याज्ञवल्क्यस्मृतिः प्रायश्चित्ताध्यायः

1.आशौचप्रकरणम्

ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः । । ३.१ । ।

यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना ।
स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् । । ३.२ । ।

सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः ।
अप नः शोशुचदघं अनेन पितृदिङ्मुखाः । । ३.३ । ।

एवं मातामहाचार्य प्रेतानां उदकक्रिया ।
कामोदकं सखिप्रत्ता स्वस्रीयश्वशुरर्त्विजाम् । । ३.४ । ।

सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा । । ३.५ । ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः । । ३.६ । ।

कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् ।
स्नातानपवदेयुस्तानितिहासैः पुरातनैः । । ३.७ । ।

मानुष्ये कदलीस्तम्भ निःसारे सारमार्गणम् ।
करोति यः स सम्मूढो जलबुद्बुदसंनिभे । । ३.८ । ।

पञ्चधा संभृतः कायो यदि पञ्चत्वं आगतः ।
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना । । ३.९ । ।

गन्त्री वसुमती नाशं उदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । । ३.१० । ।

श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । । ३.११ । ।

इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः । । ३.१२ । ।

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । । ३.१३ । ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनां अपि ।
इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् । । ३.१४ । ।

आचार्यपितृउपाध्यायान्निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान्न च तैः सह संवसेत् । । ३.१५ । ।

क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् । । ३.१६ । ।

जलं एकाहं आकाशे स्थाप्यं क्षीरं च मृन्मये ।
वैतानाउपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् । । ३.१७ । ।

त्रिरात्रं दशरात्रं वा शावं आशौचं इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि । । ३.१८ । ।

पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्ध्रुवम् ।
तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् । । ३.१९ । ।

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् । । ३.२० । ।

हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ।
प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः । । ३.२१ । ।

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः । । ३.२२ । ।

आदन्तजन्मनः सद्या अचूडान्नैशिकी स्मृता ।
त्रिरात्रं आव्रतादेशाद्दशरात्रं अतः परम् । । ३.२३ । ।

अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानं आतुलश्रोत्रियेषु च । । ३.२४ । ।

अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् । । ३.२५ । ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्शुचिः । । ३.२६ । ।

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः । । ३.२७ । ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारि दातृब्रह्मविदां तथा । । ३.२८ । ।

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते । । ३.२९ । ।

उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् । । ३.३० । ।

कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः । । ३.३१ । ।

अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् ।
शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् । । ३.३२ । ।

तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यं उच्यते । । ३.३३ । ।

भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता । । ३.३४ । ।

2.आपद्धर्मप्रकरणम्

क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि । । ३.३५ । ।

फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् । । ३.३६ । ।

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः । । ३.३७ । ।

कौशेयनीललवण मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च । । ३.३८ । ।

वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः । । ३.३९ । ।

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु । । ३.४० । ।

आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः । । ३.४१ । ।

कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षं आपत्तौ जीवनानि तु । । ३.४२ । ।

बुभुक्षितस्त्र्यहं स्थित्वा धान्यं अब्राह्मणाद्हरेत् ।
प्रतिगृह्य तदाख्येयं अभियुक्तेन धर्मतः । । ३.४३ । ।

तस्य वृत्तं कुलं शीलं श्रुतं अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् । । ३.४४ । ।

3.वानप्रस्थधर्मप्रकरणम्

सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् । । ३.४५ । ।

अफालकृष्तेनाग्नींश्च पितॄन्देवातिथीनपि ।
भृत्यांश्च तर्पयेत्श्मश्रु जटालोमभृदात्मवान् । । ३.४६ । ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतं आश्वयुजे त्यजेत् । । ३.४७ । ।

दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः । । ३.४८ । ।

दन्तोलूखलिकः काल पक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात्तथा क्रियाः । । ३.४९ । ।

चान्द्रायणैर्नयेत्कालं कृच्छ्रैर्वा वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते । । ३.५० । ।

स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा । । ३.५१ । ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् । । ३.५२ । ।

यः कण्टकैर्वितुदति चन्दनैर्यश्च लिंपति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च । । ३.५३ । ।

अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षं आचरेत् । । ३.५४ । ।

ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
वायुभक्षः प्रागुदीचीं गच्छेद्वावर्ष्मसंक्षयात् । । ३.५५ । ।

4.यतिधर्मप्रकरणम्

वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि । । ३.५६ । ।

अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा । । ३.५७ । ।

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामं आश्रयेत् । । ३.५८ । ।

अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः ।
रहिते भिक्षुकैर्ग्रामे यात्रामात्रं अलोलुपः । । ३.५९ । ।

यतिपात्राणि मृद्वेणु दार्वलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् । । ३.६० । ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानां अमृतीभवति द्विजः । । ३.६१ । ।

कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च । । ३.६२ । ।

अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः । । ३.६३ । ।

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः । । ३.६४ । ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद्हि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् । । ३.६५ । ।

सत्यं अस्तेयं अक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः । । ३.६६ । ।

निःसरन्ति यथा लोह पिण्डात्तप्तात्स्फुलिङ्गकाः ।
सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि । । ३.६७ । ।

तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः ।
करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् । । ३.६८ । ।

निमित्तं अक्षरः कर्ता बोद्धा गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते । । ३.६९ । ।

सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।
सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि । । ३.७० । ।

आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
तदन्नं रसरूपेण शुक्रत्वं अधिगच्छति । । ३.७१ । ।

स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः । । ३.७२ । ।

इन्द्रियाणि मनः प्राणो ज्ञानं आयुः सुखं धृतिः ।
धारणा प्रेरणं दुःखं इच्छाहंकार एव च । । ३.७३ । ।

प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतदात्मजं सर्वं अनादेरादिं इच्छतः । । ३.७४ । ।

प्रथमे मासि संक्लेद भूतो धातुविमूर्च्छितः ।
मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः । । ३.७५ । ।

आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यं एव च । । ३.७६ । ।

पित्तात्तु दर्शनं पक्तिं औष्ण्यं रूपं प्रकाशिताम् ।
रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् । । ३.७७ । ।

भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिं एव च ।
आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः । । ३.७८ । ।

दौहृदस्याप्रदानेन गर्भो दोषं अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः । । ३.७९ । ।

स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः । । ३.८० । ।

मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि । । ३.८१ । ।

पुनर्धात्रीं पुनर्घर्मं ओजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते । । ३.८२ । ।

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः । । ३.८३ । ।

तस्य षोढा शरीराणि शट्त्वचो धारयन्ति च ।
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् । । ३.८४ । ।

स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः ।
पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् । । ३.८५ । ।

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् ।
चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु । । ३.८६ । ।

द्वे द्वे जानुकपोलोरु फलकांससमुद्भवे ।
अक्षतालूषके श्रोणी फलके च विनिर्दिशेत् । । ३.८७ । ।

भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः । । ३.८८ । ।

तन्मूले द्वे ललाटाक्षि गण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धं अर्बुदैश्च द्विसप्ततिः । । ३.८९ । ।

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः । । ३.९० । ।

गन्धरूपरसस्पर्श शब्दाश्च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक्श्रोत्रं च इन्द्रियाणि च । । ३.९१ । ।

हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् । । ३.९२ । ।

नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु । । ३.९३ । ।

वपा वसावहननं नाभिः क्लोम यकृत्प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानं एव च । । ३.९४ । ।

आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयं उदाहृतः । । ३.९५ । ।

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्त वेष्टावोष्ठौ ककुन्दरे । । ३.९६ । ।

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका । । ३.९७ । ।

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश्चैवं एतानि स्थानान्यत्र शरीरके । । ३.९८ । ।

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्येव प्राणस्यायतनानि तु । । ३.९९ । ।

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च । । ३.१०० । ।

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः । । ३.१०१ । ।

त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा । । ३.१०२ । ।

रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च ।
सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह । । ३.१०३ । ।

वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।
यद्यप्येकोऽनुवेत्त्येषां भावनां चैव संस्थितिम् । । ३.१०४ । ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः । । ३.१०५ । ।

षट्श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रं एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके । । ३.१०६ । ।

श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु ।
इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ । । ३.१०७ । ।

द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ।
हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् । । ३.१०८ । ।

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु । । ३.१०९ । ।

ज्ञेयं चारण्यकं अहं यदादित्यादवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगं अभीप्सता । । ३.११० । ।

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः । । ३.१११ । ।

यथाविधानेन पठन्सामगायं अविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति । । ३.११२ । ।

अपरान्तकं उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुं उत्तरं गीतकानि च । । ३.११३ । ।

ऋग्गाथा पाणिका दक्ष विहिता ब्रह्मगीतिका ।
गेयं एतत्तदभ्यास करणान्मोक्षसंज्ञितम् । । ३.११४ । ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति । । ३.११५ । ।

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । । ३.११६ । ।

अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।
आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः । । ३.११७ । ।

कथं एतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतं आत्मा च कथं तस्मिन्वदस्व नः । । ३.११८ । ।

मोहजालं अपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः । । ३.११९ । ।

स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः ।
विराजः सोऽन्नरूपेण यज्ञत्वं उपगच्छति । । ३.१२० । ।

यो द्रव्यदेवतात्याग संभूतो रस उत्तमः ।
देवान्संतर्प्य स रसो यजमानं फलेन च । । ३.१२१ । ।

संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः ।
ऋग्यजुः सामविहितं सौरं धामोपनीयते । । ३.१२२ । ।

खमण्डलादसौ सूर्यः सृजत्यमृतं उत्तमम् ।
यज्जन्म सर्वभूतानां अशनानशनात्मनाम् । । ३.१२३ । ।

तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः ।
एवं एतदनाद्यन्तं चक्रं संपरिवर्तते । । ३.१२४ । ।

अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः । । ३.१२५ । ।

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् । । ३.१२६ । ।

पृथिवी पादतस्तस्य शिरसो द्यौरजायत ।
नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी । । ३.१२७ । ।

मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः ।
जघनादन्तरिक्षं च जगच्च सचराचरम् । । ३.१२८ । ।

यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।
ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते । । ३.१२९ । ।

करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् । । ३.१३० । ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च । । ३.१३१ । ।

अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् । । ३.१३२ । ।

विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।
इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् । । ३.१३३ । ।

परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्यासु योनिषु । । ३.१३४ । ।

पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते । । ३.१३५ । ।

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश्चाविधानेन स्थावरेष्वभिजायते । । ३.१३६ । ।

आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः ।
धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् । । ३.१३७ । ।

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति । । ३.१३८ । ।

निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ।
प्रमादवान्भिन्नवृत्तो भवेत्तिर्यक्षु तामसः । । ३.१३९ । ।

रजसा तमसा चैवं समाविष्टो भ्रमन्निह ।
भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते । । ३.१४० । ।

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः । । ३.१४१ । ।

कट्वेर्वारौ यथापक्वे मधुरः सन्रसोऽपि न ।
प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता । । ३.१४२ । ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश्च सर्वासां यो न चाप्नोति वेदनाम् । । ३.१४३ । ।

आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरम् । । ३.१४५ । ।

मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः । । ३.१४६ । ।

हेममात्रं उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात्कोशं वा कोशकारकः । । ३.१४७ । ।

कारणान्येवं आदाय तासु तास्विह योनिषु ।
सृजत्यात्मानं आत्मा च संभूय करणानि च । । ३.१४८ । ।

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टं अन्येन पश्यति । । ३.१४९ । ।

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः । । ३.१५० । ।

जातिरूपवयोवृत्त विद्यादिभिरहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा । । ३.१५१ । ।

स संदिग्धमतिः कर्म फलं अस्ति न वेति वा ।
विप्लुतः सिद्धं आत्मानं असिद्धोऽपि हि मन्यते । । ३.१५२ । ।

मम दाराः सुतामात्या अहं एषां इति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा । । ३.१५३ । ।

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघात जलप्रपतनोद्यमी । । ३.१५४ । ।

एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्यां इच्छया चैव बध्यते । । ३.१५५ । ।

आचार्योपासनं वेद शास्त्रार्थेषु विवेकिता ।
तत्कर्मणां अनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः । । ३.१५६ । ।

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् । । ३.१५७ । ।

विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् । । ३.१५८ । ।

नीरजस्तमसा सत्त्व शुद्धिर्निःस्पृहता शमः ।
एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत् । । ३.१५९ । ।

तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् ।
कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते । । ३.१६० । ।

शरीरसंक्षये यस्य मनः सत्त्वस्थं ईश्वरम् ।
अविप्लुतमतिः सम्यक्स जातिसंस्मरतां इयात् । । ३.१६१ । ।

यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः । । ३.१६२ । ।

कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च ।
गर्भस्य वैकृतं दृष्टं अङ्गहीनादि जन्मनः । । ३.१६३ । ।

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन । । ३.१६४ । ।

वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवं अकाले प्राणसंक्षयः । । ३.१६५ । ।

अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः । । ३.१६६ । ।

ऊर्ध्वं एकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकं अतिक्रम्य तेन याति परां गतिम् । । ३.१६७ । ।

यदस्यान्यद्रश्मिशतं ऊर्ध्वं एव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते । । ३.१६८ । ।

येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः । । ३.१६९ । ।

वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्यनृतेन च । । ३.१७० । ।

श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः ।
निमित्तशाकुनज्ञान ग्रहसंयोगजैः फलैः । । ३.१७१ । ।

तारानक्षत्रसंचारैर्जागरैः स्वप्नजैरपि ।
आकाशपवनज्योतिर् जलभूतिमिरैस्तथा । । ३.१७२ । ।

मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस्तथा । । ३.१७३ । ।

अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते । । ३.१७४ । ।

स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः ।
निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् । । ३.१७५ । ।

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः । । ३.१७६ । ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि । । ३.१७७ । ।

अव्यक्तं आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्नसन्सदसच्च यः । । ३.१७८ । ।

बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः ।
तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च । । ३.१७९ । ।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।
यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते । । ३.१८० । ।

यथात्मानं सृजत्यात्मा तथा वः कथितो मया ।
विपाकात्त्रिप्रकाराणां कर्मणां ईश्वरोऽपि सन् । । ३.१८१ । ।

सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।
रजस्तमोभ्यां आविष्टश्चक्रवद्भ्राम्यते ह्यसौ । । ३.१८२ । ।

अनादिरादिमांश्चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः । । ३.१८३ । ।

पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति । । ३.१८४ । ।

ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः । । ३.१८५ । ।

तत्राष्टाशीतिसाहस्र मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीज भूता धर्मप्रवर्तकाः । । ३.१८६ । ।

सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः । । ३.१८७ । ।

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् । । ३.१८८ । ।

यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।
श्लोका सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् । । ३.१८९ । ।

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यं आत्मनो ज्ञानहेतवः । । ३.१९० । ।

स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवं एव तु ।
द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । । ३.१९१ । ।

य एनं एवं विन्दन्ति य वारण्यकं आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः । । ३.१९२ । ।

क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् । । ३.१९३ । ।

ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस्तेषां इह न विद्यते । । ३.१९४ । ।

यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनं एव च । । ३.१९५ । ।

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च । । ३.१९६ । ।

एतद्यो न विजानाति मार्गद्वितयं आत्मवान् ।
दन्दशूकः पतङ्गो वा भवेत्कीटोऽथ वा कृमिः । । ३.१९७ । ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा । । ३.१९८ । ।

निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् ।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । । ३.१९९ । ।

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामं उपक्रमेत् । । ३.२०० । ।

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ।
धारयेत्तत्र चात्मानं धारणां धारयन्बुधः । । ३.२०१ । ।

अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरं उत्सृज्य परकायप्रवेशनम् । । ३.२०२ । ।

अर्थानां छन्दतः सृष्टिर्योगसिद्धेर्हि लक्षणम् ।
सिद्धे योगे त्यजन्देहं अमृतत्वाय कल्पते । । ३.२०३ । ।

अथ वाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक्परां सिद्धिं अवाप्नुयात् । । ३.२०४ । ।

न्यायागतधनस्तत्त्व ज्ञाननिष्ठोऽतिथिप्रियः ।
श्राधकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते । । ३.२०५ । ।

5.प्रायश्चित्तप्रकरणम्

महापातकजान् घोरान् नरकान् प्राप्य दारुणान्।
कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह॥३.२०६॥

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति।
खरपुल्कसवेनानां सुरापो नात्र संशयः॥३.२०७॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात्।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः॥३.२०८॥

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः॥३.२०९॥

यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते।
अन्नहर्तामयावी स्यान्मूको वागपहारकः॥३.२१०॥

धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः॥३.२११॥

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः॥३.२१२॥

हीनजातौ प्रजायेत पररत्नापहारकः।
पत्रशाकं शिखी हत्वा गन्धाञ्छुच्छुन्दरी शुभान्॥३.२१३॥

मूषको धान्यहारी स्याद्यानम् उष्ट्रः कपिः फलम्।
जलं प्लवः पयः काको गृहकारी ह्युपस्करम्॥३.२१४॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः॥३.२१५॥

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः॥३.२१६॥

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात्।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः॥३.२१७॥

ततो निष्कल्मषीभूताः कुले महति भोगिनः।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः॥३.२१८॥

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्।
अनिग्रहाच्चेन्द्रियाणां नरः पतनम् ऋच्छति॥३.२१९॥

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये।
एवम् अस्यान्तरात्मा च लोकश्चैव प्रसीदति॥३.२२०॥

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान्॥३.२२१॥

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली।
रौरवं कुड्मलं पूति मृत्तिकं कालसूत्रकम्॥३.२२२॥

सङ्घातं लोहितोदं च सविषं सम्प्रपातनम्।
महानरककाकोलं सञ्जीवनमहापथम्॥३.२२३॥

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च।
असिपत्रवनं चैव तापनं चैकविंशकम्॥३.२२४॥

महापातकजैर्घोरैरुपपातकजैस्तथा।
अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः॥३.२२५॥

प्रायश्चित्तैरपैत्येनो यद् अज्ञानकृतं भवेत्।
कामतो व्यवहार्यस्तु वचनाद् इह जायते॥३.२२६॥

ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः।
एते महापातकिनो यश्च तैः सह संवसेत्॥३.२२७॥

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम्॥३.२२८॥

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचोऽनृतम्।
रजस्वलामुखास्वादः सुरापानसमानि तु॥३.२२९॥

अश्वरत्नमनुष्यस्त्री भूधेनुहरणं तथा।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम्॥३.२३०॥

सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम्॥३.२३१॥

पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम् अपि।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा॥३.२३२॥

आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः।
लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि॥३.२३३॥

गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया।
अनाहिताग्नितापण्यविक्रयः परिदेवनम्॥३.२३४॥

भृतादध्ययनादानं भृतकाध्यापनं तथा।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया॥३.२३५॥

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम्।
नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः॥३.२३६॥

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम्।
पितृमातृसुतत्यागस्तडागारामविक्रयः॥३.२३७॥

कन्यासन्दूषणं चैव परिविन्दकयाजनम्।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्॥३.२३८॥

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च॥३.२३९॥

इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम्।
हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः॥३.२४०॥

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्।
तथैवानाश्रमे वासः परान्नपरिपुष्टता॥३.२४१॥

असच्छास्त्राधिगमनम् आकरेष्वधिकारिता।
भार्याया विक्रयश्चैषाम् एकैकं उपपातकम्॥३.२४२॥

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिम् आप्नुयात्॥३.२४३॥

ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च।
तथाश्वमेधावभृथस्नानाद्वा शुद्धिम् आप्नुयात्॥३.२४४॥

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः॥३.२४५॥

आनीय विप्रसर्वस्वं हृतं घातित एव वा।
तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुध्यति॥३.२४६॥

लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम्।
मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम्॥३.२४७॥

सङ्ग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात्।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति॥३.२४८॥

अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम्।
शुध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम्॥३.२४९॥

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात्।
आदातुश्च विशुद्ध्यर्थं इष्टैर्वैश्वानरी स्मृता॥३.२५०॥

यागस्थक्षत्रविड्घाती चरेद्ब्रह्महणि व्रतम्।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः॥३.२५१॥

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत्॥३.२५२॥

सुराम्बुघृतगोमूत्रपयसाम् अग्निसन्निभम्।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिम् ऋच्छति॥३.२५३॥

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत्।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि॥३.२५४॥

अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रम् एव च।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः॥३.२५५॥

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत्।
इहैव सा शुनी गृध्री सूकरी चोपजायते॥३.२५६॥

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत्।
स्वकर्म व्याख्यायंस्तेन हतो मुक्तोऽपि वाशुचिः॥३.२५७॥

अनिवेद्य नृपे शुध्येत्सुरापव्रतम् आचरन्।
आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृत्॥३.२५८॥

तप्तेऽयःशयने सार्धम् आयस्या योषिता स्वपेत्।
गृहीत्वोत्कृत्य वृषणौ नैर्ऋत्यां चोत्सृजेत् तनुम्॥३.२५९॥

प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम्॥३.२६०॥

एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः।
कन्यां समुद्वहेदेषां सोपवासाम् अकिञ्चनाम्॥३.२६१॥

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु।
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति॥३.२६२॥

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति॥३.२६३॥

कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः॥३.२६४॥

उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा।
पयसा वापि मासेन पराकेणाथ वा पुनः॥३.२६५॥

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान्।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्॥३.२६६॥

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम्।
षण्मासाच्छूद्रहाप्येतद् धेनुर्दद्याद् दशाथ वा॥३.२६७॥

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु।
दृतिं धनुर्बस्तम् अविं क्रमाद् दद्याद्विशुद्धये॥३.२६८॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्।
अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः॥३.२६९॥

मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत्॥३.२७०॥

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः॥३.२७१॥

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः।
भासं च हत्वा दद्याद् गाम् अक्रव्यादस्तु वत्सिकाम्॥३.२७२॥

उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम्।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम्॥३.२७३॥

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन्।
दानं दातुं चरेत्कृच्छ्रं एकैकस्य विशुद्धये॥३.२७४॥

फलपुष्पान्नरसज सत्त्वघाते घृताशनम्।
किञ्चित् सास्थिवधे देयं प्राणायामस्त्वनस्थिके॥३.२७५॥

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्।
स्यादोषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम्॥३.२७६॥

पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति॥३.२७७॥

यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत्।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत्॥३.२७८॥

मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत्।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृतेऽपि च॥३.२७९॥

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम्।
गर्दभं पशुम् आलभ्य नैर्ऋतं स विशुध्यति॥३.२८०॥

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः।
कामावकीर्ण इत्याभ्यां जुहुयाद् आहुतिद्वयम्॥३.२८१॥

उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्वनेन तु।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च॥३.२८२॥

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति।
कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि॥३.२८३॥

क्रियमाणोपकारे तु मृते विप्रे न पातकम्।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च॥३.२८३ः१॥

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन्॥३.२८४॥

महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम्।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः॥३.२८५॥

अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयम् एव वा।
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा॥३.२८६॥

अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत्।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति॥३.२८७॥

त्रीन्कृच्छ्रान् आचरेद् व्रात्ययाजकोऽभिचरन्नपि।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम्॥३.२८८॥

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम्।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात्॥३.२८९॥

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम्॥३.२९०॥

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम्॥३.२९१॥

विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते॥३.२९२॥

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः॥३.२९३॥

दाषीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम्॥३.२९४॥

चरितव्रत आयाते निनयेरन् नवं घटम्।
जुगुप्सेरन् न चाप्येनं संवसेयुश्च सर्वशः॥३.२९५॥

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः।
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम्॥३.२९६॥

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम्।
विशेषपतनीयानि स्त्रीणाम् एतान्यपि ध्रुवम्॥३.२९७॥

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु।
चीर्णव्रतानपि सतः कृतघ्नसहितान् इमान्॥३.२९८॥

घटेऽपवर्जिते ज्ञाति मध्यस्थो यवसं गवाम्।
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया॥३.२९९॥

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम्।

6.रहस्यप्रायश्चित्तम्

अनभिख्यातदोषस्तु रहस्यं व्रतं आचरेत् । । ३.३०० । ।

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् । । ३.३०१ । ।

लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः । । ३.३०२ । ।

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ।
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः । । ३.३०३ । ।

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी । । ३.३०४ । ।

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानां अनादिष्टस्य चैव हि । । ३.३०५ । ।

ओंकाराभिष्टुतं सोम सलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्र प्राशनं तु द्विजोत्तमः । । ३.३०६ । ।

निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति । । ३.३०७ । ।

शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः ।
सर्वपापहरा ह्येते रुद्रैकादशिनी तथा । । ३.३०८ । ।

यत्र यत्र च संकीर्णं आत्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा । । ३.३०९ । ।

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि । । ३.३१० । ।

वायुभक्षो दिवा तिष्ठन्रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते । । ३.३११ । ।

ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यं अकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः । । ३.३१२ । ।

स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता । । ३.३१३ । ।

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् । । ३.३१४ । ।

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः । । ३.३१५ । ।

पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः । । ३.३१६ । ।

तप्तक्षीरघृताम्बूनां एकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः । । ३.३१७ । ।

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः । । ३.३१८ । ।

यथाकथंचित्त्रिगुणः प्राजापत्योऽयं उच्यते ।
अयं एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः । । ३.३१९ । ।

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः । । ३.३२० । ।

पिण्याकाचामतक्राम्बु सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयं उच्यते । । ३.३२१ । ।

एषां त्रिरात्रं अभ्यासादेकैकस्य यथाक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः । । ३.३२२ । ।

तिथिवृद्ध्या चरेत्पिण्डान्शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् । । ३.३२३ । ।

यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणं अथापरम् । । ३.३२४ । ।

कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत् । । ३.३२५ । ।

अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च ।
धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् । । ३.३२६ । ।

कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियं आप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः । । ३.३२७ । ।

श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् ।
इदं ऊचुर्महात्मानं योगीन्द्रं अमितौजसम् । । ३.३२८ । ।

य इदं धारयिष्यन्ति धर्मशास्त्रं अतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् । । ३.३२९ । ।

विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा ।
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् । । ३.३३० । ।

श्लोकत्रयं अपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः । । ३.३३१ । ।

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् । । ३.३३२ । ।

य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम् । । ३.३३३ । ।

श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवं अस्त्विति होवाच नमस्कृत्य स्वयंभुवे । । ३.३३४ । ।