शतपथब्राह्मणम् काण्व १

सर्वज्ञ याज्ञवल्क्य

शुक्लयजुर्वेद काण्व शाखा, शतपथब्राह्मणम् – Shatapatha Kanva

टिप्पणी – यद्यपि मूलपाठ सस्वर है, तथापि यहाँ स्वरचिन्हों की व्यवस्था नहीं हो पायी है। प्रभु कृपा से भविष्य में उसकी व्यवस्था करेंगे।

एकपात्काण्डम्

प्रथमोऽध्यायः

प्रथमं ब्राह्मणम्

ॐ स वै संभारान्त्संभरति यद्वा एनानितश्चेतश्च१ संभरति तदेव संभाराणाꣳशसंभारत्वꣳ स यत्र यत्राग्नेर्न्यक्तं भवति ततस्तत एनꣳ संभरति यशसेव त्वदेनꣳ समर्धयन्पशुभिरिव त्वन्मिथुनेनैव त्वदेनं प्रजननेन समर्धयति संभ२रꣳस्तस्माद्वा व संभारान्तसंभरति ॥ १ ॥

स यत्राग्नीं३३ आधास्यन्भवति तत्स्फ्येनोल्लिखति बहु वा अस्याः पृथिव्या अमेध्यंयदभिष्ठ्यूतं वाऽभिष्ठितं वा तदेवैतत्स्फ्येनोल्लिखत्यथ मेध्यायामेव यज्ञियायांपृथिव्यामाधत्ते तदक्दिरवोक्षति सोऽपाꣳसंभारोऽन्नमु वा आपोऽन्नꣳ हि वा आपस्तस्माद्यदेहाप आगच्छन्त्यथेहात्रं जायतेऽन्नाद्येनैवैनमेतत् समर्धयति योषा उ वा आपो वृषाग्निस्तन्मिथुनं प्रजननं मिथुनेनैवैनमेतत् प्रजननेन समर्धयत्यद्भिरु वा इदꣳ सर्वमाप्तमद्भिरेवैनमेतदाप्त्वाधत्ते तस्माद्वा अप४स्संभरति ॥ २ ॥

अथ हिरण्यꣳ संभरत्यग्निर्ह वा अपोऽभिध्यौ मिथुन्येनाः स्यामिति तास्संबभूव तासुरेतः प्रसिषेच तद्धिरण्यं तस्माद्धिरण्यमग्निसंकाशमग्नेर्हि रेतस्तस्मादेनदप्स्वेवानुविन्दन्त्य६प्सुपुनन्त्यप्सु ह्येनतप्रासिञ्चन्नैनेन धावयन्ति न किंचन कुर्वन्त्यथ यशो देवरेतसꣳ हि यश-सैवैनमेतत्समर्धयति७ सरेतसं कृत्स्त्रमग्निमाधत्ते तस्माद्धिरण्यꣳ संभरति ॥ ३ ॥

१. एनानित्थाच्चेत्थाच्च C see Notes. २. संभर TE. ३. यत्राग्नी३ P1, P2, H, TE., see Notes. ४. आप TE . ५. मिथुन्येना Ca., see Notes. ६. TE निन्दत्यप्सु, see Notes. ७. TE त्समर्धयति.

अथोषान्त्संभरत्यसौ ह वै द्यौरस्यै पृथिव्यै पशून्प्रददौ त ऊ८षास्तस्माद्यत्रोषरं तत्पशव्यमाहुः साक्षाद्ध्येते पशवो यदूषाः पशुभिरेवैनं तत्समर्धयति स वा एषोऽमुष्या दिवो रसः सोऽस्यां पृथिव्यां प्रतिष्ठितस्तमनयोर्द्यावापृथिव्यो रसं मन्यन्तेऽनयोरेवैनं१० तद्द्यावापृथिव्यो रसेन समर्धयति ॥ ४

अथाखुकरीषꣳ११ संभरत्याखवो ह वा अस्याः पृथिव्या रसं विदुस्तस्मादधोऽध एवचरन्तः पीविष्ठास्ते ह यत्र यत्रास्या रसस्ततस्ततो हैतदुत्किरन्त्यस्या एवैनमेतत्पृथिव्या रसेन समर्धयति समानमु वै करीषं च पुरीषं च १२पुरीषीति वै समीचक्षते१३ यः श्रियं गच्छति तस्याश्चैवावरुद्धये ॥ ५ ॥

अथ शर्करास्संभरति देवाश्च ह वा असुराश्चोभये प्राजापत्या अस्पर्धन्ताथ हेयं१४ तर्हिपृथिव्ययतेवास यथा पुष्करपर्णं लेलायेदेवꣳ ह स्म लेलायति ताꣳ ह स्म वातस्संवहतिसोपदेवाङञ्जगामोपासुरान्त्सा यत्र देवानुपजगाम ॥ ६ ॥

तद्धोचुर्हन्तेमां प्रतिष्ठां दृꣳहामहा इति तां प्रतिष्ठां कृत्वाशिथिलां तस्यामग्नी आधायद्विषतः सपत्नानसुरात्निर्भक्ष्याम इति तान्ह यत्रोपजगाम तदेनां यथा१५ शंकुभिश्चर्मवितनुयादेवꣳ समन्तꣳ शर्कराभिः पर्यवृꣳहꣳस्तां प्रतिष्ठां कृत्वाशिथिलां तस्यामग्नीआधाय द्विषतः१६ सपत्नानसुरात्रिरभजꣳस्तथो वा एष एतदिमां प्रतिष्ठां कृत्वाशिथिलां तस्यामग्री आधाय द्विषतस्सपत्नान्निर्भजति ॥ ७ ॥

८. उषा TE, P1, P2, H. see Notes. ९. प्रतिष्ठित TE. १०. रेवैनं Co. ११. करीष Co. १२. पुरीषीति Ca. १३. तमाचक्षते Ca. १४. हेयं TE, P1. १५. तदेनान्यथा Ca., see Notes. १६. द्विषतः Ca. –

तान्वा एतान्पञ्च संभारान्त्संभरति पाङ्क्तो वै यज्ञः पाङ्क्ताः पशवः पञ्चर्तवः संवत्सरस्यतस्मादेतान्पञ्च संभारान्त्संभरति ॥ ८॥

तदाहुः षड्वा ऋतवस्संवत्सरस्येति यदि वै षळृतवस्संवत्सरस्येति१७ न्यूनमु वै प्रजननंन्यूनाद्वा इमाः प्रजाः प्रजायन्ते प्रजननमु वा अप्येतत्तर्हि श्वःश्रेयसमुत्तरावद्यद्यु१९ वै षळृतवोऽग्निरेवैषाꣳ षष्ठो भवति तेनैव तं काममाप्नोति यस्तत्र कामः ॥ ९ ॥

तदाहुर्नैकञ्चन संभरेदित्यस्या वा एतान् पृथिव्याः संभरत्यस्यामु वा आधत्ते स यदेवास्यामाधत्ते तेनैव तान्कामानाप्नोति ये संभारेषु कामा इति तदु समेव भरेद्यदाहास्यामाधत्ते तेन सर्वमाप्नोति यदु संभारैः संभृतैर्भवति तद्वस्य भवति स यश्च संभारेषु कामो यश्चास्यां पृथिव्यां तस्मा उभयꣳ समर्धयति तस्मादु समेव भरेत्२० ॥ १० ॥ इति प्रथमंब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

कृत्तिकास्वग्नी आदधीतेत्याहुरेतद्ध वा अग्नेर्नक्षत्रं यत्कृत्तिकास्तद्वै सलोम यदग्नेर्नक्षत्रेऽग्नी आदधीताथो एकं द्वमिव१ वा अन्यानि नक्षत्राणि त्रीणि चत्वारीत्यथैष भूमाभूमानमेवैतदुपैति बहुर्हैव प्रजया पशुभिर्भवत्यथो इति च वा अन्यानि नक्षत्राणीति च व्युद्यन्त्यथैता एव प्राच्या दिशो न यन्ति प्राच्याꣳ हैवास्य दिश्याहितौ भवतः प्राचीमेवैतद्दिशमुपैति तस्मात्कृत्तिकास्वादधीत ॥ १ ॥

१७. षळृतवः TE. १८. न्यूनमुवै P1, P2. १९. Pa, P1 and Ca.श्वः श्रेयस other Mss श्वश्रेयस; see Notes. २०. समेववभरेत् H. १. त्वमिवा M; see Notes.

तदाहुर्न कृत्तिकास्वादधीतास्त्यासु परिचक्षेत्यृक्षाणाꣳ ह वा एता अग्रे२ पत्न्य आसुर्ऋक्षा इति ह स्म वै पुरा सप्तर्षींनाचक्षते ता मिथुनेन व्यानृधिरे अग्रेणोद्यन्तीहोत्तरेण सप्तर्षयः३ कस्तास्वादधीत या मिथुनेन व्यृद्धा नेन्मिथुनेन व्युद्ध्या४ इति तद्वैव दधीताग्निर्वाएतासां मिथुनमेतेन वा एता मिथुनेन समृद्धास्तस्माद्वैव दधीत ॥ २ ॥

रोहिण्यामग्नी आदधीतेत्याहू रोहिण्याꣳ ह वै प्रजापतिरग्नी आदधे प्रजाकामो बहुः प्रजया पशुभिस्स्यां प्रजायेयेति स६ इमाः प्रजास्ससृजे तमिमाः प्रजास्सृष्टा रोहिण्य इवोपस्तब्धास्तस्थुरेकरूपा इवैव तद्रोहिण्या रोहिणीत्वं प्रजायते ह प्रजया पशुभिर्य एवं विद्वान्रोहिण्यामाधत्ते ॥ ३ ॥

रोहिण्यामु ह वाव पशवोऽग्नी आदधिरे मनुष्याणां कामे रोहामेति यथेमेऽद्यापि मनुष्याणां कामे रूळ्हाः७ पशवो यथा ह वाव तत्पशवो मनुष्याणां कामेऽरोहन्नेवꣳ हैव पशूनां कामे रोहति८ य एवं विद्वान्रोहिण्यामाधत्ते ॥ ४॥

मृगशिरस्यग्नी आदधीतेत्याहुः प्रजापतेर्वा एतच्छिरो यन्मृगशिरः श्रीर्वै शिरः श्रीर्ह वै शिरोऽथ योऽर्धस्य श्रेष्ठो भवत्यसौ तस्यार्धस्य शिर इत्याचक्षते श्रियꣳ ह यच्छति श्रेष्ठो ह भवति य एवं विद्वान्मृगशिरस्याधत्ते ॥ ५ ॥

तदाहुर्न मृगशिरस्यादधीतास्त्यस्मिन्परिचक्षेति प्रजापतेर्वा एतच्छरीरं यत्रैनमेष देवइषुणा त्रिकाण्डेनाविध्यत्तत१ एतद्विद्धोऽजहात्तदेतद्वास्तु निर्वीर्यमयज्ञियं कस्तस्मिन्नादधीतेति तद्वैव दधीत न वै तस्य देवस्य वास्तु न निर्वीर्यं नायज्ञियमस्ति यत्प्रजापतेस्तस्माद्वैव दधीत॥ ६ ॥

पुनर्वस्वोः पुनराधेयमादधीत फल्गवोरादधीतैतद्ध वा इन्द्रनक्षत्रं यत्फल्गवावपि हास्य प्रतिनामानावर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नामार्जुन्यो नामैतास्तत्कोऽर्हति तस्य गुह्यं नाम।

२. एतामग्रे Co; एता अग्रे V1, K, Ca. ३. सप्त ऋषयः M, Ca. ४. व्यूध्या Ca. ५. ग्निर्वै P1. ६. स्व इमाः TE. ७. रूल्हाः TE; रूळ्हाः Ca. ८. रोहंति P1, P2, H. ९. नाविध्यत एत TE.

ग्रहीतुमिति परोक्षमिवाचक्षते फल्गुन्य इतीन्द्रो वै यजमानः स्व एवैतन्नक्षत्र आधत्त इन्द्रोयज्ञस्य देवता सेन्द्रमस्य भवति पूर्वयोरादधीत पुरस्तात्क्रतुर्हैवास्मै भवति न हैनमतिपद्यतउत्तरयोरादधीतोत्तरावद्धैवास्मै श्वःश्रेयसं१० भवति ॥ ७ ॥

हस्तेऽग्नी आदधीतेत्याहुर्यः कामयेत प्र मे दीयतामिति तद्वा अनुष्ठ्या यदिदꣳ सर्वꣳशहस्तेनैव प्रदीयते प्र हास्मै दीयते य एवं विद्वान्हस्ते आधत्ते११ ॥ ८॥

चित्रायामग्नी आदधीतेत्याहुर्देवाश्च ह वा असुराश्चोभये प्राजापत्या अस्पर्धन्त ते होभये स्वर्गं लोकꣳ समारुरुक्षां चक्रुस्ततो हासुरा रौहिणमग्निं चिक्यिरे स्वर्ग्यमनेन स्वर्गं लोकꣳ समारोक्ष्याम इति त उ ह देवा बिभयां चक्रुरिमं चेद्वा इमे समाप्स्यन्त्यभि नो१२ भविष्यन्तीति ततो हेन्द्र आर्केण दाम्नेष्टकां प्रबध्येयाय ब्राह्मणो ब्रुवाणः॥ ९ ॥

स होवाचाहमपीमामुपदधा इत्युप हीति ताꣳहोपदधे स हाल्पकादिवासञ्चित आसाथहोवाचाहं तामिष्टकां दास्ये या ममेल्याहीति तामभिहायाबबर्ह१३ तस्या आबर्हणमन्वग्निर्व्यवशशादाग्नेरनु व्यवशादमसुरा व्यवशेदुः स ताभिरेवेष्टकाभिर्वज्रान्कृत्वैषां१४ प्रजघान ततोदेवा अभवन्परासुरा भवति हैवात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं विद्वाꣳश्चित्रायामाधत्ते ॥ १० ॥

ते ह देवाः समेत्योचुश्चित्रं वा अभूम य इयतः१५ सपत्नानवधिष्मेति तच्चित्रायाश्चित्रात्वꣳ हुन्तीह१६ सपत्नꣳ हन्ति द्विषन्तं भ्रातृव्यं य एवं विद्वाꣳश्चित्रायामाधत्ते तस्मादप्येतद्राजन्यबन्धव उपेप्सन्ति ते ह जिघाꣳसन्ति१७ वीव जिगीषन्त्येतद्वपि ब्राह्मण आदधीत पाप्मा वै

१०. See Notes on I-I-I-9. ११. आधत्ते P1, Co, B. १२. न्त्यभितो भवि P1, P2, H. १३. तामभिहयाबबर्ह TE; तामभिहायावबर्ह P1, P2, H. १४. न्कृत्वैतान् M. १५. इहतः VI My; इहतः Ca., P1, P2, H, TE. १६. हन्ति ह Ca., P1. १७. जिगाशसंति TE, L, H, P1, P2.12 [I.1.2.11-

ब्राह्मणस्य सपत्नो हन्ति पाप्मानं परास्य द्विषन्भ्रातृव्यो भवति य एवं विद्वाꣳश्चित्राया-माधत्ते ॥ ११ ॥

तानि ह वा एतानि क्षत्राणि नानैव तेपुर्यथासौ वा सूर्यश्चन्द्रमा वा तेषाꣳ होद्यन्नेवादित्यःक्षत्रं वीर्यं तेजः प्रलुलोप तद्वैषामादधे१८ ते ह देवा ऊचुर्न वा इमानि क्षत्राण्यभूवन्नितितन्नक्षत्राणां नक्षत्रत्वमा वा एषामदितेति तदादित्यस्यादित्यत्वं तस्मान्न नक्षत्रमाद्रियेतयदैवैष कदा चोदियादथादधीतैष१९ हि सर्वाणि क्षत्राणि यद्यु नक्षत्रकामस्यादुपो२० आसीत नक्षत्रमहास्य२१ भवति नो एतस्यानुदयोऽस्ति तस्माद्वप्युपैवासीत ॥ १२ ॥ इति द्वितीयंब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

वसन्तो ग्रीष्मो वर्षा एते देवा ऋतवोऽथ शरद्धेमन्तश्शिशिर एते पितरो य एवायमापूर्यतेऽर्धमास एते देवा योऽपक्षीयते स पितरोऽहरेव देवा रात्रिः पितरस्समानस्याह्नः पूर्वाह्ण एव देवा अपराह्नः पितर एते हैवर्तवो देवाः पितरः स य एवं विद्वान्देवाः पितर इतिह्वयत्या१ हास्य देवा देवहूयं यन्त्या२ पितरः पितृहूयमवन्ति हैनं देवा देवहूयेऽवन्ति पितरः पितृहूये य एवं विद्वान्देवाः पितर इति ह्वयति ॥ १ ॥

तान्वा एतानुभयानसावेवोद्यन्नभिरक्षति योऽसौ तपति स यत्रोदङ्ङेति तर्हि देवानृतूनभिरक्षति तर्हि देवेष्वृतुषु भवत्यथ यत्र दक्षिणैति तर्हि पितृ(deergha ृ)नृतूनभिरक्षति तर्हि पितृष्वृतुषु भवति ॥ २ ॥

१८. माददे Ca.; see Notes. १९. चोदीया TE, M, VI, P1, P2, H. २०. कामः स्यादुपो TE, Ca. २१. माहास्य P1, P2; see Notes. १. ह्वयत्यास्य P. २. यन्या TE.