शतपथ ब्राह्मणम् काण्डम् २

२.१.१.
२.१.१.[१]
स यद्वा इतश्चेतश्च सम्भरति । तत्सम्भाराणां सम्भारत्वं यत्र
यत्राग्नेर्न्यक्तं ततस्ततः सम्भरति तद्यशसेव त्वदेवैनमेतत्समर्धयति
पशुभिरिव त्वन्मिथुनेनेव त्वत्सम्भरन्
२.१.१.[२]
अथोल्लिखति । तद्यदेवास्यै पृथिव्या अभिष्ठितं वाभिष्ठ्यूतं वा तदेवास्या
एतदुद्धन्त्यथ यज्ञियायामेव पृथिव्यामाधत्ते तस्माद्वा उल्लिखति
२.१.१.[३]
अथाद्भिरभ्युक्षति । एष वा अपां सम्भारो यदद्भिरभ्युक्षति तद्यदपः
सम्भरत्यन्नं वा आपोऽन्नं हि वा आपस्तस्माद्यदेमं लोकमाप
आगच्छन्त्यथेहान्नाद्यं जायते तदन्नाद्येनैवैनमेतत्समर्धयति
२.१.१.[४]
योषा वा आपः । वृषाग्निर्मिथुनेनैवैनमेतत्प्रजननेन समर्धयत्यद्भिर्वा
इदं सर्वमाप्तमद्भिरेवैनमेतदाप्त्वाधत्ते तस्मादपः सम्भरति
२.१.१.[५]
अथ हिरण्यं सम्भरति । अग्निर्ह वा अपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः
सम्बभूव तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्तस्मादेतदग्निसंकाशमग्नेर्हि
रेतस्तस्मादप्सु विन्दन्त्यप्सु हि प्रासिञ्चत्तस्मादेनेन न धावयति न किं चन
करोत्यथ यशो देवरेतसं हि तद्यशसैवैनमेतत्समर्धयति सरेतसमेव
कृत्स्नमग्निमाधत्ते तस्माद्धिरण्यं सम्भरति
२.१.१.[६]
अथोषान्त्सम्भरति । असौ ह वै द्यौरस्यै पृठिव्या एतान्पशून्प्रददौ
तस्मात्पशव्यमूषरमित्याहुः पशवो ह्येवैते साक्षादेव
तत्पशुभिरेवैनमेतत्समर्धयति तेऽमुत आगता अस्यां पृथिव्याम्
प्रतिष्ठितास्तमनयोर्द्यावापृथिव्यो रसं मन्यन्ते
तदनयोरेवैनमेतद्द्यावापृथिव्यो रसेन समर्धयति तस्मादूषान्त्सम्भरति
२.१.१.[७]
अथाखुकरीषं सम्भरति । आखवो ह वा अस्यै पृथिव्यै रसं विदुस्तस्मात्तेऽधो
ऽध इमां पृथिवीं चरन्तः पीविष्ठा अस्यै हि रसं विदुस्ते यत्र तेऽस्यै पृथिव्यै
रसं विदुस्तत उत्किरन्ति तदस्या एवैनमेतत्पृथिव्यै रसेन समर्धयति
तस्मादाखुकरीषं सम्भरति पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति समानं
वै पुरीषं च करीषं च तदेतस्यैवावरुद्धै तस्मादाखुकरीषं सम्भरति
२.१.१.[८]
अथ शर्कराः सम्भरति । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे सा हेयम्
पृथिव्यलेलायद्यथा पुष्करपर्णमेवं तां ह स्म वातः संवहति सोपैव
देवाञ्जगामोपासुरान्त्सा यत्र देवानुपजगाम
२.१.१.[९]
तद्धोचुः । हन्तेमां प्रतिष्ठां दृंहामहै तस्यां ध्रुवायामशिथिलायामग्नी
आदधामहै ततोऽस्यै सपत्नान्निर्भक्ष्याम इति
२.१.१.[१०]
तद्यथा शङ्कुभिश्चर्म विहन्यात् । एवमिमां प्रतिष्ठां पर्यबृंहन्त सेयं
ध्रुवाशिथिला प्रतिष्ठा तस्यां ध्रुवायामशिथिलायामग्नी आदधत ततोऽस्यै
सपत्नान्निरभजन्
२.१.१.[११]
तथो एवैष एतत् । इमां प्रतिष्ठां शर्कराभिः परिबृंहते तस्यां
ध्रुवायामशिथिलायामग्नी आधत्ते ततोऽस्यै सपत्नान्निर्भजति तस्माच्छर्कराः
सम्भरति
२.१.१.[१२]
तान्वा एतान् । पञ्च सम्भारान्त्सम्भरति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः
संवत्सरस्य
२.१.१.[१३]
तदाहुः । षडेवर्तवः संवत्सरस्येति न्यूनमु तर्हि मिथुनं प्रजननं क्रियते
न्यूनाद्वा इमाः प्रजाः प्रजायन्ते तच्वःश्रेयसमुत्तरावत्तस्मात्पञ्च भवन्ति यद्यु
षडेवर्तवः संवत्सरस्येत्यग्निरेवैतेषां षष्ठस्तथो एवैतदन्यूनं भवति
२.१.१.[१४]
तदाहुः । नैवैकं चन सम्भारं सम्भरेदित्यस्यां वा एते सर्वे पृथिव्याम्
भवन्ति स यदेवास्यामाधत्ते तत्सर्वान्सम्भारानाप्नोति तस्मान्नैवैकं चन
सम्भारं सम्भरेदिति तदु समेव भरेद्यदहैवास्यामाधत्ते
तत्सर्वान्त्सम्भारानाप्नोति यदु सम्भारैः सम्भृतैर्भवति तदु भवति तस्मादु
समेव भरेत्
२.१.२.
२.१.२.[१]
कृत्तिकास्वग्नी आदधीत । एता वा अग्निनक्षत्रं यत्कृत्तिकास्तद्वै सलोम यो
ऽग्निनक्षत्रेऽग्नी आदधातै तस्मात्कृत्तिकास्वादधीत
२.१.२.[२]
एकं द्वे त्रीणि । चत्वारीति वा अन्यानि नक्षत्राण्यथैता एव भूयिष्ठा
यत्कृत्तिकास्तद्भूमानमेवैतदुपैति तस्मात्कृत्तिकास्वादधीत
२.१.२.[३]
एता ह वै प्राच्यै दिशो न च्यवन्ते । सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्यै
दिशश्च्यवन्ते तत्प्राच्यामेवास्यैतद्दिश्याहितौ भवतस्तस्मात्कृत्तिकास्वादधीत
२.१.२.[४]
अथ यस्मान्न कृत्तिकास्वादधीत । ऋक्षाणां ह वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह
स्म वै पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्ध्यन्तामी ह्युत्तराहि सप्तर्षय
उद्यन्ति पुर एता अशमिव वै तद्यो मिथुनेन व्यृद्धः स नेन्मिथुनेन व्यृध्या इति
तस्मान्न कृत्तिकास्वादधीत
२.१.२.[५]
तद्वैव दधीत । अग्निर्वा एतासां मिथुनमग्निनैता मिथुनेन
समृद्धास्तस्मादैव दधीत
२.१.२.[६]
रोहिण्यामग्नी आदधीत । रोहिण्यां ह वै प्रजापतिः प्रजाकामोऽग्नी आदधे स प्रजा
असृजत ता अस्य प्रजाः सृष्टा एकरूपा उपस्तब्धास्तस्थू रोहिण्य इवैव तद्वै रोहिण्यै
रोहिणीत्वं बहुर्हैव प्रजया पशुभिर्भवति य एवं विद्वान्रोहिण्यामाधत्ते
२.१.२.[७]
रोहिण्यामु ह वै पशवः । अग्नी आदधिरे मनुष्याणां कामं रोहेमेति ते
मनुष्याणां काममरोहन्यमु हैव तत्पशवो मनुष्येषु काममरोहंस्तमु
हैव पशुषु कामं रोहति य एवं विद्वान्रोहिण्यामाधत्ते
२.१.२.[८]
मृगशीर्षेऽग्नी आदधीत । एतद्वै प्रजापतेः शिरो यन्मृगशीर्षं श्रीर्वै शिरः श्रीर्हि
वै शिरस्तस्माद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य शिर इत्याहुः श्रियं
ह गच्छति य एवं विद्वान्मृगशीर्ष आधत्ते
२.१.२.[९]
अथ यस्मान्ना मृगशीर्ष आदधीत । प्रजापतेर्वा एतच्छरीरं यत्र वा एनं
तदावेध्यंस्तदिषुणा त्रिकाण्डेनेत्याहुः स एतच्छरीरमजहाद्वास्तु वै
शरीरमयज्ञियं निर्वीर्यं तस्मान्न मृगशीर्ष आदधीत
२.१.२.[१०]
तद्वैव दधीत । न वा एतस्य देवस्य वास्तु नायज्ञियं न शरीरमस्ति
यत्प्रजापतेस्तस्मादैव दधीत पुनर्वस्वोः पुनराधेयमादधीतेति
२.१.२.[११]
फल्गुनीष्वग्नी आदधीत । एता वा इन्द्रनक्षत्रं यत्फल्गुन्योऽप्यस्य
प्रतिनाम्न्योऽर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नामार्जुन्यो वै नामैतास्ता
एतत्परोऽक्षमाचक्षते फल्गुन्य इति को ह्येतस्यार्हति गुह्यं नाम ग्रहीतुमिन्द्रो
वै यजमानस्तत्स्व एवैतन्नक्षत्रेऽग्नी आधत्त इन्द्रो यज्ञस्य देवतैतेनो
हास्यैतत्सेन्द्रमग्न्योधेयं भवति पूर्वयोरादधीत पुरस्तात्क्रतुर्हैवास्मे
भवत्युत्तरयोरादधीत श्वःश्रेयसं हैवास्मा उत्तरावद्भवति
२.१.२.[१२]
हस्तेऽग्नीयादधीत । य इच्छेत्प्र मे दीयेतेति तद्वा अनुष्ठ्या यद्धस्तेन प्रदीयते
प्र हैवास्मै दीयते
२.१.२.[१३]
चित्रायामग्नी आदधीत । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे त उभय
एवामुं लोकं समारुरुक्षां चक्रुर्दिवमेव ततोऽसुरा रौहिणमित्यग्निं चिक्यिरे
ऽनेनामुं लोकं समारोक्ष्याम इति
२.१.२.[१४]
इन्द्रो ह वा ईक्षां चक्रे । इमं चेद्वा इमे चिन्वते तत एव नोऽभिभवन्तीति स
ब्राह्मणो ब्रुवाण एकेष्टकां प्रबध्येयाय
२.१.२.[१५]
स होवाच । हन्ताहमिमामप्युपदधा इति तथेति तामुपाधत्त
तेषामल्पकादेवाग्निरसंचित आस
२.१.२.[१६]
अथ होवाच । अन्वा अहं तां दास्ये या ममेहेति तामभिपद्याबबर्ह
तस्यामावृढायामग्निर्व्यवशशादाग्नेर्व्यवशादमन्वसुरा व्यवशेदुः स ता
एवेष्ठ्का वज्रान् कृत्वा ग्रीवाः प्रचिच्छेद
२.१.२.[१७]
त ह देवाः समेत्योचुः । चित्र वा अभूम य इयतः सपत्नानवधिष्मेति तद्वै
चित्रायै चित्रात्वं चित्रं ह भवति हन्ति सपत्नान्हन्ति द्विषन्तं भ्रातृव्यं य एवं
विद्वांश्चित्रायामाधत्ते तस्मादेतत्क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जिघांसतीव
ह्येष सपत्नान्वीव जिगीषते
२.१.२.[१८]
नाना ह वा एतान्यग्रे क्षत्राण्यासुः । यथैवासौ सूर्य एवं तेषामेष उद्यन्नेव
वीर्यं क्षत्रमादत्त तस्मादादित्यो नाम यदेषां वीर्यं क्षत्रमादत्त
२.१.२.[१९]
ते ह देवा ऊचुः । यानि वै तानि क्षत्राण्यभूवन्न वै तानि क्षत्राण्यभूवन्निति तद्वै
नक्षत्राणां नक्षत्रत्वं तस्मादु सूर्यनक्षत्र एव स्यादेष ह्येषां वीर्यं
क्षत्रमादत्त यद्यु नक्षत्रकामः स्यादेतद्वा अनपराद्धं नक्षत्रं यत्सूर्यः
स एतेनैव पुण्याहेन यदेतेषां नक्षत्राणां कामयेत तदुपेर्त्सेत्तस्मादु
सूर्यनक्षत्र एव स्यात्
२.१.३.
२.१.३.[१]
वसन्तो ग्रीष्मो वर्षाः । ते देवा ऋतवः शरद्धेमन्तः शिशिरस्ते पितरो य
एवापूर्यतेऽर्धमासः स देवा योऽपक्षीयते स पितरोऽहरेव देवा रात्रिः पितरः
पुनरह्नः पूर्वाह्णो देवा अपराह्णः पितरः
२.१.३.[२]
ते वा एत ऋतवः । देवाः पितरः स यो हैवं विद्वान्देवाः पितर इति ह्वयत्या हास्य
देवा देवहूयं गच्छन्त्या पितरः पितृहूयमवन्ति हैनं देवा देवहूयेऽवन्ति पितरः
पितृहूये य एवं विद्वान्देवाः पितर इति ह्वयति
२.१.३.[३]
स यत्रोदगावर्तते । देवेषु तर्हि भवति देवांस्तर्ह्यभिगोपायत्यथ यत्र
दक्षिणावर्तते पितृषु तर्हि भवति पितॄंस्तर्ह्यभिगोपायति
२.१.३.[४]
स यत्रोदगावर्तते । तर्ह्यग्नी आदधीतापहतपाप्मानो देवा अप पाप्मानं हते
ऽमृता देवा नामृतत्वस्याशास्ति सर्वमायुरेति यस्तर्ह्याधत्तेऽथ यत्र दक्षिणावर्तते
यस्तर्ह्याधत्तेऽनपहतपाप्मानः पितरो न पाप्मानमपहते मर्त्याः पितरः
पुरा हायुषो म्रियते यस्तर्ह्याधत्ते
२.१.३.[५]
ब्रह्मैव वसन्तः । क्षत्रं ग्रीष्मो विडेव वर्षास्तस्माद्ब्राह्मणो वसन्त
आदधीत ब्रह्म हि वसन्तस्तस्मात्क्षत्रियो ग्रीष्म आदधीत क्षत्रं हि
ग्रीष्मस्तस्माद्वैश्यो वर्षास्वादधीत विड्ढि वर्षाः
२.१.३.[६]
स यः कामयेत । ब्रह्मवर्चसी स्यामिति वसन्ते स आदधीत ब्रह्म वै वसन्तो
ब्रह्मवर्चसी हैव भवति
२.१.३.[७]
अथ यः कामयेत । क्षत्रं श्रिया यशसा स्यामिति ग्रीष्मे स आदधीत क्षत्रं वै
ग्रीष्मः क्षत्रं हैव श्रिया यशसा भवति
२.१.३.[८]
अथ यः कामयेत । बहुः प्रजया पशुभिः स्यामिति वर्षासु स आदधीत विड्वै
वर्षा अन्नं विशो बहुर्हैव प्रजया पशुभिर्भवति य एवं विद्वान्वर्षास्वाधत्ते
२.१.३.[९]
ते वा एत ऋतवः । उभय एवापहतपाप्मानः सूर्य एवैषां पाप्मनो
ऽपहन्तोद्यन्नेवैषामुभयेषां पाप्मानमपहन्ति तस्माद्यदैवैनं कदा च
यज्ञ उपनमेदथाग्नी आदधीत न श्वःश्वमुपासीत को हि मनुष्यस्य श्वो वेद
२.१.४.
२.१.४.[१]
यदहरस्य श्वोऽग्न्याधेयं स्यात् । दिवैवाश्नीयान्मनो ह वै देवा
मनुष्यस्याजानन्ति तेऽस्यैतच्वोऽग्न्याधेयं विदुस्तेऽस्य विश्वे देवा गृहानागच्छन्ति ते
ऽस्य गृहेषूपवसन्ति स उपवसथः
२.१.४.[२]
तन्न्वेवानवकॢप्तं यो मनुष्येष्वनश्नत्सु पूर्वोऽश्नीयादथ किमु यो
देवेष्वनश्नत्सु पूर्वोऽश्नीयात्तस्मादु दिवैवाश्नीयात्तद्वपि काममेव
नक्तमश्नीयान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो ह्येवैष तावद्भवति
यावदनाहिताग्निस्तस्माद्वपि काममेव नक्तमश्नीयात्
२.१.४.[३]
तद्धैकेऽजमुपबध्नन्ति । आग्नेयोऽजोऽग्नेरेव सर्वत्वायेति वदन्तस्तदु तथा न
कुर्याद्यद्यस्याजः स्यादग्नीध एवैनं प्रातर्दद्यात्तेनैव तं काममाप्नोति
तस्मादु तन्नाद्रियेत
२.१.४.[४]
अथ चातुष्प्राश्यमोदनं पचन्ति । छन्दांस्यनेन प्रीणीम इति यथा येन वाहनेन
स्यन्त्स्यन्त्स्यात्तत्सुहितं कर्तवै ब्रूयादेवमेतदिति वदन्तस्तदु तथा न
कुर्याद्यद्वा अस्य ब्राह्मणाः कुले वसन्त्यृत्विजश्चानृत्विजश्च तेनैव तं काममाप्नोति
तस्मादु तन्नाद्रियेत
२.१.४.[५]
तस्य सर्पिरासेचनं कृत्वा । सर्पिरासिच्याश्वत्थीस्तिस्रः समिधो घृतेनान्वज्य
समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्यादधति शमीगर्भमेतदाप्नुम इति वदन्तः
स यः पुरस्तात्संवत्सरमभ्यादध्यात्स ह तं काममाप्नुयात्तस्मादु
तन्नाद्रियेत
२.१.४.[६]
तदु होवाच भाल्लवेयः । यथा वा अन्यत्करिष्यन्त्सो
ऽन्यत्कुर्याद्यथान्यद्वदिष्यन्त्सोऽन्यद्वदेद्यथान्येन पथैष्यन्त्सोऽन्येन
प्रतिपद्येतैवं तद्य एतं चातुष्प्राश्यमोदनं पचेदपराद्धिरेव सेति न हि
तदवकल्पते यस्मिन्नग्नावृचा वा साम्ना वा यजुषा वा समिधं
वाभ्यादध्यादाहुतिं वा जुहुयाद्यत्तं दक्षिणा वा हरेयुरनु वा गमयेयुर्दक्षिणा
वा ह्येनं हरन्त्यन्वाहार्यपचनो भविष्यतीत्यनु वा गमयन्ति
२.१.४.[७]
अथ जाग्रति देवाः । तद्देवानेवैतदुपावर्तते स सदेवतरः श्रान्ततरस्तपस्वितरो
ऽग्नी आधत्ते तद्वपि काममेव स्वप्यान्नो ह्यनाहिताग्नेर्व्रतचर्यास्ति मानुषो
ह्येवैष तावद्भवति यावदनाहिताग्निस्तस्माद्वपि काममेव स्वप्यात्
२.१.४.[८]
तद्धैकेऽनुदिते मथित्वा । तमुदिते प्राञ्चमुद्धरन्ति तदु तदुभे अहोरात्रे
परिगृह्णीमः प्राणोदानयोर्मनसश्च वाचश्च पर्याप्त्या इति वदन्तस्तदु तथा न
कुर्यादुभौ हैवास्य तथानुदित आहितौ भवतोऽनुदिते हि मथित्वा तमुदिते
प्राञ्चमुद्धरन्ति स य उदित आहवनीयं मन्थेत्स ह तत्पर्याप्नुयात्
२.१.४.[९]
अहर्वै देवाः । अनपहतपाप्मानः पितरो न पाप्मानमपहते मर्त्याः पितरः
पुरा हायुषो म्रियते योऽनुदिते मन्थत्यपहतपाप्मानो देवा अप पाप्मानं हते
ऽमृता देवा नामृतत्वस्याशास्ति सर्वमायुरेति श्रीर्देवाः श्रियं गच्छति यशो देवा यशो

भवति य एवं विद्वानुदिते मन्थति
२.१.४.[१०]
तदाहुः । यन्नर्चा न साम्ना न यजुषाग्निराधीयतेऽथ केनाधीयत इति ब्रह्मणो
हैवैष ब्रह्मणाधीयते वाग्वै ब्रह्म तस्यै वाचः सत्यमेव ब्रह्म ता वा एताः
सत्यमेव व्याहृतयो भवन्ति तदस्य सत्येनैवाधीयते
२.१.४.[११]
भूरिति वै प्रजापतिः । इमामजनयत भुव इत्यन्तरिक्षं स्वरिति दिवमेतावद्वा
इदं सर्वं यावदिमे लोकाः सर्वेणैवाधीयते
२.१.४.[१२]
भूरिति वै प्रजापतिः । ब्रह्माजनयत भुव इति क्षत्रं स्वरिति विशमेतावद्वा इदं
सर्वं यावद्ब्रह्म क्षत्रं विट्सर्वेणैवाधियते
२.१.४.[१३]
भूरिति वै प्रजापतिः । आत्मानमजनयत भुव इति प्रजांस्वरिति पशूनेतावद्वा इदं
सर्व यावदात्मा प्रजा पशवः सर्वेणैवाधीयते
२.१.४.[१४]
स वै भूर्भुव इति । एतावतैव गार्हपत्यमादधात्यथ
यत्सर्वैरादध्यात्केनाहवनीयमादध्याद्द्वे अक्षरे परिशिनष्टि तेनो
एतान्ययातयामानि भवन्ति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवः
स्वरिति तान्यष्टावक्षराणि सम्पद्यन्तेऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः
स्वेनैवैनमेतच्चन्दसाधत्ते
२.१.४.[१५]
देवान्ह वा अग्नीऽआधास्यमानान् । तानसुररक्षसानि ररक्षुर्नाग्निर्जनिष्यते नाग्नी
आधास्यध्व इति तद्यदरक्षंस्तस्माद्रक्षांसि
२.१.४.[१६]
ततो देवा एतं वज्रं ददृशुः । यदश्वं तं पुरस्तादुदश्रयंस्तस्याभयेऽनाष्ट्रे
निवातेऽग्निरजायत तस्माद्यत्राग्निं मन्थिष्यन्त्स्यात्तदश्वमानेतवै ब्रूयात्स
पूर्वेणोपतिष्ठते वज्रमेवैतदुच्रयति तस्याभयेऽनाष्ट्रे निवातेऽग्निर्जायते
२.१.४.[१७]
स वै पूर्ववाट्स्यात् । स ह्यपरिमितं वीर्यमभिवर्धते यदि पूर्ववाहं न
विन्देदपि य एव कश्चाश्वः स्याद्यद्यश्वं न विन्देदप्यनड्वानेव स्यादेष
ह्येवानडुहो बन्धुः
२.१.४.[१८]
तं यत्र प्राञ्चं हरन्ति । तत्पुरस्तादश्वं नयन्ति तत्पुरस्तादेवैतन्नाष्ट्रा
रक्षांस्यपघ्नन्नेत्यथाभयेनानाष्ट्रेण हरन्ति
२.१.४.[१९]
तं वै तथैव हरेयुः । यथैनमेष प्रत्यङ्ङुपाचरेदेष वै यज्ञो यदग्निः
प्रत्यङ्हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ यस्मात्पराङ्
भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं तत्रानुव्याहरेत्पराङ्स्माद्यज्ञो
ऽभूदितीश्वरो ह यत्तथैव स्यात्
२.१.४.[२०]
एष उ वै प्राणः । तं वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ्
हैवैनं प्राणः प्रविशत्यथ यस्मात्पराङ्भवति पराङु हैवास्मात्प्राणो भवति
स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणोऽभूदितीश्वरो ह यत्तथैव स्यात्
२.१.४.[२१]
अयं वै यज्ञो योऽयं पवते । तं वै तथैव हरेयुर्यथैनमेष
प्रत्यङ्ङुपाचरेत्प्रत्यङ्हैवैनं यज्ञः प्रविशति तं क्षिप्रे यज्ञ उपनमत्यथ
यस्मात्पराङ्भवति पराङु हैवास्माद्यज्ञो भवति स यो हैनं
तत्रानुव्याहरेत्पराङ्स्माद्यज्ञोऽभूदितीश्वरो ह यत्तथैव स्यात्
२.१.४.[२२]
एष उ वै प्राणः । ते वै तथैव हरेयुर्यथैनमेष प्रत्यङ्ङुपाचरेत्प्रत्यङ्
हैवैनं प्राणः प्रविशत्यथ यस्मात्पराङ्भवति पराङु हैवास्मात्प्राणो भवति
स यो हैनं तत्रानुव्याहरेत्पराङ्स्मात्प्राणोऽभूदितीश्वरो ह यत्तथैव स्यात्तस्मादु
तथैव हरेयुः
२.१.४.[२३]
अथाश्वमाक्रमयति । तमाक्रमय्य प्राञ्चमुन्नयति तं पुनरावर्तयति
तमुदञ्चं प्रमुञ्चति वीर्यं वा अश्वो नेदस्मादिदं पराग्वीर्यमसदिति
तस्मात्पुनरावर्तयति
२.१.४.[२४]
तमश्वस्य पद आधत्ते । वीर्यं वा अश्वो वीर्य एवैनमेतदाधत्ते तस्मादश्वस्य
पद आधत्ते
२.१.४.[२५]
स वै तूष्णीमेवाग्र उपस्पृशति । अथोद्यच्छत्यथोपस्पृशति भूर्भुवः स्वरित्येव
तृतीयेनादधाति त्रयो वा इमे लोकास्तदिमानेवैतल्लोकानाप्नोत्येतन्न्वेकम्
२.१.४.[२६]
अथेदं द्वितीयम् । तूष्णीमेवाग्र उपस्पृशत्यथोद्यच्छति भूर्भुवः स्वरित्येव
द्वितीयेनादधाति यो वा अस्यामप्रतिष्ठितो भारमुद्यच्छति नैनं शक्नोत्युद्यन्तुं
सं हैनं शृणाति
२.१.४.[२७]
स यत्तूष्णीमुपस्पृशति । तदस्यां प्रतिष्ठायां प्रतिष्ठन्ति सोऽस्यां प्रतिष्ठित
आधत्ते तथा न व्यथते तदु हैतत्पश्चेव दध्रिर आसुरिः पाञ्चिर्माधुकिः सर्वं
वा अन्यदियसितमिव प्रथमेनैवोद्यत्यादध्याद्भूर्भुवः स्वरिति
तदेवानियसितमित्यतो यतमथा कामयेत तथा कुर्यात्
२.१.४.[२८]
अथ पुरस्तात्परीत्य । पूर्वार्धमुल्मुकानामभिपद्यजपति द्यौरिव भूम्ना
पृथिवीव वरिम्णेति यथासौ द्यौर्बह्वी नक्षत्रैरेवम्
बहुर्भूयासमित्येवैतदाह यदाह द्यौरिव भूम्नेति पृथिवीव वरिम्णेति यथेयम्
पृथिव्युर्व्येवमुरुर्भूयासमित्येवैतदाह तस्यास्ते पृथिवि देवयजनि पृष्ठ
इत्यस्यै ह्येनं पृष्ठ आधत्तेऽग्निमन्नादमन्नाद्यायादध इत्यन्नादो
ऽग्निरन्नादो भूयासमित्येवैतदाह सैषाशीरेव स यदि कामयेत जपेदेतद्यद्यु
कामयेतापि नाद्रियेत
२.१.४.[२९]
अथ सर्पराज्ञ्या ऋग्भिरुपतिष्ठते । आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः
पितरं च प्रयन्त्स्वः अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम्
त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते प्रति वस्तोरह द्युभिरिति
तद्यदेवास्यात्र सम्भारैर्वा नक्षत्रैर्वर्तुभिर्वाधानेन वानाप्तं भवति
तदेवास्यैतेन सर्वमाप्तं भवति तस्मात्सर्पराज्ञ्या ऋग्भिरुपतिष्ठते
२.१.४.[३०]
तदाहुः । न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेतीयं वै पृथिवी सर्पराज्ञी स
यदेवास्यामाधत्ते तत्सर्वान् कामानाप्नोति तस्मान्न सर्पराज्ञ्या ऋग्भिरुपतिष्ठेतेति
२.२.१.
२.२.१.[१]
उद्धृत्याहवनीयं पूर्णाहुतिं जुहोति । तद्यत्पूर्णाहुतिं जुहोत्यन्नादं वा
एतमात्मनो जनयते यदग्निं तस्मा एतदन्नाद्यमपिदधाति यथा कुमाराय वा
जाताय वत्साय वा स्तनमपिदध्यादेवमस्मा एतदन्नाद्यमपिदधाति
२.२.१.[२]
स एतेनान्नेन शान्तः । उत्तराणि हवींषि श्रप्यमाणान्युपरमति शश्वद्ध वा
अध्वर्युं वा यजमानं वा प्रदहेत्तौ ह्यस्य नेदिष्ठं चरतो
यदस्मिन्नेतामाहुतिं न जुहुयात्तस्माद्वा एतामाहुतिं जुहोति
२.२.१.[३]
तां वै पूर्णां जुहोति । सर्वं वै पूर्णं सर्वेणैवैनमेतच्छमयति स्वाहाकारेण
जुहोत्यनिरुक्तो वै स्वाहाकारः सर्वं वा अनिरुक्तं सर्वेणैवैनमेतच्छमयति
२.२.१.[४]
यां वै प्रजापतिः । प्रथमामाहुतिमजुहोत्स्वाहेति वै तामजुहोत्सो स्विदेषा
निदानेन तस्मात्स्वाहेति जुहोति तस्यां वरं ददाति सर्वं वै वरः
सर्वेणैवैनमेतच्छमयति
२.२.१.[५]
तदाहुः । एतामेवाहुतिं हुत्वाथोत्तराणि हवींषि नाद्रियेतैतयैव तं काममाप्नोति
यमभिकाममुत्तराणि हवींषि निर्वपतीति
२.२.१.[६]
स वा अग्नये पवमानाय निर्वपति । प्राणो वै पवमानः
प्राणमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधात्यन्नं हि प्राणो
ऽन्नमेषाहुतिः
२.२.१.[७]
अथाग्नये पावकाय निर्वपति । अन्नं वै पावकमन्नमेवास्मिन्नेतद्दधाति
तद्वेतयैवास्मिंस्तद्दधात्येषा ह्येव प्रत्यक्षमन्नमाहुतिः
२.२.१.[८]
अथाग्नये शुचये निर्वपति । वीर्यं वै शुचि यद्वा अस्यैतदुज्ज्वलत्येतदस्य वीर्यं
शुचि वीर्यमेवास्मिन्नेतद्दधाति तद्वेतयैवास्मिंस्तद्दधाति यदा
ह्येवास्मिन्नेतामाहुतिं जुहोत्यथास्यैतद्वीर्यं शुच्युज्ज्वलति
२.२.१.[९]
तस्मादाहुः । एतामेवाहुतिं हुत्वाथोत्तराणि हवींषि नाद्रियेतैतयैव तं
काममाप्नोति यमभिकाममुत्तराणि हवींषि निर्वपतीति तदु निर्वपेदेवोत्तराणि
हवींषि परोऽक्षमिव वा एतद्यददस्तदिदमितीव
२.२.१.[१०]
स यदग्नये पवमानाय निर्वपति । प्राणा वै पवमानो यदा वै जायतेऽथ प्राणो
ऽथ यावन्न जायते मातुर्वैव तावत्प्राणमनु प्राणिति यथा वा तज्जात
एवास्मिन्नेतत्प्राणं दधाति
२.२.१.[११]
अथ यदग्नये पावकाय निर्वपति । अन्नं वै पावकं तज्जात एवास्मिन्नेतदन्नं
दधाति
२.२.१.[१२]
अथ यदग्नये शुचये निर्वपति । वीर्यं वै शुचि यदा वा अन्नेन वर्धतेऽथ
वीर्यं तदन्नेनैवैनमेतद्वर्धयित्वाथास्मिन्नेतद्वीर्यं शुचि दधाति
तस्मादग्नये शुचये
२.२.१.[१३]
तद्वेतदेव सद्विपर्यस्तमिव । अग्निर्ह यत्र देवेभ्यो मनुष्यानभ्युपाववर्त
तद्धेक्षां चक्रे मैव सर्वेणेवात्मना मनुष्यानभ्युपावृतमिति
२.२.१.[१४]
स एतास्तिस्रस्तनूरेषु लोकेषु विन्यधत्त । यदस्य पवमानं रूपमासीत्तदस्याम्
पृथिव्यां न्यधत्ताथ यत्पावकं तदन्तरिक्षेऽथ यच्छुचि तद्दिवि तद्वा ऋषयः
प्रतिबुबुधिरे य उ तर्ह्यृषय आसुरसर्वेण वै न आत्मनाग्निरभ्युपावृतदिति तस्मा
एतानि हवींषि निरवपन्
२.२.१.[१५]
स यदग्नये पवमानाय निर्वपति । यदेवास्यास्यां पृथिव्यां रूपं
तदेवास्यैतेनाप्नोत्यथ यदग्नये पावकाय निर्वपति यदेवास्यान्तरिक्षे रूपं
तदेवास्यैतेनाप्नोत्यथ यदग्नये शुचये निर्वपति यदेवास्य दिवि रूपं
तदेवास्यैतेनाप्नोत्येवमु कृत्स्नमेवाग्निमनपनिहितमाधत्ते तस्मादु
निर्वपेदेवोत्तराणि हवींषि
२.२.१.[१६]
केवलबर्हिः प्रथमं हविर्भवति । समानबर्हिषी उत्तरे अयंवै लोकः
प्रथमं हविरथेदमन्तरिक्षं द्वितीयं द्यौरेव तृतीयं बहुलेव वा इयम्
पृथिवी लेलयेवान्तरिक्षं लेलयेवासौ द्यौरुभे चिदेनां प्रत्युद्यामिनी स्तामिति
तस्मात्समानबर्हिषी
२.२.१.[१७]
अष्टाकपालाः सर्वे पुरोडाशा भवन्ति । अष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दः
स्वेनैवैनमेतच्चन्दसाधत्ते तानि सर्वाणि चतुर्विंशतिः कपालानि सम्पद्यन्ते
चतुर्विंशत्यक्षरा वै गायत्री गायत्रमग्नेश्छन्दः स्वेनैवैनमेतच्चन्दसाधत्ते
२.२.१.[१८]
अथादित्यै चरुं निर्वपति । प्रच्यवत इव वा एषोऽस्माल्लोकाद्य एतानि हवींषि
निर्वपतीमान्हि लोकान्त्समारोहन्नेति
२.२.१.[१९]
स यददित्यै चरुं निर्वपति । इयं वै पृथिव्यदितिः सेयं प्रतिष्ठा
तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति तस्माददित्यै चरुं निर्वपति
२.२.१.[२०]
तस्यै विराजौ संयाज्ये स्यातामित्याहुः । विराड्ढीयमित्यथो त्रिष्टुभौ
त्रिष्टुब्भीयमित्यथो जगत्यौ जगती हीयमिति विराजावित्येव स्याताम्
२.२.१.[२१]
तस्यै धेनुर्दक्षिणा । धेनुरिव वा इयं मनुष्येभ्यः सर्वान् कामान्दुहे माता
धेनुर्मातेव वा इयं मनुष्यान्बिभर्ति तस्माद्धेनुर्दक्षिणैतन्न्वेकमयनम्
२.२.१.[२२]
अथेदं द्वितीयम् । आग्नेयमेवाष्टाकपालं पुरोडाशं निर्वपति परोऽक्षमिव
वाएतद्यदग्नये पवमानायाग्नये पावकायाग्नये शुचय
इतीवाथाञ्जसैवैनमेतत्प्रत्यक्षमाधत्ते तस्मादग्नयेऽथादित्यै चरुं निर्वपति
स य एव चरोर्बन्धुः स बन्धुः
२.२.२.
२.२.२.[१]
घ्नन्ति वा एतद्यज्ञम् । यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं
घ्नन्ति यत्पशुं सम्ज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां
दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति
२.२.२.[२]
स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणाभिरदक्षयंस्तद्यदेनं
दक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते
तदेवास्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा
ददाति
२.२.२.[३]
ता वै षड्दद्यात् । षड्वा ऋतवः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स
यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयति
२.२.२.[४]
द्वादश दद्यात् । द्वादश वै मासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स
यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयति
२.२.२.[५]
चतुर्विंशतिं दद्यात् । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरो यज्ञः
प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयत्येषा मात्रा
दक्षिणानां दद्यात्त्वेव यथाश्रद्धं भूयसीस्तद्यद्दक्षिणा ददाति
२.२.२.[६]
द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः श्रुश्रुवांसोऽनूचानास्ते
मनुष्यदेवास्तेषां द्वेधा विभक्त एव यज्ञ आहुतय एव देवानां दक्षिणा
मनुष्यदेवानां ब्राह्मणानां शुश्रुवुषामनूचानानामाहुतिभिरेव देवान्प्रीणाति
दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाच्रुश्रुवुषोऽनूचानांस्त एनमुभये देवाः
प्रीताः सुधायां दधति
२.२.२.[७]
तद्यथा योनौ रेतो दध्यात् । एवमेवैतदृत्विजो यजमानं लोके दधति
तद्यदेभ्य एतद्ददाति ये मेदं सम्प्रापिपन्निति नु दक्षिणानाम्
२.२.२.[८]
देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे त उभय एवानात्मान
आसुर्मर्त्या ह्यासुरनात्मा हि मर्त्यस्तेषूभयेषु मर्त्येष्वग्निरेवामृत आस तं ह
स्मोभयेऽमृतमुपजीवन्ति स यं ह स्मैषां घ्नन्ति तद्ध स्म वै स भवति
२.२.२.[९]
ततो देवाः । तनीयांस इव परिशिशिषिरे तेर्चन्तः
श्राम्यन्तश्चेरुरुतासुरान्त्सपत्नान्मर्त्यानभिभवेमेति त एतदमृतमग्न्याधेयं
ददृशुः
२.२.२.[१०]
ते होचुः । हन्तेदममृतमन्तरात्मन्नादधामहै त
इदममृतमन्तरात्मन्नाधायामृता भूत्वास्तर्या भूत्वा
स्तर्यान्त्सपत्नान्मर्त्यानभिभविष्याम इति
२.२.२.[११]
ते होचुः । उभयेषु वै नोऽयमग्निः प्र त्वेवासुरेभ्यो ब्रवामेति
२.२.२.[१२]
ते होचुः । आ वै वयमग्नी धास्यामहेऽथ यूयं किं करिष्यथेति
२.२.२.[१३]
ते होचुः । अथैनं वयं न्येव धास्यामहेऽत्र तृणानि दहात्र दारूणि
दहात्रौदनं पचात्र मांसं पचेति स यं तमसुरा न्यदधत तेनानेन
मनुष्या भुञ्जते
२.२.२.[१४]
अथैनं देवाः । अन्तरात्मन्नादधत त इमममृतमन्तरात्मन्नाधायामृता
भूत्वास्तर्यां भूत्वा स्तर्यान्त्सपत्नान्मर्त्यानभ्यभवंस्तथो एवैष
एतदमृतमन्तरात्मन्नाधत्ते नामृतत्वस्याशास्ति सर्वमायुरेत्यस्तर्यो हैव
भवति न हैनं सपत्नस्तुस्तूर्षमाणश्चन स्तृणुते
तस्माद्यदाहिताग्निश्चानाहिताग्निश्च स्पर्धेतेऽआहिताग्निरेवाभिभवत्यस्तर्यो हि खलु
स तर्हि भवत्यमृतः
२.२.२.[१५]
तद्यत्रैनमदो मन्थन्ति । तज्जातमभिप्राणिति प्राणो वा
अग्निर्जातमेवैनमेतत्सन्तं जनयति स पुनरपानिति तदेनमन्तरात्मन्नाधत्ते सो
ऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति
२.२.२.[१६]
तमुद्दीप्य समिन्द्धे । इह यक्ष्य इह सुकृतं करिष्यामीत्येवैनमेतत्समिन्द्धे
योऽस्यैषोऽन्तरात्मन्नाग्निराहितो भवति
२.२.२.[१७]
अन्तरेणागाद्व्यवृतदिति । न ह वा अस्यैतं कश्चनान्तरेणैति यावज्जीवति योऽस्यैसो
ऽन्तरात्मन्नग्निराहितो भवति तस्मादु तन्नाद्रियेत यदनुगच्छेन्न ह वा अस्यैषो
ऽनुगच्छति यावज्जीवति योऽस्यैसोऽन्तरात्मन्नग्निराहितो भवति
२.२.२.[१८]
ते वा एते प्राणा एव यदग्नयः । प्राणोदानावेवाहवनीयश्च गार्हपत्यश्च व्यानो
ऽन्वाहार्यपचनः
२.२.२.[१९]
तस्य वा एतस्याग्न्याधेयस्य । सत्यमेवोपचारः स यः सत्यं वदति यथाग्निं
समिद्धं तं घृतेनाभिषिञ्चेदेवं हैनं स उद्दीपयति तस्य भूयो भूय एव
तेजो भवति श्वः श्वः श्रेयान्भवत्यथ योऽनृतं वदति यथाग्निं समिद्धं
तमुदकेनाभिषिञ्चेदेवं हैनं स जासयति तस्य कनीयः कनीय एव तेजो भवति
श्वः श्वः पापीयान्भवति तस्मादु सत्यमेव वदेत्
२.२.२.[२०]
तदु हाप्यरुणमौपवेशिं ज्ञातय ऊचुः । स्थविरो वा अस्यग्नी आधत्स्वेति स होवाच ते
मैतद्ब्रूथ वाचंयम एवैधि न वा आहिताग्निनानृतं वदितव्यं न वदञ्जातु
नानृतं वदेत्तावत्सत्यमेवोपचार इति
२.२.३.
अथ पुनराधानम्
२.२.३.[२१]
वरुणो हैनद्राज्यकाम आदधे । स राज्यमगच्छत्तस्माद्यश्च वेद यश्च न वरुणो
राजेत्येवाहुः सोमो यशस्कामः स यशोऽभवत्तस्माद्यश्च सोमे लभते यश्च
नोभावेवागच्छतो यश एवैतद्द्रष्टुमागच्छन्ति यशो ह भवति राज्यं गच्छति य एवं
विद्वानाधत्ते
२.२.३.[२२]
अग्नौ ह वै देवाः । सर्वाणि रूपाणि निदधिरे यानि च ग्राम्याणि यानि चारण्यानि विजयं
वोपप्रैष्यन्तः कामचारस्य वा कामायायं नो गोपिष्ठो गोपायदिति वा

२.२.३.[२३]
तान्यु हाग्निर्निचकमे । तैः संगृह्यऽर्तून्प्रविवेश पुनरेम इति देवा एदग्निं
तिरोभूतं तेषां हेयसेवास किमिह कर्तव्यं केह प्रज्ञेति वा
२.२.३.[२४]
तत एतत्त्वष्टा पुनराधेयं ददर्श । तदादधे तेनाग्नेः प्रियं धामोपजगाम
सोऽस्मा उभयानि रूपाणि प्रतिनिःससर्ज यानि च ग्राम्याणि यानि चारण्यानि
तस्मादाहुस्त्वाष्ट्राणि वै रूपाणीति त्वष्टुर्ह्येव सर्वं रूपमुप ह त्वेवान्याः प्रजा
यावत्सो यावत्स इव तिष्ठन्ते
२.२.३.[२५]
तस्मै कं पुनराधेयमादधीत । एवं हैवाग्नेः प्रियं धामोपगच्छति सोऽस्मा
उभयानि रूपाणि प्रतिनिःसृजति यानि च ग्राम्याणि यानि चारण्यानि तस्मिन्नेतान्युभयानि
रूपाणि दृश्यन्ते परमता वै सा स्पृहयन्त्यु हास्मै तथा पुष्यति लोक्यम्वेवापि
२.२.३.[२६]
आग्नेयोऽयं यज्ञः । ज्योतिरग्निः पाप्मनो दग्धा सोऽस्य पाप्मानं दहति स इह
ज्योतिरेव श्रिया यशसा भवति ज्योतिरमुत्र पुण्यलोकत्वैतन्नु तद्यस्मादादधीत
२.२.३.[२७]
स वै वर्षास्वादधीत । वर्षा वै सर्व ऋतवो वर्षा हि वै सर्व ऋतवोऽथादो
वर्षमकुर्मादो वर्षमकुर्मेति संवत्सरान्त्सम्पश्यन्ति वर्षा ह त्वेव
सर्वेषामृतूनां रूपमुत हि तद्वर्षासु भवति यदाहुर्ग्रीष्म इव वा अद्येत्युतो
तद्वर्षासु भवति यदाहुः शिशिर इव वा अद्येति वर्षादिद्वर्षाः
२.२.३.[२८]
अथैतदेव परोऽक्षं रूपम् । यदेव पुरस्ताद्वाति तद्वसन्तस्य रूपं यत्स्तनयति
तद्ग्रीष्मस्य यद्वर्षति तद्वर्षाणां यद्विद्योतते तच्छरदो यद्वृष्ट्वोद्गृह्णाति
तद्धेमन्तस्य वर्षाः सर्व ऋतव ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते
२.२.३.[२९]
आदित्यस्त्वेव सर्व ऋतवः । यदैवोदेत्यथ वसन्तो यदा संगवोऽथ ग्रीष्मो यदा
मध्यन्दिनोऽथ वर्षा यदापराह्णोऽथ शरद्यदैवास्तमेत्यथ
हेमन्तस्तस्मादु मध्यन्दिन एवादधीत तर्हि ह्येषोऽस्य लोकस्य नेदिष्ठं
भवति तन्नेदिष्ठादेवैनमेतन्मध्यान्निर्मिमीते
२.२.३.[३०]
च्छाययेव वा अयं पुरुषः । पाप्मनानुषक्तः सोऽस्यात्र कनिष्ठो
भवत्यधस्पदमिवेयस्यते तत्कनिष्ठमेवैतत्पाप्मानमवबाधते तस्मादु
मध्यन्दिन एवादधीत
२.२.३.[३१]
तं वै दर्भैरुद्धरति । दारुभिर्वै पूर्वमुद्धरति दारुभिः पूर्वं
दारुभिरपरं जामि कुर्यात्समदं कुर्यादापो दर्भा आपो वर्षा
ऋतून्प्राविशदद्भिरेवैनमेतदद्भ्यो निर्मिमीते तस्माद्दर्भैरुद्धरति
२.२.३.[३२]
अर्कपलाशाभ्याम् । व्रीहिमयमपूपं कृत्वा यत्र गार्हपत्यमाधास्यन्भवति
तन्निदधाति तद्गार्हपत्यमादधाति
२.२.३.[३३]
अर्कपलाशाभ्यां यवमयमपूपं कृत्वा यत्राहवनीयमाधास्यन्भवति
तन्निदधाति तदाहवनीयमादधाति पूर्वाभ्यामेवैनावेतदग्निभ्यामन्तर्दध्म
इति वदन्तस्तदु तथा न कुर्याद्रात्रिभिर्ह्येवान्तर्हितौ भवतः
२.२.३.[३४]
आग्नेयमेव पञ्चकपालं पुरोडाशं निर्वपति । तस्य पञ्चपदाः पङ्क्तयो
याज्यानुवाक्या भवन्ति पञ्च वा ऋतव ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते
२.२.३.[३५]
सर्व आग्नेयो भवति । एवं हि त्वष्टाग्नेः प्रियं धामोपागच्छत्तस्मात्सर्व आग्नेयो
भवति
२.२.३.[३६]
तेनोपांशु चरन्ति । यद्वै ज्ञातये वा सख्ये वा निष्केवल्यं चिकीर्षति तिर इवैतेन
बीभवद्वैश्वदेवोऽन्यो यज्ञोऽथैष निष्केवल्य आग्नेयो यद्वै तिर इव तदुपांशु
तस्मादुपांशु चरन्ति
२.२.३.[३७]
उच्चैरुत्तममनुयाजं यजति । कृतकर्मेव हि स तर्हि भवति सर्वो हि
कृतमनुबुध्यते
२.२.३.[३८]
स आश्राव्याह । समिधो यजेति तदाग्नेयं रूपं परोऽक्षं त्वग्नीन्यजेति त्वेव
ब्रूयात्तदेव प्रत्यक्षमाग्नेयं रूपम्
२.२.३.[३९]
स यजति । अग्न आज्यस्य व्यन्त वौकगग्निमाज्यस्य वेतु वौकगग्निनाज्यस्य व्यन्तु
वौकगग्निराज्यस्य वेतु वौकगिति
२.२.३.[४०]
अथ स्वाहाग्निमित्याह । आग्नेयमाज्यभागं स्वाहाग्निं पवमानमिति यदि
पवमानाय ध्रियेरन्त्स्वाहाग्निमिन्दुमन्तमिति यद्यग्नय इन्दुमते
ध्रियेरन्त्स्वाहाग्निं स्वाहाग्नीनाज्यपाञ्जुषाणो अग्निराज्यस्य वेत्विति यजति
२.२.३.[४१]
अथाहाग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं सोऽन्वाहाग्निं स्तोमेन बोधय
समिधातो अमर्त्यं हव्या देवेषु नो दधदिति स्वपितीव खलु वा एतद्यदुद्वासितो
भवति सम्प्रबोधयत्येवैनमेतत्समुदीर्ययति जुषाणो अग्निराज्यस्य वेत्विति यजति
२.२.३.[४२]
अथ यद्यग्नये पवमानाय ध्रियेरन् । अग्नये पवमानायानुब्रूहीति ब्रूयात्सो
ऽन्वाहाग्न आयूंषि पवस आसुवोर्जमिषं च नः आरे बाधस्व दुच्छुनामिति
तथाहाग्नेयो भवति सोमो वै पवमानस्तदु सौम्यादाज्यभागान्नयन्ति जुषाणो
अग्निः पवमान आज्यस्य वेत्विति यजति
२.२.३.[४३]
अथ यद्यग्नय इन्दुमते ध्रियेरन् । अग्नय इन्दुमतेऽनुब्रूहीति ब्रूयात्सो
ऽन्वाहेह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः एभिर्वर्धस इन्दुभिरिति तथा हाग्नेयो
भवति सोमो वा इन्दुस्तदु सौम्यादाज्यभागान्नयन्ति जुषाणो अग्निरिन्दुमानाज्यस्य
वेत्विति यजत्येवमु सर्वमाग्नेयं करोति
२.२.३.[४४]
अथाहाग्नयेऽनुब्रूहीति हविषः । अग्निं यजाग्नये स्विष्टकृतेऽनुब्रूह्यग्निं
स्विष्टकृतं यजेत्यथ यद्देवान्यजेत्यग्नीन्यजेत्येवैतदाह
२.२.३.[४५]
स यजति । अग्नेर्वसुवने वसुधेयस्य वेतु वौकगग्ना उ वसुवने वसुधेयस्य
वेतु वौकग्देवो अग्निः स्विष्टकृदिति स्वयमाग्नेयस्तृतीय एवम्वाग्नेयाननुयाजान्
करोति
२.२.३.[४६]
ता वा एताः । षड्विभक्तीर्यजति चतस्रः प्रयाजेषु द्वे अनुयाजेषु षड्वा ऋतव
ऋतून्प्राविशदृतुभ्य एवैनमेतन्निर्मिमीते
२.२.३.[४७]
द्वादश वा त्रयोदश वाक्षराणि भवन्ति । द्वादश वा वै त्रयोदश वा संवत्सरस्य
मासाः संवत्सरमृतून्प्राविशदृतुभ्य एवैनमेतत्संवत्सरान्निर्मिमीते न द्वे चन
सहाजामितायै जामि ह कुर्याद्यद्द्वे चित्सह स्यातां व्यन्तु वेत्वित्येव प्रयाजानां
रूपं वसुवने वसुधेयस्येत्यनुयाजानाम्
२.२.३.[४८]
तस्य हिरण्यं दक्षिणा । आग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं
तस्माद्धिरण्यं दक्षिणानड्वान्वा स हि वहेनाग्नेयोऽग्निदग्धमिव ह्यस्य वहं
भवति देवानां हव्यवाहनोऽग्निरिति वहति वा एष
मनुष्येभ्यस्तस्मादनड्वान्दक्षिणा
२.२.४.
२.२.४.[१]
प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स
तपोऽतप्यत सोऽग्निमेव मुखाज्जनयां चक्रे तद्यदेनं मुखादजनयत
तस्मादन्नादोऽग्निः स यो हैवमेतमग्निमन्नादं वेदान्नादो हैव भवति
२.२.४.[२]
तद्वा एनमेतदग्रे देवानामजनयत । तस्मादग्निरग्निर्ह वै नामैतद्यदग्निरिति
स जातः पूर्वः पेयाय यो वै पूर्व एत्यग्र एतीते वै तमाहुः सो एवास्याग्निता
२.२.४.[३]
स ऐक्षत प्रजापतिः । अन्नादं वा इममात्मनोऽजीजने यदग्निं न वा इह
मदन्यदन्नमस्ति यं वा अयं नाद्यादिति काल्वालीकृता हैव तर्हि पृथिव्यास
नौषधय आसुर्न वनस्पतयस्तदेवास्य मनस्यास
२.२.४.[४]
अथैनमग्निर्व्यात्तेनोपपर्याववर्त । तस्य भीतस्य स्वो महिमापचक्राम वाग्वा
अस्य स्वो महिमा वागस्यापचक्राम स आत्मन्नेवाहुतिमीषे स उदमृष्ट
तद्यदुदमृष्ट तस्मादिदं चालोमकमिदं च तत्र विवेद घृताहुति वैव
पयाअहुतिं वोभयं ह त्वेव तत्पय एव
२.२.४.[५]
सा हैनं नाभिराधयां चकार । केषमिश्रेव हास तां व्यौक्षदोष धयेति तत
ओषधयः समभवंस्तस्मादोषधयो नाम स द्वितीयमुदमृष्ट
तत्रापरामाहुतिं विवेद घृताहुतिं वैव पयाअहुतिं वोभयं ह त्वेव तत्पय एव
२.२.४.[६]
सा हैनमभिराधयां चकार । स व्यचिकित्सज्जुहवानी३ मा हौषा३ इति तं स्वो
महिमाभ्युवाद जुहुधीति स प्रजापतिर्विदां चकार स्वो वै मा महिमाहेति स
स्वाहेत्येवाजुहोत्तस्मादु स्वाहेत्येव हूयते तत एष उदियाय य एष तपति ततोयम्
प्रबभूव योऽयं पवते तत एवाग्निः पराङ्पर्याववर्त
२.२.४.[७]
स हुत्वा प्रजापतिः । प्र चाजायतात्स्यतश्चाग्नेर्मृत्योरात्मानमत्रायत स यो हैवं
विद्वानग्निहोत्रं जुहोत्येतां हैव प्रजातिं प्रजायते यां प्रजापतिः प्राजायतैवमु
हैवात्स्यतोऽग्नेर्मृत्योरात्मानं त्रायते
२.२.४.[८]
स यत्र म्रियते । यत्रैनमग्नावभ्यादधति तदेषोऽग्नेरधिजायतेऽथास्य
शरीरमेवाग्निर्दहति तद्यथा पितुर्वा मातुर्वा जायेतैवमेषोऽग्नेरधिजायते
शश्वद्ध वा एष न सम्भवति योऽग्निहोत्रं न जुहोति तस्माद्वा अग्निहोत्रं
होतव्यम्
२.२.४.[९]
तद्वा एतत् । एव विचिकित्सायै जन्म यत्प्रजापतिर्व्यचिकित्सत्स
विचिकित्सञ्च्रेयस्यध्रियत यः प्र चाजायतात्स्यतश्चाग्नेर्मृत्योरात्मानमत्रायत स यो
हैवमेतद्विचिकित्सायै जन्म वेद यद्ध किं च विचिकित्सति श्रेयसि हैव ध्रियते
२.२.४.[१०]
स हुत्वा न्यमृष्ट । ततो विकङ्कतः समभवत्तस्मादेष यज्ञियो यज्ञपात्रीयो
वृक्षस्तत एते देवानां वीरा अजायन्ताग्निर्योऽयं पवते सूर्यः स यो
हैवमेतान्देवानां वीरान्वेदाहास्य वीरो जायते
२.२.४.[११]
त उ हैत ऊचुः । वयं वै प्रजापतिं पितरमनु स्मो हन्त वयं तत्सृजामहै
यदस्मानन्वसदिति ते परिश्रित्य गायत्रेणापहिंकारेण तुष्टुविरे
तद्यत्पर्यश्रयन्त्स समुद्रोऽथेयमेव पृथिव्यास्तावः
२.२.४.[१२]
ते स्तुत्वा प्राञ्च उच्चक्रमुः । पुनरेम इति देवा एद्गां सम्भूतां सा हैनानुदीक्ष्य
हिंचकार ते देवा विदां चक्रुरेष साम्नो हिंकार इत्यपहिंकारं हैव पुरा ततः
सामास स एष गवि साम्नो हिंकारस्तस्मादेषोपजीवनीयोपजीवनीयो ह वै भवति य
एवमेतं गवि साम्नो हिंकारं वेद
२.२.४.[१३]
ते होचुः । भद्रं वा इदमजीजनामहि ये गामजीजनामहि यज्ञो ह्येत्वेयं नो ह्यृते
गोर्यज्ञस्तायतेऽन्नं ह्येवेयं यद्धि किं चान्नं गौरेव तदिति
२.२.४.[१४]
तद्वा एतदेवैतासां नाम । एतद्यज्ञस्य तस्मादेतत्परिहरेत्साधु पुण्यमिति बह्व्यो
ह वा अस्यैता भवन्त्युपनामुक एनं यज्ञो भवति य एवं विद्वानेतत्परिहरति
साधु पुण्यमिति
२.२.४.[१५]
तामु हाग्निरभिदध्यौ । मिथुन्यनया स्यामिति तां सम्बभूव तस्यां रेतः
प्रासिञ्चत्तत्पयोऽभवत्तस्मादेतदामायां गवि सत्यां शृतमग्नेर्हि रेतस्तस्माद्यदि
कृष्नायां यदि रोहिण्यां शुक्लमेव भवत्यग्निसंकाशमग्नेर्हि
रेतस्तस्मात्प्रथमदुग्धमुष्णं भवत्यग्नेर्हि रेतः
२.२.४.[१६]
ते होचुः । हन्तेदं जुहवामहा इति कस्मै न इदं प्रथमाय होष्यन्तीति
मह्यमिति हैवाग्निरुवाच मह्यमिति योऽयं पवते मह्यमिति सूर्यस्ते न
सम्पादयां चक्रुस्ते हासम्पाद्योचुः प्रजापतिमेव पितरं प्रत्ययाम स यस्मै
न इदं प्रथमाय होतव्यं वक्ष्यति तस्मै न इदं प्रथमाय होष्यन्तीति ते
प्रजापतिं पितरं प्रतीत्योचुः कस्मै न इदं प्रथमाय होष्यन्तीति
२.२.४.[१७]
स होवाच । अग्नयेऽग्निरनुष्ठ्या स्वं रेतः प्रजनयिष्यते तथा प्रजनिष्यध्व
इत्यथ तुभ्यमिति सूर्यमथ यदेव हूयमानस्य व्यश्नुते तदेवैतस्य योऽयम्
पवत इति तदेभ्य इदमप्येतर्हि तथैव जुह्वत्यग्नय एव सायं सूर्याय
प्रातरथ यदेव हूयमानस्य व्यश्नुते तदेवैतस्य योऽयं पवते
२.२.४.[१८]
ते हुत्वा देवाः । इमां प्रजातिं प्राजायन्त यैषामियं प्रजातिरिमां विजितिं
व्यजयन्त येयमेषां विजितिरिममेव लोकमग्निरजयदन्तरिक्षं वायुर्दिवमेव
सूर्यः स यो हैवं विद्वानग्निहोत्रं जुहोत्येतां हैव प्रजातिं प्रजायते यामेत
एतत्प्राजायन्तैतां विजितं विजयते यामेत एतद्व्यजयन्तैतैरु हैव सलोको भवति य
एवं विद्वानग्निहोत्रं जुहोति तस्माद्वा अग्निहोत्रं होतव्यम्
२.३.१.
२.३.१.[१]
सूर्यो ह वा अग्निहोत्रम् । तद्यदेतस्या अग्र आहुतेरुदैत्तस्मात्सूर्योऽग्निहोत्रम्
२.३.१.[२]
स यत्सायमस्तमिते जुहोति । य इदं तस्मिन्निह सति जुहवानीत्यथ यत्प्रातरनुदिते
जुहोति य इदं तस्मिन्निह सति जुहवानीति तस्माद्वै सूर्योऽग्निहोत्रमित्याहुः
२.३.१.[३]
अथ यदस्तमेति । तदग्नावेव योनौ गर्भो भूत्वा प्रविशति तं गर्भम्
भवन्तमिमाः सर्वाः प्रजा अनु गर्भा भवन्तीलिता हि शेरे संजानाना अथ
यद्रात्रिस्तिर एवैतत्करोति तिर इव हि गर्भाः
२.३.१.[४]
स यत्सायमस्तमिते जुहोति । गर्भमेवैतत्सन्तमभिजुहोति गर्भं
सन्तमभिकरोति स यद्गर्भं सन्तमभिजुहोति तस्मादिमे गर्भा अनश्नन्तो
जीवन्ति
२.३.१.[५]
अथ यत्प्रातरनुदिते जुहोति । प्रजनयत्येवैनमेतत्सोऽयं तेजो भूत्वा
विभ्राजमान उदेति शश्वद्ध वै नोदियाद्यदस्मिन्नेतामाहुतिं न जुहुयात्तस्माद्वा
एतामाहुतिं जुहोति
२.३.१.[६]
स यथाहिस्त्वचो निर्मुच्येत । एवं रात्रेः पाप्मना निर्मुच्यते यथा ह वा अहिस्त्वचो
निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते य येवं विद्वानग्निहोत्रं जुहोति
तदेतस्यैवानु प्रजातिमिमाः सर्वाः प्रजा अनु प्रजायन्ते वि हि सृज्यन्ते यथार्थम्
२.३.१.[७]
स यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरत्येते वै विश्वे देवा रश्मयोऽथ
यत्परं भाः प्रजापतिर्वा स इन्द्रो वैतदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो
गृहानागच्छन्तिस यस्यानुद्धृतमागच्छन्ति तस्माद्देवा अपप्रयन्ति तद्वा अस्मै
तद्व्यृध्यते यस्माद्देवा अपप्रयन्ति तस्यानु व्यृद्धिं यश्च वेद यश्च
नानुद्धृतमभ्यस्तमगादित्याहुः
२.३.१.[८]
अथ यः पुरादित्यस्यास्तमयात् । आहवनीयमुद्धरति यथा
श्रेयस्यागमिष्यत्यावसथेनोपकॢप्तेनोपासीतैवं तत्स यस्योद्धृतमागच्छन्ति
तस्याहवनीयं प्रविशन्ति तस्याहवनीये निविशन्ते
२.३.१.[९]
स यत्सायमस्तमिते जुहोति । अग्नावेवैभ्य एतत्प्रविष्टेभ्यो जुहोत्यथ
यत्प्रातरनुदिते जुहोत्यप्रेतेभ्य एवैभ्य एतज्जुहोति तस्मादुदितहोमिनां
विच्छिन्नमग्निहोत्रं मन्यामह इति ह स्माहासुरिर्यथा
शून्यमावसथमाहरेदेवं तदिति
२.३.१.[१०]
द्वयं वा इदं जीवनम् । मूलि चैवामूलं च तदुभयं देवानां सन्मनुष्या
उपजीवन्ति पशवो मूला ओषधयो मूलिन्यस्ते पशवो मूला
ओषधीर्मूलिनीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति
२.३.१.[११]
स यत्सायमस्तमिते जुहोति । अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं
सदुपजीवाम इति स यत्ततो रात्र्याश्नाति हुतोच्छिष्ठमेव तन्निरवत्तबल्यश्नाति
हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता
२.३.१.[१२]
अथ यत्प्रातरनुदिते जुहोति । अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि यदेषामिदं
सदुपजीवाम इति स यत्ततोऽह्नाश्नाति हुतोच्छिष्टमेव तन्निरवत्तबल्यश्नाति
हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता
२.३.१.[१३]
तदाहुः । समेवान्ये यज्ञास्तिष्ठन्तेऽग्निहोत्रमेव न संतिष्ठतेऽपि
द्वादशसंवत्सरमन्तवदेवाथैतदेवानन्तं सायं हि हुत्वा वेद
प्रातर्होष्यामीति प्रातर्हुत्वा वेद पुनः सायं होष्यामीति
तदेतदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिता इमाः प्रजाः
प्रजायन्तेऽनुपस्थितो ह वै श्रिया प्रजया प्रजायते य
एवमेतदनुपस्थितमग्निहोत्रं वेद
२.३.१.[१४]
तद्दुग्ध्वाधिश्रयति । शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयादिति तद्वै
नोदन्तं कुर्यादुप ह दहेद्यदुदन्तं कुर्यादप्रजज्ञि वै रेत उपदग्धं
तस्मान्नोदन्तं कुर्यात्
२.३.१.[१५]
अधिश्रित्यैव जुहुयात् । यन्न्वेवैतदग्ने रेतस्तेन न्वेव शृतं
यद्वेनदग्नावधिश्रयन्ति तेनो एव शृतं तस्मादधिश्रित्यैव जुहुयात्
२.३.१.[१६]
तदवज्योतयति । शृतं वेदानीत्यथापः प्रत्यानयति शान्त्यै न्वेव रसस्यो चैव
सर्वत्वायेदं हि यदा वर्षत्यथौषधयो जायन्तऽोषधीर्जग्ध्वापः पीत्वा तत
एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय तस्माद्यद्येनं क्षीरं
केवलं पानेऽभ्याभवेदुदस्तोकमाश्चोतयितवै ब्रूयाच्छान्त्यै न्वेव रसस्यो चैव
सर्वत्वाय
२.३.१.[१७]
अथ चतुरुन्नयति । चतुर्धाविहितं हीदं पयोऽथ समिधमादायोदाद्रवति
समिद्धहोमायैव सोऽनुपसाद्य पूर्वामाहुतिं जुहोति स यदुपसादयेद्यथा
यस्मा अशनमाहरिश्यन्त्स्यात्तदन्तरा निदध्यादेवं तदथ यदनुपसाद्य यथा
यस्मा अशनमाहरेत्तस्मा आहृत्यैवोपनिदध्यादेवं तदुपसाद्योत्तरां नानावीर्ये
एवैने एतत्करोति मनश्च ह वै वाक्चैते आहुति तन्मनश्चैवैतद्वाचं च
व्यावर्तयति तस्मादिदं मनश्च वाक्च समानमेव सन्नानेव
२.३.१.[१८]
स वै द्विरग्नौ जुहोति । द्विरुपमार्ष्टि द्विः प्राश्नाति चतुरुन्नयति तद्दश
दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयति
२.३.१.[१९]
स यदग्नौ जुहोति । तद्देवेषु जुहोति तस्माद्देवाः सन्त्यथ यदुपमार्ष्टि
तत्पितृषु चौषधीषु च जुहोति तस्मात्पितरश्चौषधयश्च सन्त्यथ यद्धुत्वा
प्राश्नाति तन्मनुष्येषु जुहोति तस्मान्मनुष्याः सन्ति
२.३.१.[२०]
या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा
अपराभूतास्ता यज्ञमुख आभजति तेनो ह पशवोऽन्वाभक्ता यन्मनुष्याननु
पशवः
२.३.१.[२१]
तदु होवाच याज्ञवल्क्यः । न वै यज्ञ इव मन्तवै पाकयज्ञ इव वा इतीदं हि
यदन्यस्मिन्यज्ञे स्रुच्यवद्यति सर्वं तदग्नौ जुहोत्यथैतदग्नौ
हुत्वोत्सृप्याचामति निर्लेढि तदस्य पाकयज्ञस्येवेति तदस्य तत्पशव्यं रूपम्
पशव्यो हि पाकयज्ञः
२.३.१.[२२]
सैषैकाहुतिरेवाग्रे । यामेवामूं प्रजापतिरजुहोदथ यदेत
एतत्पश्चेवाध्रियन्ताग्निर्योऽयं पवते सूर्यस्तस्मादेषा द्वितीयाहुतिर्हूयते
२.३.१.[२३]
सा या पूर्वाहुतिः । साग्निहोत्रस्य देवता तस्मात्तस्यै जुहोत्यथ योत्तरा
स्विष्टकृद्भाजनमेव सा तस्मात्तामुत्तरार्धे जुहोत्येषा हि दिक्
स्विष्टकृतस्तन्मिथुनायैवैषा द्वितीयाहुतिर्हूयते द्वन्द्वं हि मिथुनम्
प्रजननम्
२.३.१.[२४]
तद्द्वयमेवैते आहुती । भूतं चैव भविष्यच्च जातं च जनिष्यमाणं चागतं
चाशा चाद्य च श्वश्च तद्द्वयमेवानु
२.३.१.[२५]
आत्मैव भूतम् । अद्धा हि तद्यद्भूतमद्धो तद्यदात्मा प्रजैव
भविष्यदनद्धा हि तद्यद्भविष्यदनद्धो तद्यत्प्रजा
२.३.१.[२६]
आत्मैव जातम् । अद्धा हि तद्यज्जातमद्धो तद्यदात्मा प्रजैव
जनिष्यमाणमनद्धा हि तद्यज्जनिष्यमाणमनद्धो तद्यत्प्रजा
२.३.१.[२७]
आत्मैवागतम् । अद्धा हि तद्यदागतमद्धो तद्यदात्मा प्रजैवाशानद्धा हि
तद्यदाशानद्धो तद्यत्प्रजा
२.३.१.[२८]
आत्मैवाद्य । अद्धा हि तद्यदद्याद्धो तद्यदात्मा प्रजैव श्वोऽनद्धा हि तद्यच्वो
ऽनद्धो तद्यत्प्रजा
२.३.१.[२९]
सा या पूर्वाहुतिः । सात्मानमभि हूयते तां मन्त्रेण जुहोत्यद्धा हि तद्यन्मन्त्रो
ऽद्धो तद्यदात्माऽथ योत्तरा सा प्रजामभि हूयते तां तूष्णीं जुहोत्यनद्धा हि
तद्यत्तूष्णीमनद्धो तद्यत्प्रजा
२.३.१.[३०]
स जुहोति । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेत्यथ प्रातः सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति
तत्सत्येनैव हूयते यदा ह्येवसूर्योऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ सूर्यो
ज्योतिर्यद्वै सत्येन हूयते तद्देवान् गच्छति
२.३.१.[३१]
तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षानूवाचाग्निर्वर्चो ज्योतिर्वर्चः सूर्यो
वर्चो ज्योतिर्वर्च इति ब्रह्मवर्चसी हैव भवति य एवं विद्वानग्नि होत्रं जुहोति
२.३.१.[३२]
तद्वस्त्येव प्रजननस्येव रूपम् । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तदुभयतो ज्योती
रेतो देवतया परिगृह्णात्युभयतः परिगृहीतं वै रेतः प्रजायते तदुभयत
एवैतत्परिगृह्य प्रजनयति
२.३.१.[३३]
अथ प्रातः । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति तदुभयतो ज्योती रेतो देवतया
परिगृह्णात्युभयतःपरिगृहीतं वै रेतः प्रजायते तदुभयत एवैतत्परिगृह्य
प्रजनयति तत्प्रजननस्य रूपम्
२.३.१.[३४]
तदु होवाच जीवलश्चैलकिः । गर्भमेवारुणिः करोति न प्रजनयतीति स एतेनैव
सायं जुहुयात्
२.३.१.[३५]
अथ प्रातः । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहेति तद्बहिर्धा ज्योती रेतो देवतया करोति
बहिर्धा वै रेतः प्रजातं भवति तदेनत्प्रजनयति
२.३.१.[३६]
तदाहुः । अग्नावेवैतत्सायं सूर्यं जुहोति सूर्ये प्रातरग्निमिति तद्वै
तदुदितहोमिनामेव यदा ह्येव सूर्योऽस्तमेत्यथाग्निर्ज्योतिर्यदा सूर्य उदेत्यथ
सूर्यो ज्योतिर्नास्य सा परिचक्षेयमेव परिचक्षा यत्तस्यै नाद्धा देवतायै हूयते
याग्निहोत्रस्य देवताग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति तत्र नाग्नये स्वाहेत्यथ प्रातः
सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति तत्र न सूर्याय स्वाहेति
२.३.१.[३७]
अनेनैव जुहुयात् । सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजू रात्र्येन्द्रवत्येति
तद्रात्र्या मिथुनं करोति सेन्द्रं करोतीन्द्रो हि यज्ञस्य देवता जुषाणो अग्निर्वेतु
स्वाहेति तदग्नये प्रत्यक्षं जुहोति
२.३.१.[३८]
अथ प्रातः । सजूर्देवेन सवित्रेति तत्सवितृमत्प्रसवाय सजूरुषसेन्द्रवत्येत्यह्नेति
वा तदह्नां वोषसां वा मिथुनं करोति सेन्द्र करोतीन्द्रो हि यज्ञस्य देवता
जुषाणः सूर्यो वेतु स्वाहेति तत्सूर्याय प्रत्यक्षं जुहोति तस्मादेवमेव जुहुयात्
२.३.१.[३९]
ते होचुः । को न इदं होष्यतीति ब्राह्मण एवेति ब्राह्मणेदं नो जुहुधीति किं मे
ततो भविष्यतीत्यग्निहोत्रोच्छिष्टमेवेति स यत्स्रुचि परिशिनष्टि
तदग्निहोत्रोच्छिष्टमथ यत्स्थाल्यां यथा परीणहो निर्वपेदेवं तत्तस्मात्तद्य एव
कश्च पिबेत्तद्वै नाब्राह्मणः पिबेदग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत्
२.३.२.
२.३.२.[१]
एता ह वै देवता योऽस्ति । तस्मिन्वसन्तीन्द्रो यमो राजा नडो नैषिधो
ऽनश्नन्त्सांगमनोऽसन्पांसवः
२.३.२.[२]
तद्वा एष एवेन्द्रः । यदाहवनीयोऽथैष एव गार्हपत्यो यमो राजाथैष एव
नडो नैषिधो यदन्वाहार्यपचनस्तद्यदेतमहरहर्दक्षिणत आहरन्ति
तस्मादाहुरहरहर्वै नडो नैषिधो यमं राजानं दक्षिणत उपनयतीति
२.३.२.[३]
अथ य एष सभायामग्निः । एष
एवानश्नन्त्सांगमनस्तद्यदेतमनशित्वेवोपसंगच्छन्ते तस्मादेषोऽनश्नन्नथ
यदेतद्भस्मोद्धृत्य परावपन्त्येष एवासन्पांसवः स यो हैवमेतद्वेदैवम्
मय्येता देवता वसन्तीति सर्वान्हैवैतांलोकाञ्जयति सर्वालोकाननुसंचरति
२.३.२.[४]
तेषामुपस्थानम् । यदेव सायं प्रातराहवनीयमुप च तिष्ठत उप चास्ते तदेव
तस्योपस्थानमथ यदेव प्रतिपरेत्य गार्हपत्यमास्ते वा शेते वा तदेव
तस्योपस्थानमथ यत्रैव संव्रजन्नन्वाहार्यपचनमुपस्मरेत्तदेव तम्
मनसोपतिष्ठेत तदेव तस्योपस्थानम्
२.३.२.[५]
अथ प्रातः । अनशित्वा मुहूर्तं सभायामासित्वापि कामं पल्ययेत तदेव
तस्योपस्थानमथ यत्रैव भस्मोद्धृतमुपनिगच्छेत्तदेव तस्योपस्थानमेवमु
हास्यैता देवता उपस्थिता भवन्ति
२.३.२.[६]
यजमानदेवत्यो वै गार्हपत्यः । अथैष भ्रातृव्यदेवत्यो
यदन्वाहार्यपचनस्तस्मादेतं नाहरहराहरेयुर्न ह वा अस्य सपत्ना भवन्ति
यस्यैवं विदुष एतं नाहरहराहरन्त्यन्वाहार्यपचनो वा एषः
२.३.२.[७]
उपवसथ एवैनमाहरेयुः । यत्रैवास्मिन्यक्ष्यन्तो भवन्ति तथो हास्यैषो
ऽमोघायाहृतो भवति
२.३.२.[८]
नवावसिते वैनमाहरेयुः । तस्मिन्पचेयुस्तद्ब्राह्मणा अश्नीयुर्यद्यु तन्न
विन्देद्यत्पचेदपि गोरेव दुग्धमधिश्रयितवै ब्रूयात्तस्मिन्ब्राह्मणान्पाययितवै
ब्रूयात्पापीयांसो ह वा अस्य सपत्ना भवन्ति यस्यैवं विदुष एवं कुर्वन्ति
तस्मादेवमेव चिकीर्षेत्
२.३.२.[९]
तद्यत्रैतत्प्रथमं समिद्धो भवति । धूप्यत इव तर्हि हैष भवति रुद्रः स
यः कामयेत यथेमा रुद्रः प्रजा अश्रद्धयेव त्वत्सहसेव त्वन्निघातमिव
त्वत्सचत एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य
एवं विद्वांस्तर्हि जुहोति
२.३.२.[१०]
अथ यत्रैतत्प्रदीप्ततरो भवति । तर्हि हैष भवति वरुणः स यः कामयेत
यथेमा वरुणः प्रजा गृह्णन्निव त्वत्सहसेव त्वन्निघातमिव त्वत्सचत
एवमन्नमद्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं
विद्वांस्तर्हि जुहोति
२.३.२.[११]
अथ यत्रैतत्प्रदीप्तो भवति । उच्चैर्धूमः परमया जूत्या बल्बलीति तर्हि हैष
भवतीन्द्रः स यः कामयेतेन्द्रैव श्रिया यशसा स्यामिति तर्हि ह स जुहुयात्प्राप्नोति
हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति
२.३.२.[१२]
अथ यत्रैतत्प्रतितरामिव । तिरश्चीवार्चिः संशाम्यतो भवति तर्हि हैष भवति
मित्रः स यः कामयेत मैत्रेणेदमन्नमद्यामिति यमाहुः सर्वस्य वा अयम्
ब्राह्मणो मित्रंन वा अयं कं चन हिनस्तीति तर्हि ह स जुहुयात्प्राप्नोति
हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति
२.३.२.[१३]
अथ यत्रैतदङ्गाराश्चाकश्यन्त इव । तर्हि हैष भवति ब्रह्म स यः कामयेत
ब्रह्मवर्चसी स्यामिति तर्हि ह स जुहुयात्प्राप्नोति हैवैतदन्नाद्यं य एवं
विद्वांस्तर्हि जुहोति
२.३.२.[१४]
एतेषामेकं संवत्सरमुपेर्त्सेत् । स्वयं जुह्वद्यदि वास्यान्यो जुहुयादथ यो
ऽन्यथान्यथा जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं स सामि निवर्तेतैवं
तदथ यः सार्धं जुहोति यथापो वाभिखनन्नन्यद्वान्नाद्यं तत्क्षिप्रे
ऽभितृन्द्यादेवं तत्
२.३.२.[१५]
अभ्रयो ह वा एता अन्नाद्यस्य यदाहुतयः । अभि हैवैतदन्नाद्यं तृणत्ति य एवं
विद्वानग्निहोत्रं जुहोति
२.३.२.[१६]
सा या पूर्वाहुतिः । ते देवा अथ योत्तरा ते मनुष्या अथ यत्स्रुचि परिशिनष्टि ते
पशवः
२.३.२.[१७]
स वै कनीय इव पूर्वामाहुतिं जुहोति । भूय इवोत्तरां भूय इव स्रुचि परिशिनष्टि
२.३.२.[१८]
स यत्कनीय इव पूर्वामाहुतिं जुहोति । कनीयांसो हि देवा मनुष्येभ्योऽथ
यद्भूय इवोत्तरां भूयांसो हि मनुष्या देवेभ्योऽथ यद्भूय इव स्रुचि
परिशिनष्टि भूयांसो हि पशवो मनुष्येभ्यः कनीयांसो ह वा अस्य भार्या भवन्ति
भूयांसः पशवो य एवं विद्वानग्निहोत्रं जुहोति तद्वै समृद्धं यस्य
कनीयांसो भार्या असन्भूयांसः पशवः
२.३.३.
२.३.३.[१]
यत्र वै प्रजापतिः प्रजाः ससृजे । स यत्राग्निं ससृजे स इदं जातः सर्वमेव
दग्धुं दध्र इत्येवाबिलमेव ता यास्तर्हि प्रजा आसुस्ता हैनं सम्पेष्टुं दध्रिरे
सोऽतितिक्षमाणः पुरुषमेवाभ्येयाय
२.३.३.[२]
स होवाच । न वा अहमिदं तितिक्षे हन्त त्वा प्रविशानि तं मा जनयित्वा बिभृहि स
यथैव मां त्वमस्मिंलोके जनयित्वा भरिष्यस्येवमेवाहं त्वाममुष्मिंलोके
जनयित्वा भरिष्यामीति तथेति तं जनयित्वाबिभः
२.३.३.[३]
स यदग्नी आधत्ते । तदेनं जनयति तं जनयित्वा बिभर्ति स यथा हैवैष
एतमस्मिंलोके जनयित्वा बिभर्त्येवमु हैवैष एतममुष्मिंलोके जनयित्वा
बिभर्ति
२.३.३.[४]
तन्न साम्युद्वासयेत । सामि हास्मै स ग्लायति स यथा हैवैष एतस्मा अस्मिंलोके
सामि ग्लायत्येवमु हैवैष एतस्मा अमुष्मिंलोके सामि ग्लायति तस्मान्न
साम्युद्वासयेत
२.३.३.[५]
स यत्र म्रियते । यत्रैनमग्नावभ्यादधति तदेषोऽग्नेरधिजायते स एष पुत्रः
सन्पिता भवति
२.३.३.[६]
तस्मादेतदृषिणाभ्यनूक्तम् । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं
तनूनां पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोरिति पुत्रो
ह्येष सन्त्स पुनः पिता भवत्येतन्नु तद्यस्मादग्नी आदधीत
२.३.३.[७]
तद्वा एष एव मृत्युः । स एष तपति तद्यदेष एव मृत्युस्तस्माद्या एतस्मादर्वाच्यः
प्रजास्ता म्रियन्तेऽथ याः पराच्यस्ते देवास्तस्मादु तेऽमृतास्तस्येमाः सर्वाः प्रजा
रश्मिभिः प्राणेष्वभिहितास्तस्मादु रश्मयः प्राणानभ्यवतायन्ते
२.३.३.[८]
स यस्य कामयते । तस्य प्राणमादायोदेति स म्रियते स यो हैतम्
मृत्युमनतिमुच्याथामुं लोकमेति यथा हैवास्मिंलोके न संयतमाद्रियते यदा
यदैव कामयतेऽथ मारयत्येवमु हैवामुष्मिंलोके पुनःपुनरेव
प्रमारयति
२.३.३.[९]
स यत्सायमस्तमिते द्वे आहुती जुहोति । तदेताभ्यां पूर्वाभ्याम्
पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठत्यथ यत्प्रातरनुदिते द्वे आहुती जुहोति
तदेताभ्यामपराभ्यां पद्भ्यामेतस्मिन्मृत्यौ प्रतितिष्ठित स एनमेष
उद्यन्नेवादायोदेति तदेतं मृत्युमतिमुच्यते सैषाग्निहोत्रे मृत्योरतिमुक्तिरति ह
वै पुनर्मृत्युं मुच्यते य एवमेतामग्निहोत्रे मृत्योरतिमुक्तिं वेद
२.३.३.[१०]
यथा वा इषोरनीकम् । एवं यज्ञानामग्निहोत्रं येन वा इषोरनीकमेति सर्वा वै
तेनेषुरेत्येतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः
२.३.३.[११]
अहोरात्रे ह वा अमुष्मिंलोके परिप्लवमाने । पुरुषस्य सुकृतं क्षिणुतोऽर्वाचीनं
वा अतोऽहोरात्रे तथो हास्याहोरात्रे सुकृतं न क्षिणुतः
२.३.३.[१२]
स यथा रथोपस्थे तिष्ठन् । उपरिष्टाद्रथचक्रे पल्यङ्यमाने उपावेक्षेतैवम्
परस्तादर्वाचीनोऽहोरात्रे उपावेक्षते नह वा अस्याहोरात्रे सुकृतं क्षिणुतो य
एवमेतामहोरात्रयोरतिमुक्तिं वेद
२.३.३.[१३]
पूर्वेणाहवनीयं परीत्य । अन्तरेण गार्हपत्यं चैति न वै देवा मनुष्यं
विदुस्त एनमेतदन्तरेणातियन्तं विदुरयं वै न इदं जुहोतीत्यग्निर्वै पाप्मनो
ऽपहन्ता तावस्याहवनीयश्च गार्हपत्यश्चान्तरेणातियतः पाप्मानमपहतः सो
ऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति
२.३.३.[१४]
उत्तरतो वा अग्निहोत्रस्य द्वारम् । स यथा द्वारा प्रपद्येतैवं तदथ यो
दक्षिणत एत्यास्ते यथा बहिर्धा चरेदेवं तत्
२.३.३.[१५]
नौर्ह वा एषा स्वर्ग्या । यदग्निहोत्रं तस्या एतस्यै नावः स्वर्ग्याया आहवनीयश्चैव
गार्हपत्यश्च नौमण्डे अथैष एव नावाजो यत्क्षीरहोता
२.३.३.[१६]
स यत्प्राङुपोदैति । तदेनां प्राचीमभ्यजति स्वर्गं लोकमभि तया स्वर्गं लोकं
समष्नुते तस्या उत्तरत आरोहणं सैनं स्वर्गं लोकं समापयत्यथ यो
दक्षिणत एत्यास्ते यथा प्रतीर्णायामागच्छेत्स विहीयेत स तत एव बहिर्धा स्यादेवं
तत्

२.३.३.[१७]
अथ यामेतां समिधमभ्यादधाति सेष्टका येन मन्त्रेण जुहोति
तद्यजुर्येनैतामिष्टकामुपदधाति यदा वा इष्टकोपधीयतेऽथाहुतिर्हूयते
तदस्योपहितास्वेवेष्टकास्वेता आहुतयो हूयन्ते या एता अग्निहोत्राहुतयः
२.३.३.[१८]
प्रजापतिर्वा अग्निः । संवत्सरो वै प्रजापतिः संवत्सरेसंवत्सरे ह वा
अस्याग्निहोत्रं चित्येनाग्निना संतिष्ठते संवत्सरेसंवत्सरे चित्यमग्निमाप्नोति य
एवं विद्वानग्निहोत्रं जुहोत्येतदु हास्याग्निहोत्रं चित्येनाग्निना संतिष्ठते
चित्यमग्निमाप्नोति
२.३.३.[१९]
सप्त च वै शतान्यशीतीनामृचः । विंशतिश्च स यत्सायं प्रातरग्निहोत्रं जुहोति ते
द्वे आहुती ता अस्य संवत्सर आहुतयः सम्पद्यन्ते
२.३.३.[२०]
सप्त चैव शतानि विंशतिश्च । संवत्सरे संवत्सरे ह वा अस्याग्निहोत्रम्
महतोक्थेन सम्पद्यते संवत्सरे संवत्सरे महदुक्थमाप्नोति य एवं
विद्वानग्निहोत्रं जुहोत्येतदु हास्याग्निहोत्रं महतोक्थेन सम्पद्यते
महदुक्थमाप्नोति
२.३.४.
२.३.४.[१]
अग्नौ ह वै देवाः । सर्वान्पशून्निदधिरे ये च ग्राम्या ये चारण्या विजयं
वोपप्रैष्यन्तः कामचारस्य वा कामायायं नो गोपिष्ठो गोपायदिति वा
२.३.४.[२]
तानु हाग्निर्निचकमे । तैः सम्गृह्य रात्रिं प्रविवेश पुनरेम इति देवा एदग्निं
तिरोभूतं ते ह विदां चक्रुरिह वै प्राविक्षद्रात्रिं वै प्राविक्षदिति
तमेतत्प्रत्यायत्यां रात्रौ सायमुपातिष्ठन्त देहि नः पशून्पुनर्नः पशून्देहीति
तेभ्योऽग्निः पशून्पुनरददात्
२.३.४.[३]
तस्मै कमग्नी उपतिष्ठेत । अग्नी वै दातारौ तावेवैतद्याचते सायमुपतिष्ठेत
सायं हि देवा उपातिष्ठन्त दत्तो हैवास्मा एतौ पषून्य एवं विद्वानुपतिष्ठते
२.३.४.[४]
अथ यस्मान्नोपतिष्ठेत । उभये ह वा इदमग्रे सहासुर्देवाश्च मनुष्याश्च
तद्यद्ध स्म मनुष्याणां न भवति तद्ध स्म देवान्याचन्त इदं वै नो
नास्तीदं नोऽस्त्विति ते तस्या एव याञ्च्यायै द्वेषेण देवास्तिरोभूता नेद्धिनसानि
नेद्द्वेष्योऽसानीति तस्मान्नोपतिष्ठेत
२.३.४.[५]
अथ यस्मादुपैव तिष्ठेत । यज्ञो वै देवानामाशीर्यजमानस्य तद्वा एष एव यज्ञो
यदाहुतिराशीरेव यजमानस्य तद्यदेवास्यात्र तदेवैतदुपतिष्ठमानः कुरुते
तस्मादुपैव तिष्ठेत
२.३.४.[६]
अथ यस्मान्नोपतिष्ठेत । यो वै ब्राह्मणं वा शंसमानोऽनुचरति क्षत्रियं
वायं मे दास्यत्ययं मे गृहान् करिष्यतीति यो वै तं वाद्येन वा कर्मणा
वाभिरिराधयिषति तस्मै वै स देयं मन्यतेऽथ य आह किं नु त्वं ममासि यो
मे न ददासीतीश्वर एनं द्वेष्टोरीश्वरो निर्वेदं
गन्तोस्तस्मान्नोपतिष्ठेतैतदित्त्वेवैष एत याचते यदिन्द्धे यज्जुहोति
तस्मान्नोपतिष्ठेत
२.३.४.[७]
अथ यस्मादुपैव तिष्ठेत । उत वै याच्छन्दातारं लभत एवोतो भर्ता भार्यं
नानुबुध्यते स यदैवाह भार्यो वै तेऽस्मि बिभृहि मेत्यथैनं वेदाथैनम्
भार्यं मन्यते तस्मादुपैव तिष्ठेतेदमित्तु समस्तं यस्मादुपतिष्ठेत
२.३.४.[८]
प्रजापतिर्वा एष भूत्वा । यावत ईष्टे यावदेनमनु तस्य रेतः सिञ्चति
यदग्निहोत्रं जुहोतीदमेवैतत्सर्वमुपतिष्ठमानोऽनुविकरोतीदं
सर्वमनुप्रजनयति
२.३.४.[९]
स वा उपवत्या प्रतिपद्यते । इयं वा उप द्वयेनेयमुप यद्धीदं किं च जायते
ऽस्यां तदुपजायतेऽथ यन्न्यृच्छत्यस्यामेव तदुपोप्यते तदह्ना रात्र्या भूयोभूय
एवाक्षय्यं भवति तदक्षय्येणैवैतद्भूम्ना प्रतिपद्यते
२.३.४.[१०]
स आह । उपप्रयन्तो अध्वरमित्यध्वरो वै यज्ञ उपप्रयन्तो यज्ञमित्येवैतदाह
मन्त्रं वोचेमाग्नय इति मन्त्रमु ह्यस्मा एतद्वक्ष्यन्भवत्यारे अस्मे च शृण्वत
इति यद्यप्यस्मदारकादस्यथ न एतचूण्वेवैवमेवैतन्मन्यस्वेत्येवैतदाह
२.३.४.[११]
अग्निर्मूर्धा दिवः । ककुत्पतिः पृथिव्या अयमपां रेतांसि जिन्वतीत्यन्वेव धावति
तद्यथा याचन् कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा
असीत्येवमेषा
२.३.४.[१२]
अथैन्द्राग्नी । उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै उभा
दाताराविषां रयीणामुभा वाजस्य सातये हुवे वामित्येष वा इन्द्रो य एष तपति स
यदस्तमेति तदाहवनीयं प्रविशति तदुभावेवैतत्सह सन्ता उपतिष्ठत उभौ
मे सह सन्तौ दत्तामिति तस्मादैन्द्राग्नी
२.३.४.[१३]
अयं ते योनिर्ऋत्वियः । यतो जातो अरोचथाः तं जानन्नग्न आरोहाथा नो वर्धया
रयिमिति पुष्टं वै रयिर्भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह
२.३.४.[१४]
अयमिह प्रथमः । धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः यमप्नवानो
भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विश इत्यन्वेव धावति तद्यथा याचन्
कल्याणं वदेदामुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा असीत्येवमेषा यथो
एवैष तथो एवैनमेतदाह यदाह विभ्वं विशे विश इति विभूर्ह्येष विशे विशे
२.३.४.[१५]
अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा
वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै

२.३.४.[१५]
अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा
वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः
सहस्रसामृषिमिति
२.३.४.[१६]
तदेतत्समाहार्यं षडृचम् । तस्योपवती प्रथमा प्रत्नवत्युत्तमावोचाम
तद्यस्मादुपवत्यथाद एव प्रत्नं यावन्तो ह्येव सनाग्रे देवास्तावन्त एव
देवास्तस्माददः प्रत्नं तदिमे एवान्तरेण सर्वे कामास्ते अस्मा इमे संजानाने
सर्वान् कामान्त्संनमतः
२.३.४.[१७]
स वै त्रिः प्रथमां जपति । त्रिरुत्तमां त्रिवृत्प्रायणा हि
यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमां जपति त्रिरुत्तमाम्
२.३.४.[१८]
यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्या
करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा
२.३.४.[१९]
तदु खलु तनूपा अग्नेऽसि । तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा
अग्नेऽसि वर्चो मे देहि अग्ने यन्मे तन्वा ऊनं तन्म आप्रणेति
२.३.४.[२०]
यद्ध वा अत्राग्निहोत्रं जुह्वत् । वाद्येन वा कर्मणा वा मिथ्या
करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजायै वा तन्मे
पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते
२.३.४.[२१]
इन्धानास्त्वा । शतं हिमा द्युमन्तं समिधीमहीति शतं वर्षाणि
जीव्यास्मेत्येवैतदाह तावत्त्वा महान्तं समिधीमहीति यदाह द्युमन्तं
समिधीमहीति वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतमिति वयस्वन्तो वयम्
भूयास्म वयस्कृत्त्वं भूया इत्येवैतदाह सहस्वन्तो वयं भूयास्म
सहस्कृत्त्वं बूया इत्येवैतदाहाग्ने सपत्नदम्भनमदब्धासो अदाभ्यमिति त्वया
वयं सपत्नान्पापीयसः क्रियास्मेत्येवैतदाह
२.३.४.[२२]
चित्रावसो स्वस्ति ते पारमशीयेति । त्रिरेतज्जपति रात्रिर्वै चित्रावसुः सा हीयं संगृह्येव
चित्राणि वसति तस्मान्नारकाच्चित्रं ददृशे
२.३.४.[२३]
एतेन ह स्म वा ऋषयः । रात्रेः स्वस्ति पारं समश्नुवत एतेनो ह
स्मैनान्रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतेनो एवैष एतद्रात्रेः स्वस्ति पारं
समश्नुत एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्त्येतावन्नु तिष्ठञ्जपति
२.३.४.[२४]
अथासीनः । सं त्वमग्ने सूर्यस्य वर्चसा गथा इति तद्यदस्तं यन्नादित्य
आहवनीयं प्रविशति तेनैतदाह समृषीणां स्तुतेनेति तद्यदुपतिष्ठते तेनैतदाह
सं प्रियेणधाम्नेत्याहुतयो वा अस्य प्रियं धामाहुतिभिरेव तदाह
समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मिषीयेति यथा त्वमेतैः
समगथा एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति यद्भूम्नेति
तदेवमहमेतैः संगच्छा इत्येवैतदाह
२.३.४.[२५]
अथ गामभ्यैति । अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयेति
यानि वो वीर्याणि यानि वो महांसि तानि वो भक्षीयेत्येवैतदाहोर्ज स्थोर्ज वो
भक्षीयेति रस स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष स्थ रायस्पोषं वो
भक्षीयेति भूमा स्थ भूमानं वो भक्षियेत्येवैतदाह
२.३.४.[२६]
रेवती रमध्वमिति रेवन्तो हि पशवस्तस्मादाह रेवती
रमध्वमित्यस्मिन्योनावस्मिन् गोष्ठेऽस्मिंलोकेऽस्मिन् क्षये । इहैव स्त
मापगातेत्यात्मन एवैतदाह मदेव मापगातेति
२.३.४.[२७]
अथ गामभिमृशति । संहितासि विश्वरूपीति विश्वरूपा इव हि पशवस्तस्मादाह
विश्वरूपीत्यूर्जा माविश गौपत्येनेत्यूर्जेति यदाह रसेनेति तदाह गौपत्येनेति यदाह
भूम्नेति तदाह
२.३.४.[२८]
अथ गार्हपत्यमभ्यैति । स गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवे दिवे
दोषावस्तर्धिया वयं नमो भरन्त एमसीति नम एवास्मा एतत्करोति यथैनं न
हिंस्यात्
२.३.४.[२९]
राजन्तमध्वराणाम् । गोपामृतस्य दीदिविं वर्धमानं स्वे दम इति स्वं वै त
इदं यन्मम तन्नो भूयो भूय एव कुर्वित्येवैतदाह
२.३.४.[३०]
स नः पितेव सूनवे । अग्ने सूपायनो भव सचस्वा नः स्वस्तय इति यथा पिता पुत्राय
सूपचरो नैवैनं केन चन हिनस्त्येवं नः सूपचर एधि मैव त्वा केन चन
हिंसिष्मेत्येवैतदाह
२.३.४.[३१]
अथ द्विपदाः । अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः तं त्वा शोचिष्ठ दीदिवः
सुम्नाय नूनमीमहे सखिभ्यः स नो बोधि श्रुधी हवमुरुष्या णो अघायतः
समस्मादिति
२.३.४.[३२]
यद्वा आहवनीयमुपतिष्ठते । पशूंस्तद्याचते
तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठत उच्चावचा इव हि पशवोऽथ
यद्गार्हपत्यं पुरुषांस्तद्याचते तद्गायत्रं प्रथमं त्रिचं गायत्रं वा
अग्नेश्छन्दः स्वेनैवैनमेतच्चन्दसोपपरैति
२.३.४.[३३]
अथ द्विपदाः । पुरुषच्छन्दसं वै द्विपदा द्विपाद्वा अयं पुरुषः
पुरुषानैवैतद्याचते पुरुषान्हि याचते तस्माद्द्विपदाः पशुमान्ह वै
पुरुषवान्भवति य एवं विद्वानुपतिष्ठते
२.३.४.[३४]
अथ गामभ्यैति । इड एह्यदित एहीतीडा हि गौरदितिर्हि गौस्तामभिमृशति काम्या
एतेति मनुष्याणां ह्येतासु कामाः प्रविष्टास्तस्मादाह काम्या एतेति मयि वः
कामधरणं भूयादित्यहं वः प्रियो भूयासमित्येवैतदाह
२.३.४.[३५]
अथान्तरेणाहवनीयं च गार्हपत्यं च । प्राङ्तिष्ठन्नग्निमीक्षमाणो जपति
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते कक्षीवन्तं य औशिजः यो रेवान्यो
अमीवहा वसुवित्पुष्टिवर्धनः स नः सिषक्तु यस्तुरः मा नः शंसो अररुषो
धूर्तिः प्रणङ्मर्त्यस्य रक्षा णो ब्रह्मणस्पत इति
२.३.४.[३६]
यद्वा आहवनीयमुपतिष्ठते । दिवं तदुपतिष्ठतेऽथ यद्गार्हपत्यं पृथिवीं
तदथैतदन्तरिक्षमेषा हि दिग्बृहस्पतेरेतं ह्येतद्दिशमुपतिष्ठते
तस्माद्बार्हस्पत्यं जपति
२.३.४.[३७]
महि त्रीणामवोऽस्तु । द्युक्षं मित्रस्यार्यम्णः दुराधर्षं वरुणस्य न हि
तेषाममा चन नाध्वसु वारणेषु ईशे रिपुरघशंसः ते हि पुत्रासो अदितेः प्र
जीवसे मर्त्याय ज्योतिर्यच्छन्त्यजस्रमिति तत्रास्ति नाध्वसु वारणेष्वित्येति ह वा
अध्वानो वारणा य इमेऽन्तरेण द्यावापृथिवी एतान्ह्येतदुपतिष्ठते तस्मादाह
नाध्वसु वारणेष्विति
२.३.४.[३८]
अथैन्द्री । इन्द्रो वै यज्ञस्य देवता सेन्द्रमेवैतदग्न्युप्स्थानं कुरुते कदा
चन स्तरीरसि नेन्द्र सश्चसि दाशुष इति यजमानो वै दाश्वान्न यजमानाय
द्रुह्यसीत्येवैतदाहोपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इति
भूयो भूय एव न इदं पुष्टं कुर्वित्येवैतदाह
२.३.४.[३९]
अथ सावित्री । सविता वै देवानां प्रसविता तथो हास्मा एते सवितृप्रसूता एव सर्वे
कामाः समृध्यन्ते तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः
प्रचोदयादिति
२.३.४.[४०]
अथाग्नेयी । तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त्यै परि ते दूडभो
रथोऽस्मानश्नोतु विश्वतः येन रक्षसि दाशुष इति यजमाना वै दाश्वांसो यो ह वा
अस्यानाधृष्यतमो रथस्तेनैष यजमानानभिरक्षति स यस्तेऽनाधृष्यतमो
रथो येन यजमानानभिरक्षसि तेन नः सर्वतोऽभिगोपायेत्येवैतदाह
त्रिरेतज्जपति
२.३.४.[४१]
अथ पुत्रस्य नाम गृह्णाति । इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवदिति यदि पुत्रो
न स्यादप्यात्मन एव नाम गृह्णीयात्
२.४.१.
२.४.१.[१]
अथ हुतेऽग्निहोत्र उपतिष्ठते । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं
समर्धयति यदाह भूर्भुवः स्वरिति तया समृद्धयाशिषमाशास्ते सुपोषः
पोषैरिति तत्पुष्टिमाशास्ते
२.४.१.[२]
यद्वा अदो दीर्घमग्न्युपस्थानम् । आशीरेव साशीरियं तदेतावतैवैतत्सर्वमाप्नोति
तस्मादेतेनैवोपतिष्ठेतैतेन न्वेव वयमुपचराम इति ह स्माहासुरिः
२.४.१.[३]
अथ प्रवत्स्यन् । गार्हपत्यमेवाग्र उपतिष्ठतेऽथाहवनीयं
२.४.१.[४]
स गार्हपत्यमुपतिष्ठते । नर्य प्रजां मे पाहीति प्रजाया हैष ईष्टे
तत्प्रजामेवास्मा एतत्परिददाति गुप्त्यै
२.४.१.[५]
अथाहवनीयमुपतिष्ठते । शंस्य पशून्मे पाहीति पशूनां हैष ईष्टे
तत्पशूनेवास्मा एतत्परिददाति गुप्त्यै
२.४.१.[६]
अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यन्त्त्वा वाचं
विसृजतेऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि
राजान्तरेण स्यान्नैव तमुपेयात्
२.४.१.[७]
स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं गृहा वै गार्हपत्यो गृहा वै
प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति
२.४.१.[८]
स आहवनीयमुपतिष्ठते । आगन्म विश्ववेदसमस्मभ्यं वसुवित्तममग्ने
सम्राडभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य तृणान्यपलुम्पति
२.४.१.[९]
अथ गार्हपत्यमुपतिष्ठते । अयमग्निर्गृहपतिर्गार्हपत्यःप्रजाया वसुवित्तमः
अग्ने गृहपतेऽभि द्युम्नमभि सह आयच्छस्वेत्यथोपविश्य
तृणान्यपलुम्पत्येतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते
२.४.१.[१०]
स वै खलु तूष्णीमेवोपतिष्ठेत । इदं वै यस्मिन्वसति ब्राह्मणो वा राजा वा
श्रेयान्मनुष्यो न्वेव तमेव नार्हति वक्तुमिदं मे त्वं गोपाय प्राहं
वत्स्यामीत्यथास्मिन्नेते श्रेयांसो वसन्ति देवा अग्नयः क उ तानर्हति वक्तुमिदम्
मे यूयं गोपायत प्राहं वत्स्यामीति
२.४.१.[११]
मनो ह वै देवा मनुष्यस्याजानन्ति । स वेद गार्हपत्यः परिदाम्
मेदमुपागादिति तूष्णीमेवाहवनीयमुपतिष्ठते स वेदाहवनीयः परिदां
मेदमुपागादिति
२.४.१.[१२]
अथ प्र वा व्रजति प्र वा धावयति । स यत्र वेलो मन्यते तत्स्यन्त्त्वा वाचं विसृजते
ऽथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति स यद्यपि राजान्तरेण
स्यान्नैव तमुपेयात्
२.४.१.[१३]
स आहवनीयमेवाग्र उपतिष्ठते । अथ गार्हपत्यं
तूष्णीमेवाहवनीयमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति तूष्णीमेव
गार्हपत्यमुपतिष्ठते तूष्णीमुपविश्य तृणान्यपलुम्पति
२.४.१.[१४]
अथातो गृहाणामेवोपचारः । एतद्ध वै गृहपतेः प्रोषुष आगताद्गृहाः समुत्त्रस्ता
इव भवन्ति किमयमिह वदिष्यति किं वा करिष्यतीति स यो ह तत्र किंचिद्वदति वा
करोति वा तस्माद्गृहाः प्रत्रसन्ति तस्येश्वरः कुलं विक्षोब्धोरथ यो ह तत्र न
वदति न किं चन करोति तं गृहा उपसंश्रयन्ते न वा अयमिहावादीन्न किं
चनाकरदिति स यदिहापि सुक्रुद्ध इव स्याच्व एव ततस्तत्कुर्याद्यद्वदिष्यन्वा
करिष्यन्वा स्यादेष उ गृहाणामुपचारः
२.४.२.
२.४.२.[१]
प्रजापतिं वै भूतान्युपासीदन् । प्रजा वै भूतानि वि नो धेहि यथा जीवामेति ततो
देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्योपासीदंस्तानब्रवीद्यज्ञो वो
ऽन्नममृतत्वं व ऊर्ग्वः सूर्यो वो ज्योतिरिति
२.४.२.[२]
अथैनं पितरः । प्राचीनावीतिनः सव्यं जान्वाच्योपासीदंस्तानब्रवीन्मासिमासि वो
ऽशनं स्वधा वो मनोजवीवश्चन्द्रमा वो ज्योतिरिति
२.४.२.[३]
अथैनं मनुष्याः । प्रावृता उपस्थं कृत्वोपासीदंस्तानब्रवीत्सायं प्रातर्वो
ऽशनं प्रजा वो मृत्युर्वोऽग्निर्वो ज्योतिरिति
२.४.२.[४]
अथैनं पशव उपासीदन् । तेभ्यः स्वैषमेव चकार यदैव यूयं कदा च
लभाध्वै यदि काले यद्यनाकालेऽथैवाश्नाथेति तस्मादेते यदैव कदा च लभन्ते
यदि काले यद्यनाकालेऽथैवाश्नन्ति
२.४.२.[५]
अथ हैनं शश्वदप्यसुरा उपसेदुरित्याहुः । तेभ्यस्तमश्च मायां च
प्रददावस्त्यहैवासुरमायेतीव पराभूता ह त्वेव ताः प्रजास्ता इमाः
प्रजास्तथैवोपजीवन्ति यथैवाभ्यः प्रजापतिर्व्यदधात्
२.४.२.[६]
नैव देवा अतिक्रामन्ति । न पितरो न पशवो मनुष्या एवैकेऽतिक्रामन्ति तस्माद्यो
मनुष्याणां मेद्यत्यशुभे मेद्यति विहूर्चति हि न ह्ययनाय चन भवत्यनृतं
हि कृत्वा मेद्यति तस्मादु सायम्प्रातराश्येव स्यात्स यो हैवं विद्वान्त्सायम्प्रातराशी
भवति सर्वं हैवायुरेति यदु ह किं च वाचा व्याहरति तदु हैव भवत्येतद्धि
देवसत्यं गोपायति तद्धैतत्तेजो नाम ब्राह्मणं य एतस्य व्रतं शक्नोति चरितुम्
२.४.२.[७]
तद्वा एतत् । मासि मास्येव पितृभ्यो ददतो यदैवैष न पुरस्तान्न पश्चाद्ददृशे
ऽथैभ्यो ददात्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स एतां रात्रिं
क्षीयते तस्मिन्क्षीणे ददाति तथैभ्यो समदं करोत्यथ यदक्षीणे
दद्यात्समदं ह कुर्याद्देवेभ्यश्च पितृभ्यश्च तस्माद्यदैवैष न पुरस्तान्न
पश्चाद्ददृशेऽथैभ्यो ददाति
२.४.२.[८]
स वा अपराह्णे ददाति । पूर्वाह्णो वै देवानां मध्यन्दिनो मनुष्याणामपराह्णः
पितॄणां तस्मादपराह्णे ददाति
२.४.२.[९]
स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं ग्रृह्णाति स तत
एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति
सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति
२.४.२.[१०]
तं श्रपयति । तस्मिन्नधिश्रित आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो
जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैव पितॄणां तस्मादधिश्रित आज्यं प्रत्यानयति
२.४.२.[११]
स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः । देवान्वा एष उपावर्तते य
आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजतेऽथैतत्पितृयज्ञेनेवाचारीत्तदु
निह्नुते स देवैः प्रसूतोऽथैतत्पितृभ्यो ददाति तस्मादुद्वास्याग्नौ द्वे आहुती जुहोति
देवेभ्यः
२.४.२.[१२]
स वा अग्नये च सोमाय च जुहोति । स यदग्नये जुहोति सर्वत्र ह्येवाग्निरन्वाभक्तो
ऽथ यत्सोमाय जुहोति पितृदेवत्यो वै सोमस्तस्मादग्नये च सोमाय च जुहोति
२.४.२.[१३]
स जुहोति । अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहेत्यग्नौ
मेक्षणमभ्यादधाति तत्स्विष्टकृद्भाजनमथ दक्षिणेनान्वाहार्यपचनं
सकृदुल्लिखति तद्वेदिभाजनं सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुल्लिखति
२.४.२.[१४]
अथ परस्तादुल्मुकं निदधाति । स यदनिधायोल्मुकमथैतत्पितृभ्यो
दद्यादसुररक्षसानि हैषामेतद्विमथ्नीरंस्तथो हैतत्पितॄणामसुररक्षसानि
न विमथ्नते तस्मात्परस्तादुल्मुकं निदधाति
२.४.२.[१५]
स निदधाति । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो
निपुरो ये भरन्त्यग्निष्टांलोकात्प्रणुदात्यस्मादित्यग्निर्हि रक्षसामपहन्ता
तस्मादेवं निदधाति
२.४.२.[१६]
अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव यजमानस्य
पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं
तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत्
२.४.२.[१७]
अथ सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति । अग्रमिव वै देवानां मध्यमिव
मनुष्याणां मूलमिव पितॄणां तस्मादुपमूलं दिनानि भवन्ति सकृदाच्छिन्नानि
भवन्ति सकृदु ह्येवपराञ्चः पितरस्तस्मात्सकृदाच्छिन्नानि भवन्ति
२.४.२.[१८]
तानि दक्षिणोपस्तृणाति । तत्र ददाति स वा इति ददातीतीव वै देवेभ्यो
जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवं पितॄणां तस्मादिति ददाति
२.४.२.[१९]
स ददाति । असावेतत्त इत्येव यजमानस्य पित्रे ये च त्वामन्वित्यु हैक आहुस्तदु तथा
न ब्रूयात्स्वयं वै तेषां सह येषां सह तस्मादु ब्रूयादसावेतत्त इत्येव
यजमानस्य पित्रेऽसावेतत्त इति पितामहायासावेतत्त इति प्रपितामहाय तद्यदितः
पराग्ददाति सकृदु ह्येव पराञ्चः पितरह्
२.४.२.[२०]
तत्र जपति । अत्र पितरो मादयध्वं यथाभागमावृषायध्व्वमिति
यथाभागमश्नीतेत्येवैतदाह
२.४.२.[२१]
अथ पराङ्पर्यावर्तते । तिर इव वै पितरो मनुष्येभ्यस्तिर इवैतद्भवति स वा आ
तमितोरासीतेत्याहुरेतावान्ह्यसुरिति स वै मुहूर्तमेवासित्वा
२.४.२.[२२]
अथोपपल्यय्य जपति । अमीमदन्त पितरो यथाभागमावृषायिषतेति
यथाभागमाशिषुरित्येवैतदाह
२.४.२.[२३]
अथोदपात्रमादायावनेजयति । असाववनेनिक्ष्वेत्येव यजमानस्य
पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा
जक्षुषेऽभिषिञ्चेदेवं तत्
२.४.२.[२४]
अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य
नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा
ऋतव ऋतवः पितरस्तस्मात्षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह
पितर ईशत एषो एतस्याशीः कर्मणोऽथावजिघ्रति प्रत्यवधाय पिण्डान्त्स
यजमानभागोऽग्नौ सकृदाच्छिन्नान्यभ्यादधाति पुनरुल्मुकमपि सृजति
२.४.३.
२.४.३.[१]
तदु होवाच कहोडः कौषीतकिः । अनयोर्वा अयं द्यावापृथिव्यो रसोऽस्य रसस्य
हुत्वा देवेभ्योऽथेममश्नामेति तस्माद्वा आग्रयणेष्ट्या यजत इति
२.४.३.[२]
तदु होवाच याज्ञवल्क्यः । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे ततोऽसुरा
उभयीरोशधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवः कृत्ययेव त्वद्विषेणेव
त्वत्प्रलिलिपुरुतैवं चिद्देवानभिभवेमेति ततो न मनुष्या आशुर्न पशव आलिलिशिरे
ता हेमाः प्रजा अनाशकेन नोत्पराबभूवुः
२.४.३.[३]
तद्वै देवाः शुश्रुवुः । अनाशकेन ह वा इमाः प्रजाः पराभवन्तीति ते
होचुर्हन्तेदमासामपजिघांसामेति केनेति यज्ञेनैवेति यज्ञेन ह स्म वै तद्देवाः
कल्पयन्ते यदेषां कल्पमासर्षयश्च
२.४.३.[४]
ते होचुः । कस्य न इदं भविष्यतीति ते ममममेत्येव न सम्पादयां चक्रुस्ते
हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदं भविष्यतीति
तथेति तस्मिन्नाजिमाजन्त
२.४.३.[५]
ताविन्द्राग्नी उदजयताम् । तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो
भवतीन्द्राग्नी ह्यस्य भागधेयमुदजयतां तौ यत्रेन्द्राग्नी उज्जिगीवांसौ
तस्थतुस्तद्विश्वे देवा अन्वाजग्मुः
२.४.३.[६]
क्षत्रं वा इन्द्राग्नी । विशो विश्वे देवा यत्र वै क्षत्रमुज्जयत्यन्वाभक्ता वै तत्र
विट्तद्विश्वान्देवानन्वाभजतां तस्मादेष वैश्वदेवश्चरुर्भवति
२.४.३.[७]
तं वै पुराणानां कुर्यादित्याहुः । क्षत्रं वा इन्द्राग्नी नेत्क्षत्रमभ्यारोहयाणीति
तौ वा उभावेव नवानां स्यातां यद्धि पुरोडाश इतरश्चरुरितरस्तेनैव
क्षत्रमनभ्यारूढं तस्मादुभावेव नवानां स्याताम्
२.४.३.[८]
त उ ह विश्वे देवा ऊचुः । अनयोर्वा अयं द्यावापृथिव्यो रसो हन्तेमे
अस्मिन्नाभजामेति ताभ्यामेतं भागमकल्पयन्नेतं द्यावापृथिव्यमेककपालम्
पुरोडाशं तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति तस्येयमेव
कपालमेकेव हीयं तस्मादेककपालो भवति
२.४.३.[९]
तस्य परिचक्षा । यस्यै वै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव
स्विष्टकृदन्वाभक्तोऽथैतं सर्वमेव जुहोति न स्विष्टकृतेऽवद्यति सा परिचक्षोतो
हुतः पर्यावर्तते
२.४.३.[१०]
तदाहुः । पर्याभूद्वा अयमेककपालो मोहिष्यति राष्ट्रमिति नास्य सा
परिचक्षाहवनीयो वा आहुतीनां प्रतिष्ठा स यदाहवनीयं प्राप्यापि दश कृत्वः
पर्यावर्तेत न तदाद्रियेत यदीत्त्वन्ये वदन्ति
कस्तत्संधमुपेयात्तस्मादाज्यस्यैव यजेदाज्यं ह वा अनयोर्द्यावापृथिव्योः
प्रत्यक्षं रसस्तत्प्रत्यक्षमेवैने एतत्स्वेन रसेन मेधेन प्रीणाति
तस्मादाज्यस्यैव यजेत्
२.४.३.[११]
एतेन वै देवाः । यज्ञेनेष्ट्वोभयीनामोषधीनां याश्च मनुष्या उपजीवन्ति याश्च
पशवः कृत्यामिव त्वद्विषमिव त्वदपजघ्रुस्तत आश्नन्मनुष्या आलिशन्त पशवः
२.४.३.[१२]
अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कश्चन कृत्ययेव त्वद्विषेणेव
त्वत्प्रलिम्पतीति देवा अकुर्वन्निति त्वेवैष एतत्करोति यमु चैव देवा
भागमकल्पयन्त तमु चैवैभ्य एष एतद्भागं करोतीमा उ
चैवैतदुभयीरोषधीर्याश्च मनुष्या उपजीवन्ति याश्च पशवस्ता अनमीवा
अकिल्विषाः कुरुते ता अस्यानमीवा अकिल्विषा इमाः प्रजा उपजीवन्ति तस्माद्वा एष एतेन
यजते
२.४.३.[१३]
तस्य प्रथमजो गौर्दक्षिणा । अग्र्यमिव हीदं स यदीजानः
स्याद्दर्शपूर्णमासाभ्यां वा यजेताथैतेन यजेत यद्यु अनीजानः
स्याच्चातुष्प्राश्यमेवैतमोदनमन्वाहार्यपचने पचेयुस्तं ब्राह्मणा अश्नीयुः
२.४.३.[१४]
द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते
मनुष्यदेवास्तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति तत्रो
यच्छक्नुयात्तद्दद्यान्नादक्षिणां हविः स्यादिति ह्याहुर्नाग्निहोत्रे जुहुयात्समदं ह
कुर्याद्यदग्निहोत्रे जुहुयादन्यद्वा आग्रयणमन्यदग्निहोत्रं तस्मान्नाग्निहोत्रे
जुहुयात्

२.४.४.
२.४.४.[१]
प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे । प्रजाकामो बहुः प्रजया पशुभिः स्यां श्रियं
गच्छेयं यशः स्यामन्नादः स्यामिति
२.४.४.[२]
स वै दक्षो नाम । तद्यदेनेन सोऽग्रेऽयजत तस्माद्दाक्षायणयज्ञो
नामोतैनमेके वसिष्ठयज्ञ इत्याचक्षत एष वै वसिष्ठ एतमेव
तदन्वाचक्षते स एतेन यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं प्रजापतेः प्रजातिर्या
श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन
यज्ञेन यजते तस्माद्वा एतेन यजेत
२.४.४.[३]
तेनो ह तत ईजे । प्रतीदर्शः श्वेक्नः स ये तं प्रत्यासुस्तेषां विवचनमिवास
विवचनमिव ह वै भवति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन
यजेत
२.४.४.[४]
तमाजगाम । सुप्ला सार्ञ्जयो ब्रह्मचर्यं तस्मादेतं च यज्ञमनूचेऽन्यमु च सो
ऽनूच्य पुनः सृञ्जयाञ्जगाम ते ह सृञ्जया विदां चक्रुर्यज्ञं वै नोऽनूच्यागन्निति ते
होचुः सह वै नस्तद्देवैरागन्यो नो यज्ञमनूच्यागन्निति स वै सहदेवः
सार्ञ्जयस्तदप्येतन्निवचनमिवास्त्यन्यद्वा अरेसुप्ला नाम दध इति स एतेन
यज्ञेनेजे स एतेन यज्ञेनेष्ट्वा येयं सृञ्जयानां प्रजातिर्या श्रीरेतद्बभूवैतां ह
वै प्रजातिं प्रजायत एतां श्रियं गच्छति यएवं विद्वानेतेन यज्ञेन यजते तस्माद्वा
एतेन यजेत२.४.४.[५]तेनो ह तत ईजे । देवभागः श्रौतर्षः स उभयेषां कुरूणां च
सृञ्जयानां च पुरोहित आस परमता वै सा यो न्वेवैकस्य राष्ट्रस्य पुरोहितोऽसत्सा
न्वेव परमता किमु यो द्वयोः परमतामिव ह वै गच्छति य एवं विद्वानेतेन
यज्ञेन यजते तस्माद्वा एतेन यजेत
२.४.४.[६]
तेनो ह तत ईजे । दक्षः पार्वतिस्त इमेऽप्येतर्हि दाक्षायणा राज्यमिवैव प्राप्ता
राज्यमिह वै प्राप्नोति य एवं विद्वानेतेन यजते तस्माद्वा एतेन यजेत स वा एकैक
एवानूचीनाहं पुरोडाशो भवत्येतेनो हास्यासपत्नानुपबाधा श्रीर्भवति स वै द्वे
पौर्णमास्यौ यजते द्वे अमावास्ये द्वे वै मिथुनं मिथुनमेवैतत्प्रजननं
क्रियते
२.४.४.[७]
अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां ते द्वे देवते द्वे वै
मिथुनं मिथुनमेवैतत्प्रजननं क्रियते
२.४.४.[८]
अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यं ते द्वे देवते द्वे वै
मिथुनं मिथुनमेवैतत्प्रजननं क्रियते
२.४.४.[९]
अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां ते द्वे देवते द्वे वै मिथुनम्
मिथुनमेवैतत्प्रजननं क्रियते
२.४.४.[१०]
अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति
न्वेवाग्नेयः पुरोडाशोऽथैतावेव मित्रावरुणौ द्वे देवते द्वे वै मिथुनम्
मिथुनमेवैतत्प्रजननं क्रियत एतदु हास्य तद्रूपं येन बहुर्भवति येन
प्रजायते
२.४.४.[११]
अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यां यमेवामुमुपवसथे
ऽग्नीषोमीयं पशुमालभते स एवास्य सः
२.४.४.[१२]
अथ प्रातः । आग्नेयः पुरोडाशो भवत्यैन्द्रं सांनाय्यम्
प्रातःसवनमेवास्याग्नेयः पुरोडाशो आग्नेयं हि प्रातःसवनमथैन्द्रं
सांनाय्यं माध्यन्दिनमेवास्य तत्सवनमैन्द्रं हि माध्यन्दिनं सवनम्
२.४.४.[१३]
अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां तृतीयसवनमेवास्य
तद्वैश्वदेवं वै तृतीयसवनमिन्द्राग्नी वै विश्वे देवाः
२.४.४.[१४]
अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति
न्वेवाग्नेयः पुरोडाशोऽथ यामेवामूं मैत्रावरुणीं वशामनूबन्ध्यामालभते
सैवास्य मैत्रावरुणी पयस्या स पौर्णमासेन चामावास्येन चेष्ट्वा
यावत्सौम्येनाध्वरेणेष्ट्वा जयति तावज्जयति तदु खलु महायज्ञो भवति
२.४.४.[१५]
अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते पौर्णमास्यामेतेन वा इन्द्रो
वृत्रमहन्नेतेनो एव व्यजयत यास्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं
द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयतेऽथ यत्संनयत्यामावास्यं वै
सांनाय्यं दूरे तद्यदमावास्येति क्षिर्र एवैतद्वृत्रं जघ्नुषे तमेतेन
रसेनाप्रीणन् क्षिप्रे ह वै पाप्मानमपहते य एवं विद्वान्पौर्णमास्यां
संनयत्येष वै सोमो राजा द्
स्०२४०११५०ळेवानामन्नं यच्चन्द्रमास्तमेतत्पूर्वेद्युरभिषुण्वन्ति
प्रातर्भक्षयिष्यन्तस्तमेतद्भक्षयन्ति यदपक्षीयते
२.४.४.[१६]
अथ यत्पूर्वेद्युः । अग्नीषोमीयेण यजते
पौर्णमास्यामभिषुणोत्येवैनमेतत्तस्मिन्नभिषुत एतं रसं दधात्येतेन
रसेन तीव्रीकरोति स्वदयति ह वै देवेभ्यो हव्यं स्वदते हास्य देवेभ्यो हव्यं
य एवं विद्वान्पौर्णमास्यां संनयति
२.४.४.[१७]
अथ यत्पूर्वेद्युः । ऐन्द्राग्नेन यजतेऽमावास्यायां दर्शपूर्णमासयोर्वै देवते स्त
इन्द्राग्नी एव ते एवैतदञ्जसा प्रत्यक्षं यजत्यञ्जसा ह वा अस्य
दर्शपूर्णमासाभ्यामिष्टं भवति य एवमेतद्वेद
२.४.४.[१८]
अथ प्रातः । आग्नेयः पुरोडाशो भवति मैत्रावरुणी पयस्या नेद्यज्ञादयानीति
न्वेवाग्नेयः पुरोडाशोऽथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणौ
योऽपक्षीयते स मित्रस्तावेतां रात्रिमुभौ समागच्छतस्तदुभावेवैतत्सह सन्तौ
प्रीणाति सर्वं ह वा अस्य प्रीतं भवति सर्वमाप्तं य एवमेतद्वेद
२.४.४.[१९]
तद्वा एतां रात्रिम् । मित्रो वरुणे रेतः सिञ्चति तदेतेन रेतसा प्रजायते यदापूर्यते
तद्यदेषात्र मैत्रावरुणी पयस्यावकॢप्ततमा भवति
२.४.४.[२०]
सांनाय्यभाजना वा अमावास्या । तददस्तत्पौर्णमास्यां क्रियते स यद्धात्रापि
संनयेज्जामि कुर्यात्समदं कुर्यात्तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो
ऽधिजनयति स एष आहुतिभ्यो जातः पश्चाद्ददृशे
२.४.४.[२१]
मिथुनादिद्वा एनमेतत्प्रजनयति । योषा पयस्या रेतो वाजिनं तद्वा अनुष्ठ्या
यन्मिथुनाज्जायते तदेनमेतस्मान्मिथुनात्प्रजननात्प्रजनयति तस्मादेषात्र
पयस्या भवति
२.४.४.[२२]
अथ वाजिभ्यो वाजिनं जुहोति । ऋतवो वै वाजिनो रेतो वाजिनं तद्वनुष्ठ्येवैतद्रेतः
सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्माद्वाजिभ्यो वाजिनं जुहोति
२.४.४.[२३]
स वै पश्चादिव यज्ञस्य जुहोति । पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्यां
रेतः सिञ्चति स वै प्रागेवाग्रे जुहोत्यग्ने वीहात्यनुवषट्करोति
तत्स्विष्टकृद्भाजनं स वै प्रागेव जुहोति
२.४.४.[२४]
अथ दिशो व्याघारयति । दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहेति पञ्च
दिशः पञ्चऽर्तवस्तदृतुभिरेवैतद्दिशो मिथुनीकरोति
२.४.४.[२५]
तद्वै पञ्चैव भक्षयन्ति । होता चाध्वर्युश्च ब्रह्मा चाग्नीच्च यजमानः पञ्च
वा ऋतवस्तदृतूनामेवैतद्रूपं क्रियते तदृतुष्वेवैतद्रेतः सिक्तं प्रतिष्ठापयति
प्रथमो यजमानो भक्षयति प्रथमो रेतः परिगृह्णानीत्यथो अप्युत्तमो
मय्युत्तमे रेतः प्रतितिष्ठादित्युपहूत उपह्वयस्वेति सोममेवैतत्कुर्वन्ति
२.५.१.
२.५.१.[१]
प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स
तपोऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि
पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपाद्वा अयं पुरुषस्तस्माद्द्विपादो वयांसि
२.५.१.[२]
स ऐक्षत प्रजापतिः । यथा न्वेव पुरैकोऽभूवमेवमु न्वेवाप्येतर्ह्येक
एवास्मीति स द्वितीयाः ससृजे ता अस्य परैव बभूवुस्तदिदं क्षुद्रं सरीसृपं
यदन्यत्सर्पेभ्यस्तृतीयाः ससृज इत्याहुस्ता अस्य परैव बभूवुस्त इमे सर्पा एता ह
न्वेव द्वयीर्याज्ञवल्क्य उवाच त्रयीरु तु पुनर्ऋचा
२.५.१.[३]
सोऽर्चञ्च्राम्यन्प्रजापतिरीक्षां चक्रे । कथं नु मे प्रजाः सृष्टाः पराभवन्तीति
स हैतदेव ददर्शानशनतया वै मे प्रजाः पराभवन्तीति स आत्मन एवाग्रे
स्तनयोः पय आप्याययां चक्रे स प्रजा असृजत ता अस्य प्रजाः सृष्टा स्तनावेवाभिपद्य
तास्ततः सम्बभूवुस्ता इमा अपराभूतः
२.५.१.[४]
तस्मादेतदृषिणाभ्यनूक्तम् । प्रजा ह तिस्रो अत्यायमीयुरिति तद्याः पराभूतास्ता
एवैतदभ्यनूक्तं न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तद्या इमाः प्रजा
अपराभूतास्ता अग्निमभितो निविष्टास्ता एवैतदभ्यनूक्तम्
२.५.१.[५]
महद्ध तस्थौ भुवनेष्वन्तरिति । प्रजापतिमेवैतदभ्यनूक्तं पवमानो
हरित आविवेशेति दिशो वै हरितस्ता अयं वायुः पवमान आविष्टस्ता एवैषर्गभ्यनूक्ता
ता इमाह्प्रजास्तथैव प्रजायन्ते यथैव प्रजापतिः प्रजा असृजतेदं हि यदैव
स्त्रियै स्तनावाप्यायेते ऊधः पशूनामथैव यज्जायते तज्जायते तास्तत
स्तनावेवाभिपद्य सम्भवन्ति
२.५.१.[६]
तद्वै पय एवान्नम् । एतद्ध्यग्रे प्रजापतिरन्नमजनयत तद्वा अन्नमेव प्रजा
अन्नाद्धि सम्भवन्तीदं हि यासां पयोभवति स्तनावेवाभिपद्य तास्ततः
सम्भवन्त्यथ यासां पयो न भवति जातमेव ता अथादयन्ति तदु ता अन्नादेव
सम्भवन्ति तस्माद्वन्नमेव प्रजाः
२.५.१.[७]
स यः प्रजाकामः । एतेन हविषा यजत आत्मानमेवैतद्यज्ञं विधत्ते प्रजापतिम्
भूतम्
२.५.१.[८]
स वा आग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निर्वै देवतानां मुखम्
प्रजनयिता स प्रजापतिस्तस्मादाग्नेयो भवति
२.५.१.[९]
अथ सौम्यश्चरुर्भवति । रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति
तत्पुरस्तान्मिथुनं प्रजननम्
२.५.१.[१०]
अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्
प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति
२.५.१.[११]
अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा
तत्पुनर्मिथुनं प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः
प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव
मिथुनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि
भवन्ति
२.५.१.[१२]
अथातः पयस्याया एवायतनम् । मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता
हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्वि वै ते
मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यस इति
२.५.१.[१३]
स ऐक्षत प्रजापतिः । परा मे पूर्वाः प्रजा अभूवन्निमा उ चेदिमे विमथ्नते न
ततः किं चन परिशेक्ष्यत इति तेभ्य एतं भागमकल्पयदेतं मारुतं
सप्तकपालं पुरोडाशं स एष मारुतः सप्तकपालस्तद्यत्सप्तकपालो भवति सप्त
सप्त हि मारुतो गणस्तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति
२.५.१.[१४]
तं वै स्वतवोभ्य इति कुर्यात् । स्वयं हि त एतं भागमकुर्वतोतो स्वतवोभ्यो
याज्यानुवाक्ये न विन्दन्ति स उ खलु मारुत एव स्यात्स वा एष प्रजाभ्य एवाहिंसायै
क्रियते तस्मान्मारुतः
२.५.१.[१५]
अथातः पयस्यैव । पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव
सम्भूता यतः सम्भवन्ति तदेवाभ्य एतत्करोति तद्याः पूर्वैर्हविर्भिः प्रजाः
सृजते ता एतस्मात्पयस एतस्यै पयस्यायै सम्भवन्ति
२.५.१.[१६]
तस्यां मिथुनमस्ति । योषा पयस्या रेतो वाजिनं
तस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत
तद्यदेतस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तस्माद्वैश्वदेवी भवति
२.५.१.[१७]
अथ द्यावापृथिव्य एककपालः पुरोडाशो भवति । एतैर्वै हविर्भिः प्रजापतिः प्रजाः
सृष्ट्वा ता द्यावापृथिवीभ्यां पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो
एवैष एतद्य एतैर्हविर्भिः प्रजाः सृजते ता द्यावापृथिवीभ्यां परिगृह्णाति
तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति
२.५.१.[१८]
अथात आवृदेव । नोपकिरन्त्युत्तरवेदिं विसृष्टमसत्सर्वमसद्वैश्वदेवमसदिति
त्रेधा बर्हिः संनद्धं भवति तत्पुनरेकधैतद्धि प्रजननस्य रूपम्
प्रजननमु हीदं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रेधा सत्पुनरेकधा
प्रस्व उपसंनद्धा भवन्ति तं प्रस्तरं गृह्णाति प्रजननमु हीदम्
प्रजननमु हि प्रस्वस्तस्मात्प्रसूः प्रस्तरं गृह्णाति
२.५.१.[१९]
आसाद्य हवींष्यग्निं मन्थन्ति । अग्निं ह वै जायमानमनु प्रजापतेः प्रजा
जज्ञिरे तथो एवैतस्याग्निमेव जायमानमनु प्रजा जायन्ते तस्मादासाद्य
हवींष्यग्निं मन्थन्ति
२.५.१.[२०]
नवप्रयाजं भवति । नवानुयाजं दशाक्षरा वै विराडथैतामुभयतो न्यूनां
विराजं करोति प्रजननायैतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः
ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव
न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजं भवति
नवानुयाजम्
२.५.१.[२१]
त्रीणि समिष्टयजूंषि भवन्ति । ज्याय इव हीदं हविर्यज्ञाद्यत्र नवप्रयाजं
नवानुयाजमथो अप्येकमेव स्याद्धविर्यज्ञो हि तस्य प्रथमजो गौर्दक्षिणा
२.५.१.[२२]
एतेन वै प्रजापतिः यज्ञेनेष्ट्वा । येयं प्रजापतेः प्रजापतिर्या श्रीरेतद्बभूवैतां
ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते
तस्माद्वा एतेन यजेत
२.५.२.
२.५.२.[१]
वैश्वदेवेन वै प्रजापतिः । प्रजाः ससृजे ता अस्य प्रजाः सृष्टा वरुणस्य
यवाञ्जक्षुर्वरुण्यो ह वा अग्रे यवस्तद्यन्न्वेव वरुणस्य
यवान्प्रादस्तस्माद्वरुणप्रघासा नाम
२.५.२.[२]
ता वरुणो जग्राह । ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यष्च शिश्यिरे च
निषेदुश्च प्राणोदानौ हैवाभ्यो नापचक्रमतुरथान्याः सर्वा देवता
अपचक्रमुस्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुः
२.५.२.[३]
ता एतेन हविषा प्रजापतिरभिषज्यत् । तद्याश्चैवास्य प्रजा जाता आसन्याश्चाजातास्ता
उभयीर्वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्विषाः प्रजाः प्राजायत
२.५.२.[४]
अथ यदेष एतैश्चतुर्थे मासि यजते । तन्नाह न्वेवैतस्य तथा प्रजा वरुणो
गृह्णातीति देवा अकुर्वन्निति न्वेवैष एतत्करोति याश्च न्वेवास्य प्रजा जाता याश्चाजातास्ता
उभयीर्वरुणपाशात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायते तस्माद्वा
एष एतैश्चतुर्थे मासि यजते
२.५.२.[५]
तद्वै द्वे वेदी द्वावग्नी भवतः । तद्यद्द्वे वेदी द्वावग्नी भवतस्तदुभयत
एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्माद्द्वे वेदी द्वावग्नी
भवतः
२.५.२.[६]
स उत्तरस्यामेव वेदौ । उत्तरवेदिमुपकिरति न दक्षिणस्यां क्षत्र वै वरुणो
विशो मरुतः क्षत्रमेवैतद्विश उत्तरे करोति तस्मादुपर्यासीनं
क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुत्तरस्यामेव वेदा
उत्तरवेदिमुपकिरति न दक्षिणस्याम्
२.५.२.[७]
अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा
असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदितश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा
एतानि पञ्च हवींषि भवन्ति
२.५.२.[८]
अथैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति । प्राणोदानौ वा इन्द्राग्नी तद्यथा
पुण्यं चक्रुषे पुण्यं कुर्यादेवं तत्तयोर्हैवास्य हेतोः प्रजा न
पराबभूवुस्तत्प्राणोदानाभ्यामेवैतत्प्रजा भिषज्यति प्राणोदानौ प्रजासु दधाति
तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति
२.५.२.[९]
उभयत्र पयस्ये भवतः । पयसो वै प्रजाः सम्भवन्ति पयसः
सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तत एवैतदुभयतो
वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मादुभयत्र पयस्ये
भवतः
२.५.२.[१०]
वारुण्युत्तरा भवति । वरुणो ह वा अस्य प्रजा अगृह्णात्तत्प्रत्यक्षं
वरुणपाशात्प्रजाः प्रमुञ्चति मारुती दक्षिणाजामितायै न्वेव मारुती भवति जामि

कुर्याद्यदुभे वारुण्यौ स्यातामतो ह वा अस्य दक्षिणतो मरुतः प्रजा
अजिघांसंस्तानेतेन भागेनाशमयत्तस्मान्मारुती दक्षिणा
२.५.२.[११]
तयोरुभयोरेव करीराण्यावपति । कं वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत
कम्वेवैष एतत्प्रजाभ्यः कुरुते
२.५.२.[१२]
तयोरुभयोरेव शमीपलाशान्यावपति । शं वै प्रजापतिः प्रजाभ्यः
शमीपलाशैरकुरुत शम्वेवैष एतत्प्रजाभ्यः कुरुते
२.५.२.[१३]
अथ काय एककपालः पुरोडाशो भवति । कं वै प्रजापतिः प्रजाभ्यः
कायेनैककपालेन पुरोडाशेनाकुरुत कम्वेवैष एतत्प्रजाभ्यः कायेनैककपालेन
पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशो भवति
२.५.२.[१४]
अथ पूर्वेद्युः । अन्वाहार्यपचनेऽतुषानिव यवान् कृत्वा तानीषदिवोपतप्य तेषां
करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्मुस्तावन्त्येकेनातिरिक्तानि
२.५.२.[१५]
तत्रापि मेषं च मेषीं च कुर्वन्ति । तयोर्मेषे च मेष्यां च यद्यनैडकीरूर्णी
विन्देत्ताः प्रणिज्य निश्लेषयेद्यद्यु अनैडकीर्न विन्देदथो अपि कुशीर्णा एव स्युः
२.५.२.[१६]
तद्यन्मेषश्च मेषी च भवतः । एष वै प्रत्यक्षं वरुणस्य
पशुर्यन्मेषस्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति यवमयौ भवतो
यवान्हि जक्षुषीर्वरुणोऽगृह्णान्मिथुनौ भवतो
मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति
२.५.२.[१७]
स उत्तरस्यामेव पयस्यायां मेषीमवदधाति । दक्षिणस्यां मेषमेवमिव हि
मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते
२.५.२.[१८]
स सर्वाण्येव हवींष्यध्वर्युः । उत्तरस्यां वेदावासादयत्यथैतामेव पयस्याम्
प्रतिप्रस्थाता दक्षिणस्यां वेदावासादयति
२.५.२.[१९]
आसाद्य हवींष्यग्निं मन्थति । अग्निम्
मन्थित्वानुप्रहृत्याभिजुहोत्यथाध्वर्युरेवाहाग्नये समिध्यमानायानुब्रूहीति ता
उभावेवेध्मावभ्याधत्त उभौ समिधौ परिशिंष्ट उभौ
पूर्वावाघारावाघारयतोऽथाध्वर्युरेवाहाग्निमग्नीत्सम्मृड्ढीत्यसम्मृष्टमेव
भवति सम्प्रेषितम्
२.५.२.[२०]
अथ प्रतिप्रस्थाता प्रतिपरैति । स पत्नीमुदानेष्यन्पृच्छति केन चरसीति वरुण्यं वा
एतत्स्त्री करोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्पा जुहवदिति
तस्मात्पृच्छति निरुक्तं वा एनः कनीयो भवति सत्यं हि भवति तस्माद्वेव पृच्छति सा
यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहितं स्यात्
२.५.२.[२१]
तां वाचयति । प्रघासिनो हवामहे मरुतश्च रिशादसः करम्भेण सजोषस इति
यथा पुरोऽनुवाक्यैवमेषैतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति
२.५.२.[२२]
तानि वै प्रतिपुरुषम् । यावन्तो गृह्याः स्युतावन्त्येकेनातिरिक्तानि भवन्ति
तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता
वरुणपाशात्प्रमुञ्चत्येकेनातिरिक्तानि भवन्ति तद्या एवास्य प्रजा अजातास्ता
वरुणपाशात्प्रमुञ्चति तस्मादेकेनातिरिक्तानि भवन्ति
२.५.२.[२३]
पात्राणि भवन्ति पात्रेषु ह्यशनमश्यते यवमयानि भवन्ति यवान्हि
जक्षुषीर्वरुणोऽगृह्णाचूर्पेण जुहोति शूर्पेण ह्यशनं क्रियते पत्नी जुहोति
मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति
२.५.२.[२४]
पुरा यज्ञात्पुराहुतिभ्यो जुहोति । अहुतादो वै विशो विशो वै मरुतो यत्र वै
प्रजापतेः प्रजा वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च
तद्धासां मरुतः पाप्मानं विमेथिरे तथो एवैतस्य प्रजानां मरुतः
पाप्मानं विमथ्नते तस्मात्पुरा यज्ञात्पुराहुतिभ्यो जुहोति
२.५.२.[२५]

स वै दक्षिणेऽग्नौ जुहोति । यद्ग्रामे यदरण्य इति ग्रामे वा ह्यरण्ये वैनः
क्रियते यत्सभायां यदिन्द्रिय इति यत्सभायामिति यन्मानुष इति तदाह यदिन्द्रिय इति
यद्देवत्रेति तदाह यदेनश्चकृमा वयमिदं तदवयजामहे स्वाहेति यत्किं च
वयमेनश्चकृमेदं वयं तस्मात्सर्वस्मात्प्रमुच्यामह इत्येवैतदाह
२.५.२.[२६]
अथैन्द्रीं मरुत्वतीं जपति । यत्र वै प्रजापतेः प्रजानां मरुतः पाप्मानं
विमेथिरे तद्धेक्षां चक्र इमे ह मे प्रजा न विमथ्नीरन्निति
२.५.२.[२७]
स एतामैन्द्रीं मरुत्वतीमजपत् । क्षत्रं वा इन्द्रो विशो मरुतः क्षत्रं वै विशो
निषेद्धा निषिद्धा असन्निति तस्मादैन्द्री
२.५.२.[२८]
मो षू णः । इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः महश्चिद्यस्य
मीढुषो यव्या हविष्मतो मरुतो वन्दते गीरिति
२.५.२.[२९]
अथैनां वाचयति । अक्रन् कर्म कर्मकृत इत्यक्रन्हि कर्म कर्मकृतः सह वाचा
मयोभुवेति सह हि वाचाक्रन्देवेभ्यः कर्म कृत्वेति देवेभ्यो हि कर्म कृत्वास्तम्
प्रेत सचाभुव इत्यन्यतो ह्योढया सह भवन्ति तस्मादाह सचाभुव इत्यस्तम्
प्रेतेति जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रासीषदद्गृहा
वा अस्तं गृहाः प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायां प्रतिष्ठापयति
२.५.२.[३०]
प्रतिपराणीयोदैति प्रतिप्रस्थाता । सम्मृजन्त्यग्निं सम्मृष्टेऽग्नौ ता
उभावेवोत्तरावाघारावाघारयतोऽथाध्वर्युरेवाश्राव्य होतारं प्रवृणीते प्रवृतो
होतोत्तरस्यै वेदेर्होतृषदन उपविशत्युपविश्य प्रसौति ता उभावेव प्रसूतौ स्रुच
आदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह समिधो यजेति यज यजेति
चतुर्थेचतुर्थे प्रयाजे समानयमानौ नवभिः प्रयाजैश्चरतः
२.५.२.[३१]
अथाध्वर्युरेवाहाग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं ता उभावेव
चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं यजेति ता उभावेव
वषट्कृते जुहुतः
२.५.२.[३२]
अथाध्वर्युरेवाह सोमायानुब्रूहीति । सौम्यमाज्यभागं ता उभावेव
चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह सोमं यजेति ता उभावेव
वषट्कृते जुहुतः
२.५.२.[३३]
तद्यत्किं च वाचा कर्तव्यम् । अध्वर्युरेव तत्करोति न प्रतिप्रस्थाता
तद्यदध्वर्युरेवाश्रावयतीहैव यत्र वषट्क्रियते
२.५.२.[३४]
कृतानुकर एव प्रतिप्रस्थाता । क्षत्रं वै वरुणो विशो
मरुतस्तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति प्रत्युद्यामिनीं
ह क्षत्राय विशं कुर्याद्यदपि प्रतिप्रस्थाताश्रावयेत्तस्मान्न
प्रतिप्रस्थाताश्रावयति
२.५.२.[३५]
प्राणावेव प्रतिप्रस्थाता । स्रुचौ कृत्वोपास्तेऽथाध्वर्युरेवैतैर्हविर्भिः
प्रचरत्याग्नेयेनाष्टाकपालेन पुरोडाशेन सौम्येन चरुणा सावित्रेण
द्वादशकपालेन वाष्टाकपालेन वा पुरोडाशेन सारस्वतेन चरुणा पौष्णेन
चरुणैन्द्राग्नेन द्वादशकपालेन पुरोडाशेन
२.५.२.[३६]
अथैताभ्यां पयस्याभ्यां प्रचरिष्यन्तौ विपरिहरतः । स यो मेषो भवति
मारुत्यां तं वारुण्यामवदधाति या मेषी भवति वारुण्यां ताम्
मारुत्यामवदधाति तद्यदेवं विपरिहरतः क्षत्रं वै वरुणो वीर्यम्
पुमान्वीर्यमेवैतत्क्षत्रे धत्तोऽवीर्या वै स्त्री विशो
मरुतस्तदवीर्यामेवैतद्विशं कुरुतस्तस्मादेवं विपरिहरतः
२.५.२.[३७]
अथाध्वर्युरेवाह वरुणायानुब्रूहीति । स उपस्तृणीत आज्यमथास्यै वारुण्यै
पयस्यायै द्विरवद्यति सोऽन्यतरेणावदानेन सह
मेषमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने
अतिक्रामत्यतिक्रम्याश्राव्याह वरुणं यजेति वषट्कृते जुहोति
२.५.२.[३८]
सव्ये पाणावध्वर्युः । स्रुचौ कृत्वा दक्षिणेन प्रतिप्रस्थातुर्वा सोऽन्वारभ्याह
मरुद्भ्योऽनुब्रूहीत्युपस्तृणीत आज्यं प्रतिप्रस्थाताथास्यै मारुत्यै पयस्यायै
द्विरवद्यति सोऽन्यतरेणावदानेन सह
मेषीमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने
अतिक्रामत्यथाध्वर्युरेवाश्राव्याह मरुतो यजेति वषट्कृते जुहोति
२.५.२.[३९]
अथाध्वर्युरेव कायेन । एककपालेन पुरोडाशेन प्रचरति कायेनैककपालेन
पुरोडाशेन प्रचर्याध्वर्युरेवाहाग्नये स्विष्टकृतेऽनुब्रूहीति स सर्वेषामेव
हविषामध्वर्युः सकृत्सकृदवद्यत्यथैतस्या एव पयस्यायै प्रतिप्रस्थाता
सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयतस्ता उभावेवातिक्रामतो
ऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं स्विष्टकृतं यजेति ता उभावेव वषट्कृते जुहुतः
२.५.२.[४०]
अथाध्वर्युरेव प्राशित्रमवद्यति । इडां समवदाय प्रतिप्रस्थात्रेऽतिप्रजिहीते
तत्रापि प्रतिप्रस्थाता मारुत्यै पयस्यायै
द्विरभ्यवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयत्युपहूय मार्जयन्ते
२.५.२.[४१]
अथाध्वर्युरेवाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृड्ढीति
स स्रुचोरेवाध्वर्युः पृषदाज्यं व्यानयतेऽथ यदि प्रतिप्रस्थातुः पृषदाज्यम्
भवति तत्स द्वेधा व्यानयत उतो तत्र पृषदाज्यं न भवति स
यदेवोपभृत्याज्यं तत्स द्वेधा व्यानयते ता उभावेवातिक्रामतो
ऽतिक्रम्याश्राव्याध्वर्युरेवाह देवान्यजेति यजयजेति चतुर्थेचतुर्थेऽनुयाजे
समानयमानौ नवभिरनुयाजैश्चरतस्तद्यन्नवप्रयाजं भवति नवानुयाजं
तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा
इतश्चावाचीस्तस्मान्नवप्रयाजं भवति नवानुयाजम्
२.५.२.[४२]
ता उभावेव सादयित्वा स्रुचो व्यूहतः । स्रुचो व्युह्य परिधीन्त्समज्य
परिधिमभिपद्याश्राव्याध्वर्युरेवाहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो
मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यतेऽथैता उभावेव प्रस्तरौ
समुल्लुम्पत उभावनुप्रहरत उभौ तृणे अपगृह्योपासाते यदा होता
सूक्तवाकमाह
२.५.२.[४३]
अथाग्नीदाहानुप्रहरेति । ता उभावेवानुप्रहरत उभावात्माना उपस्पृशेते
२.५.२.[४४]
अथाह संवदस्वेति । अगानग्नीदगंच्रावय श्रौषट्स्वगा दैव्या होतृभ्यः
स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्यध्वर्युरेवैतदाह ता उभावेव
परिधीननुप्रहरत उभौ स्रुचः सम्प्रगृह्य स्फ्ये सादयतः
२.५.२.[४५]
अथाध्वर्युरेव प्रतिपरेत्य । पत्नीः संयाजयत्युपास्त एव प्रतिप्रस्थाता पत्नीः
संयाज्योदैत्यध्वर्युः
२.५.२.[४६]
त्रीणि समिष्टृयजूंषि जुहोति । तूष्णीमेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति तद्ये
वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै
पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतन्निर्वरुणतायै
तत्र न साम गीयते न ह्यत्र साम्ना किं चन क्रियते
तूष्नीमेवेत्याभ्यवेत्योपमारयति
२.५.२.[४७]
अवभृथ निचुम्पुण । निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनोऽयासिषमव
मर्त्यैर्मर्त्यकृतं पुरुरावणे देव रिषस्पाहीति कामं हैते यस्मै कामयेत
तस्मै दद्यान्न हि दीक्षितवसने भवतः स यथाहिस्त्वचो निर्मुच्येतैवं
सर्वस्मात्पाप्मनो निर्मुच्यते
२.५.२.[४८]
अथ केशश्मश्रूप्त्वा । समारोह्याग्नी उदवसायेव ह्येतेन यजते न हि तदवकल्पते
यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी
पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः
प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति
तस्मादुदवस्यति
२.५.३.
२.५.३.[१]
वरुणप्रघासैर्वै प्रजापतिः । प्रजा वरुणपाशात्प्रामुञ्चत्ता स्यानमीवा अकिल्विषाः
प्रजाः प्राजायन्ताथैतैः साकमेधैरेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव
व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्यं
हन्ति तथो एव विजयते तस्माद्वा एष एतैश्चतुर्थे मासि यजते स वै
द्व्यहमनूचीनाहं यजते
२.५.३.[२]
स पूर्वेद्युः । अग्नयेऽनीकवतेऽष्टाकपालं पुरोडाशं निर्वपत्यग्निं ह वै देवा
अनीकं कृत्वोपप्रेयुर्वृत्रं हनिष्यन्तः स तेजोऽग्निर्नाव्यथत तथो एवैष
एतत्पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्नग्निमेवानीकं कृत्वोपप्रैति स तेजो
ऽग्निर्न व्यथते तस्मादग्नयेऽनीकवते
२.५.३.[३]
अथ मरुद्भ्यः सांतपनेभ्यः । मध्यन्दिने चरुं निर्वपति मरुतो ह वै
सांतपना मद्यन्दिने वृत्रं संतेपुः स संतप्तोऽनन्नेव प्राणन्परिदीर्णः शिश्ये
तथो एवैतस्य पाप्मानं द्विषन्तं भ्रातृव्यं मरुतः सांतपनाः संतपन्ति
तस्मान्मरुद्भ्यः सांतपनेभ्यः
२.५.३.[४]
अथ मरुद्भ्यो गृहमेधिभ्यः । शाखया वत्सानपाकत्य पवित्रवति संदोह्य तं
चरुं श्रपयति चरुरु ह्येव स यत्र क्व च तण्डुलानावपन्ति तन्मेधो देवा
दधिरे प्रातर्वृत्रं हनिष्यन्तस्तथो एवैष एतत्पाप्मानं द्विषन्तं भ्रातृव्यं
हनिष्यन्मेघो धत्ते तद्यत्क्षीरौदनो भवति मेघो वै पयो
मेघस्तण्डुलास्तमुभयं मेघमात्मन्धत्ते तस्मात्क्षीरौदनो भवति
२.५.३.[५]
तस्यावृत् । सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः सांतपनेभ्यस्तस्यामेव स्तीर्णायां
वेदौ परिधींश्च शकलांश्चोपनिदधति तथा संदोह्य चरुं श्रपयति
श्रपयित्वाभिघार्योद्वासयति
२.५.३.[६]
अथ द्वे पिशीले वा पात्र्यौ वा निर्णेनिजति । तयोरेनं द्वेधोद्धरन्ति तयोर्मध्ये
सर्पिरासेचने कृत्वा सर्पिरासिञ्चति स्रुवं च स्रुचं च सम्मार्ष्ट्यथैता
ओदनावादायोदैति स्रुवं च स्रुचं चादायोदैति स इमामेव स्तीर्णां वेदिमभिमृश्य
परिधीन्परिधाय यावतः शकलान् कामयते तावतोऽभ्यादधात्यथैता
ओदनावासादयति स्रुवं च स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च
स्रुचं चाददान आह
२.५.३.[७]
अग्नयेऽनुब्र्रूहीति । आग्नेयमाज्यभागं स दक्षिणस्यौदनस्य
सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते
जुहोति
२.५.३.[८]
अथाह सोमायानुब्रूहीति । सौम्यमाज्यभागं स उत्तरस्यौदनस्य
सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते
जुहोति
२.५.३.[९]
अथाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति । स दक्षिणस्यौदनस्य
सर्पिरासेचनात्तत आज्यमुपस्तृणीते तस्य
द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याह मरुतो
गृहमेधिनो यजेति वषट्कृते जुहोति
२.५.३.[१०]
अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । स उत्तरस्यौदनस्य सर्पिरासेचनात्तत
आज्यमुपस्तृणीते तस्य
द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्यतिक्रामत्यतिक्रम्याश्राव्याहाग्निं
स्विष्टकृतं यजेति वषट्कृते जुहोत्यथेडामेवावद्यति न प्राशित्रमुपहूय
मार्जयन्त एतन्न्वेकमयनम्
२.५.३.[११]
अथेदं द्वितीयम् । सैव स्तीर्णा वेदिर्भवति या मरुद्भ्यः
सांतपनेभ्यस्तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति तथा
संदोह्य चरुं श्रपयति नेदेव प्रतिवेशमाज्यमधिश्रयति
श्रपयित्वाभिघार्योद्वास्यानक्ति स्थाल्यामाज्यमुद्वासयति स्रुवं च स्रुचं च
सम्मार्ष्ट्यथैतं सोखमेव चरुमादायोदैति स्थाल्यामाज्यमादायोदैति स्रुवं च
स्रुचं चादायोदैति स इमामेव स्तीर्ण्
आं वेदिमभिमृश्य परिधीन्परिधाय यावतः शकलान् कामयते तावतो
ऽभ्यादधात्यथैतं सोखमेव चरुमासादयति स्थाल्यामाज्यमासादयति स्रुवं च
स्रुचं चासादयत्युपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आह
२.५.३.[१२]
अग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं स स्थाल्यै
चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याहाग्निं यजेति वषट्कृते
जुहोति
२.५.३.[१३]
अथाह सोमायानुब्रूहीति । सौम्यमाज्यभागं स स्थाल्या एव
चतुराज्यस्यावदायातिक्रामत्यतिक्रम्याश्राव्याह सोमं यजेति वषट्कृते जुहोति
२.५.३.[१४]
अथाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य
चरोर्द्विरवद्यत्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने
अतिक्रामत्यतिक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति वषट्कृते जुहोति
२.५.३.[१५]
अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य चरोः
सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न
प्रत्यनक्त्यवदानमतिक्रामत्यतिक्रम्याश्राव्याहाग्निं स्विष्टकृतं यजेति
वषट्कृते जुहोति
२.५.३.[१६]
अथेडामेवावद्यति न प्राशित्रम् । उपहूय प्राश्नन्ति यावन्तो गृह्या हविरुच्छिष्टाशाः
स्युस्तावन्तः प्राश्नीयुरथो अप्यृत्विजः प्राश्नीयुरथो अप्यन्ये ब्राह्मणाः
प्राश्नीयुर्यदि बहुरोदन स्यादथैतामनिरशितां कुम्भीमपिधाय निदधति
पूर्णदर्वाय मातृभिर्वत्सान्त्समवार्जन्ति तदु पशवो मेघमात्मन्दधते
यवाग्वैतां रात्रिमग्निहोत्रं जुहोति निवान्यां प्रातर्दुहन्ति पितृयज्ञाय
२.५.३.[१७]
अथ प्रातर्हुते वाहुते वा । यतरथा कामयेत सोऽस्या अनिरशितायै कुम्भ्यै
दर्व्योपहन्ति पूर्णा दर्वि परापत सपूर्णा पुनरापत वस्नेव विक्रीणावहा
इषमूर्जं शतक्रतविति यथा पुरोऽनुवाक्यैवमेपैतयैवैनमेतस्मै भागाय
ह्वयति
२.५.३.[१८]
अथर्षभमाह्वयितवै ब्रूयात् । स यदि रुयात्स वषट्कार इत्यु हैक
आहुस्तस्मिन्वषट्कारे जुहुयादित्यथो इन्द्रमेवैतत्स्वेन रूपेण ह्वयति वृत्रस्य
बधायैतद्वा इन्द्रस्य रूप यदृषभस्तत्स्वेनैवैनमेतद्रूपेण ह्वयति वृत्रस्य
बधाय स यदि रुयादा म इन्द्रो यज्ञमगन्त्सेन्द्रो मे यज्ञ इति ह विद्याद्यद्यु न
रुयाद्ब्राह्मण एव दक्षिणत आसीनो ब्रूयाज्जुहुधीति सैवैन्द्री वाक्
२.५.३.[१९]
स जुहोति । देहि मे ददामि ते नि मे धेहि नि ते दधे निहारं च हरासि मे निहारं
निहराणि ते स्वाहेति
२.५.३.[२०]
अथ मरुद्भ्यः क्रीडिभ्यः । सप्तकपालं पुरोडाशं निर्वपति मरुतो ह वै
क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रीडुर्महयन्तस्तथो
एवैतं पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्तमभितः परिक्रीडन्ते
महयन्तस्तस्मान्मरुद्भ्यः क्रीडिभ्योऽथातो महाहविष एव तद्यथा
महाहविषस्तथो तस्य
२.५.४.
२.५.४.[१]
महाहविष ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तां
तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते
तस्माद्वा एष एतेन यजते
२.५.४.[२]
तस्यावृत् । उपकिरन्त्युत्तरवेदिं गृह्णन्ति पृषदाज्यं मन्थन्त्यग्निं नवप्रयाजम्
भवति नवानुयाजं त्रीणि समिष्टयजूंषि भवन्त्यथैतान्येव पञ्च हवींषि
भवन्ति
२.५.४.[३]
स यदाग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निना ह वा एनं तेजसाघ्नन्त्स तेजो
ऽग्निर्नाव्यथत तस्मादाग्नेयो भवति
२.५.४.[४]
अथ यत्सौम्यश्चरुर्भवति । सोमेन ह वा एनं राज्ञाघ्नन्त्सोमराजान एव
तस्मात्सौम्यश्चरुर्भवति
२.५.४.[५]
अथ यत्सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्
प्रसविता सवितृप्रसूता हैवैनमघ्नंस्तस्मात्सावित्रो भवति
२.५.४.[६]
अथ यत्सारस्वतश्चरुर्भवति । वाग्वै सरस्वती वागु हैवानुममाद प्रहर जहीति
तस्मात्सारस्वतश्चरुर्भवति
२.५.४.[७]
अथ यत्पौष्णश्चरुर्भवति । इयं वै पृथिवी पूषेयं हैवैनं बधाय
प्रतिप्रददावनया हैवैनं प्रतिप्रत्तं जघ्नुस्तस्मात्पौष्णश्चरुर्भवति
२.५.४.[८]
अथैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति । एतेन हैवैनमघ्नंस्तेजो वा
अग्निरिन्द्रियं वीर्यमिन्द्र एताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन्ब्रह्म वा
अग्निः क्षत्रमिन्द्रस्ते उभे संरभ्य ब्रह्म च क्षत्रं च सयुजौ कृत्वा
ताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नंस्तस्मादैन्द्राग्नो द्वादशकपालः
पुरोडाशो भवति
२.५.४.[९]
अथ माहेन्द्रश्चरुर्भवति । इन्द्रो वा एष पुरा वृत्रस्य बधादथ वृत्रं हत्वा
यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रश्चरुर्भवति
महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य बधाय तस्माद्वेव
माहेन्द्रश्चरुर्भवति
२.५.४.[१०]
अथ वैश्वकर्मण एककपालः पुरोडाशो भवति । विश्वं वा एतत्कर्म कृतं सर्वं
जितं देवानामासीत्साकमेधैरीजानानां विजिग्यानानां विश्वम्वेवैतस्यैतत्कर्म कृतं
सर्वं जितं भवति साकमेधैरीजानस्य विजिग्यानस्य तस्माद्वैश्वकर्मण
एककपालः पुरोडाशो भवति
२.५.४.[११]
एतेन वै देवाः । यज्ञेनेष्ट्वा येयं देवानां प्रजातिर्या श्रीरेतद्बभूवुरेतां ह वै
प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा
एतेन यजेत
२.६.१.
२.६.१.[१]
महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां
विजितिस्तामथ यानेवैषां तस्मिन्त्संग्रामेऽघ्नम्स्तान्पितृयज्ञेन समैरयन्त
पितरो वै त आसंस्तस्मात्पितृयज्ञो नाम
२.६.१.[२]
तद्वसन्तो ग्रीष्मो वर्षाः । एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्त उ ते
यान्पुनः समैरयन्त
२.६.१.[३]
अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कं चन घ्नन्तीति देवा
अकुर्वन्निति न्वेवैष एतत्करोति यमु चैवैभ्यो देवा भागमकल्पयंस्तमु
चैवैभ्य एष एतद्भागं करोति यानु चैव देवाः समैरयन्त तानु चैवैतदवति
स्वानु चैवैतत्पितॄंच्रेयांस लोकमुपोन्नयति यदु चैवास्यात्रात्मनोऽचरणेन
हन्यते वा मीयते वा तदु चैवास्यैतेन पुनराप्यायते तस्माद्वा एष एतेन यजते
२.६.१.[४]
स पितृभ्यः सोमवद्भ्यः । षट्कपाल पुरोडाश निवपति सोमाय वा पितृमते षड्वा
ऋतव ऋतवः पितरस्तस्मात्षट्कपालो भवति
२.६.१.[५]
अथ पितृभ्यो बर्हिषद्भ्यः । अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः
पिंषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भ्यः
२.६.१.[६]
अथ पितृभ्योऽग्निष्वात्तेभ्यः । निवान्यायै दुग्धे सकृदुपमथित एकशलाकया
मन्थो भवति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुपमथितो भवत्येतानि
हवींषि भवन्ति
२.६.१.[७]
तद्ये सोमेनेजानाः । ते पितरः सोमवन्तोऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते
पितरो बर्हिषदोऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरो
ऽग्निष्वात्ता एत उ ये पितरः
२.६.१.[८]
स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं षट्कपालम्
पुरोडाशं गृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा
तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः
पितरस्तस्मात्सकृत्फलीकरोति
२.६.१.[९]
स दक्षिणैव दृषदुपले उपदधाति । दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपदधाति तद्यदेतां दक्षिणां दिशं सचन्त एषा हि दिक्पितॄणां तस्मादेतां दक्षिणां दिशं सचन्ते
२.६.१.[१०]
अथ दक्षिणेनान्वाहार्यपचनम् । चतुःस्रक्तिं वेदिं करोत्यवान्तरदिशोऽनु स्रक्तीः
करोति चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्मादवान्तरदिशोऽनु स्रक्तीः
करोति
२.६.१.[११]
तन्मध्येऽग्निं समादधाति । पुरस्ताद्वै देवाः प्रत्यञ्चो
मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति सर्वतः पितरोऽवान्तरदिशो
वै पितरः सर्वत इव हीमा अवान्तरदिशस्तस्मान्मध्येऽग्निं समादधाति
२.६.१.[१२]
स तत एव प्राक्स्तम्बयजुर्हरति । स्तम्बयजुर्हुत्वाथेत्येवाग्रे
परिगृह्णात्यथेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति हरति यद्धार्यम्
भवति स तथैवोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परिग्रहेण परिगृह्य
प्रतिमृज्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मं बर्हिरुपसादयन्ति
स्रुचः सम्मार्ष्ट्याज्येनोदैति स यज्ञोपवीती भूत्वाज्यानि गृह्णाति
२.६.१.[१३]
तदाहुः । द्विरुपभृति गृह्णीयाद्द्वौ ह्यत्रानुयाजौ भवत इति तद्वष्टावेव कृत्व
उपभृति गृह्णीयान्नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति
गृह्णीयादाज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा
२.६.१.[१४]
प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः
प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिं न
प्रस्तरं गृह्णाति सकृदु ह्येव पराञ्चः पितरस्तस्मान्न प्रस्तरं गृह्णाति
२.६.१.[१५]
अथ संनहनमनुविस्रंस्य । अपसलवि त्रिः परिस्तृणन्पर्येति सोऽपसलवि त्रिः
परिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति
यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयान्पितॄनन्ववागात्तेभ्य
एवैतत्पुनरपोदेतीमं स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति
२.६.१.[१६]
स दक्षिणैव परिधीन्परिदधाति । दक्षिणा प्रस्तरं स्तृणाति नान्तर्दधाति विधृती
सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती
२.६.१.[१७]
स तत्र जुहूमासादयति । अथ पूर्वामुपभृतमथ ध्रुवामथ पुरोडाशमथ
धाना अथ मन्थमासाद्य हवींषि सम्मृशति
२.६.१.[१८]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः
पुरस्तादग्नीत्
२.६.१.[१९]
तेनोपांशु चरन्ति । तिरैव वै पितरस्तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति
२.६.१.[२०]
परिवृते चरन्ति । तिर इव वै पितरस्तिर इवैतद्यत्परिवृतं तस्मात्परिवृते चरन्ति
२.६.१.[२१]
अथेध्ममभ्यादधदाह । अग्नये समिध्यमानायानुब्रूहीति स एकामेव होता
सामिधेनीं त्रिरन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मादेकां होता सामिधेनीं
त्रिरन्वाह
२.६.१.[२२]
सोऽन्वाह । उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि उशन्नुशत आवह
पितॄन्हविषे अत्तव इत्यथाग्निमावह सोममावह पितॄन्त्सोमवत आवह
पितॄन्बर्हिषद आवह पितॄनग्निष्वात्तानावह देवां३ आज्यपां३ आवहाग्निं
होत्रायावह स्वं महिमानमावहेत्यावाह्योपविशति
२.६.१.[२३]
अथाश्राव्य न होतारं प्रवृणीते । पितृयज्ञो वा अयं नेद्धोतारं पितृषु दधानीति
तस्मान्न होतारं प्रवृणीते सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य
प्रसौति प्रसूतोऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह
समिधो यजेति सोऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु
दधानीति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजत्यथाज्यभागाभ्यां
चरन्त्याज्यभागाभ्यां चरित्वा
२.६.१.[२४]
ते सर्व एव प्राचीनावीतिनो भूत्वा । एतैर्वै हविर्भिः प्रचरिष्यन्त
इत्थाद्यजमानश्च ब्रह्मा च पुरस्तात्परीतः पश्चादग्नीत्तदुताश्रावयन्त्यों३
स्वधेत्यस्तु स्वधेति प्रत्याश्रावणं स्वधा नम इति वषट्कारः
२.६.१.[२५]
तदु होवाचासुरिः । आश्रावयेयुरेव प्रत्याश्रावयेयुर्वषट्कुर्युर्नेद्यज्ञस्य विधाया
अयामेति
२.६.१.[२६]
अथाह पितृभ्यः सोमवद्भ्योऽनुब्रूहीति । सोमाय वा पितृमते स द्वे पुरोऽनुवाक्ये
अन्वाहैकया वै देवान्प्रच्यावयन्ति द्वाभ्यां पितॄन्त्सकृदु ह्येव पराञ्चः
पितरस्तस्माद्द्वे पुरोऽनुवाक्ये अन्वाह
२.६.१.[२७]
स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह
मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति
प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्त्सोमवतो यजेति
वषट्कृते जुहोति
२.६.१.[२८]
अथाह पितृभ्यो बर्हिषद्भ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथासां
धानानामवद्यति स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य
तत्सकृदवदधात्यथोपरिष्टाद्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि
नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्बर्हिषदो यजेति वषट्कृते जुहोति
२.६.१.[२९]
अथाह पितृभ्योऽग्निष्वात्तेभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य
मन्थस्यावद्यति स तेनैव सह पुरोडाशस्य तेन सह धानानां
तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि
नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄनग्निष्वात्तान्यजेति वषट्कृते जुहोति
२.६.१.[३०]
अथाहाग्नये कव्यवाहनायानुब्रूहीति । तत्स्विष्टकृते हव्यवाहनो वै देवानां
कव्यवाहनः पितॄणां तस्मादाहाग्नये कव्यवाहनायानुब्रूहीति
२.६.१.[३१]
स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह
मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न
प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याहाग्निं कव्यवाहनं यजेति
वषट्कृते जुहोति
२.६.१.[३२]
स यन्नातिक्रामति । इत एवोपोत्थायं जुहोति सकृदु ह्येव पराञ्चः पितरोऽथ
यत्सकृत्सर्वेषां समवद्यति सकृदु ह्येव पराञ्चः पितरोऽथ
यद्व्यतिषङ्गमवदानान्यवद्यत्यृतवो वै पितर
ऋतूनेवैतद्व्यतिषजत्यृतून्त्संदधाति तस्माद्व्यतिषङ्गमवदानान्यवद्यति
२.६.१.[३३]
तद्धैके । एतमेव होत्रे मन्थमादधति तं होतोपहूयावैव जिघ्रति तं
ब्रह्मणे प्रयच्छति तं ब्रह्मावैव जिघ्रति तमग्नीधे प्रयच्छति तमग्नीदवैव
जिघ्रत्येतन्न्वेवैतत्कुर्वन्ति यथा त्वेवेतरस्य यज्ञस्येडाप्राशित्रं
समवद्यन्त्येवमेवैतस्यापि समवद्येयुस्तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति
प्राशितव्य त्वेव वयं मन्यामह इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति
२.६.१.[३४]
अथ यतरो दास्यन्भवति । यद्यध्वर्युर्वा यजमानो वा स उदपात्रमादायापसलवि
त्रिः परिषिञ्चन्पर्येति स यजमानस्य
पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति
पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत्
२.६.१.[३५]
अथास्य पुरोडाशस्यावदाय । सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ
कुरुते मन्थस्यावदाय सव्ये पाणौ कुरुते
२.६.१.[३६]
स येमामवान्तरदिशमनु स्रक्तिः । तस्यां यजमानस्य पित्रे ददात्यसावेतत्त
इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य पितामहाय
ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य
प्रपितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां
निमृष्टेऽत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति
यथाभागमश्नीतेत्येवैतदाह तद्यमेवं पितृभ्यो ददाति तेनो
स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति
२.६.१.[३७]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते
देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजते
ऽथैतत्पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नुवते
२.६.१.[३८]
ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते इन्द्रो ह्याहवनीयोऽक्षन्नमीमदन्त ह्यव
प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरि
सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि प्र नूनं पूर्णबन्धुर स्तुतो यासि
वशांऽनु योजा न्विन्द्र ते हरी इति
२.६.१.[३९]
अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो न्वाह्वामहे नाराशंसेन
स्तोमेन पितॄणां च मन्मभिः आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च
सूर्यं दृशे पुनर्नः पितरो मनो ददातु दैव्यो जनः जीवं व्रातं सचेमहीति
पितृयज्ञेनेव वा एतदचारिषुस्तदु खलु पुनर्जीवानपिपद्यन्ते तस्मादाह जीवं
व्रातं सचेमहीति
२.६.१.[४०]
अथ यतरो ददाति । स पुनः प्राचीनावीती भूत्वाभिप्रपद्य जपत्यमीमदन्त
पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह
२.६.१.[४१]
अथोदपात्रमादाय । पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य
पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति
पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं
तत्तद्यत्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति प्रसलवि न इदं कर्मानुसंतिष्ठाता
इति तस्मात्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति
२.६.१.[४२]
अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य
नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा
ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो
नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणः
२.६.१.[४३]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । अनुयाजाभ्यां प्रचरिष्यन्त इत्थाद्यजमानश्च
ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने
२.६.१.[४४]
अथाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृद्ढीति स्रुचावादाय
प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह देवान्यजेति सोऽपबर्हिषौ द्वावनुयाजौ यजति
प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति
२.६.१.[४५]
अथ सादयित्वा स्रुचौ व्यूहति । स्रुचौ व्युह्य परिधीन्त्समज्य
परिधिमभिपद्याश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः
सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते नाध्वर्युः प्रस्तरं
समुल्लुम्पतीत्येवोपास्ते यदा होता सूक्तवाकमाह
२.६.१.[४६]
अथाग्नीदाहानुप्रहरेति । स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति
२.६.१.[४७]
अथाह संवदस्वेति । अगानग्नीदगंच्रावय श्रौषट्स्वगा दैव्या होतृभ्यः
स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्युपस्पृशत्येव
परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च
२.६.१.[४८]
तद्धैके । हविरुच्छिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्धुतोच्छिष्टं वा
एतन्नेद्धुतोच्छिष्टमग्नौ जुहवामेति तस्मादपो वैवाभ्यवहरेयुः प्राश्नीयुर्वा
२.६.२.
२.६.२.[१]
महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां
विजितिस्तामथ यानेवैषां तस्मिन्त्संग्राम इषव आर्चंस्तानेतैरेव शल्पान्निरहरन्त
तान्व्यवृहन्त यत्त्र्यम्बकैरयजन्त
२.६.२.[२]
अथ यदेष एतैर्यजते । तन्नाह न्वेवैतस्य तथा कं चनेषुर्ऋच्छतीति देवा
अकुर्वन्निति त्वेवैष एतत्करोति याश्च त्वेवास्य प्रजा जाता याश्चाजातास्ता उभयी
रुद्रियात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्ते तस्माद्वा एष
एतैर्यजते
२.६.२.[३]
ते वै रौद्रा भवन्ति । रुद्रस्य हीषुस्तस्माद्रौद्रा भवन्त्येककपाला
भवन्त्येकदेवत्या असन्निति तस्मादेककपाला भवन्ति
२.६.२.[४]
ते वै प्रतिपुरुषम् । यावन्तो गृह्याः स्युस्तावन्त एकेनातिरिक्ता भवन्ति
तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चत्येकेनातिरिक्ता
भवन्ति तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति तस्मादेकेनातिरिक्ता भवन्ति
२.६.२.[५]
स जघनेन गार्हपत्यम् । यज्ञोपवीती भूत्वोदङ्ङासीन एतान्गृह्णाति स तत
एवोपोत्थायोदङ्तिष्ठन्नवहन्त्युदीच्यौ दृषदुपले उपदधात्युत्तरार्धे गार्हपत्यस्य कपालान्युपदधाति तद्यदेव तामुत्तरां दिशं सचन्त एषा ह्येतस्य देवस्य दिक्तस्मादेतामुत्तरां दिशं सचन्ते
२.६.२.[६]
ते वा अक्ताः स्युः । अक्तं हि हविस्त उ वा अनक्ता एव स्युरभिमानुको ह रुद्रः
पशून्त्स्याद्यदञ्ज्यात्तस्मादनक्ता एव स्युः
२.६.२.[७]
तान्त्सार्धं पात्र्यां समुद्वास्य । अन्वाहार्यपचनादुल्मुकमादायोदङ्परेत्य
जुहोत्येषा ह्येतस्य देवस्य दिक्पथि जुहोति पथा हि स देवश्चरति चतुष्पथे
जुहोत्येतद्ध वा अस्य जांधितं प्रज्ञातमवसानं यच्चतुष्पथं
तस्माच्चतुष्पथे जुहोति
२.६.२.[८]
पलाशस्य पलाशेन मध्यमेन जुहोति । ब्रह्म वै पलाशस्य पलाशम्
ब्रह्मणैवैतज्जुहोति स सर्वेषामेवावद्यत्येकस्यैव नावद्यति य एषोऽतिरिक्तो
भवति
२.६.२.[९]
स जुहोति । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहेत्यम्बिका ह वै
नामास्य स्वसा तयास्यैष सह भागस्तद्यदस्यैष स्त्रिया सह
भागस्तस्मात्त्र्यम्बका नाम तद्या अस्य प्रजा जातास्ता रुद्रियात्प्रमुञ्चति
२.६.२.[१०]
अथ य एष एकोऽतिरिक्तो भवति । तमाखूत्कर उपकिरत्येष ते रुद्र भाग आखुस्ते
पशुरिति तदस्मा आखुमेव पशूनामनुदिशति तेनो इतरान्पशून्न हिनस्ति
तद्यदुपकिरति तिर इव वै गर्भास्तिर इवैतद्यदुपकीर्णं तस्माद्वा उपकिरति
तद्या एवास्य प्रजा अजातास्ता रुद्रियात्प्रमुञ्चति
२.६.२.[११]
अथ पुनरेत्य जपन्ति । अव रुद्रमदीमह्यव देवं त्र्यम्बकं यथा नो
वस्यसस्करद्यथा नः श्रेयसस्करद्यथा नो व्यवसाययात् भेषजमसि भेषजं
गवेऽश्वाय पुरुषाय भेषजं सुखं मेषाय मेष्या इत्याशीरेवैषैतस्य
कर्मणः
२.६.२.[१२]
अथापसलवि त्रिः परियन्ति । सव्यानूरूनुपाघ्नानास्त्र्यम्बकं यजामहे सुगन्धिम्
पुष्टिवर्धनमुर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
मामृतादित्याशीरेवैषैतस्य कर्मण आशिषमेवैतदाशासते तदु ह्येव शमिव यो
मृत्योर्मुच्यातै नामृतात्तस्मादाह मृत्योर्मुक्षीय मामृतादिति
२.६.२.[१३]
तदु ह्यापि कुमायः परीत्युः । भगस्य भजामहा इति या ह वै सा रुद्रस्य
स्वसाम्बिका नाम सा ह वै भगस्येष्टे तस्मादु हापि कुमार्य परीयुर्भगस्य
भजामहा इति
२.६.२.[१४]
तासामुतासां मन्त्रोऽस्ति । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्
उर्वारुकमिव बन्धनादितो मुक्षीय मामुत इति सा यदित इत्याह ज्ञातिभ्यस्तदाह
मामुत इति पतिभ्यस्तदाह पतयो ह्येव स्त्रियै प्रतिष्ठा तस्मादाह मामुत इति
२.६.२.[१५]
अथ पुनः प्रसलवि त्रिः परियन्ति । दक्षिणानूरूनुपाघ्नाना एतेनैव मन्त्रेण
तद्यत्पुनः प्रसलवि त्रिः परियन्ति प्रसलवि न इदं कर्मानुसंतिष्ठाता इति
तस्मात्पुनः प्रसलवि त्रिः परियन्ति
२.६.२.[१६]
अथैतान्यजमानोऽञ्जलौ समोप्य । ऊध्वानुदस्यति यथा
गौर्नोदाप्नुयात्तदात्मभ्य एवैतच्छल्यान्निर्मिमते तान्विलिप्सन्त उपस्पृशन्ति
भेषजमेवैतत्कुर्वते तस्माद्विलिप्सन्त उपस्पृशन्ति
२.६.२.[१७]
तान्द्वयोर्मूतकयोरुपनह्य । वेणुयष्ट्यां वा कुपे वोभयत आबध्यादङ्परेत्य
यदि वृक्षं वा स्थाणु वा वेणुं वा वल्मीकं वा विन्देत्तस्मिन्नासजत्येतत्ते
रुद्रावसं तेन परो मूजवतोऽतीहीत्यवसेन वा अध्वानं यन्ति तदेनं
सावसमेवान्ववार्जति यत्र यत्रास्य चरणं तदन्वत्र ह वा अस्य परो
मूजवद्भ्यश्चरणं तस्मादाह परो मूजवतोऽतीहीत्यवततधन्वा पिनाकावस
इत्यहिंसन्नः शिवोऽतीहीत्य्
एवैतदाह कृत्तिवासा इति निष्वापयत्येवैनमेतत्स्वपन्नु हि न कं चन हिनस्ति
तस्मादाह कृत्तिवासा इति
२.६.२.[१८]
अथ दक्षिणान्बाहुनन्वावर्तन्ते । ते प्रतीक्षं पुनरायन्ति पुनरेत्याप
उपस्पृशन्ति रुद्रियेणेव वा एतदचारिषुः शान्तिरापस्तदद्भिः शान्त्या शमयन्ते
२.६.२.[१९]
अथ केशश्मश्रूप्त्वा । समारोह्याग्ना उदवसायेव ह्येतेन यजते न हि तदवकल्पते
यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी
पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः
प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति
तस्मादुदवस्यति
२.६.३.
२.६.३.[१]
अक्षय्यं ह वै सुकृतं चातुर्मास्ययाजिनो भवति । संवत्सरं हि जयति
तेनास्याक्षय्यं भवति तं वै त्रेधा विभज्य यजति त्रेधा विभज्य प्रजयति
सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम्
भवत्यृतुरु हैवैतद्भूत्वा देवानप्येत्यक्षय्यमु वैदेवानामेतेनो
हैवास्याक्षय्यं सुकृतं भवत्येतन्नु तद्यस्माच्चातुर्मास्यैर्यजते
२.६.३.[२]
अथ यस्माच्छुनासीर्येण यजेते । या वै देवानां श्रीरासीत्साकमेधैरीजानानां
विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव
देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य
रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माच्छुनासीर्येण यजते
२.६.३.[३]
तस्यावृत् । नोपकिरन्त्युत्तरवेदिं न गृह्णन्ति पृषदाज्यं न मन्थन्त्यग्निं पञ्च
प्रयाजा भवन्ति त्रयोऽनुयाजा एकं समिष्टयजुः
२.६.३.[४]
अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा
असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदेतैर्वै देवा
वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैर्या चैव
देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य
रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माद्वा एतानि पञ्च हवींषि
भवन्ति

२.६.३.[५]
अथ शुनासीर्यो द्वादशकपालः पुरोडाशो भवति । स बन्धुः शुनासीर्यस्य यम्
पूर्वमवोचाम
२.६.३.[६]
अथ वायव्यं पयो भवति । पयो ह वै प्रजा जाता अभिसंजानते विजिग्यानं मा
प्रजाः श्रियै यशसेऽन्नाद्यायाभिसंजानान्ता इति तस्मात्पयो भवति
२.६.३.[७]
तद्यद्वायव्यं भवति । अयं वै वायुर्योऽयं पवत एष वा इदं सर्वम्
प्रप्याययति यदिदं किं च वर्षति वृष्टादोषधयो जायन्त ओषधीर्जग्ध्वापः
पीत्वा तत एतदद्भ्योऽधि पयः सम्भवत्येष हि वा एतज्जनयति तस्माद्वायव्यम्
भवति
२.६.३.[८]
अथ सौर्य एककपालः पुरोडाशो भवति एष वै सूर्यो य एष तपत्येष वा इदं
सर्वमभिगोपायति साधुना त्वदसाधुना त्वदेष इदं सर्वं विदधाति साधौ
त्वदसाधौ त्वदेष मा विजिग्यानं प्रीतः साधुना त्वदभिगोपायत्साधौ
त्वद्विदधदिति तस्मात्सौर्य एककपालः पुरोडाशो भवति
२.६.३.[९]
तस्याश्वः श्वेतो दक्षिणा । तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न
विन्देदपि गौरेव श्वेतः स्यात्तदेतस्य रूपं क्रियते य एष तपति
२.६.३.[१०]
स यत्रैव साकमेधैर्यजते । तच्छुनासीर्येण यजेत यद्वै त्रिः संवत्सरस्य यजते
तेनैव संवत्सरमाप्नोति तस्माद्यदैव कदा चैतेन यजेत
२.६.३.[११]
तद्धैके । रात्रीरापिपयिषन्ति स यदि रात्रीरापिपयिषेद्यददः पुरस्तात्फाल्गुन्यै
पौर्णमास्या उद्दृष्टं तच्छुनासीर्येण यजेत
२.६.३.[१२]
अथ दीक्षेत तं नानीजानं पुनः फाल्गुनी
पौर्णमास्यभिपर्येयात्पुनःप्रयागरूप इव ह स यदेनमनीजानं पुनः
फाल्गुनी पौर्णमास्यभिपर्येयात्तस्मादेनं नानीजानं पुनः फाल्गुनी
पौर्णमास्यभिपर्येयादिति नूत्सृजमानस्य
२.६.३.[१३]
अथ पुनः प्रयुञ्जानस्य । पूर्वेद्युः फाल्गुन्यै पौर्णमास्यै शुनासीर्येण यजेताथ
प्रातर्वैश्वदेवेनाथ पौर्णमासेनैतदु पुनः प्रयुञ्जानस्य
२.६.३.[१४]
अथातः । परिवर्तनस्यैव सर्वतोमुखो वा असावादित्य एष वा इदं सर्वं निर्धयति
यदिदं किं च शुष्यति तेनैष सर्वतोमुखस्तेनान्नादः
२.६.३.[१५]
सर्वतोमुखोऽयमग्निः । यतो ह्येव कुतश्चाग्नावभ्यादधति तत एव प्रदहति
तेनैष सर्वतोमुखस्तेनान्नादः
२.६.३.[१६]
अथायमन्यतोमुखः पुरुषः । स एतत्सर्वतोमुखो भवति यत्परिवर्तयते स
एवमेवान्नादो भवति यथैतावेतद्य एवं विद्वान्परिवर्तयते तस्माद्वै
परिवर्तयेत
२.६.३.[१७]
तदु होवाचासुरिः । किं नु तत्र मुखस्य यदपि सर्वाण्येव लोमानि वपेत यद्वै
त्रिः संवत्सरस्य यजते तेनैव सर्वतोमुखस्तेनान्नादस्तस्मान्नाद्रियेत
परिवर्तयितुमिति
२.६.४.
२.६.४.[१]
तद्यदाहुः । साकमेधैर्वै देवा वृत्रमघ्नंस्तैर्वेव व्यजयन्त येयमेषां
विजितिस्तामिति सर्वैर्ह त्वेव देवाश्चातुर्मास्यैर्वृत्रमघ्नन्त्सर्वैर्वेव व्ययन्त
येयमेषां विजितिस्ताम्
२.६.४.[२]
ते होचुः । केन राज्ञा केनानीकेन योत्स्याम इति स हाग्निरुवाच मया राज्ञा
मयानीकेनेति तेऽग्निना राज्ञाग्निनानीकेन चतुरो मासः प्राजयंस्तान्ब्रह्मणा च
त्रय्या च विद्यया पर्यगृह्णन्
२.६.४.[३]
ते होचुः । केनैव राज्ञा केनानीकेन योत्स्याम इति स ह वरुण उवाच मया राज्ञा
मयानीकेनेति ते वरुणेनैव राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः
प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन्
२.६.४.[४]
ते होचुः । केनैव राज्ञा केनानीकेन योत्स्याम इति स हेन्द्र उवाच मया राज्ञा
मयानीकेनेति त इन्द्रेणैव राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः
प्राजयंस्तान्ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन्
२.६.४.[५]
स यद्वैश्वदेवेन यजते । अग्निनैवैतद्राज्ञाग्निनानीकेन चतुरो मासः प्रजयति
तत्त्र्येनी शलली भवति लोहः क्षुरः सा या त्र्येनी शलली सा त्रय्यै विद्यायै रूपं
लोहः क्षुरो ब्रह्मणो रूपमग्निर्हि ब्रह्म लोहित इव ह्यग्निस्तस्माल्लोहः क्षुरो
भवति तेन परिवर्तयते तद्ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति
२.६.४.[६]
अथ यद्वरुणप्रघासैर्यजते । वरुणेनैवैतद्राज्ञा वरुणेनानीकेनापरांश्चतुरो
मासः प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा
चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति
२.६.४.[७]
अथ यत्साकमेधैर्यजते । इन्द्रेणैवैतद्राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः
प्रजयति तत्त्र्येनी शलली भवति लोहः क्षुरस्तेन परिवर्तयते तद्ब्रह्मणा
चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति
२.६.४.[८]
स यद्वैश्वदेवेन यजते । अग्निरेव तर्हि भवत्यग्नेरेव सायुज्यं सलोकतां
जयत्यथ यत्साकमेधैर्यजत इन्द्र एव तर्हि भवतीन्द्रस्यैव सायुज्यं सलोकतां
जयति
२.६.४.[९]
स यस्मिन्हर्तावमुं लोकमेति । स एनमृतुः परस्मा ऋतवे प्रयच्छति पर उ परस्मा
ऋतवे प्रयच्छति स परममेव स्थानं परमां गतिं गच्छति चातुर्मास्ययाजी
तदाहुर्न चातुर्मास्ययाजिनमनुविन्दन्ति परमं ह्येव खलु स स्थानम्
परमांगतिं गच्छतीति
॥इति शतपथब्राह्मणे द्वितीयकाण्डं समाप्तम्॥