सन्ध्योपासन रहस्यम् २ Sandhya Rahasya 2

सन्ध्योपासन रहस्यम् २

Test edit

तदिदं

हिन्दीमापायामन्य

Sandhya Rahasya 2 (Sandhyopasana rahasya)

पं० सुरजनदास स्वामिना एम० ए०

साहित्य – व्याकरण – वेदान्त-सांख्य-योगाचार्येण सम्पादितम्

अहो वाच:संज्ञापायाः प्रातःसध्यायां नक्तायोगादुषा इत्याख्या भवति सायं तु वृषाकपायोति सरप्यूरित्यासां तिसृणां सावारणी संज्ञा सग्णस्वाभाव्यात्, सरण्यनुसरणस्य च तिसृष्वविशेषात् । तासु चोषा वृषाकपायी चेति संध्ये । अहोरात्रयोः सन्धो द्यावापृथिवीरसयोः संधिना च तद्रूपलाभात् । तत्र पृथ्वीरसोऽग्निराधारभूतः पूर्वदलम् । तत्रावेयो छुरस आदिव्य उत्तरदलम् । पृथ्वीं परितो व्याप्नुवन् वायुस्तरः संधानम् । संहितं तु रूपमुख नाम तो न्तोति भगवान् कुत्सः –

“एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः।

विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युन्छ १.११३ ७ ॥

इदं श्रेष्ठं ज्योतिषां ज्योतिरामाश्चित्र: प्रकेतो अजनिष्ट विश्वा ।

यथा प्रसूता सवितुः सवायें एवा राज्युपसे योनिमारैक् | १ | ११३ । १ । इति ।

भगवान् कक्षीवानप्येवमाह –

“पपा दियो दुहिता प्रत्यदर्शि ज्योतिर्बसाना समना पुरस्तात् ।

ॠतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ११२४ | ३ ॥

सदृशीरय सदशीरिदु यो दीर्घ सचन्ते वरुणस्य धाम ।

अनवद्यास्त्रिशतं योजनान्येकैका कर्तुं परि यन्ति सद्यः ” १२२३८॥

द्यावापृथिव्यो रसाम्यामियमुत्पद्यते तस्मादुषा दिवो दुहिताख्यायते ॥ विज्ञान नाम ज्योतिः, पशुसं नाम गामात्मानमाञ्षा दिवो दोग्धीत्य तोऽपीयमुषा दिवो दुहिताख्यायते ॥ सा चानेपी पृथ्वी । प्रबर्द्धमानायां सूर्य्यमक्तौ पृथ्वीभक्तेषच्छन्तीत्वात् । उपसि घसेर्विवसने वृत्ति विवसनं व्युच्छनं समाप्तिः । पृथ्वीत्वा दाग्नेयीत्वादेव तां गायत्रीत्याचज्ञते ब्राह्मणाः । देवाश्च वा असुराश्चोभये प्राजापत्या: पस्पृधिरे । तान् स्पर्द्धमानान् गायत्र्यन्तरा तस्थो या वैसा गायत्र्यासीद इयं वे सा पृथिवी इयं हैव तदन्तरा तस्थौ । त उभय एवं विदांचक्र-यतरान् वै न इयमुपावर्त्स्यति ते भविष्यन्ति, परेतरे भविष्यन्तीति ।

गायत्रीखरूपम्

तामुमय एवोपमन्त्रयांचकिरें अग्निरेव देवानां दूत आस, सहरक्षा इत्यसुररक्षसामसुराणाम् । साऽग्निमेवानुयाय” इति ( शत० १ | ३ | ३ |३४) “अभूद्रा इयं प्रतिष्ठेति तद्भू मिरभवत् । ताम प्रथयत् । सा पृथिव्यभवत् । सेयं सर्वा कृत्स्ना मन्यमानाऽगायत्। यद्गायत् तस्मादियं गायत्री” – । अग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायत । यद्गायत् तस्मादग्निर्गायत्रः इति । (६।१।१ । १५) । इति वाजिश्रुतौ पृथिव्या गायत्रीत्वेनाख्यानात् । अग्निर्गायत्रः । तस्येयं भक्ति गयित्री तेजोंधानि तस्यां सूर्य्यादागताः सर्वे देवाः संघीयन्ते तथा च तामुपस्थास्यमा नो ऽनुमन्त्रयति-

तेजोऽसि शुकमस्यमृतमसि घामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि” इति ।

सा हीयं कृष्णा पार्थिवी वाक् दिव्यया शुक्लया बाचा ऽहोरात्रयोः संघो संघत्ते । अत एवषसः

स्तुतौ श्रूयते :-

“जानत्यक्ष प्रथमस्य नाम शुका कृष्णादजनिष्ट वितीची |

तस्योपा न मिनाति धामाहरहनिष्कृतमाचरन्ती ॥”-( १\१२३\९ )

संधिफलभूता चेयं संध्या वाग्गायत्री नाम | तदारम्भकयोदिव्यपार्थिवयोर्मन प्राणबद्धाचोः संघान काले यद्युपासको ध्यायमानः प्रयतो गायत्री प्रजपन् आध्यात्मिक मनःप्राणवाचं संधापयति तदा गायत्र्यां वाच्यात्मवाचः संधानात् वैश्वामित्र्यामात्मवायुः सनि । संयुक्तवाचि प्राणानां समीभावस्वाभाव्यात् । स्मयते च मानवीये- “ऋषयो दीर्घसंध्यात्वाद्दीर्घमायुरवाप्नुयुः” इति ॥ ज्योतिश्चैवं तत्र संनिधत्ते तेनात्मनि ब्रह्मवर्चसं चोपपद्यते । तत् प्रातः संध्योपासनं नाम ॥ १ ॥

अथ सूयीं सावित्रीभाचक्षते ।

“सावित्री चैव सूर्याच सैव पक्षी दिवस्वतः

स्तुता वृषाकपायीति उषा इति च योच्यते” ७ । ११५ इति बृद्दद्देवतायां शौनफोके ।

अधःस्वस्तिकस्य विष्णुवदूर्ध्वस्वस्तिकस्याधिष्ठाता ह्या भवति । ऊर्ध्वस्वस्तिक पुष्करमाहुः । पुष्करस्थो ब्रह्मा यज्ञं करिष्यन् सावित्र्याः साहित्यमपेक्षते । पुष्करे तु तस्याः प्रत्यासत्ती विलम्बात् भूमाया गोदरे लम्बनेन प्रवेशितां गोधीमेव गायत्रों नाम तेजोमयों सहकारिणी विधाय याजयामासति पौराणिका आहुः । तेन जले यष्टेर्लम्बनवद्र भुवायौ सावित्र्यालम्बनादन्धकारे सूर्य्यतेजःप्रवेशान्नानावोष गायत्रीरूपं पत्ते इत्यायातम् । तत्र पञ्चपञ्चाशद्रटिकोत्तर मेकां घटीमुदगदेशेऽत्यल्परक्तश्चेत्यादियं मुक्तामुखी । तत एकैक घटिकाकमेण विद्रुममुखी हेममुखी नीलमुखी धवलमुखी चेति पञ्च गायत्रीमुखभेदा भवन्ति । स एतावानेव गायत्रीजपकालः संध्योपासनकालः ॥ तत्रैव गायत्र्या प्रत्यासत्तेः । प्रोषितायां तु गायत्र्यां संध्योपासनं यातयामं भवति ।।

अयेतां वृषाकपायीं सरस्वतीत्या नक्षते ब्राह्मणाः सरस्वानिन्द्रो वाचां समुद्रः तत्सहचारिणी होय मैन्द्री वृषाकपायो । दाशतय्यां दशमस्य पडशीतितमे इन्द्रसूक्ते तदाम्नानात् ।

“वृषाकपायि रेवति सुपुत्र आदु सुनुपे ।

घसत् त इन्द्र उक्षणः प्रियं काचित्करें हविः”– (१० | ८६ | १३ ) इति ।

सन्ध्योपासनरहस्ये

रेवती किरणवती सूर्य्यभक्तिः । पुत्रः पाथिवोऽप्तिः । षा पार्थिवी वाक् । यास्कस्तु निरुते ।

सुपुर्व मध्यमेन, सुस्तुषे माध्यमिकया वाचेत्याह । ( नि० १२ । ६ ) ॥

सायं सध्यायो] सुखप्रचयकर प्रियं पशोविरिन्द्रो भुङ्क्ते इत्यर्थः । पशुरत्र पृथिव्यामुत्पन्न ओषधि वनस्पतिप्राणिशरीरादिः । तथा च तत्र युरस इन्द्रः पूर्वदलम् । तत्राधेयः पृथ्वीरसोऽग्निरुत्तरदलम् । वायुरेव संधानम्। संहितं रूपं वृषाकपायी सरस्वती नाम तामेव नक्तत्यप्याचक्षते । सा चेन्द्री योः । प्रवर्द्ध मानायामग्निभक्तौ द्युभक्तः प्रोष्यमाणाया आराध्यमानत्वात् । एष च अहोरात्रयोः सन्विरिन्द्राग्निवाचोः संधानकृद्र दृश्यते कालः । तत्र जप्यमाना सावित्री बाचमाध्यात्मिकीमपि संघानेऽपित्विनों कुरुते । तेनात्म नीन्द्रप्रत्यास त्तिर्भवतीत्यायुःप्रमोषणदोषा उन्मृज्यन्ते ब्रह्मवर्चर्स चोपपद्यते तत् सायंसंध्योपासनं नाम ।

तदिदं संध्योपासनमग्निहोत्रमेवापरविधं विद्यात् । द्विविधं ह्यमिहोत्रम् | निरुक्तान्यनिक्क्तानि च। आयौ गृह्यानो वा संपाळं निस्तामि। तत्र प्रातराहुतिरेन्द्री। सायमतिरामेयी ।

“अनये एवं सायं, सूर्याय प्रातः | २ | २ | २ | तत्सत्येनैव इयते । यदा ह्येव सूर्योों ऽस्तमेति [अथाग्निर्ज्योतिः । यदा सूर्य उदेति अथ सूर्यो ज्योतिः । यद्वै सत्येन हृयते तद्देवान् गच्छति । २ । २ । ३ । इति श्रुतेः । तदामुष्मिकं भवति देवलोके मेऽप्यसदिति वै यजते यो यजते । इति श्रुतेः । तत्रेतस्मिन्नग्निहोत्रे प्रातरिन्द्रेऽझिराधीयते सायमनाविन्द्रः । “अझावेवैतत् सायं सूक्ष् जुहोति सूर्ये प्रातरझिम् | २ | २ | ३ | इति श्रुतेः ।

अथ यदिदं संध्योपासनं नामाग्निहोत्रं तदनिस्ताग्नि संपद्यते । तत्र प्रातः संध्या गायत्र्याग्नेयी, सांयंसंध्या तु सरस्वत्येन्द्री तदिदमग्निहोत्रमैहिक भवति मनुष्यलोके पुरुषायुषजीवनाद्यायुःसंपत्तये ब्रह्मवर्चसाय च तदनुआनात् । यथा च निरुताग्नावग्निहोत्रे देवलोकीये कर्मण्यस्मिन्नात्मन्येहिकफलसंपत्तये न्युपस्थान विधीयते तथेह संध्योपासने मनुष्यलोकीये कर्मण्यस्मिन्नात्मन्या मुष्मिकफलसंपत्तये सूर्य्योपस्थानमुप दिश्यते।

सूर्योपस्थानातु प्रागमुष्मै सूर्य्याय गायत्र्यार्ध्यदानं विशेषः । तस्य कर्त्तव्यतामाह तैत्तिरीयारण्यक श्रुती ( २ प्र०. २ अ० ) ।

“रक्षांसि ह वा पुरोऽनुवाके तप उग्रमतिष्ठन्त तान् प्रजापतिखवीद् योधयध्वमिति । तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांस्यादित्यं योधयन्ति याबदस्तमन्वगात् । तानि ह वा एतानि रक्षांसि गायत्र्याभिमन्त्रितेनाम्भसा शाम्यन्ति । तदु द वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्र्याभि मन्त्रिता अप ऊर्ध्वं विक्षिपन्ति । ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहान्यारुणे द्वीपे प्रक्षिपन्ति यत् प्रदक्षिणं प्रकमन्ति तेन पाप्मानमवधुन्वन्ति । उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुते । स बाऽऽदित्यो ब्रह्मेति, ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद” इति ॥

यद्यपि सूर्य्यरश्मिः श्वेता कृष्ण पृथ्वीररिंम निःशेषतों नाशयति इति कृष्णरश्मि निकेतनप्राणरूपाणि रक्षांसि नैर्बल्यादमुनादित्येन योद्धषु न शक्तुवन्ति । तथापि सूर्य्यबिम्बात्मकब्रहासांमुख्यायोगस्य संधायां ।

गायत्री वरदाभय कुशकशा: शुभ्र कपालंगदा शंख चक्र मयारविन्द्र गुगल हस्तै हन्ती भने ॥१॥

*Image*

Missing heading

लोपतृप्तसूर्य्यरश्मिभिः सह पृथ्वीरायोभियुज्यते इति कृष्णभ्यप्राणाः सहसंमृताः प्राधिहृदयमुप सृप्य धियं जनयन्ति । तत्रासोभिः कृष्णशसमसः प्रयोगात्मनेहा: प्राणियों मा जायन्तामिति पूर्वेदिगन्तराने गायश्या तूयं ध्यायन्तोऽपः प्रक्षिपन्ति ताथ लिन् कृष्णप्राणान्यम्भावयन्तः श्वेता ब्रह्ममूला त्यो देपोषिः प्रजायन्ते नासुब्रह्मणेच सूर्य्यरश्मिना विशुनपसंपन्न महाभूतोऽयं विज्ञानमय आत्मा देहावसाने सूयं ब्रह्मवाप्येति न त्वन्त्र तमसा विक्षियो रिष्यति । तस्मात् सूर्य्याया प्रक्षिपन्ति ॥

सूर्य्यार्घ्यदानातु प्रागन्तश्चरसोति मन्त्रेणाचामति । तदेतदाध्याग्मिकाय सूय्याय विज्ञानमयात्मने उर्ध्यदान कियत इति विद्यात् संध्योपासनं हि व्रतोपायन कर्म । सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्र श्रुत्या ‘तयोऽहं सोऽसौ योऽसौ सोऽहमिति’ ब्राह्मणत्या नायमध्यात्म सूर्य्यो विश्वामित्रो नामात्मा । साधिदेवसूदनमायायनमादत्ते तद्वव्रतोपायन कर्म । तत्र युज्यमानयोरैकभाव्यसिद्धये प्रतियोग्यनु योगिनोनिर्मलस्व मेथ्यतागुणश्चापेक्ष्येते इय्यतो बहिः सूर्य्यरश्मे नेमल्यायाध्यपक्षपात् प्रागन्तश्चर-सूर्य्यरश्मेनैर्म ल्याय मेध्यध्वाय चैतदाचमन विधीयते । तथा च श्रूयते वाजिभुती- “व्रतमुपैष्यक्षप उपस्पृशति । अमेध्यो वै पुरुषो यदनृतं वदति। मेध्या या आप मेध्यो भूत्वा व्रतमुपायानीति । प्रविशं या आपः । नीति । तस्माद्रा अप उपस्पृशति- इति ॥ संगमन- योग्यताधायक मेध्वम् । यत्र यदाधीयते तयोरेकभाव्यप्रयोजकयोगयोग्यं च मेध्यम् अन्तरायमलमार्जक पवित्रम् । यत्र यदाधीयते तयोरैकभाव्यप्रतिबन्धकदोष निवर्तक वा पवित्रम् ॥ इयं चाचमनमर्थ्यदानमुपस्थानं गायत्रीजपञ्चेति चच्चार्येव मुख्यानि संध्योपासनकम्मणि संध्याया वाक्त्वाद वागुद्देशेन चेषामेव चतुणी कर्मणां कियमाणत्वात्। स एष चतुभिः कर्मभिर्वाधिः संस्कारो द्रष्टव्यः यस्त्वाचमनात् प्राकू प्राणायामः क्रियते सोऽयं प्राणसंस्कारः इतोऽपि प्राक् क्रियमाणमघमर्षणाचमनं स्ववमृथस्नानवदात्मनो मानसस्नान प्रकल्प्यते । सृष्टिकर्तृस्विन परमात्म स्मरणस्यैतदात्मनो मनसः शुद्धिहेतुत्वात । स एष मानसः संस्कार मनःप्राणकङमयो ह्ययं विश्वामित्रो न आत्मा स एभिः षड्भिः कर्मभिः प्रत्यङ्गमहरहः संस्क्रियमाणो ब्रह्मवर्चसी भवतीत्येव विश्वामित्रप्राणयो रन्तश्वर बहिश्च रयो रहो रात्रसंधानकाले संधानप्रयोग: संध्योपासन नाम द्विजानां नित्यं कर्मोपदिश्यते॥

अत्र प्रसङ्गादायणगोपथे श्रुतां मौद्गल्यविद्यामदाहरिष्यामः । मौद्गल्यः स्वमन्तेवासिनमुवाच । परेहि सौम्य ! ग्लावं मैत्रंयमुपसीद । अधीहि भो.-सावित्रीं गायत्रीं चतुविंशतियोनिं द्वादशभि थुनाम्। यस्या भृग्वह्निरसश्चक्षु, यस्यां सर्वमिदं श्रितम्- तां भवान् प्रनशीत्विति । स तंत्राजगाम यन्त्रेतरो बभूव । तं ह प्रपच्छ । स ह न प्रतिपेदे स ह मैत्रेयः प्रातः समित्याणिमौद्गल्यमुप ससाद । त्वं मा यं प्रश्नममाक्षीः, न तं व्यवोचं त्वामुपेण्यामीति तं होपेत्य पत्रच्छ-

“कि स्विदादुर्भोः सवितुर्वरेण्यं भर्गो देवस्य कवयः किमाहुः ॥

धियो विचदव यदि ताः प्रवेत्थ, प्रचोदयात्सविता याभिरेति ॥ इति ।।

तस्मा एतत्प्रोवाच-

वेदाश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः ॥

कमणि धियस्तदु ते ब्रवीमि प्रचोदयात्सविता यामिरेति ॥ इति ।।

सन्ध्योपासनरहस्ये

श्री भोः कः सविता का सावित्रीति प्रश्न – मनोशाची अभि पृथिव्यौ, वाय्यन्तरिले, आदित्यदिधौ, चन्द्रमोनक्षत्राणि अहोरात्रौ, उष्णशीते, अभ्रवर्षे, विद्युतस्त नयित्नू, प्राणान्ने, वेदच्छन्दांसि, यज्ञदक्षिणे- इत्येवं द्वे द्वे योनी एकैकं मिथुनमिति कृत्वा द्वादशमिथुनां चतुर्विंशतियोनि मौल्यो दर्शयामास । तत्र मनोऽग्न्यादयः सविवारः । वाक्पृथिव्यादग्रस्तस्य तस्य सवितुः सावित्र्यः। यत्र होष सविता तत्र तस्य सावित्री यत्र वाऽसौ सावित्री वत्रत्तस्या सवितेति बोध्यम् ॥ ० ॥ अथ पुनः श्रूयते । “स सविता सावित्र्या ब्राह्मणं सृष्ट्या तत्र सावित्र पदयात् । तत्सवितुर्वरेण्यमिति सावित्र्याः प्रथम पादः पृथिव्या ऋचं समद्धात् । ऋचाऽग्निम् । अग्निाश्रियम् । श्रिया स्त्रियम्। स्त्रिया मिथुनम् । मिथुनेन प्रज्ञाम् । प्रजया कर्म ॥ १ ॥ भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः अन्तरिक्षेण यजुः समधात् यजुषा वायुम् । वायु नाभ्रम् | अभ्रे वर्षम् वर्षेोषधिवनस्पतीन् । तैः पशुन् । पशुभिः कर्म ॥२॥ धियो यो नः प्रचोदयात् इति सावित्र्यास्तृतीयः पादः | दिवा साम समधात् । सानादित्यम् । आदित्येन रश्मीन् । रश्मिभिर्वर्षम् । वर्षेोषधिवनस्पतीन् । तै पशुन् । पशुभिः कर्म ॥ ३ ॥ अथैतत्कर्म्मा तपः । तपसा सत्यम् । सत्येन ब्रह्म । ब्रह्मा ब्राह्मणं, ब्राह्मणेन व्रतम् । व्रतेन वे ब्राह्मण संशितो भवति । शून्य भवत्यविभवत्यविस्य तन्तुः अविच्छिन्नं जीवनं भवति ॥ ७ ॥ तेन हवा एवं विदुषा ब्राह्मणेन ब्रह्माभिपन्नं असितं परासृष्टम् । ब्रह्मणऽऽकाशमाकाशेन वायुयुना ज्योति ज्योतिषाऽऽपोऽद्भिभूमिभू म्याऽधमन्नेन प्राणः प्राणेन मनो मनसा वाग बाचा वेदा., वेदैर्यशोऽभि पन्नो प्रसितः परामृिष्टः ॥ तानि ह वा एतानि द्वादश महाभूतानि एवंविदि प्रतिष्ठितानि तेषां यज्ञ एव परार्ध्यः । वंह स्मैतमेवं विद्वांसो मन्यन्ते विरौनमिति याथातथ्यमविद्वांसः । अयं यज्ञो वेदेषु प्रतिष्ठितः । वेदा बाचि | बागमनसि । मनः प्राणे प्राणोऽन्ने। अन्नं भूमो भूमिरप्यु । आपो ज्योतिथि ज्योतिर्वायौ वायुराकाशे आकाशं ब्रह्मणि ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् ॥ यो 1 इ वा एवंवित् स ब्रह्मवित्। पुण्यां च कीर्ति लभते सुरभश्च गन्धान्। सोऽपहत पाप्मानन्त्यग्रिय मश्नुते य एवं विद्वानेवमेतां वेदानां मातरं सावित्रीसंपदमुपनिषदमुपास्ते ॥ ० ॥

इति सन्ध्योपासने सावित्र्या गायन्या रहस्य व्याख्यातम् ॥

————————-

ब्रह्मचतुष्पदीग्रन्धादुद्भुतं ब्रह्मगायत्र्यादिस्वरूपम्

ब्रह्मगायत्री ।

१- प्राणो मनो वागिति भेदवस्खिवृद् ममा रसः सर्वगतं तु यत्सुखम् ।

बाक् सास्ति सेयं विनियुज्यते द्विधा सा गायति त्रायत उत्तरं च सा ॥

आनन्दतः सर्वमिदं प्रजायतेऽथानन्द एवावति सर्वदाऽखिलम् ।

आनन्दिनः स्त्रीपुरुषस्य संततिश्चात्यन्तिकं दुःखमिदं म्रियेत यत् ॥

यो यत्र देशे दिशि यत्र यस्मिन् काले शरीरेण च यद्विधेम ।

जीवत्यमुष्मै त इमे निसर्गाद् रोचन्त इच्छुत्यजितांश्च तांस्तान् ||

ब्रह्मगायत्री

न कोऽपि जीवेत् क्षणमप्यमुष्या श्राकाश आनन्दमयो न चेत्स्यात् ।

स्ये प्रशान्त मनसि क्ष वा लोकेषु वा तिष्ठति सर्वलोकः ॥

२- आनन्द आगायति पाति चाखिलं सा तेन गायत्र्युदिता सुखा धृतिः।

आनन्द एवाजनि भूरिखं ततो वाक सास्ति गायत्र्यपि भूतधारिणी ॥

पृथ्व्याश्च देहो भवतीत्यतस्तनूषांगस्ति गायत्र्यपि देवसंहिता ।

तनू रसैः स्याद् हृदयं ततश्च हृद् बागस्ति गायत्र्यपि देवसंहिता ||

आनन्द आगायति पाति पद्धत् पृथ्वीशरीरं हृदयं च तद्वत् ।

आगायति जायत इत्यतस्ता गाकय एव स्युरिमाअतस्त्रः ।।

पताश्चतस्रोऽपि परस्परेणान्विताः सबैकत्वमुपैत्यभिन्नम् ।

आराध्य रूपं च पृथक् त्रिलोक गायन्ति पान्तीति तदैक्य मिष्टम् ।।

३- पृथ्वी शरीरं हृदयं जयस्ते पादाः परात्मा व चतुगदी बाकू ।

एकैकपादे मनसः प्रवृत्ताः स्तोमाभिधाः प्राणविधाश्च षट् स्युः ।।

अग्निनिवृत् पञ्चदशस्तथेन्द्रः स्यादेकवँशो रविरग्नयस्ते ।

सोमो त्रयस्त्रिंशकसप्तविंशो प्रजापति सप्तदशः स मध्ये ॥

पादेश्व पट् स्तोमविधाक्षरैस्तैः सा ब्रह्मगायत्र्युदिता ध्रुवं वाक।

सा वौषडेपा न कदापि रिक्ता स्तोमैर्भवेत् प्राणमयैस्तु षड्भिः ||

चतुर्विधाङ्घ्रिस्थितये चतुर्धाऽकाशाः स्युरेते दहरोत्तराः स्युः ।

पूर्वत्र पूर्वत्र पर: पर: स्यादन्तर्निविष्टकम पनित्यः ||

४- आकाशमस्त्यावपनं मनस्तत् सुजेन मुस्रा परिपूर्णमाद्यम् ।

पृथ्वी परिच्छिन्नमिदं द्वितीयं चेत्थं महाकाशयुगं बहिर्घा ।।

अन्तःशरीरोपहितं तृतीयं तथा चतुर्थ हृदयोपपन्नम्।

प्राणाय वाचश्य मनःप्रभेदात् क्लृप्ता विभिनाः सदृशाः स्वधम्मैः ॥

यैस्तु धर्म परिपूर्णमाय तैरेव च त्रीण्यपराणि साम्यात् ।

चतुर्थमेतद्दहर मनो यत् तद्प्रवर्तीति न पञ्चमं तत् ।।

# १ हृदयम् शरीरम् पृथ्वी परात्मा ब्रह्मगायत्री पादाः

२ हृदयम्     शरीरम्     पृथ्वी     सूर्य:     सूयगायत्री   पादाः

३ हृदयम् शरीरम् पृथ्वी चन्द्रः ब्रह्मगायत्री पादाः

४ हृदयम् शरीरम् चन्द्रः परात्मा सूयगायत्री पादाः

५ हृदयम् शरीरम् चन्द्रः सूर्य: सूयगायत्री पादाः

६ हृदयम् शरीरम् सूर्य: परात्मा ब्रह्मगायत्री पादाः

४ ३ २ १ पढचरा पादाः

सन्ध्योपासनरदस्पे

द्यावापृथिव्यौ हृदि सूर्येचन्द्र तथाग्निर्वाय् अपि विषुदृक्षम् ।।

(घा० ३०1०1८11)

यदस्ति यनास्ति वेबहिर्धा सर्वं तत्रापि तथाऽऽहितं स्यात् ।

परात्म- पृथ्वी प्रहिता चतुष्पात् सा ब्रह्मगायत्र्युदितेयमाद्या ||

सूर्यगायत्री

५- आदित्यपृथ्वीप्रहिता चतुष्पात् सा सूर्यगायत्र्यपि तद्वदूया |

पृथ्वी शरीरं हृदयं त्रयस्ते पादा रविश्चेति चतुष्पदी वाक् ॥

एकैक-पादे मनसः प्रवृत्ता स्वोमामिधा प्राविधाच षटू स्युः ॥

यत् किञ्च दृष्टेविषयत्वमेयात् सर्वं तद्ग्नेत्रिवृतोऽस्ति कर्म ।

यत् किञ्च कुत्रापि चलं समेयादिन्द्रस्य तत्पञ्चदशस्य कर्म्म ||

प्रवति भास्कर कर्म सर्व वेदः परस्याथ परस्य संपत् ।

सृष्टिस्त्वियं सप्तदशस्य सर्वा कर्म्माणि चान्यान्य खिलान्यमीषु ॥

आकाशमाद्यं रचितेजसे पृथ्वीपरिच्छिन्नमिदं द्वितीयम् ।

[अन्तःशरीरोपहितं तृतीय तथा चतुर्थं दहरोपपन्नम् ॥

चन्द्रगायत्री

या चन्द्रपृथ्वीप्रहिता चतुष्पात्सा चन्द्रगायत्र्यपि तद्वदूह्या ।

पृथ्वी शरीर हृदयं त्रयस्ते पादा विधुश्चेति चतुष्पदी वाक् ।।

ज्यायान् य आयो निखिलेभ्य एम्यः स एव चान्तहृदयेऽस्त्यणीयान् ।

अभ्यात एतत्सकलं यथाद्यस्तथायमेषोऽमुमितः प्रयाति ॥

आदित्य चन्द्र प्रहिता चतुष्पात्सा सूर्यगायत्र्यपि पञ्चमी स्यात् ।

परात्म-सूर्य-प्रहिता चतुष्पात्सा ब्रह्मगायत्र्यपरास्ति षष्ठी| |

सूयें स्थितानां च शरीरिणां स्युब्धतत्र आकाशविधा हृदन्ताः ।

इत्थं च गायत्र्यपि पड्विधा स्यादागानसंत्राविधाः पृथक् स्युः ॥

सूर्या असंख्या प्रतिसूर्यमेताः पृथ्थ्योऽप्पसंख्या बहुवच चन्द्राः ।

परात्मनैषां पृथगात्मनां ये योगास्त्राणां तु मिथस्त ऊहणः ।।

इत्थं च गायत्र्य इमा पहिताः सृष्टिकमे ब्रह्मत आदितः पुरा ।

तृतीयताराड्योपनिषत् प्रपाठके खण्डे तथा द्वादशके नु दर्शिताः ।।

त्रयस्तु लोकाश्रय एवं वेदाः प्राणायः सा त्रिपदीयमन्या |

परोरजास्तत्र तुरीयपादो व्याख्यायते वाजसनेय केन ॥

परात्मचन्द्रमहिता चतुष्पात्सा ब्रह्मगायत्र्युदिता चतुर्थी ।

चन्द्रस्थितानामपि देहिनां स्युश्चतस्त्र आकाशविधा हृदन्ताः ।।

सन्ध्यापन्दनम्

प्रतिष्ठिताऽध्यात्ममियं तु गायत्रयेषां गयास्तत्र इति प्रतीयात् ।

प्राणा गयास्तानवति ध्रुवं सा तेजोमयी वाक् सवितु, शरीरे ॥

परोरजा सूर्य्य इहेति केचिद् विदुर्न नो विप्रतिपत्तिरत्र ।

परात्मनः संक्रमणात् त्रिलोक्यां परत्वतब्ध स्तुतिमासमेतत् ।।

इति गायत्र्यादीनां वैज्ञानिकं रहस्यम्

अथ सन्ध्याकन्दनम्

१. उपासनाकाल:-

विधानपारिजाते तावत्- सन्ध्यावन्दनकालः । तत्र व्यासः ।।

प्रातः सन्ध्यां सनक्षत्रां मध्याह्ने स्नानकमणि ।

सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि ॥

संवस्तु- – प्रातः सन्ध्यां सनक्षत्रामुपासीत यथाविधि ।

सादित्यां पश्चिमां सन्ध्यामस्तिमितभास्कगम् ||

सूर्योदयात् पूर्व्यं घटिकाइयं प्रातः सन्ध्याया मुख्यकालः । तथा सायं सूर्यास्तमयात् पूवं घटिकाद्वयम् ॥

अथाचम्य कुशैर्युक्ते आसने समुपस्थितः ।

कर सम्पुटककृत्वा सन्ध्यां नित्यं समाचरेत् ॥

नत्वाथ पुण्डरीकाक्षमुपात्ताघप्रशान्तये ।

ब्रह्मात्राप्यै वयं प्रातः सन्ध्यां वन्द्यामुपास्महे ॥ इति ॥

२. आचमनम्–

सन्ध्यावन्दनप्रकारस्तु आश्वलायनगृहापरिशिष्टे।

अथ सन्ध्यामुपासीत यावहोरात्रयोः सन्धी यथ पूर्वापराहृयोस्तत्कालभवा देवता सन्ध्या तामुपासीत । बडिग्रमात् प्राच्यामुदीच्यां वा दिशि अनिन्दितायामनल्पमुद्काशयमेत्य प्रातः शुचिर्भूतः पाणिपादमुखानि प्रक्षाल्य शुचौ देशे भूमिष्ठपादो ( Sनपचित) उपविष्ट आचामेत् प्रकृतिस्थमफेनबुद्बुदमुदकमीक्षितं दक्षिणपाणिनादाय कनिष्टाङ्गुष्ठों बिलिष्टी वितत्य तिम्रोऽन्त राहुली: संहतोद्र्ध्वाः कृत्वा ब्राह्मेण तीर्थेन हृदयप्रापि त्रिः पीत्वा पाणि प्रक्षालय स्पृष्टाम्भसा अङ्गुष्ठभूलेन आकुश्चितोष्ठमास्यं द्विः प्रमृज्य सकृच्च संहृतमध्यमाङ्गलिभिः पाणि प्रक्षाल्य सव्यं पालि पादौ शिरश्याभ्युष्य स्पृष्टाम्भसा संहतमध्यमाङ्गुलित्रयेण आस्यमुपस्पृश्य साङ्गुष्ठया प्रदेशिन्या प्राबिलद्वयमनामिकया चक्षुः श्रोत्रे कनिष्ठिकथा नामि तलेन हृदयं सर्वाभिरलिभिः शिरस्तदौरंसौ च स्पृशेदित्येतदाचमनम् ।

सन्थ्योपासनरहस्ये

३. प्राणायामः–

एवं द्विराचम्य आत्र्गनसम्युच्य दर्भपवित्रपाणिः प्रथमममन्त्रकं पञ्चदशमात्रिकं प्राणायाम श्रयं कृत्वा समन्यं कृत दायत प्राण प्रणवां सत्याहृतिकां सावित्रीं सशिरसं त्रिरावर्त्तये दित्येष समन्त्र: प्राणायामः ।

४. समन्त्रमाचमनम्–

अथ कर्म सङ्कल्प्य सुची पात्रे सध्ये पाणी वा अप आधाय स्थिरे तदुदकाशये यावता कर्म कुर्वीत तावत उदकस्य विभाग कल्पयित्वा तीर्थानि तत्राचाहयेत् । तीर्थावाहनमन्त्रो यथा:-

गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ इति ।

ता आप: सदश पाणिना श्रदायादायोत्तानं शिरसि मार्ज्जपेदोंपूर्व्यम् अथ आपो हिष्ठेति तिसृभिः अथाचमनमुदकमादाय सूर्य्यश्चेति पिवेत्–

सूर्यक्ष मो मस्युब्ध मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्राव्यां पापमकार्य मनसा वाचा हस्ताभ्यां पदम्य मुदरेख शिश्नेन अहस्तदवलुभ्यतु इदमहमायो अमृतयोनो सूर्ये ज्योतिषि परमात्मनि जुहोमि खाहा एतत् समन्त्रप्राचमनम् ।

५. मार्जनम् –

अथ पुनराचम्य मार्ज्जयेत् प्रणवव्याहृतिसावित्रीभिः (ऋकुस्थ) आपोहिष्ठेति सूक्तेन गायत्रीशिरसा चाम्भसात्मानं परिषिञ्चेदेवन्मार्जनम् ।

६. पाप्मव्यपोहः–

अथ गोकर्णवत् कृतेन पाणिना उदकमादाय नासिकाग्रे धारयन् कृष्णधोग्पुरुषाकृति पाप्मानमात्मानमन्तर्व्याप्य स्थितं विचिन्त्य संगतप्राणोऽघमर्षणसूक्तं द्रुपदानृचं चावर्त्य दक्षिणेन नासाविलेन शनैः प्राणं रेचयन् सर्वतस्त्वेनः संहृत्य कृष्णं स्वेन वर्त्मना पाणिस्थ उदके प्रावित घ्यावा तदुदकमवेक्षमाणो चामतो भुवि तीव्रपातेन क्षिा से पाप्मानं वज्रहृतं सहस्रधा दलित भावयेदेव पाप्मव्यपोहः । एनसेकेन कुर्वन्ति । मार्जनेनैव तस्य व्यपोहि तत्वात् । इति दुपदर्क, पापशोधनी ।

७. अर्ध्यनिवेदनम्–

अथाचम्य दर्मपाणिः पूर्णमुदकाञ्जलिमुत्य बतिया पतानामित्यादित्याभिमुखः स्थित्वा प्रणवळ्याहृतिपूर्व्वया सावित्र्या त्रिनिवेदयन् क्षिपेत् । ये तु पुनः पाप्मव्यपोड छन्ति तेऽनाचम्यैव अर्ध्यमुत्क्षिपेयुरेतदेव अर्ध्यनिवेदनम् ।

८. अङ्गन्यासः–

असावादित्यो ब्रह्मेति प्रदक्षिण परियन् परिवियप उपस्वी देशे दर्भा म्भसोक्षित दर्भानास्ती व्याहृतिभिरुपविश्य प्राणायामत्रयं कृत्वा आत्मानं व्याहृतिभिग्भ्युदय सावित्र्या ऋषिदेवतचन्दनुस्मृत्य तामेतां चतुरक्षशो बिभक्ता (मुचितयोजितैः) मधितपो जितैः पड्भिस्तदङ्ग मन्त्रैर्यथाक्रमात्मनि न्यस्य आत्मानं तद्रूपं भावयेत् । यथा तत्सवितुहं दयाय नम इति हृदये । वरेण्यं शिरसे स्वाहा इति शिरसि । भर्गो देवस्य शिखायै वषडिति शिखायाम् । धीमहि कवचाय हुमित्युरसि । धियो यो नो नेत्रत्रयाय वौषडिति हेत्रललाटेषु विन्यस्य अथ प्रचोदयात्राय फडिति फरवलैरस्त्र प्राच्यादिदशदिनु न्यसेत् । एषोऽङ्गन्यासः पन मध्येके नेच्छन्ति। स हि विधिरवैदिक इति ।

९. गायत्र्यावाहनम् :-

अथ मन्त्रदेवतां ध्यात्वा गच्छवरदे देवीत्यावाह्य तिष्ठन्नईनष्टेषु नक्षत्रेषु आमण्डलदर्शनान्मन्त्रार्थ मनुसन्दधानः प्रणवव्याहृतिपूर्च्चिकां सावित्रीं जपेत् अपंचाक्षसूत्रेण अनामिकाया मध्यमादारभ्य प्रदक्षिणं दशभिरनुलिपर्ध्वभिर्दा गणयेत् |

आगच्छरदे देवि जपे मे सन्निधौ भव ।

गायन्तं वापसे यस्माद् गायत्री रखें ततः स्मृता ॥

इत्यावाहनमन्त्रः सवितुर्वरणीयं तेजो वयं ध्यायेमहि योऽस्माकं धियः प्रेरयतीति मन्त्रार्थः ।

१०. गायत्र्यादि- सन्ध्यादेवताध्यानानि –

अथ देवताध्यानम् | या सन्ध्या सैव मन्त्रीका देवता खलूपास्यैव एतां सर्व्वदेक रूपां ध्यायेद्नुसन्ध्यमन्यान्यरूपां या दैत्ररूपामृग्यजुःसामत्रिपदां तिमूर्ध्वाधरदिक्ष पदकुक्षि पञ्चशिरसमग्निमुख विष्णुहृदयां ब्रह्मशिरस्कां रुद्रशिखां दण्डक मण्डत्वक्षसूत्राभयाङ्क चतुर्भुजां शुभ्रवण शुभ्राम्बरानुलेपनस्रगाभरणं शरबान्द्रसहस्रप्रभां सर्व्वदेवमयीमिमां देवीं गायत्री मेकामेव तिसृषु सन्ध्यासु ध्यायेत् ।

अथ यदि मित्ररूप तां प्रातर्वालां बालादित्यमण्डलस्थां रक्तवर्णी रक्ताम्बरानु लेपनगाभरणां चतुर्वक्त्रां दण्डकमण्डल्वक्ष-सूत्राभयाङ्कचतुर्भुजां इंसासनारूढामृग्वेदमुदाहरन्ती भूलोंकाधिष्ठात्री गायत्रीं नाम देवतां घ्यायेत् ।

अथ मध्यन्दिने तां युवतिं युवादित्यमण्डलमध्यस्थां श्वेतवर्णी श्वेताम्बरानुलेपन अगाभरणां पञ्चवक्त्रां त्रिनेत्रां चन्द्रशेखरां त्रिशूल सद्गखट्वाङ्गडमरकाङ्क्षचतुर्भुजां वृषमासना रूढां रुद्रदैवत्यां यजुष्पेंदमुदाहरन्तीं भुवर्लोकाधिष्ठात्र सावित्रीं नाम देवतां ध्यायेत्।

अथ सायं तां वृद्धां वृद्धांदित्यमण्डलमध्यस्थां श्यामवणी श्यामाम्बराभरण गनु लेपनामेकवक्त्रां शङ्खचक्रगदापाकचतुर्भुजां गरुडासमारूढां विष्णुदैवय सामवेदमुदाहरन्ती स्वकाधिष्ठार्थी सरस्वतीं नाम देवतां ध्यात्वाऽऽवादयेत् ॥

सन्ध्योपासनरहस्ये

जपान्ते नमस्कार:-

अपित्या अथ ज्ञातवेदसे सुनवाम सोममित्युपस्थाय तच्योरावृणीमहे नमो ब्रह्मणे नमोऽस्त्वये इत्येतामिरुपस्थाय प्रदक्षिण दिशः सन्ध्यां नत्वा अथ सन्ध्याये गायत्र्यै सावित्र्यै सरस्वत्यै सर्व्वाभ्यो देवताभ्यश्च नमस्कृत्य ततः।

उत्त (रे) मे शिखरे देवी भूम्यां पर्वतमूर्द्धनि ।

ब्राह्मणेभ्योऽस्यनुज्ञाता गच्छ देवि यथासुखम् ||

इति सन्ध्यां विसृज्य भद्रं वो अपि चातयमन इत्युक्त्वा शान्ति त्रिरुचरन्नमो चणे इति प्रदक्षिणं परिक्रामन् आसत्यलोकादापाताललोकादालोकालोकपर्व्वाद ये सन्ति ब्राह्मण देवास्तेभ्यो नित्यं नमो नम इति नमस्कृत्य गुरुन् वृद्धांचोप (सं) गृह्णीयात् ।

एवं सायमपि । विशेषस्तु सूर्यश्चेति मन्त्रे अनिश्चेति ब्रूयात् । जपंचास्तमितार्क मण्डलादान क्ष त्र दर्शनादासीत |

अथ मध्यन्दिने तु श्रापः पुनन्त्विति मन्त्रेशचमनं कृत्वा आकृष्णया हंसवत्या वा त्रिः सकृद्धार्ध्यमुत्क्षिप्य ऊर्ध्ववाहुरुदङमुख ‘उदुत्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति सूक्ताभ्यां तश्चक्षुरित्येकया चादित्यमुपस्थाय अपमासीनो यथेष्टकालं कुर्य्यादित्येष सन्ध्याविधिर्व्याख्यात इति ।

( इति सर्वसन्ध्यावन्दनम् )

अथ वाजसनेयिसन्ध्यावन्द्ने कश्चिद्विशेषः

अथवाजसने (बी) विसन्ध्योच्यते ।

तत्र कात्यायनः । मृदा उरू करौ च प्रक्षाल्य आचम्य शिरायम्यासून पुष्पाराय म्बु मिश्रारायूध्वं प्रक्षिप्य ऊर्ध्ववाहूरुद्वयमुदुत्यं चित्रं तचक्षर्गायत्र्या च यथाशक्ति विवादिस्य नुवाक-पुरुषसुक्त शिवसङ्कल्पमण्डल ब्राह्मणैरुपस्थाय प्रदक्षिणीकृत्य उपविशेदिति ।

वाजसनेयिनामपि त्रिकाल सन्ध्यानुझा

अत्र यद्यपि सूत्रकारेण सङ्क्षेपतो मध्याहसन्ध्या ( उक्ता ) प्रदर्शिता तथापि सवशाखाधिकरन्यायेन

सन्ध्यावयच कर्तव्यं ब्राह्मणेन विपश्चिता ।

अन्यथा नरकं याति सर्वक (म) करोऽपि सन् ॥

इत्यादिस्मृत्या व त्रिकालीना मार्ज्जनादिसर्वाङ्गोपहिता सा वाजसनेबिभिरपि कार्य्या विरुद्धांशस्तु त्याज्य एव पारक्यमविरोधि यदिति वचनात् ।

सन्ध्यातर्पणविधिः-

अनन्तरं सन्ध्यातर्पण कार्य्यम् । तथा च शौनक:–

सन्ध्यावन्दनम्

अध्यन्त वा अपान्ते वा प्रागासीन: कुशासने ।

सन्ध्यासु तर्पणं का स्मृत्वा ऋऋष्यादिकं ततः ॥

ऋषिव्यासः समुद्दिष्टो ब्रह्मा दैवतमुच्यते ।

छन्दो गायत्रकश्चैव विनियोगस्तु तर्पणे ॥

प्रयोगस्तु। ॐ भूः पुरुषं तर्पयामि। ओमृग्वेदं तम्मण्डलम् हिरण्यगर्भरूपिणम् । आत्मानम्। गायत्रीम् वेदमातरम् साङ्कृतिम् । सन्ध्याम् कुमारीम् ब्राह्मणीम्। उपसम् निरृजम् सर्व्वसिद्धिकरीम् सर्वमन्त्राधिपतीस्तर्पयामि ।

आदी प्रणवमुच्चार्य तर्पयेत तदन्तिके |

अनेन विधिना कुर्य्यात् सन्ध्यातर्पणमुत्तमम् ॥ इति

अथ सन्ध्यावन्दनविषयाणि महर्षिवचनानि:-

तष योगियावयः ।

मार्जने

१ आपोहिष्ठेति तिसृस्मिग्भिस्तु प्रयतः शुचिः।

नवप्रणत्रयुक्तामिर्जलं शिरसि निक्षिपेत् ।।

शौनक:- पूर्वोकेनैव विधिना प्रोक्षयेत्कुशवारिया ।

विप्रुषोऽष्टौ क्षिपेदूर्ध्वमधो यस्य क्षमाय ( च ) सः ॥ इति ।

व्यासस्तु- भूमी मूर्ध्नि तथाकाशे मूर्ख्याकाशे तथा भुवि।

आकाशे भुवि मूर्ध्नि स्यान्मन्त्रस्नानं विधीयते ॥

श्राकाशे हृदये। भूमी पादयोः

३ २ १ ३ ४ ७ ३ ५ ७

२ १ ३ २ ४ ९ २ ४ ९

१ ३ २ १ ६ ८ १ ६ ८

अर्ध्यविषये –

अर्ध्य प्रदाने

गोटमात्रमुत्य रवि वीचय जलाञ्जलीन् ।

द्वौ पादौ च समौ कृत्वा पाणी उद्धृत्य निक्षिपेत् |

मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत् ।

तर्ज्जन्यङ्गुष्ठयोयोगे राक्षसी मुद्रिका भवेत् ।

राक्षस्या मुद्रया दत्तं तत्तोयं रुधिरं भवेत् ।

गोष्टङ्गलक्षणन्तु-

प्रादेशस्तु प्रदेशिन्या तालो मध्यमया भवेत् ।

गोध शृङ्गमनामिक्या वितस्तिस्तु कनिष्ठया ||

सन्ध्योपासनस्यै

शातातपः—अलेवघ्यं प्रदातव्यं जलाभावे शुच्चिस्थले ।

प्रातर्मभ्याइयोः काले उत्थावाध्य जले क्षिपेत् ।

उपविश्य तथा साथ स्थले चा विनिक्षिपेत् ||

व्यास:– कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् ।

आदित्याभिमुखस्तिष्ठविरुवं सन्ध्ययोः क्षिपेत् ।

मध्या सकृदेवेदं क्षेपणीयं द्विजातिभिः ॥

तत्र हेतुः स्कान्दे–त्रिंशत्कोट्यो महावीर्य्या मन्देद्दा नाम राक्षसाः ।

कृष्णातिदारुणा घोरा. सूर्यमिच्छन्ति खादितुम् ||

ततो देवगणाः सर्वे ऋऋषयश्च तपोधनाः ।

उपासते तदा सन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् ॥

दह्यन्ते तेन ते दैत्या बज्रीभूतेन वारिणा |

ततः प्र (या) पाति भगवान् ब्राह्मणैरभिरक्षितः ।

बालखिल्यादिभिश्चैव जगतः पालनोद्यतः ।।

पश्चाजपेश सावित्री प्रादक्षिण्यविवर्त्तनम् ।

कुर्य्याजलेन नासाञ्च चक्षुः श्रोत्रमुपस्पृशेत् ।।

सूर्योपस्थाने

सूर्योपस्थाने विशेषमाद कश्यपः

हस्ताभ्यां स्वस्तिककृत्वा प्रातस्तिष्ठेद्दिवाकरम् ।

मध्या तु ऋजू बाहू सायं मुकुलितौ करो ॥

तत्र मन्त्रविशेषमाद देवलः ।

मित्रस्य चर्षणीस्तो वसवस्त्वेति चोदयेत् ।

इमं मेति चतुष्केण सायं कुर्य्यादुपस्थितिम् ॥

व्यासस्तु – सन्ध्यात्रयेऽप्येकमेव ह्युपस्थानं प्रचक्षते ।

उद्वयमुदुत्यं चित्रं तच्चक्षुस्तिष्ठेद्दिवाकरम् ।।

कात्यायनस्तु– उत्रिमृगयेनैवमुपतिष्ठे (दनन्तरं ) द्दिवाकरम् ।

सन्ध्याहूयेऽप्युपस्थानमेतदा हुर्मनीषिणः ।।

मध्ये वह उपर्यस्य विभ्रा (जा) डादीच्छ्या जपेत् ॥

अह्नो दिनस्य मध्ये अस्य उदुत्यं, चित्रं देवानामित्युग्यस्य उपरि विभ्रा (जा) डादि इच्छा यथेच्छ जपेदित्यर्थः।

अथ जपधर्म्माः ।

जपथम्मे

तत्र व्यास:-तेजोऽसीति जपेन्मन्त्रं गायत्र्यावाहने द्विजः ।

आवाह्य तु जपेत् प्राज्ञो गायत्री तां महाफलाम् ।।

सावन्दनम्

गायत्र्येकपदीत्यादि गायत्र्या प्रार्थनां चरेत् ।

नमस्ते तुरीयायेति नमस्कृत्य च तां जपेत् ॥

आगच्छ परदे देवीत्यादिना अस्थ विकल्पः । तेजोऽसी त्यादेर्वाजसनेविशाखापठित त्यात्तद्विषयत्वं वा।

गायत्रीध्याने

५ गायत्री ध्यानं प्रकारान्तरेणाप्युक्तम्–

मुतामिहेमनील धवल छायैर्मुखैः पञ्चभि-

र्युक्तामिन्दुनिवद्धरत्नमुरां तत्वात्मवर्णात्मिकाम् ।

गायत्री वरदाभयानुकशां शुभ्रं कपालं गुणं ।

शङ्ख चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

जपप्रकारे

६ जपप्रकारमाह व्यासः–

प्रसवव्याहृतियुतां गायत्रीच अपेत्ततः ।

समाहितमनास्तूष्यों मनसा चापि चिन्तयेत् ||

घ्यावेच मनसा मन्त्रं जिहोष्ठो न च चालयेत् ।

न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेत् ।।

कृत्योचानी करो प्रातः सायं मुकुलितौ (करो) तु तौ ।

मध्ये तिर्य्यकरो प्रोक्तो जप एवमुदाहृतः ॥

विधियहाजो यक्षो विशिष्टो दशभिर्गुणैः ।

उपांशु स्याच्छतगुण साहस्रो मानसः स्मृतः ॥

बिना शब्द जपो यस्तु चलज्जिहाद्विञ छुदः ।

उपांशु व जपं प्रादुर्मनसा मानसं बुधाः ॥

पृथ्वी सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् ।

पश्चिमान्तु समासीन: सम्यगृक्षविभावनात् ॥

मध्यादें तु– तिष्ठश्चेदीक्षमाणोऽके जपं कुर्य्यात् समाहितः ।

अन्यथा प्राङ्मुखः कुर्यात् समासीन: कुशासने ॥

आसनविषये

७ आसनान्या व्यासः—

कौशेयं कम्बलचैव अजिनं पट्टमेव वा ।

दारुजं बलपत्रञ्च आसनं परिकल्पयेत् ॥

कृष्णाजिने ज्ञानसिद्धिमीर्यानचम्मणि|

गजा ( वशा) जिने व्याधिनाशः सव्यं वै चित्रकम्बले ||

नादीक्षितश्योपविशेत् कृष्णसाराजिने गृही ।।

इति निषेधाद्दीक्षितविषयं कृष्णजिनम् ||

सध्योपासनरहस्ये

आसन-विषये

आत्मशय्यासनं वस्त्रं आयापत्यं कमण्डलुः ।

सुचीन्यात्मन एतानि न परेषां कदाचन ॥

पादेन पादमाकम्य जपं नैव तु कारयेत् ।

शिरः प्रावृत्य वस्त्रेण ध्यानं नैव प्रशस्यते ॥

न पाणिपादचपलो न नेत्रचपलो द्विजः।

न च बाक्चपलश्चैव जपन् सिद्धिमवाप्नुयात् ||

मनःसन्तोषणं शौचं मौन मन्त्रार्थ चिन्तनम् ।

अव्यग्रत्वमनिवेंदो जप (सम्पत्ति ) संसिद्धितः ॥

स्वस्तिकासन ( मा ) आसीनो अपसिद्धमवाप्नुयात्।

जानूवरन्तरे सम्यक् कृत्वा पादतले उभे ॥

ऋजुकाय: समासीनः स्वस्तिकासनमुच्यते ।

पद्मासनसमासीनः सर्व्वसिद्धिमवाप्नुयात् ।

उत्तानौ चरणो कृत्वा उरुसंस्थौ प्रयवतः ।

ऊर्मध्ये तथोत्तानो पाणी कृत्वा ततो रशो।

नासाप्रे विन्यसेद् दृष्टि पद्मासनमिदं स्मृतम् ||

आसनान्तराणि तु ग्रन्थगौरवधीत्यात्र नोकानि ।

जपप्रकारे

वस्त्रेण स्वकर दक्षिणं यः सदा जपेत् ।

तस्य वरसफलं जयं तद्धीनमफलं भवेत् ॥

अपकाले स्वक्षमालां गुरोरपि न दर्शयेत्।

उबंधिते तथा मेरो पतिते बाक्षसूत्रके ।

प्राणायामजयकृत्वा घृतप्राशनमाचरेत् ॥

यज्जले शुष्कवस्त्रेण स्थले चैवाईवाससा ।

अपो होमस्तथा दानं तत्सब्बै निष्फलं भवेत् ॥

अथ जपमालाप्रकारः । पाझे–

जपमालाप्रकारे

अरिष्ट पत्रजीवश्चशि पद्मं तथा मणिम् ।

कुशाग्रन्थिञ्च रुद्राक्षमुत्तमं चोत्तरोत्तरम् ॥

अली जपसंख्यानमेकमेकं वरानने ।

पबंभिर्दश संख्यातं पत्रजीवफलैर्दश ||

शतं वै शङ्खमणिभिः प्रवालैश्च सहस्रकम् ।

मौक्तिकेर्दशसाहस्रं सौवण क्षमुच्यते ।।

कुशप्रन्ध्या कोटिगणं तुलस्यानन्तकं फलम् ।

अगुणा समरन्धा च परिपूर्णा दृढा नवा ||

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.