारच्छललक्षणम्}
वाक्छलं एव उपचारच्छलं ततविशेषात् ।। १५ ।। {उपचारच्छलपूर्वपक्षलक्षणम्}
न ततर्थान्तरभावात् ।। १६ ।। {उपचारच्छललक्षणम्}
अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ।। १७ ।। {उपचारच्छललक्षणम्}
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ।। १८ ।। {जातिलक्षणम्}
विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ।। १९ ।। {निग्रहस्थानलक्षणम्}
तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ।। २० ।। {निग्रहस्थानबहुत्वसूत्रम्}