गोपथब्राह्मणम् उत्तर

Gopatha Brahmanam Uttara, Atharva Veda

Previous (गोपथब्राह्मणम् पूर्व Gopatha Brahmanam Poorva)

(२,१.१अ) अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तत्_
(२,१.१ब्) अथोपविशतीदं अहं अर्वाग्वसोः सदने सीदामीति_
(२,१.१च्) अर्वाग्वसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम्_
(२,१.१द्) तमेवैतत्पूर्वं सादयति_
(२,१.१ए) अरिष्टं यज्ञं तनुतादिति_
(२,१.१फ़्) अथोपविश्व जपति बृहस्पतिर्ब्रह्मेति
(२,१.१ग्) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा
(२,१.१ह्) तस्मिन्नेवैतदनुज्ञां इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात्_
(२,१.१इ) एतद्वै यज्ञस्य द्वारम्_
(२,१.१ज्) तदेतदशून्यं करोति_
(२,१.१क्) इष्टे च स्विष्टकृत्यानुयाजानां प्रसवादिति_
(२,१.१ल्) एतद्वै यज्ञस्य द्वितीयं द्वारम्_
(२,१.१म्) तदेवैतदशून्यं करोति
(२,१.१न्) यत्परिधयः परिधीयन्ते यज्ञस्य गोपीथाय
(२,१.१ओ) परिधीन्परिधत्ते यज्ञस्य सात्मत्वाय
(२,१.१प्) परिधीन्त्संमार्ष्टि
(२,१.१क़्) पुनात्येवैनान्_
(२,१.१र्) त्रिर्मध्यमम्_
(२,१.१स्) त्रय इमे प्राणाः
(२,१.१त्) प्राणानेवाभिजयति
(२,१.१उ) त्रिर्दक्षिणार्ध्यम्_
(२,१.१व्) त्रयो वै लोकाः_
(२,१.१w) लोकानेवाभिजयति
(२,१.१x) त्रिरुत्तरार्ध्यं
(२,१.१य्) त्रयो वै देवलोकाः_
(२,१.१ज़्) देवलोकानेवाभिजयति
(२,१.१आ) त्रिरुपवाजयति त्रयो वै देवयानाः पन्थानस्
(२,१.१ब्ब्) तानेवाभिजयति
(२,१.१च्च्) ते वै द्वादश भवन्ति
(२,१.१द्द्) द्वादश ह वै मासाः संवत्सरः
(२,१.१ई) संवत्सरं एव तेन प्रीणाति_
(२,१.१फ़्फ़्) अथो संवत्सरं एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै । । १ । ।

(२,१.२अ) प्रजापतिर्वै रुद्रं यज्ञान्निरभजत्
(२,१.२ब्) सोऽकामयत
(२,१.२च्) मेयं अस्मा आकूतिः समर्धि यो मा यज्ञान्निरभाक्षीदिति
(२,१.२द्) स यज्ञं अभ्यायम्याविध्यत्
(२,१.२ए) तदाविद्धं निरकृन्तत्
(२,१.२फ़्) तत्प्राशित्रं अभवत्
(२,१.२ग्) तदुदयच्छत्
(२,१.२ह्) तद्भगाय पर्यहरन्_
(२,१.२इ) तत्प्रत्यैक्षत
(२,१.२ज्) तस्य चक्षुः परापतत्
(२,१.२क्) तस्मादाहुरन्धो वै भग इति_
(२,१.२ल्) अपि ह तं नेच्छेद्यं इच्छति
(२,१.२म्) तत्सवित्रे पर्यहरन्_
(२,१.२न्) तत्प्रत्यगृहात्तस्य पाणी प्रचिच्छेद
(२,१.२ओ) तस्मै हिरण्मयौ प्रत्यदधुस्
(२,१.२प्) तस्माद्धिरण्यपाणिरिति स्तुतस्
(२,१.२क़्) तत्पूष्णे पर्यहरन्_
(२,१.२र्) तत्प्राश्नात्
(२,१.२स्) तस्य दन्ताः परोप्यन्त
(२,१.२त्) तस्मादाहुरदन्तकः पूषा पिष्टभाजन इति
(२,१.२उ) तदिध्मायाङ्गिरसाय पर्यहरन्_
(२,१.२व्) तत्प्राश्नात्
(२,१.२w) तस्य शिरो व्यपतत्
(२,१.२x) तं यज्ञ एवाकल्पयत्
(२,१.२य्) स एष इध्मः
(२,१.२ज़्) समिधो ह पुरातनस्
(२,१.२आ) तद्बर्हय आङ्गिरसाय पर्यहरन्_
(२,१.२ब्ब्) तत्प्राश्नात्
(२,१.२च्च्) तस्याङ्गा पर्वाणि व्यस्रंसन्त
(२,१.२द्द्) तं यज्ञ एवाकल्पयत्
(२,१.२ई) तदेतद्बर्हिः
(२,१.२फ़्फ़्) प्रस्तरो ह पुरातनस्
(२,१.२ग्ग्) तद्बृहस्पतय आङ्गिरसाय पर्यहरन्_
(२,१.२ह्ह्) सोऽबिभेद्बृहस्पतिरित्थं वाव स्य आर्तिं आरिष्यतीति
(२,१.२इइ) स एतं मन्त्रं अपश्यत्
(२,१.२ज्ज्) <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [PS२०.५७.११, Kऔश्S९१.२, Vऐत्S३.८]> इत्यब्रवीत्_
(२,१.२क्क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति
(२,१.२ल्ल्) सोऽबिभेत्प्रतिगृह्णन्तं मा हिंसिष्यतीति
(२,१.२म्म्) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्यब्रवीत्
(२,१.२न्न्) सवितृप्रसूत एवैनं तद्देवताभिः प्रत्यगृह्णात्
(२,१.२ऊ) तद्व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयामीति
(२,१.२प्प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच्छमयां चकार
(२,१.२क़्क़्) सोऽबिभेत्प्राश्नन्तं मा हिंसिष्यतीति_
(२,१.२र्र्) अग्नेष्ट्वास्येन प्राश्नामीत्यब्रवीत्_
(२,१.२स्स्) न ह्यग्नेरास्यं किं चन हिनस्ति
(२,१.२त्त्) सोऽबिभेत्प्राशितं मा हिंसिष्यतीति_
(२,१.२उउ) इन्द्रस्य त्वा जठरे सादयामीत्यब्रवीत्_
(२,१.२व्व्) न हीन्द्रस्य जठरं किं चन हिनस्ति
(२,१.२ww) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति । । २ । ।

(२,१.३अ) अथो आहुर्ब्राह्मणस्योदर इति_
(२,१.३ब्) आत्मास्यात्मन्नात्मानं मे मा हिंसीः स्वाहेति_
(२,१.३च्) अन्नं वै सर्वेषां भूतानां आत्मा तेनैवैनच्छमयां चकार
(२,१.३द्) प्राशितं अनुमन्त्रयते <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एतत्सुहुतं अस्तु प्राशित्रं तन्मा मा हिंसीत्परमे व्योमन्[PS२०.५७.१५]>_ इति
(२,१.३ए) तत्सर्वेण ब्रह्मणा प्राश्नात्
(२,१.३फ़्) तत एनं नाहिनत्
(२,१.३ग्) तस्माद्यो ब्रह्मिष्ठः स्यात्तं ब्रह्माणं कुर्वीत
(२,१.३ह्) बृहस्पतिर्वै सर्वं ब्रह्म
(२,१.३इ) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते
(२,१.३ज्) अप वा एतस्मात्प्राणाः क्रामन्ति य आविद्धं प्राश्नाति_
(२,१.३क्) अद्भिर्मार्जयित्वा प्राणान्त्संस्पृशते वाङ्म आस्यन्निति_
(२,१.३ल्) अमृतं वै प्राणाः_
(२,१.३म्) अमृतं आपः
(२,१.३न्) प्राणानेव यथास्थानं उपाह्वयते
(२,१.३ओ) तदु हैक आहुरिन्द्राय पर्यहरन्निति
(२,१.३प्) ते देवा अब्रुवन्निन्द्रो वै देवानां ओजिष्ठो बलिष्ठस्
(२,१.३क़्) तस्मा एनत्परिहरतेति
(२,१.३र्) तत्तस्मै पर्यहरन्_
(२,१.३स्) तत्स ब्रह्मणा शयमां चकार
(२,१.३त्) तस्मादाहुरिन्द्रो ब्रह्मेति
(२,१.३उ) यवमात्रं भवति
(२,१.३व्) यवमात्रं वै विषस्य न हिनस्ति
(२,१.३w) यदधस्तादभिधारयति तस्मादधस्तात्प्रक्षरणं प्रजा अरुर्न हिनस्ति
(२,१.३x) यदुपरिष्टादभिधारयति तस्मादुपरिष्टात्प्रक्षरणं प्रजा अरुर्न हिनस्ति
(२,१.३य्) यदुभयतोऽभिघारयत्युभयतोऽभिघारि प्रजा अरुर्घातुकं स्यात्_
(२,१.३ज़्) यत्समयाभिहरेदनभिविद्धं यज्ञस्याभिविध्येत् । । ३ । ।

(२,१.४अ) अग्रेण परिहरति
(२,१.४ब्) तीर्थेनैव परिहरति
(२,१.४च्) वि वा एतद्यज्ञश्छिद्यते यत्प्राशित्रं परिहरति
(२,१.४द्) यदाह ब्रह्मन्प्रस्थास्यामीति बृहस्पतिर्वै सर्वं ब्रह्म
(२,१.४ए) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणतः संदधाति_
(२,१.४फ़्) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस्
(२,१.४ग्) तत एवैनं आलभते
(२,१.४ह्) यद्धस्तेन प्रमीवेद्वेपनः स्यात्_
(२,१.४इ) यच्छीर्ष्णा शीर्षक्तिमान्त्स्यात्_
(२,१.४ज्) यत्तूष्णीं आसीतासंप्रत्तो यज्ञः स्यात्
(२,१.४क्) प्रतिष्ठेत्येव ब्रूयात्_
(२,१.४ल्) वाचि वै यज्ञः श्रितः_
(२,१.४म्) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस्तत एवैनं संप्रयच्छति_
(२,१.४न्) अग्नीध आदधाति_
(२,१.४ओ) अग्निमुखानेवर्तून्प्रीणाति_
(२,१.४प्) अथोत्तरासां आहुतीनां प्रतिष्ठित्या
(२,१.४क़्) अथो समिद्वत्यव जुहोति
(२,१.४र्) परिधीन्त्संमार्ष्टि
(२,१.४स्) पुनात्येवैनान्_
(२,१.४त्) सकृत्सकृत्संमार्ष्टि
(२,१.४उ) पराङेव ह्येतर्हि यज्ञः_
(२,१.४व्) चतुः संपद्यते_
(२,१.४w) अथो चतुष्पादः पशवः
(२,१.४x) पशूनां आप्त्यै
(२,१.४य्) देव सवितरेतत्ते प्राहेत्याह प्रसूत्यै
(२,१.४ज़्) बृहस्पतिर्ब्रह्मेत्याह
(२,१.४आ) स हि ब्रह्मिष्ठः
(२,१.४ब्ब्) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्याह
(२,१.४च्च्) यज्ञाय च यजमानाय च पशूनां आप्त्यै । । ४ । ।

(२,१.५अ) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते
(२,१.५ब्) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै_
(२,१.५च्) इष्टी वा एतेन यद्यजतेऽथो वा एतेन पूर्ती य एष ओदनः पच्यते_
(२,१.५द्) एष ह वा इष्टापूर्ती य एनं पचति । । ५ । ।

(२,१.६अ) द्वया वै देवा यजमानस्य गृहं आगच्छन्ति सोमपा अन्येऽसोमपा अन्ये
(२,१.६ब्) हुतादोऽन्येऽहुतादोऽन्ये_
(२,१.६च्) एते वै देवा अहुतादो यद्ब्राह्मणाः_
(२,१.६द्) एतद्देवत्य एष यः पुरानीजानः_
(२,१.६ए) एते ह वा एतस्य प्रजायाः पशूनां ईशते
(२,१.६फ़्) तेऽस्याप्रीता इषं ऊर्जं आदायापक्रामन्ति
(२,१.६ग्) यदन्वाहार्यं अन्वाहरति तानेव तेन प्रीणाति
(२,१.६ह्) दक्षिणतःसद्भ्यः परिहर्तवा आह
(२,१.६इ) दक्षिणावतैव यज्ञेन यजते_
(२,१.६ज्) आहुतिभिरेव देवान्हुतादः प्रीणाति दक्षिणाभिर्मनुष्यदेवान्_
(२,१.६क्) तेऽस्मै प्रीता इषं ऊर्जं नियच्छन्ति । । ६ । ।

(२,१.७अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(२,१.७ब्) ते देवाः प्रजापतिं एवाभ्ययजन्त_
(२,१.७च्) अन्योऽन्यस्यासन्नसुरा अजुहवुस्
(२,१.७द्) ते देवा एतं ओदनं अपश्यन्_
(२,१.७ए) तं प्रजापतये भागं अनुनिरवपन्_
(२,१.७फ़्) तं भागं पश्यन्प्रजापतिर्देवानुपावर्तत
(२,१.७ग्) ततो देवा अभवन्परासुराः
(२,१.७ह्) स य एवंविद्वानेतं ओदनं पचति भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति
(२,१.७इ) प्रजापतिर्वै देवेभ्यो भागधेयानि व्यकल्पयत्
(२,१.७ज्) सोऽमन्यतात्मानं अन्तरगां इति
(२,१.७क्) स एतं ओदनं अभक्तं अपश्यत्
(२,१.७ल्) तं आत्मने भागं निरवपत्
(२,१.७म्) प्रजापतेर्वा एष भागः_
(२,१.७न्) अपरिमितः स्यात्_
(२,१.७ओ) अपरिमितो हि प्रजापतिः
(२,१.७प्) प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान्
(२,१.७क़्) अक्षितोऽसि_
(२,१.७र्) अक्षित्यै त्वा
(२,१.७स्) मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च
(२,१.७त्) प्राणापनौ मे पाहि
(२,१.७उ) समानव्यानौ मे पाहि_
(२,१.७व्) उदानरूपे मे पाहि_
(२,१.७w) ऊर्गसि_
(२,१.७x) ऊर्जं मे धेहि
(२,१.७य्) कुर्वतो मे मा क्षेष्ठाः_
(२,१.७ज़्) ददतो मे मोपदसः
(२,१.७आ) प्रजापतिं अहं त्वया समक्षं ऋध्यासं इति
(२,१.७ब्ब्) प्रजापतिं एव समक्षं ऋध्नोति य एवं वेद य एवं वेद । । ७ । ।

(२,१.८अ) ये वा इह यज्ञैरार्ध्नुवंस्तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि
(२,१.८ब्) तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षीयन्ति
(२,१.८च्) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ
(२,१.८द्) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि पतन्तीव
(२,१.८ए) तद्यथा ह वा इदं अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैतेऽमुष्मांल्लोकान्नोनुद्यन्ते
(२,१.८फ़्) त एते प्रच्यवन्ते । । ८ । ।

(२,१.९अ) यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्तांस्त्रेधा ताण्डुलान्विभजेत्_
(२,१.९ब्) ये मध्यमास्तानग्नये दात्रेऽष्टाकपालं निर्वपेत्_
(२,१.९च्) ये स्थविष्ठास्तानिन्द्राय प्रादात्रे दधनि चरुम्_
(२,१.९द्) ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्_ [एद्. क्षोदिस्थास्, चोर्र्. Pअत्यल्]
(२,१.९ए) पशवो वा एतेऽतिरिच्यन्ते
(२,१.९फ़्) तानेवाप्नोति
(२,१.९ग्) तानवरुन्द्धे_
(२,१.९ह्) अग्निर्वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता
(२,१.९इ) यदेवेदं क्षुद्रं पशूनां तद्विष्णोः शिपिविष्टम्_
(२,१.९ज्) तदेवाप्नोति
(२,१.९क्) पशूनेवावरुन्द्धे । । ९ । ।

(२,१.१०अ) या पूर्वा पौर्णमासी सानुमतिः_
(२,१.१०ब्) योत्तरा राका
(२,१.१०च्) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः_
(२,१.१०द्) चन्द्रमा एव धाता च विधाता च
(२,१.१०ए) यत्पूर्णोऽन्यां वसत्यपूर्णोऽन्यां तन्मिथुनम्_
(२,१.१०फ़्) यत्पश्यत्यन्यां नान्यां तन्मिथुनम्_
(२,१.१०ग्) यदमावास्यायाश्चन्द्रमा अधि प्रजायते तन्मिथुनम्_
(२,१.१०ह्) तस्मादेवास्मै मिथुनात्पशून्प्रजनयति । । १० । ।

(२,१.११अ) न द्वे यजेत
(२,१.११ब्) यत्पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्_
(२,१.११च्) यदुत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्_
(२,१.११द्) नेष्टिर्भवति न यज्ञस्
(२,१.११ए) तदनु ह्रीतमुख्यपगल्भो जायते_
(२,१.११फ़्) एकां एव यजेत
(२,१.११ग्) प्रगल्भो हैव जायते_
(२,१.११ह्) अनादृत्य तद्द्वे यजेत
(२,१.११इ) यज्ञमुखं एव पूर्वयालभते यजत उत्तरया
(२,१.११ज्) देवता एवं पूर्वयाप्नोतीन्द्रियं उत्तर्या
(२,१.११क्) देवलोकं एव पूर्वयावरुन्द्धे मनुष्यलोकं उत्तरया भूयसो यज्ञक्रतूनुपैत्य_
(२,१.११ल्) एषा ह वै सुमना नामेष्टिः_
(२,१.११म्) यं अद्येजानं पश्चाच्चन्द्रमा अभ्युदियादस्मा अस्मिंल्लोक आर्धुकं भवति । । ११ । ।

(२,१.१२अ) अग्नावैष्णवं एकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समाणः_
(२,१.१२ब्) अग्निर्वै सर्वा देवता विष्णुर्यज्ञः_
(२,१.१२च्) देवताश्चैव यज्ञं चारभत ऋद्ध्यै_
(२,१.१२द्) ऋध्नोत्येव_
(२,१.१२ए) उभौ सहारम्भावित्याहुः_
(२,१.१२फ़्) उदिन्नु शृङ्गे सितो मुच्यत इति
(२,१.१२ग्) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः_
(२,१.१२ह्) अथ यत्परस्तात्पौर्णमास आरभ्यते तद्यथा पूर्वं क्रियते
(२,१.१२इ) तद्यत्पौर्णमासं आरभमाणः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालं अमावास्या वै सरस्वती पौर्णमासः सरस्वानिति_
(२,१.१२ज्) उभावेवैनौ सहारभत ऋद्ध्यै_
(२,१.१२क्) ऋध्नोत्येव । । १२ । ।

(२,१.१३अ) अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य प्रज्ञातेष्टिरतिपद्यते
(२,१.१३ब्) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिरतिपद्यते_
(२,१.१३च्) अग्निर्वै देवानां पथिकृत्
(२,१.१३द्) तं एव भागधेयेनोपासरत्
(२,१.१३ए) स एनं पन्थानं अपिनयति_
(२,१.१३फ़्) अनड्वान्दक्षिणा
(२,१.१३ग्) स हि पन्थानं अभिवहति । । १३ । ।

(२,१.१४अ) अग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन्प्रवसेत्_
(२,१.१४ब्) बहु वा एष व्रतं अतिपातयति य आहिताग्निः सन्प्रवसति व्रत्येऽहनि स्त्रियं वोपैति मांसं वाश्नाति_
(२,१.१४च्) अग्निर्वै देवानां व्रतपतिः_
(२,१.१४द्) अग्निं एतस्य व्रतं अगात्
(२,१.१४ए) तस्मादेतस्य व्रतं आलम्भयते । । १४ । ।

(२,१.१५अ) अग्नये व्रतभृतेऽष्टाकपालं निर्वपेद्य आहिताग्निरार्तिजं अश्रु कुर्यात्_
(२,१.१५ब्) आनीतो वा एष देवानां य आहिताग्निस्
(२,१.१५च्) तस्मादेतेनाश्रु न कर्तव्यम्_
(२,१.१५द्) न हि देवा अश्रु कुर्वन्ति_
(२,१.१५ए) अग्निर्वै देवानां व्रतभृत्_
(२,१.१५फ़्) अग्निं एतस्य व्रतं अगात्
(२,१.१५ग्) तस्मादेतस्य व्रतं आलम्भयते । । १५ । ।

(२,१.१६अ) ऐन्द्राग्नं उस्रं अनुसृष्टं आलभेत यस्य पिता पितामहः सोमं न पिबेत्_
(२,१.१६ब्) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति
(२,१.१६च्) यदैन्द्र इन्द्रियेणैवैनं तद्वीर्येण समर्धयति
(२,१.१६द्) देवताभिर्वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति
(२,१.१६ए) यदाग्नेयोऽग्निर्वै सर्वा देवताः
(२,१.१६फ़्) सर्वाभिरेवैनं तद्देवताभिः समर्धयति_
(२,१.१६ग्) अनुसृष्टो भवति_
(२,१.१६ह्) अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति
(२,१.१६इ) तस्मादेष एव तस्या देवतायाः पशूनां समृद्धः । । १६ । ।

(२,१.१७अ) देवा वा ओषधीषु पक्वास्वाजिं अयुः
(२,१.१७ब्) स इन्द्रोऽवेदग्निर्वावेमाः प्रथम उज्जेष्यतीति
(२,१.१७च्) सोऽब्रवीद्यतरो नौ पूर्व उज्जयात्तन्नौ सहेति
(२,१.१७द्) ता अग्निरुदजयत्
(२,१.१७ए) तदिन्द्रोऽनूदजयत्
(२,१.१७फ़्) स एष ऐन्द्राग्नः सन्नाग्नेन्द्रः_
(२,१.१७ग्) एका वै तर्हि यवस्य श्नुष्टिरासीदेका व्रीहेरेका माषस्यैका तिलस्य
(२,१.१७ह्) तद्विश्वे देवा अब्रुवन्वयं वा एतत्प्रथयिष्यामो भागो नोऽस्त्विति
(२,१.१७इ) तद्भूम एव वैश्वदेवः_
(२,१.१७ज्) अथो प्रथयत्येतेनैव
(२,१.१७क्) पयसि स्याद्वैश्वदेवत्वाय
(२,१.१७ल्) वैश्वदेवं हि पयः_
(२,१.१७म्) अथेमावब्रूतां न वा ऋत आवाभ्यां एवैतद्यूयं प्रथयत मयि प्रतिष्ठितं असौ वृष्ट्या पचति नैतदितोऽभ्युज्जेष्यतीति
(२,१.१७न्) भागो नावस्त्विति
(२,१.१७ओ) ताभ्यां वा एष भागः क्रियत उज्जित्या एव_
(२,१.१७प्) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः
(२,१.१७क़्) स्ॐईर्वा ओषधीः
(२,१.१७र्) सोम ओषधीनां अधिराजः_
(२,१.१७स्) याश्च ग्राम्या याश्चारण्यास्तासां एष उद्धारो यच्छ्यामाकः_
(२,१.१७त्) यच्छ्यामाकः स्ॐयस्तं एव भागिनं कृणुते
(२,१.१७उ) यदकृत्वाग्रयणं नवस्याश्नीयाद्देवानां भागं प्रतिक्ळ्प्तं अद्यात्
(२,१.१७व्) संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम्_
(२,१.१७w) संवत्सरं वै ब्रह्मा
(२,१.१७x) तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्वावपेत_
(२,१.१७य्) एकहायनी दक्षिणा
(२,१.१७ज़्) स हि संवत्सरस्य प्रतिमा
(२,१.१७आ) रेत एव ह्येषोऽप्रजातः
(२,१.१७ब्ब्) प्रजात्यै । । १७ । ।

(२,१.१८अ) अथ हैतदप्रतिरथं <इन्द्रस्य बाहू स्थविरौ वृषाणौ>_ इति_
(२,१.१८ब्) एतेन ह वा इन्द्रोऽसुरान्प्रत्यजयत्_ [एद्.ऽसुरान]
(२,१.१८च्) अप्रति ह भवत्येतेन यजमानो भ्रातृव्यं जयति
(२,१.१८द्) संग्रामे जुहुयादप्रति ह भवति_
(२,१.१८ए) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत्
(२,१.१८फ़्) स राष्ट्र्यभवत्_
(२,१.१८ग्) यं कामयेत राष्ट्री स्यादिति तं एतेन संनह्येत्_
(२,१.१८ह्) राष्ट्री ह भवति_
(२,१.१८इ) एतेन ह वा इन्द्रो विराजं अभ्यजयत्_
(२,१.१८ज्) दशैवान्वाह
(२,१.१८क्) दशाक्षरा विराड्वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते
(२,१.१८ल्) तदु हैक एकादशान्वाहुः_
(२,१.१८म्) एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः_
(२,१.१८न्) वज्रेणैवैतद्रक्षांस्यपसेधति
(२,१.१८ओ) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन्_
(२,१.१८प्) तान्यप्रतिरथेनापाघ्नत
(२,१.१८क़्) तस्माद्ब्रह्माप्रतिरथं जपन्नेति
(२,१.१८र्) यद्ब्रह्माप्रतिरथं जपन्नेति यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै । । १८ । ।

(२,१.१९अ) अथातश्चातुर्मास्यानां प्रयोगः
(२,१.१९ब्) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत
(२,१.१९च्) मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुखं उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व]
(२,१.१९द्) तद्यथा प्रवृत्तस्यान्तौ समेतौ स्यातां एवं एवैतत्संवत्सरस्यान्तौ समेतौ भवतस्
(२,१.१९ए) तद्यत्फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर्यजते मुखत एवैतत्संवत्सरं प्रयुङ्क्ते_
(२,१.१९फ़्) अथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यानि
(२,१.१९ग्) तस्मादृतुसंधिषु प्रयुज्यन्ते_
(२,१.१९ह्) ऋतुसंधिषु वै व्याधिर्जायते
(२,१.१९इ) तान्येतान्यष्टौ हवींस्षि भवन्ति
(२,१.१९ज्) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति
(२,१.१९क्) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः_
(२,१.१९ल्) अथ यदग्निं मन्थन्ति प्रजापतिर्वै वैश्वदेवम्_
(२,१.१९म्) प्रजात्या एव_
(२,१.१९न्) अथैतं दैवं गर्भं प्रजनयति_
(२,१.१९ओ) अथ यत्सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः
(२,१.१९प्) प्रजापतेराप्त्यै
(२,१.१९क़्) अथ यत्सद्वन्तावाज्यभागावसिसंतीति वै सद्वन्तौ भवतः_
(२,१.१९र्) अथ यद्विराजौ संयाज्ये अन्नं वै श्रीर्विराडन्नाद्यस्य श्रियोऽवरुद्ध्यै_ [एद्.ऽवरुद्ध्याऽथ]
(२,१.१९स्) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रीयां विराजं आप्नोति_
(२,१.१९त्) अथो आहुर्दशनीं विराजं इति प्रयाजानुयाजा हवींष्याघारावाज्यभागाविति । । १९ । ।

(२,१.२०अ) अथ यदग्नीषोमौ प्रथमं देवतानां यजत्यग्नीषोमौ वै देवानां मुखम्_
(२,१.२०ब्) मुखत एव तद्देवान्प्रीणाति_
(२,१.२०च्) अथ यत्सवितारं यजत्यसौ वै सविता योऽसौ तपति_
(२,१.२०द्) एतं एव तेन प्रीणाति_
(२,१.२०ए) अथ यत्सरस्वतीं यजति वाग्वै सरस्वती
(२,१.२०फ़्) वाचं एतेन प्रीणाति_
(२,१.२०ग्) अथ यन्पूषणं यजत्यसौ वै पूषा योऽसौ तपति_
(२,१.२०ह्) एतं एव तेन प्रीणाति_
(२,१.२०इ) अथ यन्मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस्
(२,१.२०ज्) तानेव तेन प्रीणाति_
(२,१.२०क्) अथ यद्विश्वान्देवान्यजत्येते वै विश्वे देवा यत्सर्वे देवास्
(२,१.२०ल्) तानेव तेन प्रीणाति_
(२,१.२०म्) अथ यद्द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ
(२,१.२०न्) प्रतिष्ठित्या एव_
(२,१.२०ओ) अथ यद्वाजिनो यजति पशवो वै वाजिनः
(२,१.२०प्) पशूनेव तेन प्रीणाति_
(२,१.२०क़्) अथो ऋतवो वै वाजिनः_
(२,१.२०र्) ऋतूनेव तेन प्रीणाति_
(२,१.२०स्) अथो छन्दांसि वै वाजिनः_
(२,१.२०त्) छन्दांस्येव तेन प्रीणाति_
(२,१.२०उ) अथो देवाश्वा वै वाजिनः_
(२,१.२०व्) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति_
(२,१.२०w) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति । । २० । ।

(२,१.२१अ) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत
(२,१.२१ब्) ताः सृष्टा अप्रसूता वरुणस्य यवाञ्जक्षुस्
(२,१.२१च्) ता वरुणो वरुणपाशैः प्रत्यबन्धात्
(२,१.२१द्) ताः प्रजाः प्रजापतिं पितरं एत्योपावदन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणं अप्रीणात्
(२,१.२१ए) स प्रीतो वरुणः_
(२,१.२१फ़्) वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्त इति
(२,१.२१ग्) तत एतं प्रजापतिर्यज्ञक्रतुं अपश्यद्वरुणप्रघासान्_
(२,१.२१ह्) तं आहरत्
(२,१.२१इ) तेनायजत
(२,१.२१ज्) तेनेष्ट्वा वरुणं अप्रीणात्
(२,१.२१क्) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत्
(२,१.२१ल्) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनो मुच्यन्ते
(२,१.२१म्) य एवं वेद_
(२,१.२१न्) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२१ओ) यन्मथ्यते तस्योक्तं ब्राह्मणम्
(२,१.२१प्) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम्
(२,१.२१क़्) अथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि
(२,१.२१र्) समानानि त्वेव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि
(२,१.२१स्) तेषां उक्तं ब्राह्मणं । । २१ । ।

(२,१.२२अ) अथ यदैन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी
(२,१.२२ब्) बलं एव तत्तेजसि प्रतिष्ठापयति_
(२,१.२२च्) अथ यद्वारुण्यामिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. Pअत्यल्]
(२,१.२२द्) स उ वै पयोभाजनस्
(२,१.२२ए) तस्माद्वारुण्यामिक्षा_ [एद्. अमिक्षा]
(२,१.२२फ़्) अथ यन्मारुती पयस्याप्सु वै मरुतः श्रिताः_ [एद्. श्रितः. चोर्र्. Pअत्यल्]
(२,१.२२ग्) आपो हि पयः_
(२,१.२२ह्) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस्
(२,१.२२इ) तस्मान्मारुती पयस्या_
(२,१.२२ज्) अथ यत्काय एककपालः प्रजापतिर्वै कः
(२,१.२२क्) प्रजापतेराप्त्या
(२,१.२२ल्) अथो सुखस्य वा एतन्नामधेयं कं इति [एद्. नामघेयम्]
(२,१.२२म्) सुखं एव तदध्यात्मन्धत्ते_
(२,१.२२न्) अथ यन्मिथुनौ गावौ ददाति तत्प्रजात्यै रूपम्
(२,१.२२ओ) उक्थ्या वाजिनः_
(२,१.२२प्) अथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणाति_
(२,१.२२क़्) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं भवति । । २२ । ।

(२,१.२३अ) ऐन्द्रो वा एष यज्ञक्रतुर्यत्साकमेधास्
(२,१.२३ब्) तद्यथा महाराजः पुरस्तात्सेनानीकानि व्युह्याभयं पन्थानं अन्वियादेवं एवैतत्पुरस्ताद्देवता यजति [एद्. सैनानीकानि, चोर्र्. Pअत्यल्]
(२,१.२३च्) तद्यथैवादः सोमस्य महाव्रतं एवं एवैतदिष्टिमहाव्रतम्
(२,१.२३द्) अथ यदग्निं अनीकवन्तं प्रथमं देवतानां यजत्यग्निर्वै देवानां मुखम्_
(२,१.२३ए) मुखत एव तद्देवान्प्रीणाति_
(२,१.२३फ़्) अथ यन्मध्यंदिने मरुतः सांतपनान्यजतीन्द्रो वै मरुतः संतपनाः_
(२,१.२३ग्) ऐन्द्रं माध्यंदिनम्_
(२,१.२३ह्) तस्मादेतानिन्द्रेणोपसंहितान्यजति_
(२,१.२३इ) अथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः
(२,१.२३ज्) सायं पोषः पशूनाम्_
(२,१.२३क्) तस्मात्सायं गृहमेधीयेन चरन्ति_
(२,१.२३ल्) अतह्यच्छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत्प्रातः कर्मोपसंतन्वन्ति_
(२,१.२३म्) अथ यत्प्रातर्मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस्
(२,१.२३न्) तस्मादेनानिन्द्रेणोपसंहितान्यजति_
(२,१.२३ओ) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२३प्) यन्मथ्यते तस्योक्तं ब्राह्मणम्
(२,१.२३क़्) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम्
(२,१.२३र्) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्वेव षट्संचराणि हवींषि भवन्त्यैन्द्राग्नान्तानि
(२,१.२३स्) तेषां उक्तं ब्राह्मणम्
(२,१.२३त्) अथ यन्महेन्द्रं अन्ततो यजत्यन्तं वै श्रेष्ठी भजते
(२,१.२३उ) तस्मादेनं अन्ततो यजति_
(२,१.२३व्) अथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपति_
(२,१.२३w) एतं एव तेन प्रीणाति_
(२,१.२३x) अथ यदृषभं ददात्यैन्द्रो ह यज्ञक्रतुः । । २३ । ।

(२,१.२४अ) अथ यदपराह्णे पितृयज्ञेन चरन्त्यपराह्णभाजो वै पितरस्
(२,१.२४ब्) तस्मादपराह्णे पितृयज्ञेन चरन्ति
(२,१.२४च्) तदाहुर्यदपरपक्षभाजो वै पितरः कस्मादेनान्पूर्वपक्षे यजन्तीति
(२,१.२४द्) देवा वा एते पितरस्
(२,१.२४ए) तस्मादेनान्पूर्वपक्षे यजन्तीति_
(२,१.२४फ़्) अथ यदेकां सामिधेनीं त्रिरन्वाह सकृद्ह वै पितरस्
(२,१.२४ग्) तस्मादेकां सामिधेनीं त्रिरन्वाह_
(२,१.२४ह्) अथ यद्यजमानस्यार्षेयं नाह नेद्यजमानं प्रवृणजानीति_
(२,१.२४इ) अथ यत्सोमं पितृमन्तं पितॄन्वा सोमवतः पितॄन्बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति
(२,१.२४ज्) न हैके स्वं महिमानं आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति त्वेव स्थितम्
(२,१.२४क्) अग्नेर्ह्येष महिमा भवति_
(२,१.२४ल्) ओं स्वधेत्याश्रावयति_
(२,१.२४म्) अस्तु स्वधेति प्रत्याश्रावयति
(२,१.२४न्) स्वधाकारो हि पितॄणाम्
(२,१.२४ओ) अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्तावुद्धरति प्रजा वै बर्हिर्नेत्प्रजां पितृषु दधानीति
(२,१.२४प्) ते वै षट्संपद्यन्ते
(२,१.२४क़्) षड्वा ऋतवः_
(२,१.२४र्) ऋतवः पितरः
(२,१.२४स्) पितॄणां आप्त्यै । । २४ । ।

(२,१.२५अ) अथ यज्जीवनवन्तावाज्यभागौ भवतो यजमानं एव तज्जीवयति_
(२,१.२५ब्) अथ यदेकैकस्य हविषस्तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्येवैनान्प्रथमया
(२,१.२५च्) द्वितीयया गमयति
(२,१.२५द्) प्रैव तृतीयया यच्छति_
(२,१.२५ए) अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयति_
(२,१.२५फ़्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५ग्) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५ह्) अथ यदग्निं कव्यवाहनं अन्ततो यजत्येतत्स्विष्टकृतो पितरस्
(२,१.२५इ) तस्मादग्निं कव्यवाहनं अन्ततो यजति_
(२,१.२५ज्) अथ यदिडां उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा
(२,१.२५क्) नेत्पशून्प्रवृणजानीति_
(२,१.२५ल्) अथ यत्सूक्तवाके यजमानस्याशिषोऽन्वाह नेद्यजमानं प्रवृणजानीति_
(२,१.२५म्) अथ यत्पत्नीं न संयाजयन्ति नेत्पत्नीं प्रवृणजानीति_
(२,१.२५न्) अथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजं आपः
(२,१.२५ओ) शान्तिरेवैषा भेषजं अन्ततो यज्ञे क्रियते_
(२,१.२५प्) अथ यदध्वर्युः पितृभ्यो निपृणाति जीवानेव तत्पितॄननु मनुष्याः पितरोऽनुप्रवहन्ति_
(२,१.२५क़्) अथो देवयज्ञं एवैनं पितृयज्ञेन व्यावर्तयन्ति_
(२,१.२५र्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५स्) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५त्) अथ यत्प्राञ्चोऽभ्युत्क्रम्यादित्यं उपतिष्ठन्ते देवलोको वा आदित्यः
(२,१.२५उ) पितृलोकः पितरः_
(२,१.२५व्) देवलोकं एवैतत्पितृलोकादुपसंक्रामन्तीति_
(२,१.२५w) अथ यद्दक्षिणाञ्चोऽभ्युत्क्रम्याग्नीनुपतिष्ठन्ते प्रीत्यैव तद्देवेष्वन्ततोऽर्धं चरन्ति_
(२,१.२५x) अथ यदुदञ्चोऽभ्युत्क्रम्य त्रैयंबकैर्यजन्ते रुद्रं एव तत्स्वस्यां दिशि प्रीणन्ति_ [एद्. स्वायां बुत्सी चोर्रिगेन्द प्. ३०२]
(२,१.२५य्) अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयन्ति_
(२,१.२५ज़्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५आ) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५ब्ब्) अथ यदन्तत आदित्येष्ट्या यजतीयं वा अदितिः_
(२,१.२५च्च्) अस्यां एवैनं अन्ततः प्रतिष्ठापयति_
(२,१.२५द्द्) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति । । २५ । ।

(२,१.२६अ) त्रयोदशं वा एतं मासं आप्नोति यच्छुनासीर्येण यजते_
(२,१.२६ब्) एतावान्वै संवत्सरो यावानेष त्रयोदशो मासः_
(२,१.२६च्) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२६द्) यन्मथ्यते तस्योक्तं ब्राह्मणम्_
(२,१.२६ए) यद्यु न मथ्यते पौर्णमासं एव तन्त्रं भवति
(२,१.२६फ़्) प्रतिष्ठा वै पौर्णमासम्_
(२,१.२६ग्) प्रतिष्ठित्या एवाथ यद्वायुं यजति प्राणो वै वायुः
(२,१.२६ह्) प्राणं एव तेन प्रीणाति_
(२,१.२६इ) अथ यच्छुनासीरं यजति संवत्सरो वै शुनासीरः
(२,१.२६ज्) संवत्सरं एव तेन प्रीणाति_
(२,१.२६क्) अथ यत्सूर्यं यजत्यसौ वै सूर्यो योऽसौ तपति_
(२,१.२६ल्) एतं एव तेन प्रीणाति_
(२,१.२६म्) अथ यच्छ्वेतां दक्षिणां ददात्येतस्यैव तद्रूपं क्रियते_
(२,१.२६न्) अथ यत्प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनं एव तत्कुर्वन्ति
(२,१.२६ओ) यज्ञस्यैव शान्तिर्यजमानस्य भैषज्याय
(२,१.२६प्) तैर्वा एतैश्चातुर्मास्यैर्देवाः सर्वान्कामानाप्नुवंत्सर्वा इष्टीः सर्वं अमृतत्वम्_
(२,१.२६क़्) स वा एष प्रजापतिः संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि
(२,१.२६र्) तस्य मुखं एव वैश्वदेवम्_
(२,१.२६स्) बाहू वरुणप्रघासाः
(२,१.२६त्) प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टयः_ [एद्. प्रणो]
(२,१.२६उ) आत्मा महाहविः
(२,१.२६व्) प्रतिष्ठा शुनासीरम्_
(२,१.२६w) स वा एष प्रजापतिरेव संवत्सरो यच्चातुर्मास्यानि
(२,१.२६x) सर्वं वै प्रजापतिः
(२,१.२६य्) सर्वं चातुर्मास्यानि
(२,१.२६ज़्) तत्सर्वेणैव सर्वं आप्नोति य एवं वेद यश्चैवं विद्वांश्चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते

(२,१.२६चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः । ।

(२,२.१अ) ओं मांसीयन्ति वा आहिताग्नेरग्नयस्
(२,२.१ब्) त एनं एवाग्रेऽभिध्यायन्ति यजमानम्_
(२,२.१च्) य एतं ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितं आत्मानं निरवदयते_
(२,२.१द्) आयुष्काम आलभेत
(२,२.१ए) प्राणापानौ वा इन्द्राग्नी
(२,२.१फ़्) प्राणापानावेवात्मनि धत्ते_
(२,२.१ग्) आयुष्मान्भवति
(२,२.१ह्) प्रजाकाम आलभेत
(२,२.१इ) प्राणापानौ वा इन्द्राग्नी
(२,२.१ज्) प्राणापानौ प्रजा अनुप्रजायन्ते
(२,२.१क्) प्रजावान्भवति
(२,२.१ल्) पशुकाम आलभेत
(२,२.१म्) प्राणापानौ वा इन्द्राग्नी
(२,२.१न्) प्राणापानौ पशवोऽनुप्रजायन्ते
(२,२.१ओ) पशुमान्भवति
(२,२.१प्) यामं शुकं हारितं आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्यां इति_ [एद्. शुकहरितं, चोर्र्. Pअत्यल्]
(२,२.१क़्) एतेन ह वै यमोऽमुष्मिंल्लोक आर्ध्नोत्
(२,२.१र्) पितृलोक एवार्ध्नोति
(२,२.१स्) त्वाष्ट्रं वडवं आलभेत प्रजाकामः
(२,२.१त्) प्रजापतिर्वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत्[एद्. सिसृक्समाणः, चोर्रेच्तेद्प्. ३०२; Pअत्यलः रेअद्नाविन्दत?]
(२,२.१उ) स त्वाष्ट्रं वडवं अपश्यत्
(२,२.१व्) त्वष्टा हि रूपाणां प्रजनयिता
(२,२.१w) तेन प्रजा असृजत
(२,२.१x) तेन मिथुनं अविन्दत्
(२,२.१य्) प्रजावान्मिथुनवान्भवति य एवं वेद यश्चैवंविद्वानेतं आलभते
(२,२.१ज़्) योनीन्वा एष काम्यान्पशूनालभते योऽनिष्ट्वैन्द्राग्नेन काम्यं पशुं आलभत इष्ट्वालम्भः समृद्ध्यै । । १ । ।

(२,२.२अ) पञ्चधा वै देवा व्युदक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्
(२,२.२ब्) ते देवा अब्रुवन्नसुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मः_
(२,२.२च्) या न इमाः प्रियास्तन्वस्ताः समवद्यामहा इति
(२,२.२द्) ताः समवाद्यन्त
(२,२.२ए) ताभ्यः स निरृच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति
(२,२.२फ़्) यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम्_
(२,२.२ग्) ततो देवा अभवन्परासुरास्
(२,२.२ह्) तस्माद्यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिं आर्छति
(२,२.२इ) यत्तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै
(२,२.२ज्) भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति । । २ । ।

(२,२.३अ) पञ्च कृत्वोऽवद्यति
(२,२.३ब्) पाङ्क्तो यज्ञः
(२,२.३च्) पञ्चधा हि ते ताः समवाद्यन्त_
(२,२.३द्) आपतये त्वा गृह्णामीत्याह
(२,२.३ए) प्राणो वा आपतिः
(२,२.३फ़्) प्राणं एव तेन प्रीणाति
(२,२.३ग्) परिपतये त्वेत्याह
(२,२.३ह्) मनो वै परिपतिः_
(२,२.३इ) मन एव तेन प्रीणाति
(२,२.३ज्) तनूनप्त्र इत्याह
(२,२.३क्) तन्वो हि ते ताः समवाद्यन्त
(२,२.३ल्) शाक्वरायेत्याह
(२,२.३म्) शक्त्यै हि ते ताः समवाद्यन्त
(२,२.३न्) शक्मन ओजिष्ठायेत्याह_
(२,२.३ओ) ओजिष्ठं हि ते तदात्मनः समवाद्यन्त_
(२,२.३प्) अनाधृष्टं इत्याह_
(२,२.३क़्) अनाधृष्टं ह्येतत्_
(२,२.३र्) अनाधृष्यं इत्याह_
(२,२.३स्) अनाधृष्यं ह्येतत्_
(२,२.३त्) देवानां ओज इत्याह
(२,२.३उ) देवानां ह्येतदोजः_
(२,२.३व्) अभिशस्तिपा इत्याह_
(२,२.३w) अभिशस्तिपा ह्येतत्_
(२,२.३x) अनभिशस्तेन्यं इत्याह_
(२,२.३य्) अनभिशस्तेन्यं ह्येतत्_ [एद्. अनभिशस्तेनं, चोर्र्. Pअत्यल्]
(२,२.३ज़्) अनु मे दीक्षां दीक्षापतिर्मन्यतां अनु तपस्तपस्पतिरञ्जसा सत्यं उप गेषं स्विते मा धा इत्याह यथायजुरेवैतत् । । ३ । ।

(२,२.४अ) घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन्_
(२,२.४ब्) स्रुचौ बाहू
(२,२.४च्) तस्मात्स्रुचौ स्ॐईं आहुतिं नाशाते
(२,२.४द्) अवधीयेत सोमस्
(२,२.४ए) तस्मात्स्रुचौ चाज्यं चान्तिकं आहार्षीत्_
(२,२.४फ़्) अन्तिकं इव खलु वा अस्यैतत्प्रचरन्ति यत्तानूनप्त्रेण प्रचरन्ति_
(२,२.४ग्) अंशुरंशुष्टे देव सोमाप्यायतां इन्द्रायैकधनविद इत्याह
(२,२.४ह्) यदेवास्यापवायते यन्मीयते तदेवास्यैतेनाप्याययन्ति_
(२,२.४इ) आ तुभ्यं इन्द्रः प्यायतां आ त्वं इन्द्राय प्यायस्वेत्याह_
(२,२.४ज्) उभावेवेन्द्रं च सोमं चाप्याययन्ति_
(२,२.४क्) आप्याययास्मान्त्सखीन्त्सन्या मेधया प्रजया धनेनेत्याह_
(२,२.४ल्) ऋत्विजो वा एतस्य सखायस्
(२,२.४म्) तानेवास्यैतेनाप्याययन्ति
(२,२.४न्) स्वस्ति ते देव सोम सुत्यां उदृचं अशीयेत्याह_
(२,२.४ओ) आशिषं एवैतां आशास्ते
(२,२.४प्) प्र वा एतस्माल्लोकाच्च्यवन्ते ये सोमं आप्याययन्ति_
(२,२.४क़्) अन्तरिक्षदेवत्यो हि सोम आप्यायितः_
(२,२.४र्) एष्टा राय एष्टा वामानि प्रेषे भगाय
(२,२.४स्) ऋतं ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति
(२,२.४त्) द्यावापृथिवीभ्यां एव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति प्रतितिष्ठति । । ४ । ।

(२,२.५अ) मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्_
(२,२.५ब्) छिद्रं खं इत्युक्तम्_
(२,२.५च्) तस्य मेति प्रतिषेधः_
(२,२.५द्) मा छिद्रं करिष्यतीति
(२,२.५ए) छिद्रो हि यज्ञो भिन्न इवोदधिर्विस्रवति
(२,२.५फ़्) तद्वै खलु छिद्रं भवत्यृत्विग्यजमानविमानाद्वा_
(२,२.५ग्) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानां अप्रयोगाद्यथोक्तानां वा दक्षिणानां अप्रदानाद्धीनाद्वातिरिक्ताद्वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमादिति_
(२,२.५ह्) एतद्वै सर्वं ब्रह्मण्यर्पितम्_
(२,२.५इ) ब्रह्मैव विद्वान्यद्भृग्वङ्गिरोवित्सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनानतिरिक्ताङ्गोऽप्रमत्तो यज्ञं रक्षति
(२,२.५ज्) तस्य प्रमादाद्यदि वाप्यसांनिध्याद्यथा भिन्ना नौरगाधे महत्युदके संप्लवेन्मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां
(२,२.५क्) एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त उत्पाताद्भुतो बहुलोऽथर्वभिरसंस्कृतोऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां
(२,२.५ल्) तदपि श्लोकाः
(२,२.५म्) छिन्नभिन्नोऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् । ।
(२,२.५न्) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते । । [एद्. विरष्यते, चोर्रेच्तेद्प्. ३०२]
(२,२.५ओ) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदादसंस्कृतः । ।
(२,२.५प्) चतुष्पात्सकलो यज्ञश्चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः । ।
(२,२.५क़्) प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः । होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् । । इति
(२,२.५र्) तस्माद्यजमानो भृग्वङ्गिरोविदं एव तत्र ब्रह्माणं वृणीयात्
(२,२.५स्) स हि यज्ञं तारयतीति ब्राह्मणं । । ५ । ।

(२,२.६अ) यज्ञो वै देवेभ्य उदक्रामन्न वोऽहं अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. Pअत्यल्]
(२,२.६ब्) नेति देवा अब्रुवन्नन्नं एव नो भविष्यसीति
(२,२.६च्) तं देवा विमेथिरे
(२,२.६द्) स एभ्यो विहृतो न प्रबभूव
(२,२.६ए) ते होचुर्देवाः_
(२,२.६फ़्) न वै न इत्थं विहृतोऽलं भविष्यति
(२,२.६ग्) हन्तेमं संभरां एति
(२,२.६ह्) तं संजभ्रुस्
(२,२.६इ) तं संभृत्योचुरश्विनाविमं भिषज्यतं इति_ [एद्. अश्विणाव्, चोर्र्. Pअत्यल्]
(२,२.६ज्) अश्विनौ वै देवानां भिषजौ_
(२,२.६क्) अश्विनावध्वर्यू
(२,२.६ल्) तस्मादध्वर्यू घर्मं संभरतस्
(२,२.६म्) तं संभृत्योचतुर्ब्रह्मन्घर्मेण प्रचरिष्यामो होतर्घर्मं अभिष्टुह्युद्गातः सामानि गायेति
(२,२.६न्) प्रचरत घर्मं इत्यनुजानाति
(२,२.६ओ) ब्रह्मप्रसूता हि प्रचरन्ति
(२,२.६प्) ब्रह्म हेदं प्रसवानां ईशे
(२,२.६क़्) सवितृप्रसूततायै
(२,२.६र्) <घर्मं तपामि [PS५.१६.२, सकल अत्Vऐत्S१४.१]> <ब्रह्म जज्ञानं [PS५.२.२, ऋS४.१.१, Vऐत्S१४.१]> <इयं पित्र्या राष्ट्र्येत्वग्रे [PS५.२.१, ऋS४.१.२, Vऐत्S१४.१]>इति घर्मं ताप्यमानं उपासीत शस्त्रवदर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः
(२,२.६स्) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम्_
(२,२.६त्) यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद
(२,२.६उ) देवमिथुनं वा एतद्यद्घर्मस्
(२,२.६व्) तस्मादन्तर्धाय प्रचरन्ति_
(२,२.६w) अन्तर्हिता वै मिथुनं चरन्तीति
(२,२.६x) तदेतद्देवमिथुनं इत्याचक्षते
(२,२.६य्) तस्य यो घर्मस्तच्छिश्नम्_
(२,२.६ज़्) यौ शफौ तावाण्ड्यौ
(२,२.६आ) योपयमनी ते श्रोणिकपाले
(२,२.६ब्ब्) यत्पयस्तद्रेतस्
(२,२.६च्च्) तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय
(२,२.६द्द्) सोऽग्निर्देवयोनिरृङ्मयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकं एति
(२,२.६ई) तदाहुर्न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनं उत्तरे यज्ञक्रतवो भवन्तीति
(२,२.६फ़्फ़्) कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात्_
(२,२.६ग्ग्) आत्मा वै स यज्ञस्येति विज्ञायते_
(२,२.६ह्ह्) अपशिरसा ह वा एष यज्ञेन यजते योऽप्रवर्ग्येण यजते
(२,२.६इइ) शिरो ह वा एतद्यज्ञस्य यत्प्रवर्ग्यस्
(२,२.६ज्ज्) तस्मात्प्रवर्ग्यवतैव याजयेन्नाप्रवग्येण
(२,२.६क्क्) तदप्येषाभ्यनूक्ता <चत्वारि शृङ्गा [PS८.१३.३, सकल अत्ङ्B्र्१,२.१६फ़्]>_इति । । ६ । ।

(२,२.७अ) देवाश्च ह वा ऋषयश्चासुरैः संयत्ता आसन्_ [एद्. चिआसुरैः]
(२,२.७ब्) तेषां असुराणां इमाः पुरः प्रत्यभिजिता आसन्नयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस्
(२,२.७च्) ते देवाः संघातंसंघातं पराजयन्त
(२,२.७द्) तेऽविदुरनायतना हि वै स्मस्
(२,२.७ए) तस्मात्पराजयामहा इति [एद्. पराजयामह, चोर्र्. Pअत्यल्]
(२,२.७फ़्) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रं अन्तरिक्षात्सदः पृथिव्यास्
(२,२.७ग्) ते देवा अब्रुवन्नुपसदं उपायाम_
(२,२.७ह्) उपसदा वै महापुरं जयन्तीति
(२,२.७इ) त एभ्यो लोकेभ्यो निरघ्नन्_
(२,२.७ज्) एकयामुष्माल्लोकादेकयान्तरिक्षादेकया पृथिव्यास्
(२,२.७क्) तस्मादाहुरुपसदा वै महापुरं जयन्तीति
(२,२.७ल्) त एभ्यो लोकेभ्यो निर्हता ऋतून्प्राविशन्_
(२,२.७म्) ते षडुपायन्_
(२,२.७न्) तानुपसद्भिरेवर्तुभ्यो निरघ्नन्
(२,२.७ओ) द्वाभ्यां अमुष्माल्लोकाद्द्वाभ्यां अन्तरिक्षाद्द्वाभ्यां पृथिव्यास्
(२,२.७प्) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्_
(२,२.७क़्) ते द्वादशोपायन्_
(२,२.७र्) तानुपसद्भिरेव संवत्सरान्निरघ्नन्_
(२,२.७स्) चतसृभिरमुष्माल्लोकाच्चतसृभिरन्तरिक्षाच्चतसृभिः पृथिव्यास्
(२,२.७त्) ते संवत्सरान्निर्हता अहोरात्रे प्राविशन्_
(२,२.७उ) ते यत्सायं उपायंस्तेनैनान्रात्र्या अनुदन्त यत्प्रातस्तेनाह्नस्
(२,२.७व्) तस्माद्गौः सायं प्रातस्तनं आप्यायते प्रातः सायन्तनम्_
(२,२.७w) तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयन्_
(२,२.७x) ततो देवा अभवन्परासुराः
(२,२.७य्) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वानुपसदं उपैति । । ७ । ।

(२,२.८अ) न द्वादशाग्निष्टोमस्योपसदः स्युः_
(२,२.८ब्) अशान्ता निर्मृज्युर्न तिस्रोऽहीनस्य_
(२,२.८च्) उपरिष्टाद्यज्ञक्रतुर्गरीयानभिषीदेद्यथा गुरुर्भारो ग्रीवा निःशृणीयादार्तिं आर्छेत्_
(२,२.८द्) द्वादशाहीनस्य कुर्यात्
(२,२.८ए) प्रत्युत्तब्ध्यै सयत्वाय
(२,२.८फ़्) तिस्रोऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय
(२,२.८ग्) ते देवा असुर्यानिमांल्लोकान्नान्ववैतुं अधृष्णुवन्_
(२,२.८ह्) तानग्निना मुखेनान्ववायन्
(२,२.८इ) यदग्निं अन्त्युपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रेऽन्ववनयत्येवं एवैतदग्निना मुखेनेमांल्लोकानभिनयन्तो यन्ति [एद्.ऽन्ववनयन्त्य्, चोर्र्. Pअत्यल्]
(२,२.८ज्) यो ह वै देवान्साध्यान्वेद सिध्यत्यस्मै_
(२,२.८क्) इमे वाव लोका यत्साध्या देवाः
(२,२.८ल्) स य एवं एतान्त्साध्यान्वेद सिध्यत्यस्मै
(२,२.८म्) सिध्यत्यमुष्मै सिध्यत्यस्मै लोकाय य एवंविद्वानुपसदं उपैति । । ८ । ।

(२,२.९अ) अथ यत्राहाध्वर्युरग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यां आह्वयेति तदपरेण गार्हपत्यं प्राङ्मुखस्तिष्ठन्ननवानन्नाग्नीध्रो देवपत्नीर्व्याचष्टे
(२,२.९ब्) पृथिव्यग्नेः पत्नी
(२,२.९च्) वाग्वातस्य पत्नी
(२,२.९द्) सेनेन्द्रस्य पत्नी
(२,२.९ए) धेना बृहस्पतेः पत्नी
(२,२.९फ़्) पथ्या पूष्णः पत्नी
(२,२.९ग्) गायत्री पसूनां पत्नी
(२,२.९ह्) त्रिष्टुब्रुद्राणां पत्नी
(२,२.९इ) जगत्यादित्यानां पत्नी_
(२,२.९ज्) अनुष्टुं मित्रस्य पत्नी
(२,२.९क्) विराड्वरुणस्य पत्नी
(२,२.९ल्) पङ्क्तिर्विष्णोः पत्नी
(२,२.९म्) दीक्षा सोमस्य राज्ञः पत्नीति_
(२,२.९न्) अति भ्रातृव्यानारोहति नैनं भ्रातृव्या आरोहन्त्युपरि भ्रातृव्यानारोहति य एवंविद्वानाग्नीध्रो देवपत्नीर्व्याचष्टे । । ९ । । [एद्. आरुओहन्त्य्, आरुओहति]

(२,२.१०अ) यथा वै रथ एकैकं अरं अभिप्रतितिष्ठन्वर्तत एवं यज्ञ एकैकां तन्वं अभिप्रतितिष्ठन्नेति
(२,२.१०ब्) पुरा प्रचरितोराग्नीध्रीये होतव्याः_
(२,२.१०च्) एतद्ध वा उवाच वासिष्ठः सात्यहव्योऽस्कन्सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाद्याहं सोमं समस्थापयं इति
(२,२.१०द्) नास्य सोम स्कन्दति य एवंविद्वान्त्सोमं पिबति
(२,२.१०ए) स ह स्म वै स आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबति_
(२,२.१०फ़्) अहं वाव सर्वतो यज्ञं वेद य एतान्वेद
(२,२.१०ग्) न मां एष हिंसिष्यतीति
(२,२.१०ह्) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त्सोमं पिबति
(२,२.१०इ) तं ह स्म यदाहुः कस्मात्त्वं इदं आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबसीति
(२,२.१०ज्) देवतास्वेव यज्ञं प्रतिष्ठापयामीत्यब्रवीद्ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान्यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद्ब्रह्मणो, चोर्र्. Pअत्यल्]
(२,२.१०क्) देवतास्वेव यज्ञं प्रतिष्ठापयति
(२,२.१०ल्) यज्ञार्तिं प्रतिजुहुयात्
(२,२.१०म्) सयोनित्वाय
(२,२.१०न्) त्रयस्त्रिंशद्वै यज्ञस्य तन्व इति_
(२,२.१०ओ) एकान्नत्रिंशत्स्तोमभागास्
(२,२.१०प्) त्रीणि सवनानि
(२,२.१०क़्) यज्ञश्चतुर्थः_
(२,२.१०र्) स्तोमभागैरेवैतत्स्तोमभागान्प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्_
(२,२.१०स्) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः_
(२,२.१०त्) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति
(२,२.१०उ) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन्_
(२,२.१०व्) सवितृप्रसूता एव स्तुवन्ति_
(२,२.१०w) ऋध्नुवन्ति_
(२,२.१०x) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे_
(२,२.१०य्) ऋध्यते यजमान ऋध्यते प्रजायाः_ [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद्प्. ३०२]
(२,२.१०ज़्) ऋध्यते पशुभ्यः_
(२,२.१०आ) ऋध्यते ब्रह्मणे यस्यैवंविद्वान्ब्रह्मा भवति । । १० । ।

(२,२.११अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(२,२.११ब्) ते देवाः समावदेव यज्ञे कुर्वाणा आसन्
(२,२.११च्) यदेव दवा अकुर्वत तदसुरा अकुर्वत
(२,२.११द्) ते न व्यावृतं अगच्छन्_
(२,२.११ए) ते देवा अब्रुवन्नयतेमं यज्ञं तिर उपर्यसुरेभ्यस्तंस्यामह इति
(२,२.११फ़्) तं एताभिराच्छाद्योदक्रामन्यजूंषि यज्ञे समिधः स्वाहेति
(२,२.११ग्) तं तिर उपर्यसुरेभ्यो यज्ञं अतन्वत
(२,२.११ह्) तं एषां यज्ञं असुरा नान्ववायन्_
(२,२.११इ) ततो देवा अभवन्परासुराः
(२,२.११ज्) स य एवंविद्वांस्तिर उपर्यसुरेभ्यो यज्ञं तनुते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति_
(२,२.११क्) एतैरेव जुहुयात्समृतयज्ञे चतुर्भिश्चतुर्भिरन्वाख्यायम्_
(२,२.११ल्) पुरस्तात्प्रातरनुवाकस्य जुहुयात्_
(२,२.११म्) एतावान्वै यज्ञो यावानेष यज्ञस्तं वृङ्क्ते
(२,२.११न्) सयज्ञो भवति
(२,२.११ओ) अयज्ञ इतरः_
(२,२.११प्) एतैरेव जुहुयात्पुरस्ताद्द्वादशाहस्य_
(२,२.११क़्) एष ह वै प्रत्यक्षं द्वादशाहस्
(२,२.११र्) तं एवालभ्यैतैरेव जुहुयात्
(२,२.११स्) पुरस्ताद्दीक्षायाः_
(२,२.११त्) एषा ह वै प्रत्यक्षं दीक्षा
(२,२.११उ) तां एवालभ्यैतैरेवातिथ्यं अभिमृशेद्<यज्ञेन यज्ञं अयजन्त देवाः [ऋS७.५.१, PS२०.२.२, Vऐत्S१६.१५]>_ इति । । ११ । ।

(२,२.१२अ) यत्र विजानाति ब्रह्मन्त्सोमोऽस्कन्निति तं एतयालभ्याभिमन्त्रयते<अभूद्देवः सविता वन्द्यो नु न इदानीं अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्[èV४.५४.१]>इति
(२,२.१२ब्) <ये अग्नयो अप्स्वन्तर्[ऋS३.२१.१, Vऐत्S१६.१६, च्फ़्. PS१०.९.१?]> इति सप्तभिरभिजुहोति
(२,२.१२च्) यदेवास्यावस्कन्नं भवति तदेवास्यैतदग्नौ स्वगाकरोति_
(२,२.१२द्) अग्निर्हि सुकृतीनां हविषां प्रतिष्ठा_
(२,२.१२ए) अथ विसृप्य वैप्रुषान्होमाञ्जुहोति <द्रप्सश्चस्कन्द [èV१०.१७.११, PS२०.१३.७, ऋS१८.४.२८, Vऐत्S१६.१७]>इति [एद्. जुह्वति, चोर्र्. Pअत्यल्] (२,२.१२फ़्) या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्यंशुर्वा ता एवास्यैतदाहवनीये स्वगाकरोति [एद्. आहवणीये]
(२,२.१२ग्) आहवनीयो ह्याहुतीनां प्रतिष्ठा
(२,२.१२ह्) <यस्ते द्रप्स स्कन्दति [èV१०.१७.१२अ, PS२०.१३.८अ, Vऐत्S१६.१७]>इति (२,२.१२इ) स्तोको वै द्रप्सः
(२,२.१२ज्) <यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्[èV१०.१७.१२ब्, PS२०.१३.८ब्, Vऐत्S१६.१७]>इति बाहुभिरभिच्युतोऽंशुरधिषवणाभ्यां अधिस्कन्दति
(२,२.१२क्) <अध्वर्योर्वा परि यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतं [PS२०.१३.८च्द्, èV१०.१७.१२च्द्, Vऐत्S१६.१७]> इति
(२,२.१२ल्) तद्यथा वषट्कृतं स्वाहाकृतं हुतं एवं भवति । । १२ । ।

(२,२.१३अ) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्_
(२,२.१३ब्) तं वसिष्ठ एव प्रत्यक्षं अपश्यत्
(२,२.१३च्) सोऽबिभेदितरेभ्य ऋषिभ्यो मा प्रवोचदिति
(२,२.१३द्) सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते_
(२,२.१३ए) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति
(२,२.१३फ़्) तस्मा एतान्स्तोमभागानुवाच
(२,२.१३ग्) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
(२,२.१३ह्) स्तोमो वा एते एतेषां भागस्
(२,२.१३इ) तत्स्तोमभागानां स्तोमभागत्वम्_
(२,२.१३ज्) रश्मिरसि क्षयाय त्वेति
(२,२.१३क्) क्षयो वै देवाः_
(२,२.१३ल्) देवेभ्य एव यज्ञं प्राह
(२,२.१३म्) प्रेतिरसि धर्मणे त्वेति
(२,२.१३न्) धर्मो मनुष्याः_
(२,२.१३ओ) मनुष्येभ्य एव यज्ञं प्राह_
(२,२.१३प्) अन्वितिरसि संधिरसि प्रतिधिरसीति [एद्. अनितिर्, चोर्र्. Pअत्यल्]
(२,२.१३क़्) त्रयो वै लोकाः_
(२,२.१३र्) लोकेष्वेव यज्ञं प्रतिष्ठापयति
(२,२.१३स्) विष्टम्भोऽसीति
(२,२.१३त्) वृष्टिं एवावरुन्द्धे
(२,२.१३उ) प्रावोऽस्यह्नांसीति मिथुनं एव करोति_
(२,२.१३व्) उशिगसि प्रकेतोऽसि सुदितिरसीति_
(२,२.१३w) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग्द्वात्रिंशी स्वरस्त्रयस्त्रिंशस्त्रयस्त्रिंशद्देवाः_
(२,२.१३x) देवेभ्य एव यज्ञं प्राह_
(२,२.१३य्) ओजोऽसि पितृभ्यस्त्वेति
(२,२.१३ज़्) बलं एव तत्पितॄननुसंतनोति
(२,२.१३आ) तन्तुरसि प्रजाभ्यस्त्वेति
(२,२.१३ब्ब्) प्रजा एव पशूननुसंतनोति
(२,२.१३च्च्) रेवदस्योषधीभ्यस्त्वेति_
(२,२.१३द्द्) ओषधीष्वेव यज्ञं प्रतिष्ठापयति
(२,२.१३ई) पृतनाषाडसि पशुभ्यस्त्वेति
(२,२.१३फ़्फ़्) प्रजा एव पशूननुसंतनोति_
(२,२.१३ग्ग्) अभिजिदसीति
(२,२.१३ह्ह्) वज्रो वै षोडशी
(२,२.१३इइ) व्यावृत्तोऽसौ वज्रस्
(२,२.१३ज्ज्) तस्मादेषोऽन्यैर्व्यावृत्तः_
(२,२.१३क्क्) नाभुरसीति
(२,२.१३ल्ल्) प्रजापतिर्वै सप्तदशः
(२,२.१३म्म्) प्रजापतिं एवावरुन्द्धे । । १३ । ।

(२,२.१४अ) अधिपतिरसि धरुणोऽसि संसर्पोऽसि वयोधा असीति
(२,२.१४ब्) प्राणोऽपानश्चक्षुः श्रोत्रं इत्येतानि वै पुरुषं अकरन्प्रणानुपैति
(२,२.१४च्) प्रजात्या एव
(२,२.१४द्) त्रिवृदसि प्रवृदसि स्ववृदस्यनुवृदसीति
(२,२.१४ए) मिथुनं एव करोति_
(२,२.१४फ़्) आरोहोऽसि प्ररोहोऽसि संरोहोऽस्यनुरोहोऽसीति [एद्. आरुओहो]
(२,२.१४ग्) प्रजापतिरेव
(२,२.१४ह्) वसुकोऽसि वस्यष्टिरसि वेषश्रीरसीति
(२,२.१४इ) प्रतिष्ठितिरेव_
(२,२.१४ज्) आक्रमोऽसि संक्रमोऽस्युत्क्रमोऽस्युत्क्रान्तिरसीति_
(२,२.१४क्) ऋद्धिरेव
(२,२.१४ल्) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन्_
(२,२.१४म्) सवितृप्रसूता एव स्तुवन्ति_
(२,२.१४न्) ऋध्नुवन्ति
(२,२.१४ओ) बृहस्पतये स्तुतेति
(२,२.१४प्) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा
(२,२.१४क़्) तदनुमत्यैवों भूर्जनदिति प्रातःसवने_
(२,२.१४र्) ऋग्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेति_
(२,२.१४स्) एवों भुवो जनदिति माध्यंदिने सवने
(२,२.१४त्) यजुर्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तैः_
(२,२.१४उ) स्तुतेत्येवों स्वर्जनदिति तृतीयसवने
(२,२.१४व्) सामभिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेत्येव_
(२,२.१४w) अथ यद्यहीन उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामा वा स्यात्सर्वाभिः सर्वाभिरत ऊर्ध्वं व्याहृतिभिरनुजानाति_
(२,२.१४x) ओं भूर्भुवः स्वर्जनद्वृधत्करद्रुहन्महत्तच्छं ओं इन्द्रवन्त स्तुतेति सेन्द्रान्मापगायत सेन्द्रान्स्तुतेत्येव_
(२,२.१४य्) इन्द्रियवानृद्धिमान्वशीयान्भवति य एवं वेद यश्चैवंविद्वान्त्स्तोमभागैर्यजते । । १४ । ।

(२,२.१५अ) यो ह वा आयतांश्च प्रतियतांश्च स्तोमभागान्विद्यात्स विष्पर्धमानयोः समृतसोमयोर्ब्रह्मा स्यात्
(२,२.१५ब्) <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून्वो देवान्रुद्रान्वो देवानादित्यान्वो देवान्साध्यान्वो देवानाप्त्यान्वो देवान्विश्वान्वो देवान्सर्वान्वो देवान्विश्वतस्परि हवामहे [Vऐत्S१७.७]>
(२,२.१५च्) <जनेभ्योऽस्माकं अस्तु केवलः [Vऐत्S१७.७ (च्फ़्. PS५.४.९च्)]>_
(२,२.१५द्) <इतः कृणोतु वीर्यं [Vऐत्S१७.७ (PS५.४.९द्)]> इति_
(२,२.१५ए) एते ह वा आयताश्च प्रतियताश्च स्तोमभागास्
(२,२.१५फ़्) ताञ्जपन्नुपर्युपरि परेषां ब्रह्माणं अवेक्षेत
(२,२.१५ग्) तत एषां अधःशिरा ब्रह्मा पतति
(२,२.१५ह्) ततो यज्ञस्
(२,२.१५इ) ततो यजमानः_
(२,२.१५ज्) यजमानेऽधःशिरसि पतिते स देशोऽधःशिराः पतति यस्मिन्नर्धे यजन्ते
(२,२.१५क्) देवाश्च ह वा असुराश्च समृतसोमौ यज्ञावतनुताम्
(२,२.१५ल्) अथ बृहस्पतिराङ्गिरसो देवानां ब्रह्मा
(२,२.१५म्) स आयतांश्च प्रतियतांश्च स्तोमभागाञ्जपन्नुपर्युपर्यसुराणां ब्रह्माणं अवैक्षत
(२,२.१५न्) तत एषां अधःशिरा ब्रह्मापतत्
(२,२.१५ओ) ततो यज्ञस्
(२,२.१५प्) ततोऽसुरा इति । । १५ । ।

(२,२.१६अ) देवा यज्ञं पराजयन्त
(२,२.१६ब्) तं आग्नीध्रात्पुनरुपाजयन्त
(२,२.१६च्) तदेतद्यज्ञस्यापराजितं यदाग्नीध्रम्_
(२,२.१६द्) यदाग्नीध्राद्धिष्ण्यान्विहरति तत एवैनं पुनस्तनुते
(२,२.१६ए) पराजित्यै_
(२,२.१६फ़्) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति
(२,२.१६ग्) बहिष्पवमाने स्तुत आह_
(२,२.१६ह्) अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशानलंकुर्विति
(२,२.१६इ) यज्ञं एवापराजित्य पुनस्तन्वाना आयन्ति_
(२,२.१६ज्) अङ्गारैर्द्वे सवने विहरति शलाकाभिस्तृतीयसवनं सश्रुक्रत्वाय_
(२,२.१६क्) अथो संभवत्येवं एवैतत्_
(२,२.१६ल्) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन्_ [एद्. अजिधांसन्]
(२,२.१६म्) तान्याग्नीध्रेणापाघ्नत
(२,२.१६न्) तस्माद्दक्षिणामुखस्तिष्ठन्नग्नीत्प्रत्याश्रावयति
(२,२.१६ओ) यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै । । १६ । ।

(२,२.१७अ) तदाहुरथ कस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति न हविर्यज्ञ इति_
(२,२.१७ब्) अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञः_
(२,२.१७च्) अथ हैषैव कृत्स्ना देवयज्या यत्स्ॐयोऽध्वरस्
(२,२.१७द्) तस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति
(२,२.१७ए) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यद्वाचो मधुमत्तमं तस्मिन्मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण]
(२,२.१७फ़्) तस्माद्वागत ऊर्ध्वं उत्सृष्टा यज्ञं वहति मनसोत्तराम्_
(२,२.१७ग्) मनसा हि मनः प्रीतम्_
(२,२.१७ह्) तदु हैके सप्ताहुतीर्जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रं इति वदन्तः_
(२,२.१७इ) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै
(२,२.१७ज्) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्_
(२,२.१७क्) तस्मात्सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः_
(२,२.१७ल्) जनं ह्येतत्_
(२,२.१७म्) देवलोकं ह्यध्यारोहन्ति
(२,२.१७न्) तेषां एतदायतनं चोदयनं च यदाग्नीध्रं च सदश्च
(२,२.१७ओ) तद्योऽविद्वान्त्संचरत्यार्तिं आर्छत्यि_
(२,२.१७प्) अथ यो विद्वान्त्संचरति न स धिष्णीयां आर्तिं आर्छति । । १७ । । [एद्. विद्वन्त्]

(२,२.१८अ) प्रजापतिर्वै यज्ञस्
(२,२.१८ब्) तस्मिन्त्सर्वे कामाः सर्वा इष्टीः सर्वं अमृतत्वम्_
(२,२.१८च्) तस्य हैते गोप्तारो यद्धिष्ण्यास्
(२,२.१८द्) तान्त्सदः प्रस्रप्स्यन्नमस्करोति
(२,२.१८ए) नमो नम इति
(२,२.१८फ़्) न हि नमस्कारं अति देवास्
(२,२.१८ग्) ते ह नमसिताः कर्तारं अतिसृजन्तीति
(२,२.१८ह्) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति
(२,२.१८इ) न हि नमस्कारं अति देवाः
(२,२.१८ज्) स तत्रैव यजमानः सर्वान्कामानाप्नोति सर्वान्कामानाप्नोति । । १८ । ।

(२,२.१९अ) यो वै सदस्यान्गन्धर्वान्वेद न सदस्यां आर्तिं आर्छति
(२,२.१९ब्) सदः प्रस्रप्स्यन्ब्रूयादुपद्रष्ट्रे नम इति_
(२,२.१९च्) अग्निर्वै द्रष्टा तस्मा उ एवात्मानं परिददाति
(२,२.१९द्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९ए) सदः प्रसृप्य ब्रूयादुपश्रोत्रे नम इति
(२,२.१९फ़्) वायुर्वा उपश्रोता
(२,२.१९ग्) तस्मा उ एवात्मानं परिददाति
(२,२.१९ह्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९इ) सदः प्रसर्पन्ब्रूयादनुख्यात्रे नम इति_
(२,२.१९ज्) आदित्यो वा अनुख्याता
(२,२.१९क्) तस्मा उ एवात्मानं परिददाति
(२,२.१९ल्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९म्) सदः प्रसृप्तो ब्रूयादुपद्रष्ट्रे नम इति
(२,२.१९न्) ब्राह्मणो वा उपद्रष्टा
(२,२.१९ओ) तस्मा उ एवात्मानं परिददाति
(२,२.१९प्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९क़्) ते वै सदस्या गन्धर्वाः
(२,२.१९र्) स य एवं एतान्त्सदस्यान्गन्धर्वानविद्वान्त्सदः प्रसर्पति स सदस्यां आर्तिं आर्छति_
(२,२.१९स्) अथ यो विद्वान्त्संचरति न सदस्यां आर्तिं आर्छति_
(२,२.१९त्) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस्
(२,२.१९उ) ते न सदस्यां आर्तिं आर्छन्ति_
(२,२.१९व्) अथ यान्कामयेत न सदस्यां आर्तिं आर्छेयुरिति तेभ्य एतेन सर्वं सदः परिब्रूयात्
(२,२.१९w) ते न सदस्यां आर्तिं आर्छन्ति_
(२,२.१९x) अथ यं कामयेत प्रमीयतेति तं एतेभ्य आवृश्चेत्
(२,२.१९य्) प्रमीयते । । १९ । ।

(२,२.२०अ) तदाहुर्यदैन्द्रो यज्ञोऽथ कस्माद्द्वावेव प्रातःसवने प्रस्थितानां प्रत्यक्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च_ [एद्. ऐद्रीभ्यां]
(२,२.२०ब्) <इदं ते सोम्यं मधु [èV८.६५.८]>इति होता यजति
(२,२.२०च्) <इन्द्र त्वा वृषभं वयं [èV३.४०.१, Vऐत्S१९.६]> इति ब्राह्मणाच्छंसी
(२,२.२०द्) नानादेवत्याभिरितरे
(२,२.२०ए) कथं तेषां ऐन्द्र्यो भवन्ति
(२,२.२०फ़्) <मित्रं वयं हवामहे [èV१.२३.४अ]>इति मैत्रावरुणो यजति (२,२.२०ग्) <वरुणं सोमपीतये [èV१.२३.४ब्]>इति
(२,२.२०ह्) यद्वै किं च पीतवत्तदैन्द्रं रूपम्_
(२,२.२०इ) तेनेन्द्रं प्रीणाति
(२,२.२०ज्) <मरुतो यस्य हि क्षये [èV१.८६.१अ, ऋS२०.१.२अ]>इति पोता यजति (२,२.२०क्) <स सुगोपातमो जनः [èV१.८६.१च्, ऋS२०.१.२च्]>इति_ [एद्. सुगोपतमो, चोर्रेच्तेद्प्. ३०२]
(२,२.२०ल्) इन्द्रो वै गोपास्
(२,२.२०म्) तदैन्द्रं रूपम्_
(२,२.२०न्) तेनेन्द्रं प्रीणाति_
(२,२.२०ओ) <अग्ने पत्नीरिहा वह [èV१.२२.९अ]>इति नेष्टा यजति (२,२.२०प्) <त्वष्टारं सोमपीतये [èV१.२२.९च्]>इति
(२,२.२०क़्) यद्वै किं च पीतवत्तदैन्द्रं रूपम्_
(२,२.२०र्) तेनेन्द्रं प्रीणाति_
(२,२.२०स्) <उक्षान्नाय वशान्नाय [èV८.४३.११अ, PS३.१२.६अ, ऋS३.२१.६अ ।२०.१.३अ]>इत्याग्नीध्रो यजति (२,२.२०त्) <सोमपृष्ठाय वेधसे [èV८.४३.११ब्, PS३.१२.६ब्, ऋS३.२१.६ब् ।२०.१.३ब्]>इति_
(२,२.२०उ) इन्द्रो वै वेधास्
(२,२.२०व्) तदैन्द्रं रूपम्_
(२,२.२०w) तेनेन्द्रं प्रीणाति
(२,२.२०x) <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>इति (२,२.२०य्) स्वयंसमृद्धा अच्छावाकस्य
(२,२.२०ज़्) एवं उ हैता ऐन्द्र्यो भवन्ति
(२,२.२०आ) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति
(२,२.२०ब्ब्) यद्गायत्र्यस्तेनाग्नेय्यस्
(२,२.२०च्च्) तस्मादेताभिस्त्रयं अवाप्तं भवति । । २० । ।

(२,२.२१अ) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षादैन्द्रीभिर्यजन्ति_
(२,२.२१ब्) अभितृणवतीभिरेके
(२,२.२१च्) <पिबा सोमं अभि यं उग्र तर्दः [èV६.१७.१]>इति होता यजति (२,२.२१द्) <स ईं पाहि य ऋजीषी तरुत्रः [èV६.१७.२]>इति मैत्रावरुणः_
(२,२.२१ए) <एवा पाहि प्रत्नथा मन्दतु त्वा [èV६.१७.३]>इति ब्राह्मणाच्छंसी
(२,२.२१फ़्) <अर्वाङेहि सोमकामं त्वाहुः [èV१.१०४.९]>इति पोता (२,२.२१ग्) <तवायं सोमस्त्वं एह्यर्वाङ्[èV३.३५.६]> इति नेष्टा
(२,२.२१ह्) <इन्द्राय सोमाः प्रदिवो विदानाः [èV३.३६.२]>इत्यच्छावाकः
(२,२.२१इ) <आपूर्णो अस्य कलशः स्वाहा [èV३.३२.१५]>इत्याग्नीध्रः [एद्. स्वहोत्य्]
(२,२.२१ज्) एवं उ हैता अभितृणवत्यो भवन्ति_
(२,२.२१क्) इन्द्रो वै प्रातःसवनं नाभ्यजयत्
(२,२.२१ल्) स एताभिर्माध्यंदिनं सवनं अभ्यतृणत्
(२,२.२१म्) तद्यदेताभिर्माध्यंदिनं सवनं अभ्यतृणत्तस्मादेता अभितृणवत्यो भवन्ति । । २१ । ।

(२,२.२२अ) तदाहुर्यदैन्द्रार्भवं तृतीयसवनं अथ कस्मादेक एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्या यजति_
(२,२.२२ब्) <इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं [èV३.६०.५]> इति होतैव
(२,२.२२च्) नानादेवत्याभिरितरे
(२,२.२२द्) कथं तेषां ऐन्द्रार्भव्यो भवन्ति_
(२,२.२२ए) <इन्द्रावरुणा सुतपाविमं सुतं [èV६.६८.१०, PS२०.७.५अ, ऋS७.५८.१अ]>_ इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद्प्. ३०२]
(२,२.२२फ़्) <युवो रथो अध्वरो देववीतये [PS२०.७.५च्, ऋS७.५८.१च्, èV६.६८.१०च्]>इति बहूनि वाह (२,२.२२ग्) तदृभूणां रूपम् (२,२.२२ह्) <इन्द्रश्च सोमं पिबतं बृहस्पतये [èV४.५०.१०अ, Vऐत्S२२.११]>इति ब्राह्मणाच्छंसी यजति_
(२,२.२२इ) <आ वां विशन्त्विन्दवः स्वाभुवः [èV४.५०.१०च्]>इति बहूनि वाह (२,२.२२ज्) तदृभूणां रूपम् (२,२.२२क्) <आ वो वहन्तु सप्तयो रघुष्यदः [èV१.८५.६अ]>इति पोता यजति
(२,२.२२ल्) <रघुपत्वानः प्र जिगात बाहुभिः [èV१.८५.६ब्]>इति बहूनि वाह (२,२.२२म्) तदृभूणां रूपम् (२,२.२२न्) <अमेव नः सुहवा आ हि गन्तन [èV२.३६.३]>इति नेष्टा यजति
(२,२.२२ओ) गन्तनेति बहूनि वाह
(२,२.२२प्) तदृभूणां रूपम्
(२,२.२२क़्) <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७अ]>इत्यच्छावाको यजति
(२,२.२२र्) <आ वां अन्धांसि मदिराण्यग्मन्[èV६.६९.७च्]>इति बहूनि वाह (२,२.२२स्) तदृभूणां रूपम् (२,२.२२त्) <इमं स्तोमं अर्हते जातवेदसे [èV१.९४.१अ]>इत्याग्नीध्रो यजति
(२,२.२२उ) <रथं इव सं महेमा मनीषया [èV१.९४.१ब्]>इति बहूनि वाह (२,२.२२व्) तदृभूणां रूपम् (२,२.२२w) एवं उ हैता ऐन्द्रार्भव्यो भवन्ति (२,२.२२x) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति (२,२.२२य्) यदु जगत्प्रासाहा जागतं उ वै तृतीयसवनम्
(२,२.२२ज़्) तृतीयसवनस्य समष्ट्यै । । २२ । ।

(२,२.२३अ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(२,२.२३ब्) विचक्षयन्ति ब्राह्मणम्_
(२,२.२३च्) चनसयन्ति प्राजापत्यम्_
(२,२.२३द्) सत्यं वदन्ति_
(२,२.२३ए) एतद्वै मनुष्येषु सत्यं यच्चक्षुस्
(२,२.२३फ़्) तस्मादाहुराचक्षाणं अद्रागिति
(२,२.२३ग्) स यदाहाद्राक्षं इति तथाहास्य श्रद्दधति
(२,२.२३ह्) यद्यु वै स्वयं वै दृष्टं भवति न बहूनां जनानां एष श्रद्दधाति
(२,२.२३इ) तस्माद्विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(२,२.२३ज्) सत्योत्तरा हैवैषां वागुदिता भवति । । २३ । ।

(२,२.२४अ) समृतयज्ञो वा एष यद्दर्शपूर्णमासौ
(२,२.२४ब्) कस्य वाव देवा यज्ञं आगच्छन्ति कस्य वा न
(२,२.२४च्) बहूनां वा एतद्यजमानानां सामान्यं अहस्
(२,२.२४द्) तस्मात्पूर्वेद्युर्देवताः परिगृह्णीयात्_
(२,२.२४ए) यो ह वै पूर्वेद्युर्देवताः परिगृह्णाति तस्य श्वो भूते यज्ञं आगच्छन्ति
(२,२.२४फ़्) तस्माद्विहव्यस्य चतस्र ऋचो जपेत्_
(२,२.२४ग्) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः । । २४ । ।

(२,२.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः । ।

(२,३.१अ) ओं देवपात्रं वै वषट्कारः_
(२,३.१ब्) यद्वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति_
(२,३.१च्) अथो यदाभितृष्यन्तीरभिसंस्थं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति
(२,३.१द्) तद्यथैवादोऽश्वान्वा गा वा पुनरभ्याकारं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति_
(२,३.१ए) इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यान्
(२,३.१फ़्) अथ कस्मात्पूर्वस्मिन्नेवाग्नौ जुह्वति पूर्वस्मिन्वषट्करोति
(२,३.१ग्) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान्प्रीणाति_
(२,३.१ह्) अथ संस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति
(२,३.१इ) तदाहुः को नु सोमस्य स्विष्टकृद्भाग इति
(२,३.१ज्) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव संस्थितान्सोमान्भक्षयन्तीत्याहुः
(२,३.१क्) स उ एष सोमस्य स्विष्टकृद्भागो यदनुवषट्करोति । । १ । ।

(२,३.२अ) वज्रो वै वषट्कारः
(२,३.२ब्) स यं द्विष्यात्तं मनसा ध्यायन्वषट्कुर्यात्
(२,३.२च्) तस्मिंस्तद्वज्रं आस्थापयति
(२,३.२द्) षडिति वषट्करोति
(२,३.२ए) षड्वा ऋतवः_
(२,३.२फ़्) ऋतूनां आप्त्यै
(२,३.२ग्) वौषडिति वषट्करोति_
(२,३.२ह्) असौ वाव वावृतवः षट्_
(२,३.२इ) एतं एव तदृतुष्वादधाति_
(२,३.२ज्) ऋतुषु प्रतिष्ठापयति
(२,३.२क्) तदु ह स्माह वैद एतानि वा एतेन षट्प्रतिष्ठापयति
(२,३.२ल्) द्यौरन्तरिक्षे प्रतिष्ठिता_
(२,३.२म्) अन्तरिक्षं पृथिव्याम्_
(२,३.२न्) पृथिव्यप्सु_
(२,३.२ओ) आपः सत्ये
(२,३.२प्) सत्यं ब्रह्मणि
(२,३.२क़्) ब्रह्म तपसीति_
(२,३.२र्) एता एव तद्देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीरिदं सर्वं अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. Pअत्यल्]
(२,३.२स्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । २ । ।

(२,३.३अ) त्रयो वै वषट्काराः_
(२,३.३ब्) वज्रो धामच्छद्रिक्तः
(२,३.३च्) स यदेवोच्चैर्बलं वषट्करोति स वज्रस्
(२,३.३द्) तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तरीतवे
(२,३.३ए) तस्मात्स भ्रातृव्यवता वषट्कृत्यः_
(२,३.३फ़्) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत्
(२,३.३ग्) तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते
(२,३.३ह्) तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्यः_
(२,३.३इ) अथ येनैव षडपराध्नोति स रिक्तः_
(२,३.३ज्) रिणक्त्यात्मानं रिणक्ति यजमानम्_
(२,३.३क्) पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति
(२,३.३ल्) तस्मात्तस्याशां नेयात्
(२,३.३म्) किं स्वित्स यजमानस्य पापभद्रं आद्रियेतेति ह स्माह योऽस्य वषट्कर्ता भवति_
(२,३.३न्) अत्रैवैनं यथा कामयेत तथा कुर्यात्_
(२,३.३ओ) यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्यर्चं ब्रूयात्तथैवास्य वषट्कुर्यात्
(२,३.३प्) समानं एवैनं तत्करोति
(२,३.३क़्) यं कामयेत पापीयान्स्यादित्युच्चैस्तरां अस्यर्चं ब्रूयान्नीचैस्तरां वषट्कुर्यात्
(२,३.३र्) पापीयांसं एवैनं तत्करोति
(२,३.३स्) यं कामयेत श्रेयान्स्यादिति नीचैस्तरां अस्यर्चं ब्रूयादुच्चैस्तरां वषट्कुर्यात्_
(२,३.३त्) श्रेयांसं एवैनं तत्करोति
(२,३.३उ) श्रिय एवैनं तच्छ्रियं आदधाति । । ३ । ।

(२,३.४अ) यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायन्वषट्कुर्यात्[एद्. दवतायै]
(२,३.४ब्) साक्षादेव तद्देवतां प्रीणाति
(२,३.४च्) प्रत्यक्षाद्देवतां परिगृह्णाति
(२,३.४द्) संततं ऋचा वषट्कृत्यम्_
(२,३.४ए) संतत्यै
(२,३.४फ़्) संधीयते प्रजया पशुभिर्य एवं वेद । । ४ । ।

(२,३.५अ) वज्रो वै वषट्कारः
(२,३.५ब्) स उ एष प्रहृतोऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्_
(२,३.५च्) तस्माद्धाप्येतर्हि भूयानिव मृत्युस्
(२,३.५द्) तस्य हैषैव शान्तिरेषा प्रतिष्ठा यद्वागिति
(२,३.५ए) वषट्कृत्य वागित्यनुमन्त्रयते
(२,३.५फ़्) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेदिति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद्प्. ३०२]
(२,३.५ग्) तदु स्माह दीर्घं एवैतैत्सदप्रभ्वोजः सह ओज इत्यनुमन्त्रयेत_
(२,३.५ह्) ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ
(२,३.५इ) प्रियाभ्यां एव तत्तनूभ्यां समर्धयति
(२,३.५ज्) प्रियया तन्वा समृध्यते य एवं वेद । । ५ । ।

(२,३.६अ) वाक्च वै प्राणापानौ च वषट्कारस्
(२,३.६ब्) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति
(२,३.६च्) ताननुमन्त्रयते वागोजः सह ओजो मयि प्राणापानाविति
(२,३.६द्) वाचं चैव तत्प्राणापानौ च होतात्मनि प्रतिष्ठापयति
(२,३.६ए) सर्वं आयुरेति
(२,३.६फ़्) न पुरा जरसः प्रमीयते य एवं वेद
(२,३.६ग्) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः [èV८.४८.४, Vऐत्S१९.१८]>इत्यात्मानं प्रत्यभिमृशति
(२,३.६ह्) ईश्वरो वा एषोऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुं अनर्हन्मा भक्षयेदिति
(२,३.६इ) तद्यदेतेन प्रत्यभिमृशत्यायुरेवास्मै तत्प्रतिरते_
(२,३.६ज्) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसानाप्याययन्त्यभिरूपाभ्याम्_
(२,३.६क्) यद्यज्ञेऽभिरूपं तत्समृद्धं । । ६ । ।

(२,३.७अ) प्राणा वा ऋतुयाजास्
(२,३.७ब्) तद्यदृतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधति
(२,३.७च्) षडृतुनेति यजन्ति
(२,३.७द्) प्राणं एव तद्यजमाने दधति
(२,३.७ए) चत्वार ऋतुभिरिति यजन्ति_
(२,३.७फ़्) अपानं एव तद्यजमाने दधति
(२,३.७ग्) द्विरृतुनेत्युपरिष्टात्_
(२,३.७ह्) व्यानं एव तद्यजमाने दधति
(२,३.७इ) स चासु संभृतस्त्रेधा विहृतः प्राणोऽपानो व्यान इति [एद्.ऽपाणो]
(२,३.७ज्) ततोऽन्यत्र गुणितस्
(२,३.७क्) तथा ह यजमानः सर्वं आयुरेत्यस्मिंल्लोक आर्ध्नोति_
(२,३.७ल्) आप्नोत्यमृतत्वं अक्षितं स्वर्गे लोके
(२,३.७म्) ते वा एते प्राणा एव यदृतुयाजास्
(२,३.७न्) तस्मादनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. Pअत्यल्]
(२,३.७ओ) प्राणानां सन्तत्यै
(२,३.७प्) सन्तन्ता इव हीमे प्राणाः_
(२,३.७क़्) अथो ऋतवो वा ऋतुयाजाः
(२,३.७र्) संस्थानुवषट्कारः_ [एद्. अनुवषट्कुआरो]
(२,३.७स्) योऽत्रानुवषट्कुर्यादसंस्थितानृतून्संस्थापयेत्_
(२,३.७त्) यस्तं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुःषमं भविष्यतीति शश्वत्तथा स्यात् । । ७ । ।

(२,३.८अ) तदाहुर्यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति
(२,३.८ब्) वाग्वै होता वाक्सर्व ऋत्विजः_
(२,३.८च्) वाग्यक्षद्वाग्यक्षदिति_
(२,३.८द्) अथो सर्वे वा एते सप्त होतारोऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति_
(२,३.८ए) अथ य उपरिष्टाद्द्वादशर्चजामितायै
(२,३.८फ़्) ते वै द्वादश भवन्ति
(२,३.८ग्) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. Pअत्यल्]
(२,३.८ह्) संवत्सरः प्रजापतिः
(२,३.८इ) प्रजापतिर्यज्ञः
(२,३.८ज्) स योऽत्र भक्षयेद्यस्तं तत्र ब्रूयादशान्तो भक्षोऽननुवषट्कृत आत्मानं अन्तरगान्न जीविष्यतीति तथा ह स्यात्_ [एद्.ऽनानुवषट्कृत, चोर्र्. Pअत्यल्]
(२,३.८क्) यो वै भक्षयेत्प्राणो भक्षः प्राण आत्मानं अन्तरगादिति तथैव भवति
(२,३.८ल्) लिम्पेदिवैवावजिघ्रेदत्र च द्विदेवत्येषु चेति
(२,३.८म्) तदु तत्र शासनं वेदयन्ते_
(२,३.८न्) अथ यदभू व्यभिचरतो नान्योन्यं अनुप्रपद्येते अध्वर्यू तस्मादृतुरृतुं नानुप्रपद्यते । । ८ । ।

(२,३.९अ) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत
(२,३.९ब्) ता हिंकारेणैवाभ्यजिघ्रत्[एद्. हिंकारेन, चोर्र्. Pअत्यल्]
(२,३.९च्) ताः प्रजा अश्वं आरंस्तद्बध्यते वा एतद्यज्ञो यद्धवींषि पच्यन्ते यत्सोमः सूयते यत्पशुरालभ्यते
(२,३.९द्) हिंकारेण वा एतत्प्रजापतिर्हतं अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति
(२,३.९ए) तस्मादु हिंक्रियते
(२,३.९फ़्) तस्मादु य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति
(२,३.९ग्) प्रजापतिर्हि तं अभिजिघ्रति
(२,३.९ह्) यच्छकुनिराण्डं अध्यास्ते यन्न सूयते तद्धि सापि हिंकृणोति_
(२,३.९इ) अथो खल्वाहुर्महर्षिर्वा एतद्यज्ञस्याग्रे गेयं अपश्यत्
(२,३.९ज्) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस्
(२,३.९क्) तं देवाश्च ऋषयश्चाब्रुवन्वसिष्ठोऽयं अस्तु यो नो यज्ञस्याग्रे गेयं अद्रागिति
(२,३.९ल्) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस्
(२,३.९म्) ततो वै स देवानां श्रेष्ठोऽभवत्_
(२,३.९न्) येन वै श्रेष्ठस्तेन वसिष्ठस्
(२,३.९ओ) तस्माद्यस्मिन्वासिष्ठो ब्राह्मणः स्यात्तं दक्षिणाया नान्तरीयात्[एद्. स्यांत्]
(२,३.९प्) तथा हास्य प्रीतो हिंकारो भवति_
(२,३.९क़्) अथ देवाश्च ह वा ऋषयश्च यदृक्सामे अपश्यंस्ते ह स्मैते अपश्यन्_
(२,३.९र्) ते यत्रैते अपश्यंस्तत एवैनं सर्वं दोहं अदुहन्_
(२,३.९स्) ते वा एते दुग्धे यातयामे ये ऋक्सामे
(२,३.९त्) ते हिंकारेणैवाप्यायेते
(२,३.९उ) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते
(२,३.९व्) तस्मादु हिंकृत्याध्वर्यवः सोमं अभिषुण्वन्ति
(२,३.९w) हिंकृत्योद्गातारः साम्ना स्तुवन्ति
(२,३.९x) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति
(२,३.९य्) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति
(२,३.९ज़्) तस्मादु हिंक्रियते
(२,३.९आ) प्रजापतिर्हि तं अभिजिघ्रति_
(२,३.९ब्ब्) अथो खल्वाहुरेको वै प्रजापतेर्व्रतं बिभर्ति गौरेव
(२,३.९च्च्) तदुभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति । । ९ । ।

(२,३.१०अ) देवविशः कल्पयितव्या इत्याहुः_
(२,३.१०ब्) छन्दश्छन्दसि प्रतिष्ठाप्यं इति
(२,३.१०च्) शंसावों इत्याह्वयते प्रातःसवने त्र्यक्षरेण
(२,३.१०द्) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(२,३.१०ए) तदष्टाक्षरं संपद्यते_
(२,३.१०फ़्) अष्टाक्षरा वै गायत्री
(२,३.१०ग्) गायत्रीं एवैतत्पुरस्तात्प्रातःसवनेऽचीक्ळ्पताम्
(२,३.१०ह्) उक्थं वाचीत्याह शस्त्वा चतुरक्षरम्
(२,३.१०इ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति चतुरक्षरम्_
(२,३.१०ज्) तदष्टाक्षरं संपद्यते_
(२,३.१०क्) अष्टाक्षरा वै गायत्री
(२,३.१०ल्) गायत्रीं एवैतदुभयतः प्रातःसवनेऽचीक्ळ्पताम्
(२,३.१०म्) अध्वर्यो शंसावों इत्याह्वयते माध्यंदिने षडक्षरेण
(२,३.१०न्) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(२,३.१०ओ) तदेकादशाक्षरं संपद्यते_
(२,३.१०प्) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतत्पुरस्तान्माध्यंदिनेऽचीक्ळ्पताम्
(२,३.१०क़्) उक्थं वाचीन्द्रायेत्याह शस्त्वा षडक्षरम्
(२,३.१०र्) ओमुक्थशा यजेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(२,३.१०स्) तदेकादशाक्षरं संपद्यते_
(२,३.१०त्) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतदुभयतो माध्यंदिनेऽचीक्ळ्पताम्
(२,३.१०उ) अध्वर्यो शंशंसावों इत्याह्वयते तृतीयसवने सप्ताक्षरेण
(२,३.१०व्) शंसवो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(२,३.१०w) तद्द्वादशाक्षरं संपद्यते
(२,३.१०x) द्वादशाक्षरा वै जगती
(२,३.१०य्) जगतीं एवैतत्पुरस्तात्तृतीयसवनेऽचीक्ळ्पताम्
(२,३.१०ज़्) उक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वा नवाक्षरम्
(२,३.१०आ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति त्र्यक्षरम्_
(२,३.१०ब्ब्) तद्द्वादशाक्षरं संपद्यते
(२,३.१०च्च्) द्वादशाक्षरा वै जगती
(२,३.१०द्द्) जगतीं एवैतदुभयतस्तृतीयसवनेऽचीक्ळ्पतां इति_
(२,३.१०ई) एतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति
(२,३.१०फ़्फ़्) कल्पयत्येव देवविशो य एवं वेद
(२,३.१०ग्ग्) तदप्येषाभ्यनूक्ता यद्गायत्रे अधि गायत्रं आहितं इति । । १० । ।

(२,३.११अ) अथैतन्नाना छन्दांस्यन्तरेण गर्ता इव_
(२,३.११ब्) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते
(२,३.११च्) ताभ्यां प्रतिपद्यते
(२,३.११द्) तद्गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्_
(२,३.११ए) तदनवानं संक्रामेत्_
(२,३.११फ़्) अमृतं वै प्रणवः_
(२,३.११ग्) अमृतेनैव तन्मृत्युं तरति
(२,३.११ह्) तद्यथा मत्येन वा वंशेन वा गर्तं संक्रामेदेवं तत्प्रणवेनोपसंतनोति
(२,३.११इ) ब्रह्म ह वै प्रणवः_
(२,३.११ज्) ब्रह्मणैवास्मै तद्ब्रह्मोपसंतनोति
(२,३.११क्) शुद्धः प्रणवः स्यात्प्रजाकामानाम्_
(२,३.११ल्) मकारान्तः प्रतिष्ठाकामानाम्_
(२,३.११म्) मकारान्तः प्रणवः स्यादिति हैक आहुः
(२,३.११न्) शुद्ध इति त्वेव स्थितः_
(२,३.११ओ) मीमांसितः प्रणवः_
(२,३.११प्) अथात इह शुद्ध इह पूर्ण इति
(२,३.११क़्) शुद्धः प्रणवः स्यात्_
(२,३.११र्) शस्त्रानुवचनयोर्मध्य इति ह स्माह कौषीतकिस्
(२,३.११स्) तथा संहितं भवति
(२,३.११त्) मकारान्तोऽवसानार्थे
(२,३.११उ) प्रतिष्ठा वा अवसानम्_
(२,३.११व्) प्रतिष्ठित्या एव_
(२,३.११w) अथोभयोः कामयोराप्त्यै_
(२,३.११x) एतौ वै छन्दःप्रवाहाववरं छन्दः परं छन्दोऽतिप्रवहतस्
(२,३.११य्) तस्यायुर्न हिनस्ति
(२,३.११ज़्) छन्दसां छन्दोऽतिप्रोढं स्यात्तत्रैव यं द्विष्यात्तं मनसा प्रैव विध्येत्_
(२,३.११आ) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति
(२,३.११ब्ब्) त्रिः प्रथमां त्रिरुत्तमां अन्वाह यज्ञस्यैव तद्बर्हिसो नह्यति
(२,३.११च्च्) स्थेम्ने बलायाविस्रंसाय
(२,३.११द्द्) यद्यपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण_
(२,३.११ई) अथो प्रातःसवनरूपेणेति
(२,३.११फ़्फ़्) न त्रिष्टुब्जगत्यावेतस्मिन्स्थानेऽर्धर्चशस्ये यत्किं चिच्छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यं इति सा स्थितिः । । ११ । ।

(२,३.१२अ) अथात एकाहस्य प्रातःसवनम्_
(२,३.१२ब्) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर्मृत्युपाशेन प्रत्युपाक्रामत
(२,३.१२च्) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत
(२,३.१२द्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२ए) तं सामाज्येष्ठसीदत्
(२,३.१२फ़्) स वायव्या प्र”उगं प्रत्यपद्यत
(२,३.१२ग्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२ह्) तं माध्यंदिने पवमानेऽसीदत्
(२,३.१२इ) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत
(२,३.१२ज्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२क्) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियं आसीदत्
(२,३.१२ल्) तं अस्तृणोत्
(२,३.१२म्) तस्मादु य एव पूर्वं आसीदति स तत्स्तृणुते विद्वान्
(२,३.१२न्) मृत्युरनवकाशं अपाद्रवदशंसदितरो निष्केवल्यम्_
(२,३.१२ओ) तस्मादेकं एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यं एव_
(२,३.१२प्) अत्र हि प्रजापतिं मृत्युर्व्यजहात् । । १२ । ।

(२,३.१३अ) मित्रावरुणावब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं मैत्रावरुणीयाम्_
(२,३.१३ब्) तथेत्यब्रूताम्_
(२,३.१३च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१३द्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां मैत्रावरुणीयाम्_
(२,३.१३ए) तस्मान्मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
(२,३.१३फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१३ग्) यद्वेव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः [èV७.६३.५]><उत वां उषसो बुधि साकं सूर्यस्य रश्मिभिः [èV१.१३७.२]>इत्यृचाभ्यनूक्तम्
(२,३.१३ह्) <आ नो मित्रावरुणा [èV३.६२.१६]><आ नो गन्तं रिशादसा [èV५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(२,३.१३इ) <प्र वो मित्राय गायत [èV५.६८.१]>इत्युक्थमुखम्
(२,३.१३ज्) <प्र मित्रयोर्वरुणयोः [èV७.६६.१]>इति पर्यासः
(२,३.१३क्) <आ यातं मित्रावरुणा [èV७.६६.१९]>इति यजति
(२,३.१३ल्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१३म्) वषट्कृत्यानुवषट्करोति
(२,३.१३न्) प्रत्येवाभिमृशन्ते
(२,३.१३ओ) नाप्याययन्ति
(२,३.१३प्) न ह्यनाराशंसाः सीदन्ति । । १३ । ।

(२,३.१४अ) इन्द्रं अब्रवीत्त्वं न इमं यज्ञस्याङ्गं अनुसमाहर ब्राह्मणाच्छंसीयाम्_
(२,३.१४ब्) केन सहेति
(२,३.१४च्) सूर्येनेति
(२,३.१४द्) तथेत्यब्रूताम्_
(२,३.१४ए) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१४फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां ब्राह्मणाच्छंसीयाम्_
(२,३.१४ग्) तस्माद्ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
(२,३.१४ह्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१४इ) यद्वेवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः [èV१०.११२.१]>इत्यृचाभ्यनूक्तम्
(२,३.१४ज्) <आ याहि सुषुमा हि ते [èV८.१७.१, Vऐत्S२१.१]><आ नो याहि सुतावतः [èV८.१७.४, Vऐत्S२१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(२,३.१४क्) <अयं उ त्वा विचर्षणे [èV८.१७.७, Vऐत्S२१.२]>इत्युक्थमुखम् (२,३.१४ल्) <उद्घेदभिश्रुतामघं [èV८.९३.१, Vऐत्S२१.२]> इति पर्यासः
(२,३.१४म्) <इन्द्र क्रतुविदं [èV३.४०.२]> इति यजति_
(२,३.१४न्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१४ओ) वषट्कृत्यानुवषट्करोति
(२,३.१४प्) प्रत्येवाभिमृशन्ते
(२,३.१४क़्) नाप्याययन्ति
(२,३.१४र्) न ह्यनाराशंसाः सीदन्ति । । १४ । ।

(२,३.१५अ) इन्द्राग्नी अब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं अच्छावाकीयाम्_
(२,३.१५ब्) तथेत्यब्रूताम्_
(२,३.१५च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१५द्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां अच्छावाकीयाम्_
(२,३.१५ए) तस्मादच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
(२,३.१५फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१५ग्) यद्वेवैन्द्राग्नानि शंसति <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>इत्यृचाभ्यनूक्तम् (२,३.१५ह्) <इन्द्राग्नी आ गतं [èV३.१२.१]><तोशा वृत्रहणा हुवे [èV३.१२.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद्प्. ३०२]
(२,३.१५इ) <इन्द्राग्नी अपसस्परि [èV३.१२.७]>इत्युक्थमुखम् (२,३.१५ज्) <इहेन्द्राग्नी उपह्वये [èV१.२१.१]>इति पर्यासः_
(२,३.१५क्) <इन्द्राग्नी आ गतम्> इति यजति_
(२,३.१५ल्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१५म्) वषट्कृत्यानुवषट्करोति
(२,३.१५न्) प्रत्येवाभिमृशन्ते
(२,३.१५ओ) नाप्याययन्ति
(२,३.१५प्) न ह्यनाराशंसाः सीदन्ति । । १५ । ।

(२,३.१६अ) अथ शंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
(२,३.१६ब्) चतस्रो वै दिशः_ [एद्. चसस्रो]
(२,३.१६च्) दिक्षु तत्प्रतितिष्ठन्ति_
(२,३.१६द्) अथो चतुष्पादः पशवः
(२,३.१६ए) पशूनां आप्त्यै_
(२,३.१६फ़्) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास्
(२,३.१६ग्) तस्माच्चतुः सर्वे गायत्राणि शंसन्ति
(२,३.१६ह्) गायत्रं हि प्रातःसवनम्_
(२,३.१६इ) सर्वे समवतीभिः परिदधति
(२,३.१६ज्) तद्यत्समवतीभिः परिदधति
(२,३.१६क्) अन्तो वै पर्यासः_
(२,३.१६ल्) अन्त उदर्कः_
(२,३.१६म्) अन्तेनैवान्तं परिदधति
(२,३.१६न्) सर्वे मद्वतीभिर्यजन्ति
(२,३.१६ओ) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,३.१६प्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,३.१६क़्) सर्वेऽनुवषट्कुर्वन्ति
(२,३.१६र्) स्विष्टकृत्वानुवषट्कारः_
(२,३.१६स्) नेत्स्विष्टकृतं अन्तरयामेति_
(२,३.१६त्) अयं वै लोकः प्रातःसवनम्_
(२,३.१६उ) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य
(२,३.१६व्) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति । । १६ । ।

(२,३.१७अ) घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति
(२,३.१७ब्) यज्ञं वा एतद्धन्ति यद्दक्षिणा नीयन्ते
(२,३.१७च्) यज्ञं वा एतद्दक्षयन्ति
(२,३.१७द्) तद्दक्षिणानां दक्षिणात्वम्_
(२,३.१७ए) स्वर्गो वै लोको माध्यंदिनं सवनम्_
(२,३.१७फ़्) यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै
(२,३.१७ग्) बहु देयम्_
(२,३.१७ह्) सेतुं वा एतद्यजमानः संस्कुरुते
(२,३.१७इ) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै
(२,३.१७ज्) द्वाभ्यां गार्हपत्ये जुहोति_
(२,३.१७क्) अध्वर्युरस्याक्रान्तेनाक्रामयति_
(२,३.१७ल्) आग्नेय्याग्नीध्रीये_
(२,३.१७म्) अन्तरिक्षं तेन
(२,३.१७न्) यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके
(२,३.१७ओ) हिरण्यं हस्ते भवति_
(२,३.१७प्) अथ नयति
(२,३.१७क़्) सत्यं वै हिरण्यम्_
(२,३.१७र्) सत्येनैवैनं तन्नयति_
(२,३.१७स्) अग्रेण गार्हपत्यं जघनेन सदोऽन्तराग्नीध्रीयं च सदश्च
(२,३.१७त्) ता उदीचीरन्तराग्नीध्रीयं च सदश्च चात्वालं चोत्सृजन्ति_
(२,३.१७उ) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकं आयन्_
(२,३.१७व्) ता वा एताः पन्थानं अभिवहन्ति । । १७ । ।

(२,३.१८अ) अग्नीधेऽग्रे ददाति
(२,३.१८ब्) यज्ञमुखं वा अग्नीत्_
(२,३.१८च्) यज्ञमुखेनैव तद्यज्ञमुखं समर्धयति
(२,३.१८द्) ब्रह्मणे ददाति
(२,३.१८ए) प्राजापत्यो वै ब्रह्मा
(२,३.१८फ़्) प्रजापतिं एव तया प्रीणाति_
(२,३.१८ग्) ऋत्विग्भ्यो ददाति
(२,३.१८ह्) होत्रा एव तया प्रीणाति
(२,३.१८इ) सदस्येभ्यो ददाति
(२,३.१८ज्) सोमपीथं तया निष्क्रीणीते
(२,३.१८क्) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्_
(२,३.१८ल्) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति
(२,३.१८म्) यां अश्रुश्रुवुषेऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति
(२,३.१८न्) यां अप्रसृप्ताय ददाति वनस्पतस्तया प्रथन्ते
(२,३.१८ओ) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते
(२,३.१८प्) यां भीषा क्षत्रं तया ब्रह्मातीयात्_
(२,३.१८क़्) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा
(२,३.१८र्) यस्तां पुनः प्रतिगृह्णीयाद्व्याघ्र्येनं भूत्वा प्रव्लीनीयात्_
(२,३.१८स्) अन्यया सह प्रतिगृह्णीयात्_
(२,३.१८त्) अथ हैनं न प्रव्लीनाति । । १८ । ।

(२,३.१९अ) यद्गां ददाति वैश्वदेवी वै गौः_
(२,३.१९ब्) विश्वेषां एव तद्देवानां तेन प्रियं धामोपैति
(२,३.१९च्) यदजं ददात्याग्नेयो वा अजः_
(२,३.१९द्) अग्नेरेव तेन प्रियं धामोपैति
(२,३.१९ए) यदविं ददात्याव्यं तेनावजयति
(२,३.१९फ़्) यत्कृतान्नं ददाति मांसं तेन निष्क्रीणीते
(२,३.१९ग्) यदनो वा रथो वा ददाति शरीरं तेन
(२,३.१९ह्) यद्वासो ददाति ब्रृहस्पतिं तेन
(२,३.१९इ) यद्धिरण्यं ददात्यायुस्तेन वर्षीयः कुरुते
(२,३.१९ज्) यदश्वं ददाति सौर्यो वा अश्वः
(२,३.१९क्) सूर्यस्यैव तेन प्रियं धामोपैति_
(२,३.१९ल्) अन्ततः प्रतिहर्त्रे देयम्_
(२,३.१९म्) रौद्रौ वै प्रतिहर्ता
(२,३.१९न्) रुद्रं एव तन्निरवजयति
(२,३.१९ओ) यन्मध्यतः प्रतिहर्त्रे दद्यान्मध्यतो रुद्रं अन्ववयजेत्
(२,३.१९प्) स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत्
(२,३.१९क़्) तदत्रिरपनुनोद
(२,३.१९र्) तदत्रिरन्वपश्यत्_
(२,३.१९स्) यदात्रेयाय हिरण्यं ददाति तम एव तेनापहते_
(२,३.१९त्) अथो ज्योतिरुपरिष्टाद्धारयति
(२,३.१९उ) स्वर्गस्य लोकस्य समष्ट्यै । । १९ । ।

(२,३.२०अ) अथात एकाहस्यैव माध्यंदिनम्
(२,३.२०ब्) ऋक्च वा इदं अग्ने साम चास्तां
(२,३.२०च्) सैव नामर्गासीत्_
(२,३.२०द्) अमो नाम साम
(२,३.२०ए) सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति
(२,३.२०फ़्) नेत्यब्रवीत्साम
(२,३.२०ग्) ज्यायान्वा अतो मम महिमेति
(२,३.२०ह्) ते द्वे भूत्वोपावदताम्_
(२,३.२०इ) ते न प्रति चन समवदत
(२,३.२०ज्) तास्तिस्रो भूत्वोपावदन्
(२,३.२०क्) यत्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवत्_
(२,३.२०ल्) यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति
(२,३.२०म्) तिसृभिरुद्गायन्ति
(२,३.२०न्) तिसृभिर्हि साम संमितं भवति
(२,३.२०ओ) तस्मादेकस्य बह्व्यो जाया भवन्ति
(२,३.२०प्) न हैकस्या बहवः सह पतयः_
(२,३.२०क़्) यद्वै तत्सा चामश्च समवदतां तत्सामाभवत्
(२,३.२०र्) तत्साम्नः सामत्वम्_
(२,३.२०स्) सामन्भवति
(२,३.२०त्) श्रेष्ठतां गच्छति
(२,३.२०उ) यो वै भवति स सामन्भवति_
(२,३.२०व्) असामन्य इति ह निन्दन्ते
(२,३.२०w) ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां आहावश्च हिंकारश्च प्रस्तावश्च प्रथमा चर्गुद्गीथश्च मध्यमा च प्रतीहारश्चोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः
(२,३.२०x) पाङ्क्ताः पशव इति
(२,३.२०य्) यदु विराजं दशिनीं अभिसंपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति
(२,३.२०ज़्) यदु बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति
(२,३.२०आ) तदेनं स्वेन रूपेण समर्धयति [एद्. रुपेण]
(२,३.२०ब्ब्) द्वे तिस्रः करोति पुनरादायम्_
(२,३.२०च्च्) प्रजात्यै रूपम्_
(२,३.२०द्द्) द्वाविवाग्रे भवतस्
(२,३.२०ई) तत उपप्रजायेते । । २० । ।

(२,३.२१अ) आत्मा वै स्तोत्रियः
(२,३.२१ब्) प्रजा अनुरूपः
(२,३.२१च्) पत्नी धाय्या
(२,३.२१द्) पशवः प्रगाथः_
(२,३.२१ए) गृहाः सूक्तम्_
(२,३.२१फ़्) यदन्तरात्मंस्तन्निवित्
(२,३.२१ग्) प्रतिष्ठा परिधानीयान्नं याज्या
(२,३.२१ह्) सोऽस्मिंश्च लोके भवत्यमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु भवति य एवं वेद । । २१ । ।

(२,३.२२अ) स्तोत्रियं शंसति_
(२,३.२२ब्) आत्मा वै स्तोत्रियः
(२,३.२२च्) स मध्यमया वाचा शंस्तव्यः_
(२,३.२२द्) आत्मानं एवास्य तत्कल्पयत्यनुरूपं शंसति
(२,३.२२ए) प्रजा वा अनुरूपः_
(२,३.२२फ़्) तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति
(२,३.२२ग्) प्रतिरूपो हैवास्य प्रजायां आजायते नाप्रतिरूपः_
(२,३.२२ह्) तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति
(२,३.२२इ) स उच्चैस्तरां इव शंस्तव्यः
(२,३.२२ज्) प्रजां एवास्य तच्छ्रेयसीं करोति
(२,३.२२क्) धाय्यां शंसति
(२,३.२२ल्) पत्नी वै धाय्या
(२,३.२२म्) सा नीचैस्तरां इव शंस्तव्या_
(२,३.२२न्) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान्नीचैस्तरां धाय्यां शंसति
(२,३.२२ओ) प्रगाथं शंसति
(२,३.२२प्) पशवो वै प्रगाथः
(२,३.२२क़्) सः स्वरवत्या वाचा शंस्तव्यः
(२,३.२२र्) पशवो वै प्रगाथः
(२,३.२२स्) पशवः स्वरः
(२,३.२२त्) पशूनां आप्त्यै
(२,३.२२उ) सूक्तं शंसति
(२,३.२२व्) गृहा वै सूक्तम्_
(२,३.२२w) प्रतिवीतम्_
(२,३.२२x) तत्प्रतिवीततमया वाचा शंस्तव्यम्_
(२,३.२२य्) स यद्यपि ह दूरात्पशूंल्लभते गृहानेवैनानाजिगमिषति
(२,३.२२ज़्) गृहा हि पशूनां प्रतिष्ठा
(२,३.२२आ) निविदं शंसति
(२,३.२२ब्ब्) यदन्तरात्मंस्तन्निवित्
(२,३.२२च्च्) तदेवास्य तत्कल्पयति
(२,३.२२द्द्) परिधानीयां शंसति
(२,३.२२ई) प्रतिष्ठा वै परिधानीया
(२,३.२२फ़्फ़्) प्रतिष्ठायां एवैनं ततः प्रतिष्ठापयति
(२,३.२२ग्ग्) याज्यया यजति_
(२,३.२२ह्ह्) अन्नं वै याज्या_
(२,३.२२इइ) अन्नाद्यं एवास्य तत्कल्पयति
(२,३.२२ज्ज्) मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च
(२,३.२२क्क्) तद्यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूलं एव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः । । २२ । ।

(२,३.२३अ) तदाहुः किंदेवत्यो यज्ञ इति_
(२,३.२३ब्) ऐन्द्र इति ब्रूयात्_
(२,३.२३च्) ऐन्द्रे वाव यज्ञे सति यथाभागं अन्या देवता अन्वायंस्ताः प्रातःसवने मरुत्वतीये तृतीयसवने च_
(२,३.२३द्) अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात्
(२,३.२३ए) तस्मात्सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३फ़्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३ग्) यद्वेव निष्केवल्यान्येकं ह वा अग्रे सवनं आसीत्प्रातःसवनं एव_
(२,३.२३ह्) अथ हैतं प्रजापतिरिन्द्राय ज्येष्ठाय पुत्रायैतत्सवनं निरमिमीत यन्माध्यंदिनं सवनम्_
(२,३.२३इ) तस्मान्माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३ज्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३क्) यद्वेव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनोऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽउगे होता शंसति
(२,३.२३ल्) तदुभयं मैत्रावरुणं मैत्रावरुणोऽनुशंसति_
(२,३.२३म्) ऐन्द्रं तृचं प्रऽउगे होता शंसति
(२,३.२३न्) तदुभयं ऐन्द्रम्
(२,३.२३ओ) ऐन्द्रं ब्राह्मणाच्छंस्यनुशंसति_
(२,३.२३प्) ऐन्द्राग्नं तृचं प्रऽउगे होता शंसति
(२,३.२३क़्) तदुभयं ऐन्द्राग्नाग्नं अच्छावाकोऽनुशंसति_
(२,३.२३र्) अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात्
(२,३.२३स्) तस्मात्सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३त्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३उ) यद्वेव निष्केवल्यानि <यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य [èV७.९८.५, ऋS२०.८७.५]>इत्यृचाभ्यनूक्तम्
(२,३.२३व्) देवान्ह यज्ञं तन्वानानसुररक्षांस्यजिघांसन्_
(२,३.२३w) तेऽब्रुवन्वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति
(२,३.२३x) मध्यतो वसिष्ठम्
(२,३.२३य्) उत्तरतो भरद्वाजम्_
(२,३.२३ज़्) सर्वाननु विश्वामित्रम्_
(२,३.२३आ) तस्मान्मैत्रावरुणो वामदेवान्न प्रच्यवते वसिष्ठाद्ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात्_
(२,३.२३ब्ब्) एत एवास्मै तदृषयोऽहरहर्नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद । । २३ । ।

(२,३.२३चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः । ।

(२,४.१अ) ओं <कया नश्चित्र आ भुवत्[èV४.३१.१, ऋS२०.१२४.१]> <कया त्वं न ऊत्या [èV८.९३.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,४.१ब्) <कस्तं इन्द्र त्वावसुं [èV७.३२.१४]> इति बार्हतः प्रगाथस् (२,४.१च्) तस्योपरिष्टाद्ब्राह्मणम्
(२,४.१द्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>इत्युक्थमुखम् (२,४.१ए) <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>इति पर्यासः_
(२,४.१फ़्) <उशन्नु षु णः सुमना उपाके [èV४.२०.४]>इति यजति
(२,४.१ग्) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.१ह्) वषट्कृत्यानुवषट्करोति
(२,४.१इ) प्रत्येवाभिमृशन्ते [एद्. सीम्स्तो गिवे एवाभिमृशन्त]
(२,४.१ज्) नाप्याययन्ति
(२,४.१क्) न ह्यनाराशंसाः सीदन्ति । । १ । ।

(२,४.२अ) <तं वो दस्मं ऋतीषहं [èV८.८८.१, ऋS२०.९.१]> <तत्त्वा यामि सुवीर्यं [èV८.३.९, ऋS२०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(२,४.२ब्) <उदु त्ये मधुमत्तमा गिरः [èV८.३.१५, ऋS२०.५९.१]>इति बार्हतः प्रगाथः (२,४.२च्) पशवो वै प्रगाथः (२,४.२द्) पशवः स्वरः (२,४.२ए) पशूनां आप्त्यै
(२,४.२फ़्) अतो मध्यं वै सर्वेषां छन्दसां बृहती
(२,४.२ग्) मध्यं माध्यंदिनं सवनानाम्_
(२,४.२ह्) तन्मध्येनैव मध्यं समर्धयति_
(२,४.२इ) <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>इत्युक्थमुखम् (२,४.२ज्) <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>इति पर्यासः_
(२,४.२क्) <एवेदिन्द्रं वृषणं वज्रबाहुं [èV७.२३.६अ, ऋS२०.१२.६अ]> इति परिदधाति
(२,४.२ल्) <वसिष्ठासो अभ्यर्चन्त्यर्कैः [èV७.२६.६ब्, ऋS२०.१२.६ब्]>इति
(२,४.२म्) अन्नं वा अर्कः_
(२,४.२न्) अन्नाद्यं एवास्मै तत्परिदधाति
(२,४.२ओ) <स न स्तुतो वीरवद्धातु गोमत्[èV७.२६.६च्, ऋS२०.१२.६च्]>इति (२,४.२प्) अन्नं वा अर्कःइति
(२,४.२क़्) प्रजां चैवास्मै तत्पशूंश्चाशास्ते
(२,४.२र्) <यूयं पात स्वस्तिभिः सदा नः [èV७.२६.६द्, ऋS२०.१२.६द्]>इति स्वस्तिमती रूपसमृद्धा (२,४.२स्) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति (२,४.२त्) स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति
(२,४.२उ) <ऋजीषी वज्री वृषभस्तुराषाट्[èV५.४०.४, ऋS२०.१२.७]>इति यजति [एद्. ऋजिषी, चोर्रेच्तेद्प्. ३०२]
(२,४.२व्) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.२w) वषट्कृत्यानुवषट्करोति
(२,४.२x) प्रत्येवाभिमृशन्ते
(२,४.२य्) नाप्याययन्ति
(२,४.२ज़्) न ह्यनाराशंसाः सीदन्ति । । २ । ।

(२,४.३अ) <तरोभिर्वो विदद्वसुं [èV८.६६.१]><तरणिरित्सिषासति [èV७.३२.२०]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ_
(२,४.३ब्) <उदिन्न्वस्य रिच्यते [èV७.३२.१२, ऋS२०.५९.३]>इति बार्हतः प्रगाथस् (२,४.३च्) तस्योक्तं ब्राह्मणम्
(२,४.३द्) <भूय इद्वावृधे वीर्याय [èV६.३०.१]>इत्युक्थमुखम् (२,४.३ए) <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>इति पर्यासस्
(२,४.३फ़्) तस्य दशमीं उद्धरति
(२,४.३ग्) घोरस्य वा आङ्गिरसस्यैतदार्षं नेद्यज्ञं निर्दहेच्छस्यमानम्_
(२,४.३ह्) <पिबा वर्धस्व तव घा सुतासः [èV३.३६.३]>इति यजति
(२,४.३इ) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.३ज्) वषट्कृत्यानुवषट्करोति
(२,४.३क्) प्रत्येवाभिमृशन्ते
(२,४.३ल्) नाप्याययन्ति
(२,४.३म्) न ह्यनाराशंसाः सीदन्ति । । ३ । ।

(२,४.४अ) अथाध्वर्यो शंसावों इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते
(२,४.४ब्) पञ्चपदा पङ्क्तिः
(२,४.४च्) पाङ्क्तो यज्ञः
(२,४.४द्) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति_
(२,४.४ए) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्_
(२,४.४फ़्) सर्वे समवतीभिः परिदधति
(२,४.४ग्) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कः_
(२,४.४ह्) अन्तेनैवान्तं परिदधति
(२,४.४इ) सर्वे मद्वतीभिर्यजन्ति
(२,४.४ज्) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,४.४क्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,४.४ल्) सर्वेऽनुवषट्कुर्वन्ति
(२,४.४म्) स्विष्टकृत्वानुवषट्कारः_
(२,४.४न्) नेत्स्विकृत अन्तरयामेति_
(२,४.४ओ) अन्तरिक्षलोको माध्यंदिनं सवनम्_
(२,४.४प्) तस्य पञ्च दिशः
(२,४.४क़्) पञ्चोक्थानि माध्यंदिनस्य सवनस्य
(२,४.४र्) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति । । ४ । ।

(२,४.५अ) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄनेव तेन प्रीणाति_
(२,४.५ब्) उपांशु पात्नीवतस्याग्नीध्रो यजति
(२,४.५च्) रेतो वै पात्नीवतः_
(२,४.५द्) उपांश्विव वै रेतः सिच्यते
(२,४.५ए) तन्नानुवषट्करोति नेद्रेतः सिक्तं संस्थापयानीति_
(२,४.५फ़्) असंस्थितं इव वै रेतः सिक्तं समृद्धम्_
(२,४.५ग्) संस्था वा एषा यदनुवषट्कारस्
(२,४.५ह्) तस्मान्नानुवषट्करोति
(२,४.५इ) नेष्टुरुपस्थे धिष्ण्यान्ते वासीनो भक्षयति
(२,४.५ज्) पत्नीभाजनं वै नेष्टा_
(२,४.५क्) अग्नीत्पत्नीषु रेतो धत्ते
(२,४.५ल्) रेतसः सिक्ताः प्रजाः प्रजायन्ते
(२,४.५म्) प्रजानां प्रजननाय
(२,४.५न्) प्रजावान्प्रजनयिष्णुर्भवति
(२,४.५ओ) प्रजात्यै
(२,४.५प्) प्रजायते प्रजया पशुभिर्य एवं वेद । । ५ । ।

(२,४.६अ) अथ शाकलाञ्जुह्वति
(२,४.६ब्) तद्यथाहिर्जीर्णायास्त्वचो निर्मुच्येतेषीका वा मुञ्जादेवं हैवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते ये शाकलाञ्जुह्वति
(२,४.६च्) द्रोणकलशे धाना भवन्ति
(२,४.६द्) तासां हस्तैरादधति
(२,४.६ए) पशवो वै धानास्
(२,४.६फ़्) ता आहवनीयस्य भस्मान्ते निवपन्ति
(२,४.६ग्) योनिर्वै पशूनां आहपनीयः
(२,४.६ह्) स्व एवैनांस्तद्गोष्ठे निरपक्रमे निदधति_
(२,४.६इ) अथ सव्यावृतोऽप्सु सोमानाप्याययन्ति
(२,४.६ज्) तान्हान्तर्वेद्यां सादयन्ति
(२,४.६क्) तद्धि सोमस्यायतनम्_
(२,४.६ल्) चात्वालादपरेणाध्वर्युश्चमसानद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति
(२,४.६म्) यदा वा आपश्चौषधयश्च संगच्छन्तेऽथ कृत्स्नः सोमः संपद्यते
(२,४.६न्) ता वैष्णव्यर्चा निनयन्ति
(२,४.६ओ) यज्ञो वै विष्णुः_
(२,४.६प्) यज्ञ एवैनं अन्ततः प्रतिष्ठापयति_
(२,४.६क़्) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद्भक्षेण दैवं भक्षं अन्तर्दधति । । ६ । ।

(२,४.७अ) पूतिर्वा एषोऽमुष्मिंल्लोकेऽध्वर्युं च यजमानं चाभिवहति
(२,४.७ब्) तद्यदेनं दध्नानभिहुत्यावभृथं उपहरेयुर्यथा कुणपं वात्येवं एवैनं तत्करोति_
(२,४.७च्) अथ यदेनं दध्नाभिहुत्यावभृथं उपहरन्ति सर्वं एवैनं सयोनिं संतनुते
(२,४.७द्) समृद्धिं संभरन्ति_
(२,४.७ए) <अभूद्देवः सविता वन्द्यो नु नः [èV४.५४.१]>इति जुहोति (२,४.७फ़्) सर्वं एवैनं सपर्वाणं संभरति [एद्. अवैनं] (२,४.७ग्) तिसृभिस् (२,४.७ह्) त्रिवृद्धि यज्ञः
(२,४.७इ) द्रप्सवतीभिरभिजुहोति
(२,४.७ज्) सर्वं एवैनं सर्वाङ्गं संभरति
(२,४.७क्) स्ॐईभिरभिजुहोति
(२,४.७ल्) सर्वं एवैनं सात्मानं संभरति
(२,४.७म्) पञ्चभिरभिजुहोति
(२,४.७न्) पाङ्क्तो यज्ञः_
(२,४.७ओ) यज्ञं एवावरुन्द्धे
(२,४.७प्) पाङ्क्तः पुरुषः
(२,४.७क़्) पुरुषं एवाप्नोति
(२,४.७र्) पाङ्क्ताः पशवः
(२,४.७स्) पशुष्वेव प्रतितिष्ठति
(२,४.७त्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । ७ । ।

(२,४.८अ) अग्निर्वाव यम इयं यमी
(२,४.८ब्) कुसीदं वा एतद्यमस्य यजमान आदत्ते यदोषधीभिर्वेदिं स्तृणाति
(२,४.८च्) तां यदनुपोष्य प्रयायाद्यातयेरन्नेनं अमुष्मिंल्लोके
(२,४.८द्) यमे यत्कुसीदं <अपमित्यं अप्रतीत्तं [PS१६.४९.१०, ऋS६.११७.१, Vऐत्S२४.१५]> इति वेदिं उपोषति_
(२,४.८ए) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकं एति
(२,४.८फ़्) <विश्वलोप विश्वदावस्य त्वासञ्जुहोमि [ठ्S३.३.८.२, Vऐत्S२४.१६]>इत्याह होताद्वा (२,४.८ग्) यजमानस्यापराभावाय (२,४.८ह्) यदु मिश्रं इव चरन्त्यञ्जलिना सक्तून्प्रदाव्ये जुहुयात्
(२,४.८इ) एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः
(२,४.८ज्) स्वस्यां एवैनं तद्योन्यां सादयति । । ८ । ।

(२,४.९अ) अह्नां विधान्यां एकाष्टकायां अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षं उपोषेत्_
(२,४.९ब्) यदि दहति पुण्यसमं भवति
(२,४.९च्) यति न दहति पापसमं भवति_
(२,४.९द्) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रं उपयन्ति
(२,४.९ए) यो ह वा उपद्रष्टारं उपश्रोतारं अनुख्यातारं एव विद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते_
(२,४.९फ़्) अग्निर्वा उपद्रष्टा
(२,४.९ग्) वायुर्वा उपश्रोता_
(२,४.९ह्) आदित्यो वा अनुख्याता
(२,४.९इ) तान्य एवंविद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते_
(२,४.९ज्) <अयं नो नभसस्पतिः [PS१९.१६.१७, ऋS६.७९.१, च्फ़्. ठ्S३.३.८.५]>इत्याह
(२,४.९क्) अग्निर्वै नभसस्पतिः_
(२,४.९ल्) अग्निं एव तदाहैतं नो गोपायेति
(२,४.९म्) <स त्वं नो नभसस्पतिः [च्फ़्. ठ्S३.३.८.६]>इत्याह (२,४.९न्) वायुर्वै नभसस्पतिः
(२,४.९ओ) वायुं एव तदाहैतं नो गोपायेति
(२,४.९प्) <देव संस्फान [ठ्S३.३.८.६]>इत्याह
(२,४.९क़्) आदित्यो वै देवः संस्फानः_
(२,४.९र्) आदित्यं एव तदाहैतं नो गोपायेति_
(२,४.९स्) <अयं ते योनिः [PS३.३४.१, ऋS३.२०.१]>इत्यरण्योरग्निं समारोपयेत् (२,४.९त्) तदाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत् (२,४.९उ) पुनराधेयः स्यादिति (२,४.९व्) या ते अग्ने यज्ञिया तनूस्तया मे ह्यारोह तया मे ह्याविश
(२,४.९w) अयं ते योनिरित्यात्मन्नग्नीन्समारोपयेत्_
(२,४.९x) एष ह वा अग्नेर्योनिः
(२,४.९य्) स्वस्यां एवैनं तद्योन्यां सादयति । । ९ । ।

(२,४.१०अ) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकतां अश्नुते य एवं वेद
(२,४.१०ब्) यो ह वा एष तपत्येषोऽग्निष्टोम एष साह्नस्
(२,४.१०च्) तं सहैवाह्ना संस्थापयेयुः
(२,४.१०द्) साह्नो वै नामैषः_
(२,४.१०ए) तेनासंत्वरमाणाश्चरेयुः_
(२,४.१०फ़्) यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टाः_
(२,४.१०ग्) अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति
(२,४.१०ह्) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने_
(२,४.१०इ) एवं उ ह यजमानोऽप्रमायुको भवति
(२,४.१०ज्) तेनासंत्वरमाणाश्चरेयुः_
(२,४.१०क्) यदा वा एष प्रातरुदेत्यथ मन्द्रतमं तपति
(२,४.१०ल्) तस्मान्मन्द्रतमया वाचा प्रातःसवने शंसेत्_
(२,४.१०म्) अथ यदाभ्येत्यथ बलीयस्तपति
(२,४.१०न्) तस्माद्बलीयस्या वाचा माध्यंदिने सवने शंसेत्_
(२,४.१०ओ) अथो यदाभितरां एत्यथो बलिष्ठतमं तपति
(२,४.१०प्) तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेत्_
(२,४.१०क़्) एवं शंसेद्यदि वाच ईशीत
(२,४.१०र्) वाग्घि शस्त्रम्_
(२,४.१०स्) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत_
(२,४.१०त्) एतत्सुशस्ततरं इव भवति
(२,४.१०उ) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०व्) तद्यदेनं पश्चादस्तं अयतीति मन्यन्तेऽह्न एव तदन्तं गत्वाथात्मानं विपर्यस्यते_
(२,४.१०w) अहरेवाधस्तात्कृणुते रात्रीं परस्तात्
(२,४.१०x) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०य्) तद्यदेनं पुरस्तादुदयतीति मन्यते रात्रेरेव तदन्तं गत्वाथात्मानं विपर्यस्यते
(२,४.१०ज़्) रात्रिं एवाधस्तात्कृणुतेऽहः परस्तात्
(२,४.१०आ) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०ब्ब्) न ह वै कदा चन निम्रुचति_
(२,४.१०च्च्) एतस्य ह सायुज्यं सलोकतां अश्नुते य एवं वेद । । १० । ।

(२,४.११अ) अथात एकाहस्यैव तृतीयसवनम्_
(२,४.११ब्) देवासुरा वा एषु लोकेषु समयतन्त
(२,४.११च्) ते देवा असुरानभ्यजयम्_
(२,४.११द्) ते जिता अहोरात्रयोः संधिं समभ्यवागुः
(२,४.११ए) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः
(२,४.११फ़्) कश्चाहं चेमानसुरानभ्युत्थास्यामहा इति_
(२,४.११ग्) अहं चेत्यग्निरब्रवीत्_
(२,४.११ह्) अहं चेति वरुणः_
(२,४.११इ) अहं चेति बृहस्पतिः_
(२,४.११ज्) अहं चेति विष्णुस्
(२,४.११क्) तानभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुः_
(२,४.११ल्) यदभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुस्तस्मादुत्था
(२,४.११म्) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद
(२,४.११न्) सोऽग्निरश्वो भूत्वा प्रथमः प्रजिगाय
(२,४.११ओ) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाअय तस्मादाग्नेयीभिरुक्थानि प्रणयन्ति
(२,४.११प्) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाय तस्मात्साकं अश्वम्_
(२,४.११क़्) यत्पञ्च देवता अभ्युत्तस्थुस्तस्मात्पञ्च देवता उक्थे शस्यन्ते
(२,४.११र्) या वाक्सोऽग्निः_
(२,४.११स्) यः प्राणः स वरुणः_
(२,४.११त्) यन्मनः स इन्द्रः_
(२,४.११उ) यच्चक्षुः स बृहस्पतिः_
(२,४.११व्) यच्छ्रोत्रं स विष्णुः_
(२,४.११w) एते ह वा एतान्पञ्चभिः प्राणैः समीर्योदस्थापयन्_ [एद्. समीर्युदस्थापयन्, चोर्र्. Pअत्यल्]
(२,४.११x) तस्मादु एवैताः पञ्च देवता उक्थे शस्यन्ते । । ११ । ।

(२,४.१२अ) प्रजापतिर्ह्येतेभ्यः पञ्चभ्यः प्राणेभ्योऽन्यान्देवान्ससृजे
(२,४.१२ब्) यदु चेदं किं च पाङ्क्तम्_
(२,४.१२च्) तत्सृष्ट्वा व्याज्वलयत्
(२,४.१२द्) ते होचुर्देवा म्लानोऽयं पिता मयोभूः [एद्. पितामयोऽभूः, चोर्र्. Pअत्यल्]
(२,४.१२ए) पुनरिमं समीर्योत्थापयामेति
(२,४.१२फ़्) स ह सत्त्वं आख्यायाभ्युपतिष्ठते
(२,४.१२ग्) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते
(२,४.१२ह्) यो वै प्रजापतिः स यज्ञः
(२,४.१२इ) स एतैरेव पञ्चभिः प्राणैः समीर्योत्थापितः_
(२,४.१२ज्) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्_
(२,४.१२क्) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते । । १२ । ।

(२,४.१३अ) तदाहुर्यद्द्वयोर्देवतयो स्तुवत इन्द्राग्न्योरित्यथ कस्माद्भूयिष्ठा देवता उक्थे शस्यन्त इति_ [एद्. भूयिष्ठो, चोर्र्. Pअत्यल्]
(२,४.१३ब्) अन्तो वा आग्निमारुतं अन्तरुक्थान्यन्त आश्विनम्_
(२,४.१३च्) कनीयसीषु देवतासु स्तुवते तिष्ठेति_
(२,४.१३द्) अथ कस्माद्भूयिष्ठो देवता उक्थे शस्यन्त इति
(२,४.१३ए) द्वे द्वे उक्थमुखे भवतस्तद्यद्द्वे द्वे । । १३ । ।

(२,४.१४अ) अथ यदैन्द्रावारुणं मैत्रावरुस्योक्थं भवत्यैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्यैन्द्रावैष्णावं अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकं ऐन्द्रावारुणं भवति
(२,४.१४ब्) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकं ऐन्द्राबार्हस्पत्यं भवति
(२,४.१४च्) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकं ऐन्द्रावैष्णवं भवति
(२,४.१४द्) द्वे द्वे उक्थमुखे भवतस्
(२,४.१४ए) तद्यद्द्वे द्वे । । १४ । ।

(२,४.१५अ) अथ यदैन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [ऋS७.५८.१, èV६.६८.१०]>इत्यृचाभ्यनूक्तम्_
(२,४.१५ब्) मद्वद्धि तृतीयसवनम्
(२,४.१५च्) <एह्यू षु ब्रवाणि ते [èV६.१६.१६]><आग्निरगामि भारतः [èV६.१६.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(२,४.१५द्) <चर्षणीधृतं मघवानं उक्थ्यं [èV३.५१.१]> इत्युक्थमुखम्_
(२,४.१५ए) तस्योपरिष्टाद्ब्राह्मणम्
(२,४.१५फ़्) <अस्तभ्नाद्द्यां असुरो विश्ववेदाः [èV८.४२.१]>इति वारुणं सांशंसिकं [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद्प्. ३०२] (२,४.१५ग्) अहं चेति वरुणोऽब्रवीत्
(२,४.१५ह्) देवतयोः संशंसायानतिशंसाय_
(२,४.१५इ) <इन्द्रावरुणा युवं अध्वराय नः [èV७.८२.१]>इति पर्यास ऐन्द्रावरुणे (२,४.१५ज्) ऐन्द्रावरुणं अस्यैतन्नित्यं उक्थम्
(२,४.१५क्) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१५ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१५म्) विजित्या एव_
(२,४.१५न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(२,४.१५ओ) सैकपादिनी भवति_
(२,४.१५प्) एकपादिन्या होता परिदधाति
(२,४.१५क़्) यत्र होतुर्होत्रकाणां युञ्जन्ति तत्समृद्धम्_
(२,४.१५र्) तद्वै खल्व्<आ वां राजानावध्वरे ववृत्यां [èV७.८४.१]> इति_ [एद्. आवां, चोर्रेच्तेद्प्. ३०३]
(२,४.१५स्) एवं एव केवलपर्यासं कुर्यात्केवलसूक्तम्_
(२,४.१५त्) केवलसूक्तं एवोत्तरयोर्भवति_
(२,४.१५उ) <इन्द्रावरुणा मधुमत्तमस्य [PS२०.७.६, ऋS७.५८.२, èV६.६८.११]>इति यजति
(२,४.१५व्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१५w) वषट्कृत्यानुवषट्करोति
(२,४.१५x) प्रत्येवाभिमृशन्ते
(२,४.१५य्) नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति । । १५ । ।

(२,४.१६अ) अथ यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू [èV४.५०.१०]> इत्यृचाभ्यनूक्तम्
(२,४.१६ब्) मद्वद्धि तृतीयसवनम्_
(२,४.१६च्) <वयं उ त्वां अपूर्व्य [èV८.२१.१, ऋS२०.१४.१ ।२०.६२.१]> <यो न इदमिदं पुरा [èV८.२१.९, ऋS२०.१४.३ ।२०.६२.३, Vऐत्S२५.३]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,४.१६द्) <प्र मंहिष्ठाय बृहते बृहद्रये [èV१.५७.१, ऋS२०.१५.१]>इत्युक्थमुखम्
(२,४.१६ए) ऐन्द्राजागतम्_
(२,४.१६फ़्) जागताः पशवः
(२,४.१६ग्) पशूनां आप्त्यै
(२,४.१६ह्) जागतं उ वै तृतीयसवनम्_
(२,४.१६इ) तृतीयसवनस्य रूपम्
(२,४.१६ज्) <उदप्रुतो न वयो रक्षमाणाः [èV१०.६८.१, ऋS२०.१६.१]>इति बार्हस्पत्यं सांशंसिकम् (२,४.१६क्) अहं चेति बृहस्पतिरब्रवीत्
(२,४.१६ल्) देवतयोः संशंसायनतिशंसाय_
(२,४.१६म्) <अच्छा म इन्द्रं मतयः स्वर्विदः [èV१०.४३.१, ऋS२०.१७.१]>इति पर्यास ऐन्द्राबार्हस्पत्यः
(२,४.१६न्) ऐन्द्राबार्हस्पत्यं अस्यैतन्नित्यं उक्थम्_
(२,४.१६ओ) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१६प्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१६क़्) विजित्या एव_
(२,४.१६र्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(२,४.१६स्) <बृहस्पतिर्नः परि पातु पश्चात्[èV१०.४२ ।४३ ।४४.११अ, PS१५.११.१ ।१६.८.११अ, ऋS७.५१.१ ।२०.१७.११ ।२०.८९.११ ।२०.९४.११अ]>इत्यैन्द्राबार्हस्पत्या परिदधाति
(२,४.१६त्) इन्द्राबृहस्पत्योरेव यज्ञं प्रतिष्ठापयति_
(२,४.१६उ) <उतोत्तरस्मादधरादघायोरिन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [èV१०.४२ ।४३ ।४४.११ब्च्द्, PS१५.११.१ ।१६.८.११ब्च्द्, ऋS७.५१.१ ।२०.१७.११ ।२०.८९.११ ।२०.९४.११ब्च्द्]>इति (२,४.१६व्) सर्वाभ्य एव दिग्भ्य आशिषं आशास्ते नार्त्वी (२,४.१६w) यं कामं कामयते सोऽस्मै कामः समृध्यते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति [एद्. एतस्या, चोर्र्. Pअत्यल्; एद्. ब्राह्मणाच्छंय्] (२,४.१६x) <बृहस्पते युवं इन्द्रश्च वस्वः [èV७.९७.१०]>इति यजति_
(२,४.१६य्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१६ज़्) वषट्कृत्यानुवषट्करोति
(२,४.१६आ) प्रत्येवाभिमृशन्ते
(२,४.१६ब्ब्) नाप्याययन्ति
(२,४.१६च्च्) न ह्यनाराशंसाः सीदन्ति । । १६ । ।

(२,४.१७अ) अथ यदैन्द्रावैष्णवं अच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानां आ सोमं यातं द्रविणो दधाना [èV६.६९.३]>इत्यृचाभ्यनूक्तम्_ [एद्. अच्छावाकस्योक्तं]
(२,४.१७ब्) मद्वद्धि तृतीयसवनम्
(२,४.१७च्) <अधा हीन्द्र गिर्वणः [èV८.९८.७]><इयं त इन्द्र गिर्वणः [èV८.१३.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ_
(२,४.१७द्) <ऋतुर्जनित्री तस्या अपस्परि [èV२.१३.१]>इत्युक्थमुखम्
(२,४.१७ए) तस्योक्तं ब्राह्मणम्_
(२,४.१७फ़्) <नू मर्तो दयते सनिष्यन्[èV७.१००.१]>इति वैष्णवं सांशंसिकं [एद्. सांशंसिकंम्] (२,४.१७ग्) अहं चेति विष्णुरब्रवीत्
(२,४.१७ह्) देवतयोः संशंसायानतिशंसाय
(२,४.१७इ) <सं वां कर्मणा सं इषा हिनोमि [èV६.६९.१]>इति पर्यास ऐन्द्रावैष्णवः
(२,४.१७ज्) ऐन्द्रावैष्णवं अस्यैतन्नित्यं उक्थम्_ [एद्. उखं]
(२,४.१७क्) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१७ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१७म्) विजित्या एव_
(२,४.१७न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै_
(२,४.१७ओ) <उभा जिग्यथुर्न परा जयेथे [èV६.६९.८, PS२०.१६.३, ऋS७.४४.१]> इत्यैन्द्रावैष्णव्यर्चा परिदधाति_
(२,४.१७प्) इन्द्राविष्णोरेव यज्ञं प्रतिष्ठापयति_
(२,४.१७क़्) <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७]>इति यजति
(२,४.१७र्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१७स्) वषट्कृत्यानुवषट्करोति
(२,४.१७त्) प्रत्येवाभिमृशन्ते
(२,४.१७उ) नाप्याययन्ति
(२,४.१७व्) न ह्यनाराशंसाः सीदन्ति । । १७ । ।

(२,४.१८अ) अथाध्वर्यो शंशंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
(२,४.१८ब्) चतस्रो वै दिशः_
(२,४.१८च्) दिक्षु तत्प्रतितिष्ठन्ते_
(२,४.१८द्) अथो चतुष्पादः पशवः
(२,४.१८ए) पशूनां आप्त्यै_
(२,४.१८फ़्) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास्
(२,४.१८ग्) तस्माच्चतुः
(२,४.१८ह्) सर्वे त्रैष्टुभं जागतानि शंसन्ति
(२,४.१८इ) जागतं हि तृतीयसवनम्
(२,४.१८ज्) अथ हैतत्त्रैष्टुभानि_
(२,४.१८क्) अप्रतिभूतं इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्_
(२,४.१८ल्) धीतरसं वा एतत्सवनं यत्तृतीयसवनम्
(२,४.१८म्) अथ हैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुबयातयाम
(२,४.१८न्) सवनस्यैव तत्सरसतायै
(२,४.१८ओ) सर्वे समवतीभिः परिदधति
(२,४.१८प्) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कोऽन्तः सजाया उ ह वा अवैनाय_
(२,४.१८क़्) अन्तेनैवान्तं परिदधति
(२,४.१८र्) सर्वे मद्वतीभिर्यजन्ति
(२,४.१८स्) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,४.१८त्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,४.१८उ) सर्वेऽनुवषट्कुर्वन्ति
(२,४.१८व्) स्विष्टकृत्वानुवषट्कारः_
(२,४.१८w) नेत्स्विष्टकृत अन्तरयामेति_
(२,४.१८x) असौ वै लोकस्तृतीयसवनम्_
(२,४.१८य्) तस्य पञ्च दिशः
(२,४.१८ज़्) पञ्चोक्थानि तृतीयसवनस्य
(२,४.१८आ) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोति
(२,४.१८ब्ब्) तद्यदेषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल्लोकानृध्नोतीमांल्लोकानृध्नोतीति । । १८ । ।

(२,४.१९अ) तदाहुः किं षोडशिनः षोडशित्वम्_
(२,४.१९ब्) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिरक्षरैरादत्ते
(२,४.१९च्) द्वे वा अक्षरे अतिरिच्येते षोडशिनोऽनुष्टुभं अभिसंपन्नस्य
(२,४.१९द्) वाचो वा एतौ स्तनौ
(२,४.१९ए) सत्यानृते वाव ते
(२,४.१९फ़्) अवत्येनं सत्यं नैनं अनृतं हिनस्ति य एवं वेद य एवं वेद । । १९ । । [एद्. वेद य एवं वेइ]

(२,४.१९चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः । ।

(२,५.१अ) ओं अहर्वै देवा आश्रयन्त रात्रीं असुरास्
(२,५.१ब्) ते समावद्वीर्या एवासन्
(२,५.१च्) नो व्यावर्तन्त
(२,५.१द्) सोऽब्रवीदिन्द्रः कश्चाहं चेमानसुरान्रात्रीं अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. Pअत्यल्]
(२,५.१ए) स देवेषु न प्रत्यविन्दत्_
(२,५.१फ़्) अबिभयू रात्रेस्तमसो मृत्योस्
(२,५.१ग्) तम इव हि रात्रिः_
(२,५.१ह्) मृत्युर्वै तमस्
(२,५.१इ) तस्माद्धाप्येतर्हि भूयानिव नक्तं स यावन्मात्रं इवापक्रम्य बिभेति
(२,५.१ज्) तं वै छन्दांस्येवान्ववायन्_
(२,५.१क्) तद्यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्रश्च छन्दांसि च रात्रिं वहन्ति
(२,५.१ल्) न निविच्छस्यते न पुरोरुङ्न धाय्या नान्या देवता
(२,५.१म्) इन्द्रश्च ह्येव छन्दांसि च रात्रिं वहन्ति
(२,५.१न्) तान्वै पर्यायैः पर्यायं अनुदन्त
(२,५.१ओ) यत्पर्यायैः पर्यायं अनुदन्त तस्मात्पर्यायास्
(२,५.१प्) तत्पर्यायाणां पर्यायत्वम्_
(२,५.१क़्) तान्वै प्रथमैरेव पर्यायैः पूर्वरात्रादनुदन्त मध्यमैर्मध्यरात्रादुत्तमैरपररात्रात्_
(२,५.१र्) अपिशर्वर्या अपिस्मसीत्यब्रुवन्_
(२,५.१स्) तद्यदपिशर्वर्या अपिस्मसीत्यब्रुवंस्तदपिशर्वराणां अपिशर्वरत्वम्_
(२,५.१त्) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह_
(२,५.१उ) एतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयन्_
(२,५.१व्) तदपिशर्वराणां अपिशर्वरत्वं । । १ । ।

(२,५.२अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्येव पदानि पुनराददते
(२,५.२ब्) यदेवैषां मनोरथा आसंस्तदेवैषां तेनाददते
(२,५.२च्) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्येव पदानि पुनराददते
(२,५.२द्) यदेवैषां अश्वा गाव आसंस्तदेवैषां तेनाददते_
(२,५.२ए) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्येव पदानि पुनराददते
(२,५.२फ़्) यदेवैषां वासो हिरण्यं मणिरध्यात्मं आसीत्तदेवैषां तेनाददते_
(२,५.२ग्) आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद । । २ । ।

(२,५.३अ) पवमानवदहरित्याहुर्न रात्रिः पवमानवती
(२,५.३ब्) कथं उभे पवमानवती भवतः
(२,५.३च्) केन ते समावद्भाजौ भवत इति
(२,५.३द्) यदेवेन्द्राय मद्वने सुतं इदं वसो सुतं अन्ध इदं ह्यन्वोजसा सुतं इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती
(२,५.३ए) तेनोभे पवमानवती भवतस्
(२,५.३फ़्) तेन ते समावद्भाजौ भवतः
(२,५.३ग्) पञ्चदशस्तोत्रं अहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा
(२,५.३ह्) कथं उभे पञ्चदशस्तोत्रे भवतः
(२,५.३इ) केन ते समावद्भाजौ भवत इति
(२,५.३ज्) द्वादश स्तोत्राण्यपिशर्वराणि
(२,५.३क्) तिसृभिर्देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते
(२,५.३ल्) तेन रात्रिः पञ्चदशस्तोत्रा
(२,५.३म्) तेनोभे पञ्चदशस्तोत्रे भवतस्
(२,५.३न्) तेन ते समावद्भाजौ भवतः
(२,५.३ओ) परिमितं स्तुवन्त्यपरिमितमनुशंसन्ति
(२,५.३प्) परिमितं भूतं अपरिमितं भव्यम्
(२,५.३क़्) अपरिमितान्येवावरुन्ध्यादित्यतिशंसति स्तोमम्
(२,५.३र्) अति वै प्रजास्यात्मानं अति पशवस्
(२,५.३स्) तद्यदेवास्यात्यात्मानं तदेवास्यैतेनाप्याययन्ति_
(२,५.३त्) अथो द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च_
(२,५.३उ) अथ तदहोरात्राभ्यां आप्तम्_
(२,५.३व्) स्नेहतेजसोराप्त्यै
(२,५.३w) गायत्रान्स्तोत्रियानुरूपाञ्छंसन्ति
(२,५.३x) तेजो वै गायत्री
(२,५.३य्) तमः पाप्मा रात्रिस्
(२,५.३ज़्) तेन तेजसा तमः पाप्मानं तरन्ति
(२,५.३आ) पुनरादायं शंसन्ति_
(२,५.३ब्ब्) एवं हि सामगा स्तुवते
(२,५.३च्च्) यथा स्तुतं अनुशस्तं भवति
(२,५.३द्द्) न हि तत्स्तुतं यन्नानुशस्तम्_
(२,५.३ई) तदाहुरथ कस्मादुत्तमात्प्रतीहारादाहूय साम्ना शस्त्रं उपसंतन्वन्तीति । । ३ । ।

(२,५.४अ) पुरुषो वै यज्ञस्
(२,५.४ब्) तस्य शिर एव हविर्धानम्_
(२,५.४च्) मुखं आहवनीयः_
(२,५.४द्) उदरं सदः_
(२,५.४ए) अन्नं उक्थानि
(२,५.४फ़्) बाहू मार्जालीयश्चाग्नीध्रीयश्च
(२,५.४ग्) या इमा देवतास्तेऽन्तःसदसं धिष्ण्याः
(२,५.४ह्) प्रतिष्ठे गार्हपत्यव्रतश्रपणावित्यथापरम्_
(२,५.४इ) तस्य मन एव ब्रह्मा
(२,५.४ज्) प्राण उद्गाता_
(२,५.४क्) अपानः प्रस्तोता
(२,५.४ल्) व्यानः प्रतिहर्ता
(२,५.४म्) वाग्घोता
(२,५.४न्) चक्षुरध्वर्युः
(२,५.४ओ) प्रजाति सदस्यः_
(२,५.४प्) अङ्गानि होत्राशंसिनः_
(२,५.४क़्) आत्मा यजमानस्
(२,५.४र्) तद्यदध्वर्युः स्तोत्रं उपाकरोति सोमः पवत इति चक्षुरेव तत्प्राणैः संदधाति_
(२,५.४स्) अथ यत्प्रस्तोता ब्रह्माणं आमन्त्रयते ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति मनोऽग्रणीर्भवति_
(२,५.४त्) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति
(२,५.४उ) प्राणानेव तन्मनसा संदधाति_
(२,५.४व्) अथ यद्ब्रह्मा स्तुतेत्युच्चैरनुजानाति मनो वै ब्रह्मा
(२,५.४w) मन एव तत्प्राणैः संदधाति_
(२,५.४x) अथ यत्प्रस्तोता प्रस्तौत्यपानं एव तत्प्राणैः संदधाति_
(२,५.४य्) अथ यत्प्रतिहर्ता प्रतिहरति व्यानं एव तदपानैः संदधाति_
(२,५.४ज़्) अथ यदुद्गातोद्गायति समानं एव तत्प्राणैः संदधाति_
(२,५.४आ) अथ यद्धोता साम्ना शस्त्रं उपसंतनोति वाग्वै होता वाचं एव तत्प्राणैः संदधाति_
(२,५.४ब्ब्) अथ यत्सदस्यो ब्रह्माणं उपासीदति प्रजातिर्वै सदस्यः प्रजातिं एवाप्नोति_
(२,५.४च्च्) अथ यद्धोत्राशंसिनः सामसंततिं कुर्वन्त्यङ्गानि वै होत्राशंसिनोऽङ्गान्येवास्य तत्प्राणैः संदधाति_
(२,५.४द्द्) अथ यद्यजमानः स्तोत्रं उपासीदत्यात्मा वै यजमान आत्मानं एवास्य तत्कल्पयति
(२,५.४ई) तस्मान्नैनं बहिर्वेद्यभ्याश्रावयेत्_
(२,५.४फ़्फ़्) नाभ्युदियात्_
(२,५.४ग्ग्) नाभ्यस्तमियात्_
(२,५.४ह्ह्) नाधिष्ण्ये प्रतपेत्_
(२,५.४इइ) नेत्प्राणेभ्य आत्मानं अन्तरगादिति । । ४ । ।

(२,५.५अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्रादेव तदसुरान्निर्घ्नन्ति
(२,५.५ब्) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति
(२,५.५च्) मध्यमरात्रादेव तदसुरान्निर्घ्नन्ति_
(२,५.५द्) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति_
(२,५.५ए) उत्तमरात्रादेव तदसुरान्निर्घ्नन्ति
(२,५.५फ़्) तद्यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्येवं एवैतत्स्तोत्रियानुरूपाभ्यां अहोरात्राभ्यां एव तदसुरान्निर्घ्नन्ति
(२,५.५ग्) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री
(२,५.५ह्) तेज एवास्मै तद्ब्रह्मवर्चसं यजमाने दधति
(२,५.५इ) गायत्रीः शस्त्वा जगतीः शंसन्ति
(२,५.५ज्) ब्रह्म ह वै जगती
(२,५.५क्) ब्रह्मणैवास्मै तद्ब्रह्मवर्चसं यजमाने दधति
(२,५.५ल्) व्याह्वयन्ते गायत्रीश्च जगतीश्चान्तरेण
(२,५.५म्) छन्दांस्येव तन्नानावीर्याणि कुर्वन्ति
(२,५.५न्) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति
(२,५.५ओ) पशवो वै जगती
(२,५.५प्) पशूनेव तत्त्रिष्टुब्भिः परिदधति
(२,५.५क़्) बलं वै वीर्यं त्रिष्टुप्_
(२,५.५र्) बलं एव तद्वीर्येऽन्ततः प्रतिष्ठापयति_
(२,५.५स्) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस्त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः_
(२,५.५त्) एतद्वै रात्रीरूपम्_
(२,५.५उ) जागृयाद्रात्रिम्_
(२,५.५व्) यावदु ह वै न वा स्तुवते न वा शस्यते तावदीश्वरा असुरा रक्षांसि च यज्ञं अन्ववनयन्ति
(२,५.५w) तस्मादाहवनीयं समिद्धं आग्नीध्रीयं गार्हपत्यं धिष्ण्यान्समुज्ज्वलयतेति भाषेरन्
(२,५.५x) ज्वलयेरन्
(२,५.५य्) प्रकाशं इवैव तत्स्यात्_
(२,५.५ज़्) आरेभन्तः शयीरन्_
(२,५.५आ) तान्ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति
(२,५.५ब्ब्) ते तमः पाप्मानं अपाघ्नते ते तमः पाप्मानमपाघ्नते । । ५ । ।

(२,५.६अ) विश्वरूपं वै त्वाष्ट्रं इन्द्रोऽहन्
(२,५.६ब्) स त्वष्टा हतपुत्रोऽभिचरणीयं अपेन्द्रं सोमं आहरत्
(२,५.६च्) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमं अपिबत्
(२,५.६द्) स विष्वङ्व्यार्छत्
(२,५.६ए) तस्मात्सोमो नानुपहूतेन [न] पातव्यः
(२,५.६फ़्) सोमपीथोऽस्य व्यर्धुको भवति
(२,५.६ग्) तस्य मुखात्प्राणेभ्यः श्रीर्यशांस्यूर्ध्वान्युदक्रामन्_ [एद्. प्रणेभ्यः, चोर्र्. Pअत्यल्]
(२,५.६ह्) तानि पशून्प्राविशन्_
(२,५.६इ) तस्मात्पशवो यशः_
(२,५.६ज्) यशो ह भवति य एवं वेद
(२,५.६क्) ततोऽस्मा एतदश्विनौ च सरस्वती च यज्ञं समभरन्त्सौत्रामणिं भैषज्याय
(२,५.६ल्) तयेन्द्रं अभ्यषिञ्चन्_
(२,५.६म्) ततो वै स देवानां श्रेष्ठोऽभवत्_
(२,५.६न्) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश्चैवंविद्वान्त्सौत्रामण्याभिषिच्यते । । ६ । ।

(२,५.७अ) अथ साम गायति ब्रह्मा
(२,५.७ब्) क्षत्रं वै साम
(२,५.७च्) क्षत्रेणैवैनं तदभिषिञ्चति_
(२,५.७द्) अथो साम्राज्यं वै साम
(२,५.७ए) साम्राज्येनैवैनं तत्साम्राज्यं गमयति_
(२,५.७फ़्) अथो सर्वेषां वा एष वेदानां रसो यत्साम
(२,५.७ग्) सर्वेषां एव तद्वेदानां रसेनाभिषिञ्चति
(२,५.७ह्) बृहत्यां गायति
(२,५.७इ) बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति_
(२,५.७ज्) ऐन्द्र्यां बृहत्यां गायति_
(२,५.७क्) ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः_
(२,५.७ल्) इन्द्रायतन एष एतर्हि यो यजते
(२,५.७म्) स्व एवैनं तदायतने प्रीणाति_
(२,५.७न्) अथ कस्मात्संशानानि नाम_
(२,५.७ओ) एतैर्वै सामभिर्देवा इन्द्रं इन्द्रियेण वीर्येण समश्यन्_
(२,५.७प्) तथैवैतद्यजमाना एतैरेव सामभिर्
(२,५.७क़्) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन]
(२,५.७र्) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति_
(२,५.७स्) एष्वेवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति
(२,५.७त्) चतस्रो वै दिशः_
(२,५.७उ) दिक्षु तत्प्रतितिष्ठन्ते_
(२,५.७व्) अथो चतुष्पादः पशवः
(२,५.७w) पशूनां आप्त्यै
(२,५.७x) तदाहुर्यदेतत्साम गीयतेऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा
(२,५.७य्) त्रया देवा एकादशेत्याहुः_
(२,५.७ज़्) एतद्वा एतस्य साम्न उक्थं एषा प्रतिष्ठा
(२,५.७आ) त्रयस्त्रिंशं ग्रहं गृह्णाति
(२,५.७ब्ब्) साम्नः प्रतिष्ठायै प्रतिष्ठायै । । ७ । ।

(२,५.८अ) प्रजापतिरकामयत वाजं आप्नुयां स्वर्गं लोकं इति
(२,५.८ब्) स एतं वाजपेयं अपश्यत्_
(२,५.८च्) वाजपेयो वा एष य एष तपति
(२,५.८द्) वाजं एतेन यजमानः स्वर्गं लोकं आप्नोति
(२,५.८ए) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति
(२,५.८फ़्) तेजो ब्रह्मवर्चसं ताभिराप्नोति
(२,५.८ग्) वाजवत्यो माध्यंदिने सवने
(२,५.८ह्) स्वर्गस्य लोकस्य समष्ट्यै_
(२,५.८इ) अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति
(२,५.८ज्) भूमानं ताभिराप्नोति
(२,५.८क्) सर्वः सप्तदशो भवति
(२,५.८ल्) प्रजापतिर्वै सप्तदशः
(२,५.८म्) प्रजापतिं एवाप्नोति
(२,५.८न्) हिरण्यस्रज ऋत्विजो भवन्ति
(२,५.८ओ) महस एव तद्रूपं क्रियते_
(२,५.८प्) एष मेऽमुष्मिंल्लोके प्रकाशोऽसदिति
(२,५.८क़्) ज्योतिर्वै हिरण्यम्_
(२,५.८र्) ज्योतिषैवैनं अन्तर्दधति_
(२,५.८स्) आजिं धावन्ति
(२,५.८त्) यजमानं उज्जापयन्ति
(२,५.८उ) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति
(२,५.८व्) मनुष्यलोकादेवैनं अन्तर्दधति
(२,५.८w) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयं इति ब्रह्मा रथचक्रं सर्पति
(२,५.८x) सवितृप्रसूत एवैनं तत्सर्पति_
(२,५.८य्) अथो प्रजापतिर्वै ब्रह्मा
(२,५.८ज़्) प्रजापतिं एवैनं वज्रादधिप्रसुवति
(२,५.८आ) नाकस्योज्जित्यै
(२,५.८ब्ब्) वाजिनां संतत्यै
(२,५.८च्च्) वाजिसामाभिगायति
(२,५.८द्द्) वाजिमान्भवति
(२,५.८ई) वाजो वै स्वर्गं लोकः
(२,५.८फ़्फ़्) स्वर्गं एव तल्लोकं रोहति
(२,५.८ग्ग्) विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति
(२,५.८ह्ह्) स्वर्गं एव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपं अतिक्रामत्यतिक्रामति । । ८ । ।

(२,५.९अ) अथातोऽप्तोर्यामा
(२,५.९ब्) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत
(२,५.९च्) ताः सृष्टाः पराच्य एवासन्
(२,५.९द्) नोपावर्तन्त
(२,५.९ए) ता एकेन स्तोमेनोपागृह्णात्
(२,५.९फ़्) ता अत्यरिच्यन्त
(२,५.९ग्) ता द्वाभ्याम्_
(२,५.९ह्) ताः सर्वैस्
(२,५.९इ) तस्मात्सर्वस्तोमस्
(२,५.९ज्) ता एकेन पृष्ठेनोपागृह्णात्
(२,५.९क्) ता अत्यरिच्यनत
(२,५.९ल्) ता द्वाभ्याम्_
(२,५.९म्) ताः सर्वैस्
(२,५.९न्) तस्मात्सर्वपृष्ठस्
(२,५.९ओ) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्_
(२,५.९प्) तस्मादेषोऽतिरिक्तोक्थवान्भवति
(२,५.९क़्) तस्माद्वारवन्तीयम्_
(२,५.९र्) ता यदाप्त्वायच्छदतो वा अप्तोर्यामा_
(२,५.९स्) अथो प्रजा वा अप्तुरित्याहुः
(२,५.९त्) प्रजानां यमन इति हैवैतदुक्तं ता बर्हिः प्रजा अश्नायेरन्_ [एद्. प्रजाश्नायेरंस्, चोर्र्. Pअत्यल्]
(२,५.९उ) तर्हि हैतैन यजते
(२,५.९व्) स एषोऽष्टापृष्ठो भवति
(२,५.९w) तद्यथान्यस्मिन्यज्ञे विश्वजितः पृष्ठं अनु संचरं भवति कथं एतदेवं अत्रेति
(२,५.९x) पितैष यज्ञानाम्_
(२,५.९य्) तद्यथा श्रेष्ठिनि संवश्रेयुरपि विद्विषाणा एवं एवैतच्छ्रेष्ठिनो वशेयान्नं अन्नस्यानुचर्याय क्षमन्ते । । ९ । ।

(२,५.१०अ) तद्यथैवादोऽह्न उक्थानां आग्नेयं प्रथमं भवत्येवं एवैतदत्राप्याग्नेयं प्रथमं भवति_
(२,५.१०ब्) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे]
(२,५.१०च्) ऐन्द्रे वा एते
(२,५.१०द्) ऐन्द्रावैष्णवं अच्छावाकस्योक्थं भवति
(२,५.१०ए) चतुराहावान्यतिरिक्तोक्थानि भवन्ति
(२,५.१०फ़्) पशवो वा उक्थानि
(२,५.१०ग्) चतुष्टया वै पशवः_
(२,५.१०ह्) अथो चतुष्पादः पशवः
(२,५.१०इ) पशूनां आप्त्यै
(२,५.१०ज्) त एते स्तोत्रियानुरूपास्तृचा अर्धर्चशस्याः
(२,५.१०क्) प्रतिष्ठा वा अर्धर्चः
(२,५.१०ल्) प्रतिष्ठित्या एव_
(२,५.१०म्) अथैतेषां एवाश्विनानां सूक्तानां द्वे द्वे समाहावं एकैकं अहरहः शंसति_
(२,५.१०न्) अश्विनौ वै देवानां भिषजौ
(२,५.१०ओ) तस्मादाश्विनानि सूक्तानि शंसति
(२,५.१०प्) तदश्विभ्यां प्रददुरिदं भिषज्यतं इति
(२,५.१०क़्) क्षैत्रपत्याः परिधानीया भवन्ति
(२,५.१०र्) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस्ता दीना एताभिर्यथाक्षेत्रं पाययां चकार तर्पयां चकार_ [एद्. ह तस्तत्, चोर्र्. Pअत्यल्]
(२,५.१०स्) अथो इयं वै क्षेत्रं पृथिवी_
(२,५.१०त्) अस्यां अदीनायां अन्ततः प्रतिष्ठास्यामह इति
(२,५.१०उ) त्रिष्टुभो याज्या भवन्ति
(२,५.१०व्) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस्ता हैवैना एताभिर्यथौकसं व्यवसाययां चकार
(२,५.१०w) तस्मादेता याज्या भवन्ति तस्मादेता याज्या भवन्ति । । १० । ।

(२,५.११अ) अथातोऽनैकाहिकम्_ [एद्. अथतो]
(२,५.११ब्) श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.११च्) अहीनं एव तत्संतन्वन्ति_
(२,५.११द्) अहीनस्य संतत्यै
(२,५.११ए) तद्यथा ह वा एकाहः सुत एवं अहीनः सुतस्
(२,५.११फ़्) तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवं अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति
(२,५.११ग्) तद्यच्छ्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.११ह्) अहरेवं तदह्नोऽनुरूपं कुर्वन्ति_
(२,५.११इ) अपरेणैव तदह्नापरं अहरभ्यारभन्ते तत्
(२,५.११ज्) तथा न माध्यंदिने सवने
(२,५.११क्) श्रीर्वै पृष्ठानि
(२,५.११ल्) तानि तस्मिन्नेवावस्थितानि भवन्ति_
(२,५.११म्) एतेनैव विधिना तृतीयसवने
(२,५.११न्) न श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति । । ११ । ।

(२,५.१२अ) अथात आरम्भणीया एव
(२,५.१२ब्) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान्[èV१.९०.१]> इति
(२,५.१२च्) प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्
(२,५.१२द्) तस्मादेषा प्रणेतृमती भवति_ [एद्. प्रणेत्रिमती, चोर्र्. Pअत्यल्]
(२,५.१२ए) <इन्द्रं वो विश्वतस्परि [èV१.७.१०अ, ऋS२०.३९.१ ।२०.७०.१६अ]>_ इति ब्राह्मणाच्छंसिनः_
(२,५.१२फ़्) <हवामहे जनेभ्यः [èV१.७.१०ब्, ऋS२०.३९.१ ।२०.७०.१६ब्]>इतीन्द्रं एवैतयाहरहर्निर्ह्वयन्ते (२,५.१२ग्) न हैवैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान्ब्राह्मणाच्छंस्येतां अहरहः शंसति (२,५.१२ह्) <यत्सोम आ सुते नरः [èV७.९४.१०अ]>इत्यच्छावाकस्य_
(२,५.१२इ) <इन्द्राग्नी अजोहवुः [èV७.९४.१०ब्]>_इतीन्द्राग्नी एवैतयाहरहर्निर्ह्वयन्ते
(२,५.१२ज्) न हैवैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वानच्छावाक एतां अहरहः शंसति
(२,५.१२क्) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः
(२,५.१२ल्) स्वर्गं एवैताभिर्लोकं अनुसंतरन्ति । । १२ । ।

(२,५.१३अ) अथातः परिधानीया एव
(२,५.१३ब्) <ते स्याम देव वरुण [èV७.६६.९अ]>इति मैत्रावरुणस्य
(२,५.१३च्) <इषं स्वश्च धीमहि [èV७.६६.९ब्]>इत्ययं वै लोक इषं इत्यसौ लोकः स्वरिति
(२,५.१३द्) उभावेवैनौ तौ लोकावारभते
(२,५.१३ए) <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>इति ब्राह्मणाच्छंसिनः
(२,५.१३फ़्) विवत्तृचम्_
(२,५.१३ग्) स्वर्गं एवैताभिर्लोकं विवृणोति
(२,५.१३ह्) <मदे सोमस्य रोचनेन्द्रो यदभिनद्वलं [èV८.१४.७ब्च्, ऋS२०.२८.१ब्च्, २०.३९.२ब्च्]> इति
(२,५.१३इ) सिषासवो ह वा एते यद्दीक्षितास्
(२,५.१३ज्) तस्मादेषा वलवती भवति_
(२,५.१३क्) <उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलं [èV८.१४.८, ऋS२०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. Pअत्यल्]
(२,५.१३ल्) सनिं एतेभ्य एतयावरुन्द्धे_
(२,५.१३म्) <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [èV८.१४.९, ऋS२०.२८.३, २०.३९.४]>इति (२,५.१३न्) स्वर्गं एवैतयाहरहर्लोकं अवरुन्द्धे
(२,५.१३ओ) <आहं सरस्वतीवतोः [èV८.३८.१०अ]>इत्यच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद्प्. ३०३]
(२,५.१३प्) <इन्द्राग्न्योरवो वृणे [èV८.३८.१०ब्]>इति
(२,५.१३क़्) एतद्ध वा इन्द्राग्न्योः प्रियं धामो यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति
(२,५.१३र्) प्रियेणैव धाम्ना समृध्यते य एवं वेद । । १३ । ।

(२,५.१४अ) उभय्यो होत्रकाणां परिधानीया भवन्त्यहीनपरिधानयाश्चैकाहिनस्य
(२,५.१४ब्) तत ऐकाहिकीभिरेव मैत्रावरुणः परिदधाति
(२,५.१४च्) तेनास्माल्लोकान्न प्रच्यवते_
(२,५.१४द्) आहिनीकीभिरच्छावाकः
(२,५.१४ए) स्वर्गस्य लोकस्याप्त्यै_
(२,५.१४फ़्) उभयीभिर्ब्राह्मणाच्छंसी_
(२,५.१४ग्) एवं असावुभौ व्यन्वारभमाण एतीमं च लोकं अमुं च_
(२,५.१४ह्) अथोऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च_
(२,५.१४इ) एवं असावुभौ व्यन्वारभमाण एति_
(२,५.१४ज्) अथ तत ऐकाहिकीभिरेव तृतीयसवने होत्रकाः परिदधति
(२,५.१४क्) तेनास्माल्लोकान्न प्रच्यवते_
(२,५.१४ल्) आहिनीकीभिरच्छावाकः
(२,५.१४म्) स्वर्गस्य लोकस्य समष्ट्यै
(२,५.१४न्) कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_
(२,५.१४ओ) यद्वै होता तद्धोत्रकाः
(२,५.१४प्) प्राणो वै होताङ्गानि होत्रकाः
(२,५.१४क़्) समानो वा अयं प्राणोऽङ्गान्यनुसंचरति
(२,५.१४र्) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_
(२,५.१४स्) यद्वै होता तद्धोत्रकाः_
(२,५.१४त्) आत्मा वै होताङ्गानि होत्रकाः
(२,५.१४उ) समाना वा इमेऽङ्गानां अन्तास्
(२,५.१४व्) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_ [एद्. पुर्वेद्युः]
(२,५.१४w) यद्वै होता तद्धोत्रकाः
(२,५.१४x) सूक्तान्तैर्होता परिदधाति_
(२,५.१४य्) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति । । १४ । ।

(२,५.१५अ) यः श्वस्तोत्रियस्तं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.१५ब्) अहीनं एव तत्संतन्वन्ति_
(२,५.१५च्) अहीनस्य संतत्यै
(२,५.१५द्) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति_
(२,५.१५ए) <आ सत्यो यातु मघवां ऋजीषी [èV४.१६.१, ऋS२०.७७.१]>इति सत्यवान्मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. Pअत्यल्]
(२,५.१५फ़्) <अस्मा इदु प्र तवसे तुराय [èV१.१६.१, ऋS२०.३५.१]>इति ब्राह्मणाच्छंसी (२,५.१५ग्) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इत्यच्छावाकस्
(२,५.१५ह्) तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(२,५.१५इ) वीर्यवान्वा एष बह्वृचो यदच्छावाकः_
(२,५.१५ज्) वहति ह वै वह्निर्धुरो यासु युज्यते
(२,५.१५क्) तस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(२,५.१५ल्) तानि पञ्चस्वहःसु शस्यन्ते चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रते
(२,५.१५म्) तान्येतान्यहीनसूक्तानीत्याचक्षते
(२,५.१५न्) न ह्येषु किं चन हीयते
(२,५.१५ओ) पराञ्चि ह वा एतान्यहान्यनभ्यावर्तीनि भवन्ति
(२,५.१५प्) तस्मादेतान्येतेष्वहःसु शस्यन्ते
(२,५.१५क़्) यदेतानि शंसन्ति तत्स्वर्गस्य लोकस्य रूपम्_
(२,५.१५र्) यद्वेवैतानि शंसन्तीन्द्रं एवैतैर्निर्ह्वयन्ते यथर्षभं वाशितायै
(२,५.१५स्) ते वै देवाश्चर्षयश्चाब्रुवन्त्समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्]
(२,५.१५त्) तदेतद्यज्ञस्य समानं अपश्यन्_
(२,५.१५उ) समानान्प्रगाथान्त्समानीः प्रतिपदः समानानि सूक्तानि_ [एद्. प्रगाथांत्]
(२,५.१५व्) ओकःसारी वा इन्द्रः_
(२,५.१५w) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्येव तत्रापरम्_
(२,५.१५x) यज्ञस्यैव सेन्द्रतायै । । १५ । ।

(२,५.१५चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः । ।

(२,६.१अ) ओं तान्वा एतान्संपातान्विश्वामित्रः प्रथमं अपश्यत्_
(२,६.१ब्) <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]> <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]> <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>इति (२,६.१च्) तान्विश्वामित्रेण दृष्टान्वामदेवोऽसृजत (२,६.१द्) स हेक्षां चक्रे विश्वामित्रो यान्वा अहं संपातानदर्शं तान्वामदेवोऽसृजत (२,६.१ए) कानि न्वहं हि सूक्तानि संपातांस्तत्प्रतिमान्त्सृजेयं इति (२,६.१फ़्) स एतानि सूक्तानि संपातांस्तत्प्रतिमानसृजत (२,६.१ग्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]><उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]><अभि तष्टेव दीधया मनीषां [èV३.३८.१]> इति विश्वमित्रः
(२,६.१ह्) <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]><य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]><यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>इति वसिष्ठः
(२,६.१इ) <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]><इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]> <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इति भरद्वाजः_
(२,६.१ज्) एतैर्वै संपातैरेत ऋषय इमांल्लोकान्त्समपतन्_
(२,६.१क्) तद्यत्समपतंस्तस्मात्संपातास्
(२,६.१ल्) तत्संपातानां संपातत्वम्_
(२,६.१म्) ततो वा एतांस्त्रीन्संपातान्मैत्रावरुणो विपर्यासं एकैकं अहरहः शंसत्य्<एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>इति प्रथमेऽहनि (२,६.१न्) <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]>इति द्वितीये
(२,६.१ओ) <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>इति तृतीये (२,६.१प्) त्रीनेव संपातान्ब्राह्मणाच्छंसी विपर्यासं एकैकं अहरहः शंसति<इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>इति प्रथमेऽहनि (२,६.१क़्) <य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]> इति द्वितीये (२,६.१र्) <यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>इति तृतीये
(२,६.१स्) त्रीनेव संपातानच्छावाको विपर्यासं एकैकं अहरहः शंसति<इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>इति प्रथमेऽहनि_
(२,६.१त्) <इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]>इति द्वितीये (२,६.१उ) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इति तृतीये
(२,६.१व्) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि
(२,६.१w) तानि द्वादश भवन्ति
(२,६.१x) द्वादश ह वै मासाः संवत्सरः
(२,६.१य्) संवत्सरः प्रजापतिः
(२,६.१ज़्) प्रजापतिर्यज्ञस्
(२,६.१आ) तत्संवत्सरं प्रजापतिं यज्ञं आप्नोति
(२,६.१ब्ब्) तस्मिन्त्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति
(२,६.१च्च्) प्रतितिष्ठन्ते_ [एद्. प्रतितिष्ठत, चोर्र्. Pअत्यल्]
(२,६.१द्द्) इदं सर्वं अनु प्रतितिष्ठति
(२,६.१ई) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१फ़्फ़्) तान्यन्तरेणावापं आवपेरन्_
(२,६.१ग्ग्) अन्यूङ्खा विराजश्चतुर्थेऽहनि वैमदीश्च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे_
(२,६.१ह्ह्) अथ यान्यन्यानि महास्तोत्राण्यष्टर्चान्यावपेरन् । । १ । ।

(२,६.२अ) <को अद्य नर्यो देवकामः [èV४.२५.१]>इति मैत्रावरुणः
(२,६.२ब्) <वने न वा यो न्यधायि चाकन्[èV१०.२९.१, ऋS२०.७६.१]>इति ब्राह्मणाच्छंसी
(२,६.२च्) <आ याह्यर्वाङुप वन्धुरेष्ठाः [èV३.४३.१]>इत्यच्छावाकः
(२,६.२द्) एतानि वा आवपनानि_
(२,६.२ए) एतैरेवावपनैर्देवाश्चर्षयश्च स्वर्गं लोकं आयन्_
(२,६.२फ़्) तथैवैतद्यजमाना एतैरेवावपनैः स्वर्गं लोकं यन्ति
(२,६.२ग्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति (२,६.२ह्) तदेतत्सूक्तं स्वर्ग्यम् (२,६.२इ) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन्
(२,६.२ज्) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(२,६.२क्) तदृषभवत्पशुमद्भवति
(२,६.२ल्) पशूनां आप्त्यै
(२,६.२म्) तत्पञ्चर्चं भवति_
(२,६.२न्) अन्नं वै पङ्क्तिः_
(२,६.२ओ) अन्नाद्यस्यावरुद्ध्यै_
(२,६.२प्) <अरिष्टैर्नः पथिभिः पारयन्ता [èV६.६९.१द्]>इति स्वर्गताया एवैतदहरहः शंसति
(२,६.२क़्) <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>इति ब्राह्मणाच्छंसी (२,६.२र्) ब्रह्मण्वदेतत्सूक्तं समृद्धम् (२,६.२स्) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन्
(२,६.२त्) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(२,६.२उ) तदु वै षडृचम्_
(२,६.२व्) षड्वा ऋतवः_
(२,६.२w) ऋतूनां आप्त्यै
(२,६.२x) तदुपरिष्टात्संपातानां अहरहः शंसति_
(२,६.२य्) <अभि तष्टेव दीधया मनीषां [èV३.३८.१अ]> इत्यच्छावाकः_ [एद्. अच्छावको]
(२,६.२ज़्) अहरहः शंसत्यभिवदति तत्यै रूपम्
(२,६.२आ) <अभि प्रियाणि मर्मृशत्पराणि [èV३.३८.१च्]>इति (२,६.२ब्ब्) यान्येव पराण्यहानि तानि प्रियाणि (२,६.२च्च्) तान्येव तदभिमर्मृशन्तो यन्त्यभ्यारभमाणाः (२,६.२द्द्) परो वा अस्माल्लोकात्स्वर्गो लोकः (२,६.२ई) स्वर्गं एव तल्लोकं अभिमृशन्ति (२,६.२फ़्फ़्) <कवींरिच्छामि संदृशे सुमेधाः [èV३.३८.१द्]>इति
(२,६.२ग्ग्) ये ह वा अनेन पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति
(२,६.२ह्ह्) यदु वै दशर्चं दश वै प्राणाः
(२,६.२इइ) प्राणेन तदाप्नोति
(२,६.२ज्ज्) प्राणानां संतत्यै
(२,६.२क्क्) यदु वै दशर्चम्_
(२,६.२ल्ल्) दश वै पुरुषे प्राणाः_
(२,६.२म्म्) दश स्वर्गा लोकाः
(२,६.२न्न्) प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नोति
(२,६.२ऊ) प्राणेषु चैवैतत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
(२,६.२प्प्) यदु वै दशर्चम्_
(२,६.२क़्क़्) दशाक्षरा विराट्_
(२,६.२र्र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा
(२,६.२स्स्) तदेतदस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,६.२त्त्) सकृदिन्द्रं निराह
(२,६.२उउ) तेनैन्द्राद्रूपान्न प्रच्यवते
(२,६.२व्व्) तदुपरिष्टात्संपातानां अहरहः शंसति । । २ । ।

(२,६.३अ) <कस्तं इन्द्र त्वावसुं [èV७.३२.१४]><कन्नव्यो अतसीनां [èV८.३.१३]><कदू न्वस्याकृतं [èV८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते
(२,६.३ब्) को वै प्रजापतिः
(२,६.३च्) प्रजापतेराप्त्यै
(२,६.३द्) यदेव कद्वन्तस्तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.३ए) यद्वेव कद्वन्तः_
(२,६.३फ़्) अथो अन्नं वै कम्
(२,६.३ग्) अथो अन्नस्यावरुद्ध्यै
(२,६.३ह्) यद्वेव कद्वन्तः_
(२,६.३इ) अथो सुखं वै कम्
(२,६.३ज्) अथो अन्नस्यावरुद्ध्यै
(२,६.३क्) यद्वेव कद्वन्तः_
(२,६.३ल्) अथोऽहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति
(२,६.३म्) तानि कद्वद्भिः प्रगाथैः शमयन्ति
(२,६.३न्) तान्येभ्यः शान्तानि कं भवन्ति
(२,६.३ओ) तान्येताञ्छान्तानि स्वर्गं लोकं अभिवहन्ति
(२,६.३प्) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्
(२,६.३क़्) ता हैके पुरस्तात्प्रगाथानां शंसन्ति धाय्या इति वदन्तस्
(२,६.३र्) तदु तथा न कुर्यात्
(२,६.३स्) क्षत्रं वै होता विशो होत्राशंसिनः
(२,६.३त्) क्षत्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः
(२,६.३उ) पापवस्यसम्_
(२,६.३व्) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्येवं विद्यात्_
(२,६.३w) यथा वै समुद्रं प्रतरेयुरेवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते
(२,६.३x) तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवं हैवैतास्त्रिष्टुभः स्वर्गकामाः समारोहन्ति
(२,६.३य्) न ह वा एतच्छन्दो गमयित्वा स्वर्गं लोकं उपावर्तते
(२,६.३ज़्) वीर्यवत्तमं हि
(२,६.३आ) ताभ्यो न व्याह्वयीत
(२,६.३ब्ब्) समानं हि छन्दः_
(२,६.३च्च्) अथो नेद्धाय्याः करवाणीति
(२,६.३द्द्) यदेनाः शंसन्ति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.३ई) यद्वेवैनाः शंसन्तीन्द्रमेवैताभिर्निर्ह्वयन्ते यथर्षभं वाशितायै । । ३ । ।

(२,६.४अ) <अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ]> इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति_ [एद्. अपेन्द]
(२,६.४ब्) <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम [PS१९.१६.८ब्च्द्, ऋS२०.१२५.१ब्च्द्]>इति
(२,६.४च्) अभयस्य रूपम्
(२,६.४द्) अभयं इव ह्यन्विच्छति
(२,६.४ए) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [èV३.३५.५, ऋS२०.८६.१]>इति ब्राह्मणाच्छंसी
(२,६.४फ़्) एतां अहरहः शंसति युक्तवतीम्_
(२,६.४ग्) युक्त इव ह्यहीनः_
(२,६.४ह्) अहीनस्य रूपम्
(२,६.४इ) <उरुं नो लोकं अनु नेषि [èV६.४७.८, PS३.३५.४, ऋS१९.१५.४]>इत्यच्छावाकोऽहरहः शंसति
(२,६.४ज्) अनुनेषीत्येत इव ह्यहीनः_
(२,६.४क्) अहीनस्य रूपम्_
(२,६.४ल्) नेषीति सत्त्रायणरूपं ओकःसारी हैवैषां इन्द्रो भवति
(२,६.४म्) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषां इन्द्रो यज्ञं आगच्छति
(२,६.४न्) न शुनंहूययाहीनस्य परिदध्यात्
(२,६.४ओ) क्षत्रियो ह राष्ट्राच्च्यवते
(२,६.४प्) यो हैव परो भवति तं अभिह्वयति । । ४ । ।

(२,६.५अ) अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च
(२,६.५ब्) <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>इत्यहीनं युङ्क्ते
(२,६.५च्) <एवेदिन्द्रं [èV७.२३.६अ, ऋS२०.१२.६अ, लोन्गेर्पर्तीक अत्२.४.२]> इति विमुञ्चति
(२,६.५द्) <नूनं सा ते [èV२.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>इत्यहीनं युङ्क्ते (२,६.५ए) <नू ष्टुतः [èV४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>इति विमुञ्चति_
(२,६.५फ़्) एषा ह वा अहीनं तन्तुं अर्हति य एनं योक्तं च विमोक्तं च वेद
(२,६.५ग्) तस्य हैषैव युक्तिरेषा विमुक्तिस्
(२,६.५ह्) तद्यत्प्रथमेऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः_
(२,६.५इ) अथ यदहीनपरिधानीयाभिः परिदध्युस्तद्यथा युक्तोऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्
(२,६.५ज्) नाहीनकर्म कुर्युः_
(२,६.५क्) अथ यदुभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत्
(२,६.५ल्) समानीभिः परिदध्युस्
(२,६.५म्) तदाहुरेकया द्वाभ्यां वा स्तोमं अतिशंसेत्_
(२,६.५न्) दीर्घारण्यानि भवन्ति
(२,६.५ओ) यत्र बह्वीभि स्तोमोऽतिशस्यतेऽथो क्षिप्रं देवेभ्योऽन्नाद्यं संप्रयच्छामीति_
(२,६.५प्) अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः
(२,६.५क़्) स्वर्गस्य लोकस्य समष्ट्यै
(२,६.५र्) तद्यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तत्
(२,६.५स्) समानीभिः परिदध्युः
(२,६.५त्) संततो हैवैषां आरब्धोऽविस्रस्तो यज्ञो भवति
(२,६.५उ) संततं ऋचा वषट्कृत्यम्_
(२,६.५व्) संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद । । ५ । ।

(२,६.६अ) तदाहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति_
(२,६.६ब्) असौ वै होता योऽसौ तपति
(२,६.६च्) स वा एक एव
(२,६.६द्) तस्मादेकसूक्तः
(२,६.६ए) स यद्विध्यातो द्वाविवाभवति
(२,६.६फ़्) तेज एव मण्डलं भा अपरं शुक्लं अपरं कृष्णम्_
(२,६.६ग्) तस्माद द्व्युक्थः_
(२,६.६ह्) रश्मयो वाव होत्रास्
(२,६.६इ) ते वा एकैकम्_
(२,६.६ज्) तस्मादेकोक्थास्
(२,६.६क्) तद्यदेकैकस्य रश्मेर्द्वौद्वौ वर्णौ भवतस्तस्माद्द्विसूक्ताः
(२,६.६ल्) संवत्सरो वाव होता
(२,६.६म्) स वा एक एव
(२,६.६न्) तस्मादेकसूक्तस्
(२,६.६ओ) तस्य यद्द्वयान्यहानि भवन्ति शीतान्यन्यान्युष्णान्यन्यानि तस्माद्द्व्युक्थः_
(२,६.६प्) ऋतवो वाव होत्रास्
(२,६.६क़्) ते वा एकैकम्_
(२,६.६र्) तस्मादेकोक्थास्
(२,६.६स्) तद्यदेकैकस्यर्तौ द्वौद्वौ मासौ भवतस्तस्माद्द्विसूक्ताः
(२,६.६त्) पुरुषो वाव होता
(२,६.६उ) स वा एक एव
(२,६.६व्) तस्मादेकसूक्तः
(२,६.६w) स यत्पुरुषो भवत्यन्यथैव प्रत्यङ्भवत्यन्यथा प्राङ्तस्माद्द्व्युक्थः_
(२,६.६x) अङ्गानि वाव होत्रास्
(२,६.६य्) तानि वा एकैकम्_
(२,६.६ज़्) तस्मादेकोक्थास्
(२,६.६आ) तद्यदेकैकं अङ्गं द्युतिर्भवति तस्माद्द्विसूक्तास्
(२,६.६ब्ब्) तदाहुर्यद्द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत्समं भवति
(२,६.६च्च्) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात्
(२,६.६द्द्) तदाहुर्यदग्निष्टोम एव सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति
(२,६.६ई) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात्
(२,६.६फ़्फ़्) तदाहुर्यदग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति_
(२,६.६ग्ग्) अथ कतमेन छन्दसायातयामान्युक्थानि प्रणयन्ति कया देवतयेति
(२,६.६ह्ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्_
(२,६.६इइ) देवान्ह यज्ञं तन्वानानसुररक्षांस्यभिचेरिरे यज्ञपर्वणि यज्ञं एषां हनिष्यामस्तृतीयसवनं प्रति
(२,६.६ज्ज्) तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः
(२,६.६क्क्) प्रतनुमेषां यज्ञं हनिष्याम इति
(२,६.६ल्ल्) ते वरुणं दक्षिणतोऽयोजयन्
(२,६.६म्म्) मध्यतो बृहस्पतिम्
(२,६.६न्न्) उत्तरतो विष्णुम्_
(२,६.६ऊ) तेऽब्रुवन्नेकैकाः स्मः_
(२,६.६प्प्) नेदं उत्सहामह इति
(२,६.६क़्क़्) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति
(२,६.६र्र्) तानिन्द्रोऽब्रवीत्सर्वे मद्द्वितीया स्थेति
(२,६.६स्स्) ते सर्व इन्द्रद्वितीयास्
(२,६.६त्त्) तस्मादैन्द्रावारुणं ऐन्द्राबार्हस्पत्यं ऐन्द्रावैष्णवं अनुशस्यते
(२,६.६उउ) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति
(२,६.६व्व्) द्वितीयवन्तो मन्यन्ते य एवं वेद । । ६ । ।

(२,६.७अ) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति
(२,६.७ब्) वीर्यं वा अग्निः_
(२,६.७च्) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७द्) ऐन्द्रावारुणं अनुशस्यते
(२,६.७ए) वीर्यं वा इन्द्रः
(२,६.७फ़्) क्षत्रं वरुणः
(२,६.७ग्) पशव उक्थानि
(२,६.७ह्) वीर्येणैव तत्क्षत्रेण चोभयतः पशून्परिगृह्णाति
(२,६.७इ) स्थित्यै_
(२,६.७ज्) अनपक्रान्त्यै_
(२,६.७क्) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति
(२,६.७ल्) वीर्यं वा इन्द्रः_
(२,६.७म्) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७न्) ऐन्द्राबार्हस्पत्यं अनुशस्यते
(२,६.७ओ) वीर्यं वा इन्द्रः_
(२,६.७प्) ब्रह्म बृहस्पतिः
(२,६.७क़्) पशव उक्थानि
(२,६.७र्) वीर्येणैव तद्ब्रह्मणा चोभयतः पशून्परिगृह्णाति
(२,६.७स्) स्थित्यै_
(२,६.७त्) अनपक्रान्त्यै_
(२,६.७उ) ऐन्द्रीष्वच्छावाकस्योक्थं प्रणयन्ति
(२,६.७व्) वीर्यं वा इन्द्रः_
(२,६.७w) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७x) ऐन्द्रावैष्णवं अनुशस्यते
(२,६.७य्) वीर्यं वा इन्द्रः_
(२,६.७ज़्) यज्ञो विष्णुः
(२,६.७आ) पशव उक्थानि
(२,६.७ब्ब्) वीर्येणैव तद्यज्ञेन चोभयतः पशून्परिगृह्य क्षत्रेऽन्ततः प्रतिष्ठापयति
(२,६.७च्च्) तस्मादु क्षत्रियो भूयिष्ठं हि पशूनां ईशते [एद्. भुयिष्ठं, चोर्र्. Pअत्यल्]
(२,६.७द्द्) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास्
(२,६.७ई) तान्येतान्यैन्द्राणि जागतानि शंसन्ति_
(२,६.७फ़्फ़्) अथो एतैरेव सेन्द्रं तृतीयसवनं एतैर्जागतं सवनम्_
(२,६.७ग्ग्) धराणि ह वा अस्यैतान्युक्थानि भवन्ति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत्
(२,६.७ह्ह्) तस्मात्तानि सार्धं एवोपेयुः
(२,६.७इइ) सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति
(२,६.७ज्ज्) ये ह वा एतानि नानूपेयुर्यथा रेतः सिक्तं विलुम्पेत्कुमारं वा जातं अङ्गशो विभजेत्तादृक्तत्
(२,६.७क्क्) तस्मात्तानि सार्धं एवोपेयुः
(२,६.७ल्ल्) सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति
(२,६.७म्म्) शिल्पानि शंसति देवशिल्पानि_
(२,६.७न्न्) एतेषां वै शिल्पानां अनुकृतीह शिल्पं अधिगम्यते
(२,६.७ऊ) हस्ती कंसो वासो हिरण्यं अश्वतरीरथः शिल्पम्_
(२,६.७प्प्) शिल्पं हास्य समधिगम्यते य एवं वेद
(२,६.७क़्क़्) यदेव शिल्पानि शंसति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.७र्र्) यद्वेव शिल्पान्यात्मसंस्कृतिर्वै शिल्पानि_
(२,६.७स्स्) आत्मानं एवास्य तत्संस्कुर्वन्ति । । ७ । ।

(२,६.८अ) नाभानेदिष्ठं शंसति
(२,६.८ब्) रेतो वै नाभानेदिष्ठः_
(२,६.८च्) रेत एवास्य तत्कल्पयति
(२,६.८द्) तद्रेतोमिश्रं भवति
(२,६.८ए) <क्ष्मया रेतः संजग्मानो नि षिञ्चत्[èV१०.६१.७ब्]>इति (२,६.८फ़्) रेतसः समृद्ध्या एव (२,६.८ग्) तं सनारशंसं शंसति (२,६.८ह्) प्रजा वै नरः
(२,६.८इ) वाक्शंसः
(२,६.८ज्) प्रजासु तद्वाचं दधाति
(२,६.८क्) तस्मादिमाः प्रजा वदन्त्यो जायन्ते
(२,६.८ल्) तं हैके पुरस्तात्प्रगाथानां शंसन्ति पुरुस्तादायतना वागिति वदन्तः_
(२,६.८म्) उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः_
(२,६.८न्) मध्य एव शंसेत्_
(२,६.८ओ) मध्यायतना वा इयं वाक्_
(२,६.८प्) उपरिष्टान्नेदीयसीव
(२,६.८क़्) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति_
(२,६.८र्) एतस्य त्वं प्राणान्कल्पयेति
(२,६.८स्) वालखिल्याः शंसति
(२,६.८त्) प्राणा वै वालखिल्याः
(२,६.८उ) प्राणानेवास्य तत्कल्पयति
(२,६.८व्) ता विहृताः शंसति
(२,६.८w) विहृता वै प्राणाः
(२,६.८x) प्राणेनापानः_
(२,६.८य्) अपानेन व्यानः
(२,६.८ज़्) स पच्छः प्रथमे सूक्ते विहरति_
(२,६.८आ) अर्धर्चशो द्वितीये_ [एद्. द्वितिये, चोर्र्. Pअत्यल्]
(२,६.८ब्ब्) ऋक्शः तृतीये
(२,६.८च्च्) स यत्प्रथमे सूक्ते विहरति वाचं चैव तन्मनश्च विहरति
(२,६.८द्द्) यद्द्वितीये चक्षुश्चैव तच्छ्रोत्रं च विहरति
(२,६.८ई) यत्तृतीये प्राणां चैव तदात्मानं च विहरति
(२,६.८फ़्फ़्) तदुपाप्तो विहरेत्कामः_
(२,६.८ग्ग्) नेतुर्वै प्रगाथाः कल्पन्ते_
(२,६.८ह्ह्) अतिमर्शं एव विहरेत्
(२,६.८इइ) तथा वै प्रगाथाः कल्पन्ते
(२,६.८ज्ज्) यदेवातिमर्शं तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.८क्क्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८ल्ल्) प्राणाः सतोबृहती
(२,६.८म्म्) स बृहतीं अशंसीत्
(२,६.८न्न्) स आत्मा_
(२,६.८ऊ) अथ सतोबृहतीम्_
(२,६.८प्प्) ते प्राणाः_
(२,६.८क़्क़्) अथ बृहतीम्
(२,६.८र्र्) अथ सतोबृहतीम्_
(२,६.८स्स्) तदात्मानं प्राणैः परिवृहन्नेति
(२,६.८त्त्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८उउ) प्रजाः सतोबृहती
(२,६.८व्व्) स बृहतीं अशंसीत्
(२,६.८ww) स आत्मा_
(२,६.८xx) अथ सतोबृहतीम्_
(२,६.८य्य्) ते प्रजाः_
(२,६.८ज़्ज़्) अथ बृहतीम्
(२,६.८आअ) अथ सतोबृहतीम्_
(२,६.८ब्ब्ब्) तदात्मानं प्रजया परिवृहन्नेति
(२,६.८च्च्च्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८द्द्द्) पशवः सतोबृहती
(२,६.८ईए) स बृहतीं अशंसीत्
(२,६.८फ़्फ़्फ़्) स आत्मा_
(२,६.८ग्ग्ग्) अथ सतोबृहतीम्_
(२,६.८ह्ह्ह्) ते पशवः_
(२,६.८इइइ) अथ बृहतीम्
(२,६.८ज्ज्ज्) अथ सतोबृहतीम्_
(२,६.८क्क्क्) तदात्मानं पशुभिः परिवृहन्नेति
(२,६.८ल्ल्ल्) तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति_
(२,६.८म्म्म्) एतस्य त्वं प्रजनयेति
(२,६.८न्न्न्) सुकीर्तिं शंसति
(२,६.८ऊओ) देवयोनिर्वै सुकीर्तिस्
(२,६.८प्प्प्) तद्यज्ञियायां देवयोन्यां यजमानं प्रजनयति
(२,६.८क़्क़्क़्) वृषाकपिं शंसति_
(२,६.८र्र्र्) आत्मा वै वृषाकपिः_
(२,६.८स्स्स्) आत्मानं एवास्य तत्कल्पयति
(२,६.८त्त्त्) तं न्यूङ्खयति_
(२,६.८उउउ) अन्नं वै न्यूङ्खः_
(२,६.८व्व्व्) अन्नाद्यं एवास्मै तत्संप्रयच्छति यथा कुमाराय जाताय स्तनम्_
(२,६.८www) स पाङ्क्तो भवति
(२,६.८xxx) पाङ्क्तो ह्ययं पुरुषः पञ्चधा विहितः_
(२,६.८य्य्य्) लोमानि त्वगस्थि मज्जा मस्तिष्कम्_
(२,६.८ज़्ज़्ज़्) स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति_
(२,६.८आआ) एतस्य त्वं प्रतिष्ठा कल्पयेति_
(२,६.८ब्ब्ब्ब्) एवयामरुतं शंसति
(२,६.८च्च्च्च्) प्रतिष्ठा वा एवयामरुत्
(२,६.८द्द्द्द्) प्रतिष्ठायां एवैनं अन्ततः प्रतिष्ठापयति
(२,६.८ईई) याज्यया यजति_
(२,६.८फ़्फ़्फ़्फ़्) अन्नं वै याज्या_
(२,६.८ग्ग्ग्ग्) अन्नाद्यं एवास्मै तत्संप्रयच्छति । । ८ । ।

(२,६.९अ) तानि वा एतानि सहचराणीत्याचक्षते यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत्
(२,६.९ब्) तानि सह वा शंसेत्सह वा न शंसेत्_
(२,६.९च्) यदेषां अन्तरीयात्तद्यजमानस्यान्तरीयात्_
(२,६.९द्) यदि नाभानेदिष्ठं रेतोऽस्यान्तरीयात्_
(२,६.९ए) यदि वालखिल्याः प्राणानस्यान्तरीयात्_
(२,६.९फ़्) यदि वृषाकपिं आत्मानं अस्यान्तरीयात्_
(२,६.९ग्) यद्येवायामरुतं प्रतिष्ठा वा एवयामरुत्प्रतिष्ठाया एवैनं तं श्रावयेद्दैव्याश्च मानुष्याश्च
(२,६.९ह्) तानि सह वा शंसेत्सह वा न शंसेत्
(२,६.९इ) स ह बुडिल आश्वितरास्युर्विश्वजितो होता सन्नीक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुरुक्थे माध्यंदिनं अभिप्रच्यवेते
(२,६.९ज्) हन्ताहं इत्थं एवायापरुतं शंसयानीति
(२,६.९क्) तद्ध तथा शंसयां चक्रे
(२,६.९ल्) तद्ध तथा शस्यमाने गोश्ल आजगम
(२,६.९म्) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति
(२,६.९न्) किं ह्यभूदिति_
(२,६.९ओ) एवयामरुदयं उत्तरतः शस्यत इति
(२,६.९प्) स होवाचैन्द्रो वै माध्यंदिनः
(२,६.९क़्) कथेन्द्रं माध्यंदिनान्निनीषसीति
(२,६.९र्) नेन्द्रं माध्यंदिनान्निनीषामीति स होवाच
(२,६.९स्) छन्दस्त्विदं अमाध्यंदिनंसाचि
(२,६.९त्) जागतं वातिजागतं वा
(२,६.९उ) स उ मारुतः_
(२,६.९व्) मैवं संमृष्टेति
(२,६.९w) स होवाचारमाच्छावाकेति_
(२,६.९x) अथास्मिन्ननुशासनं ईषे
(२,६.९य्) स होवाचैन्द्रं एष विष्णुन्यङ्गानि शंसति_
(२,६.९ज़्) अथ त्वं होतुरुपरिष्टाद्रौद्रिया धाय्यायाः पुरस्तान्मारुतस्य सूक्तस्याप्यस्यथा इति
(२,६.९आ) तथेति
(२,६.९ब्ब्) तदप्येतर्हि तथैव शस्यते
(२,६.९च्च्) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथं अत्राशस्त एव नाभानेदिष्ठो भवत्यथ वालखिल्याः शंसति
(२,६.९द्द्) रेतो वा अग्रेऽथ प्राणाः_
(२,६.९ई) एवं ब्राह्मणाच्छंसी_
(२,६.९फ़्फ़्) अशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति
(२,६.९ग्ग्) रेतो वा अग्रेऽथात्मा कथं अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति
(२,६.९ह्ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति
(२,६.९इइ) स यथा गर्भो योन्यां अन्तरेव प्राणानस्यान्तरियात्_
(२,६.९ज्ज्) यदि वृषाकपिं आत्मानं अस्यान्तरियाद्यद्येव या संभवञ्छेते
(२,६.९क्क्) न ह वै सकृदेवाग्रे सर्वं संभवति_
(२,६.९ल्ल्) एकैकं वा अङ्गं संभवतः संभवति
(२,६.९म्म्) सर्वाणि चेत्समानेऽहनि क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः_
(२,६.९न्न्) अथ हैवैवयामरुतं होता शंसेत्
(२,६.९ऊ) तद्यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. Pअत्यल्]
(२,६.९प्प्) तस्यां एवैनं अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति । । ९ । । [एद्. प्रतिस्थापयति २x, चोर्र्. Pअत्यल्]

(२,६.१०अ) देवक्षेत्रं वै षष्ठं अहः_
(२,६.१०ब्) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठं अहरागच्छन्ति
(२,६.१०च्) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुरृतोर्गृहे वसतीत्याहुस्
(२,६.१०द्) तद्यथायथं ऋत्विज ऋतुयाजान्यजन्त्यसंप्रदायम्_
(२,६.१०ए) तद्यदृतून्कल्पयन्ति यथायथं जनिता
(२,६.१०फ़्) तदाहुर्नर्तुप्रैषैः प्रेष्येयुर्नर्तुप्रैषैर्वषट्कुर्युः_
(२,६.१०ग्) वाग्वा ऋतुप्रैषाः_
(२,६.१०ह्) आप्यते वै वाक्षष्ठेऽहनीति
(२,६.१०इ) यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचं एव तदाप्तां शान्तां ऋक्णवतीं वहरावणीं ऋच्छेयुः_ [एद्. ऋक्तवतीं, चोर्र्. Pअत्यल्]
(२,६.१०ज्) अच्युताद्यज्ञस्य च्यवेरन्
(२,६.१०क्) यज्ञात्प्राणात्प्रजायाः पशुभ्यो जिह्मा ईयुस्[एद्. प्राणान्, चोर्र्. Pअत्यल्]
(२,६.१०ल्) तस्मादृग्मेभ्य एव प्रेषितव्यं
(२,६.१०म्) ऋग्मेभ्योऽधि वषट्कृत्यम्_
(२,६.१०न्) तन्न वाचं आप्तां शान्तां ऋक्तवतीं वहरावणीं ऋच्छन्ति
(२,६.१०ओ) नाच्युताद्यज्ञस्य च्यवेरन्
(२,६.१०प्) न यज्ञात्प्राणान्प्रजायाः पशुभ्यो जिह्मा यन्ति
(२,६.१०क़्) पारुच्छेपीरुपदधति द्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानाम्_
(२,६.१०र्) रोहितं वै नामैतच्छन्दो यत्पारुच्छेपम्
(२,६.१०स्) एतेन ह वा इन्द्रः सप्त स्वर्गांल्लोकानारोहत्_
(२,६.१०त्) आरोहति सप्त स्वर्गांल्लोकान्य एवं वेद
(२,६.१०उ) तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहनि शस्यन्त इति
(२,६.१०व्) षड्भिरेव पदैः षष्ठं अहरवाप्नुवन्त्यवछिद्येवैतदहर्यत्सप्तमम्_
(२,६.१०w) तदेव सप्तमेन पदेनाभ्यारुह्या वसन्ति
(२,६.१०x) संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवंविद्वांस उपयन्ति । । १० । ।

(२,६.११अ) देवासुरा वा एषु लोकेषु समयतन्त
(२,६.११ब्) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्योऽसुरान्पराणुदन्त
(२,६.११च्) तेषां यान्यन्तर्हस्तानि वसून्यासंस्तान्यादाय समुद्रं प्रारूप्यन्त
(२,६.११द्) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्याददत
(२,६.११ए) तदेवैतत्पदं पुनःपदम्
(२,६.११फ़्) स एवाङ्कुश आकुञ्चनाय_
(२,६.११ग्) आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद
(२,६.११ह्) द्यौर्वै देवता षष्ठं अहर्वहति
(२,६.११इ) त्रयस्त्रिंश स्तोमः_
(२,६.११ज्) रैवतं साम_
(२,६.११क्) अतिच्छन्दश्छन्दः_
(२,६.११ल्) यथादेवतं एनेन यथास्तोमं यथासाम यथाछन्दसं ऋध्नोति य एवं वेद
(२,६.११म्) यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम्_
(२,६.११न्) यद्येव प्रथमं अहस्तदुत्तमं अहस्
(२,६.११ओ) तदेवैतत्पदं पुनर्यत्षष्ठं यदश्ववद्यद्रथवद्यत्पुनरावृत्तं यत्पुनर्निवृत्तं यदन्तरूपं यदसौ लोकोऽभ्युदितो यन्नाभानेदिष्ठं यत्पारुच्छेपं यन्नाराशंसं यद्द्वैपदा यत्सप्तपदा यत्कृतं यद्रैवतं तत्तृतीयस्याह्नो रूपं
(२,६.११प्) एतानि वै षष्ठस्याह्नो रूपाणि
(२,६.११क़्) छन्दसां उ ह षष्ठेनाह्नाक्तानां रसोऽत्यनेदत्
(२,६.११र्) तं प्रजापतिरुदानान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा_ [एद्. गयत्र्या]
(२,६.११स्) एतानि वै छन्दांसि षष्ठेऽहनि शस्तानि भवन्त्ययातयामानि
(२,६.११त्) छनदसां एव तत्सरसताया अयातयामतायै
(२,६.११उ) सरसानि हास्य छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति
(२,६.११व्) सरसैश्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद । । ११ । ।
(२,६.१२अ) अथ यद्द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [èV१०.१५७.१, ऋS२०.६३.१, २०.१२४.४]>इति (२,६.१२ब्) द्विपाद्वै पुरुषः
(२,६.१२च्) द्विप्रतिष्ठः पुरुषः
(२,६.१२द्) पुरुषो वै यज्ञस्
(२,६.१२ए) तस्माद्द्वैपदौ स्तोत्रियानुरूपौ भवतः_
(२,६.१२फ़्) अथ सुकीर्तिं शंसत्य्<अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ, सकलपाठ अत्२.६.४]> इति
(२,६.१२ग्) देवयोनिर्वै सुकीर्तिः
(२,६.१२ह्) स य एवं एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान्स्वर्गे लोके प्रतितिष्ठति
(२,६.१२इ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद_
(२,६.१२ज्) अथ वृषाकपिं शंसति <वि हि सोतोरसृक्षत [èV१०.८६.१, ऋS१०.१२६.१]>इति
(२,६.१२क्) आदित्यो वै वृषाकपिस्
(२,६.१२ल्) तद्यत्कम्पयमानो रेतो वर्षति तस्माद्वृषाकपिस्
(२,६.१२म्) तद्वृषाकपेर्वृषाकपित्वम्_
(२,६.१२न्) वृषाकपिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद
(२,६.१२ओ) तस्य तृतीयेषु पादेष्वाद्यन्तयोर्न्यूङ्खनिनर्दान्करोति_
(२,६.१२प्) अन्नं वै न्यूङ्खः_ [एद्. न्युङ्खो, चोर्र्. Pअत्यल्]
(२,६.१२क़्) बलं निनर्दः_
(२,६.१२र्) अन्नाद्यं एवास्मै तद्बले निदधाति_
(२,६.१२स्) अथ कुन्तापं शंसति
(२,६.१२त्) कुयं ह वै नाम कुत्सितं भवति
(२,६.१२उ) तद्यत्तपति तस्मात्कुन्तापास्
(२,६.१२व्) तत्कुन्तापानां कुन्तापत्वम्_
(२,६.१२w) तप्यन्तेऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति
(२,६.१२x) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१२य्) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति
(२,६.१२ज़्) ताः प्रग्राहं शंसति यथा वृषाकपिम्_
(२,६.१२आ) वार्षरूपं हि
(२,६.१२ब्ब्) वृषाकपेस्तन्न्यायं एत्येव_
(२,६.१२च्च्) अथ रैभीः शंसति
(२,६.१२द्द्) <वच्यस्व रेभ वच्यस्व [èVKह्५.९.१, ऋS२०.१२७.४]>इति (२,६.१२ई) रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकं आयन्
(२,६.१२फ़्फ़्) तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति
(२,६.१२ग्ग्) ताः प्रग्राहं एत्येव_
(२,६.१२ह्ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति
(२,६.१२इइ) संवत्सरो वै परिक्षित्
(२,६.१२ज्ज्) संवत्सरो हीदं सर्वं परिक्षियतीति_
(२,६.१२क्क्) अथो खल्वाहुरग्निर्वै परिक्षित्_
(२,६.१२ल्ल्) अग्निर्हीदं सर्वं परिक्षियतीति_
(२,६.१२म्म्) अथो खल्वाहुर्गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस्तद्यथा कुर्यात्_
(२,६.१२न्न्) गाथा एवैताः शस्ता भवन्ति
(२,६.१२ऊ) यद्यु वै गाथा अग्नेरेव गाथाः संवत्सरस्य वेति ब्रूयात्_
(२,६.१२प्प्) यद्यु वै मन्त्रोऽग्निरेव मन्त्रः संवत्सरस्य वेति ब्रूयात्
(२,६.१२क़्क़्) ताः प्रग्राहं एत्येव_
(२,६.१२र्र्) अथ कारव्याः शंसति<इन्द्रः कारुं अबूबुधत्[èVKह्५.११.१, ऋS२०.१२७.११]>इति
(२,६.१२स्स्) यदेव देवाः कल्याणं कर्माकुर्वंस्तत्कारव्याभिरवाप्नुवन्_
(२,६.१२त्त्) तथैवैतद्यजमाना यदेव देवाः कल्याणं कर्म कुर्वन्ति तत्कारव्याभिरवाप्नुवन्ति
(२,६.१२उउ) ताः प्रग्राहं इत्येव_
(२,६.१२व्व्) अथ दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>इति जनकल्पा उत्तराः शंसति <योऽनाक्ताक्षो अनभ्यक्तः [èVKह्५.१३.१, ऋS२०.१२८.६]>इति_
(२,६.१२ww) ऋतवो वै दिशः प्रजननस्
(२,६.१२xx) तद्यद्दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>इति जनकल्पा उत्तराः शंसत्यृतूनेव तत्कल्पयति
(२,६.१२य्य्) ऋतुषु प्रतिष्ठापयति
(२,६.१२ज़्ज़्) प्रतिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति
(२,६.१२आअ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१२ब्ब्ब्) ता अर्धर्चशः शंसति
(२,६.१२च्च्च्) प्रतिष्ठित्या एव_
(२,६.१२द्द्द्) अथेन्द्रगाथाः शंसति <यदिन्द्रादो दाशराज्ञे [èVKह्५.१४.१, ऋS२०.१२८.१२]>इति
(२,६.१२ईए) इन्द्रगाथाभिर्ह वै देवा असुरानागायाथैनानत्यायन्_
(२,६.१२फ़्फ़्फ़्) तथैवैतद्यजमाना इन्द्रगाथाभिरेवाप्रियं भ्रातृव्यं आगायाथैनं अतियन्ति
(२,६.१२ग्ग्ग्) ता अर्धर्चशः शंसति
(२,६.१२ह्ह्ह्) प्रतिष्ठित्या एव । । १२ । ।

(२,६.१३अ) अथैतशप्रलापं शंसत्य्<एता अश्वा आ प्लवन्ते [èVKह्५.१५.१, ऋS२०.१२९.१]>इति
(२,६.१३ब्) ऐतशो ह मुनिर्यज्ञस्यायुर्ददर्श
(२,६.१३च्) स ह पुत्रानुवाच पुत्रका यज्ञस्यायुरभिददर्शम्_
(२,६.१३द्) तदभिलपिष्यामि मा मा दृप्तं मन्यध्वं इति
(२,६.१३ए) तथेति
(२,६.१३फ़्) तदभिललाप
(२,६.१३ग्) तस्य हाभ्यग्निरैतशायनो ज्येष्ठः पुत्रोऽभिद्रुत्य मुखं अपिजग्राह ब्रुवन्दृप्तो नः पितेति
(२,६.१३ह्) स होवाच धिक्त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर्यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गां अकरिष्यं सहस्रायुषं पुरुषं इति
(२,६.१३इ) तस्मादभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया
(२,६.१३ज्) यदैतशप्रलापस्तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.१३क्) यद्वेवैतशप्रलापोऽयातयामा वा अक्षितिरैतशप्रलापः_ [एद्. ऐतशैतशप्रलापो]
(२,६.१३ल्) अयातयामा मे यज्ञोऽसदक्षितिर्मे यज्ञोऽसदिति
(२,६.१३म्) तं वा एतं ऐतशप्रलापं शंसति पदावग्राहम्_ [एद्. वा ऐतशैतशप्रलापं]
(२,६.१३न्) तासां उत्तमेन पदेन प्रणौति यथा निविदः_ [एद्. प्राणौति, चोर्र्. Pअत्यल्]
(२,६.१३ओ) अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [èVKह्५.१६.१, ऋS२०.१३३.१]>इति प्रतिराधानुत्तरान्शंसति <भुगित्यभिगतः [èVKह्५.१८.१, ऋS२०.१३५.१]>इति [एद्. प्रतिराधानुत्तरानः]
(२,६.१३प्) प्रवल्हिकाभिर्ह वै देवा असुराणां रसान्प्रववृहुस्
(२,६.१३क़्) तद्यथाभिर्ह वै देवा असुराणां रसान्प्रववृहुस्तस्मात्प्रवल्हिकास्
(२,६.१३र्) तत्प्रवल्हिकानां प्रवल्हिकात्वम्_
(२,६.१३स्) ता वै प्रतिराधैः प्रत्यराध्नुवन्_
(२,६.१३त्) तद्यत्प्रतिराधैः प्रत्यराध्नुवंस्तस्मात्प्रतिराधास्
(२,६.१३उ) तत्प्रतिराधानां प्रतिराधत्वम्_
(२,६.१३व्) प्रवल्हिकाभिरेव द्विषतां भ्रातृव्याणां रसान्प्रवल्हिकास्
(२,६.१३w) ता वै प्रतिराधैः प्रतिराध्नुवन्ति
(२,६.१३x) ताः प्रग्राहं इत्येव_
(२,६.१३य्) अथाजिज्ञासेन्याः शंसति<इहेत्थ प्रागपागुदगधराक्[èVKह्५.१७.१, ऋS२०.१३४.१]>इति_ [एद्. उदाग्, चोर्रेच्तेद्प्. ३०३]
(२,६.१३ज़्) आजिज्ञासेन्याभिर्ह वै देवा असुरानाज्ञायाथैनानत्यायन्_
(२,६.१३आ) तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यं आज्ञायाथैनं अतियन्ति
(२,६.१३ब्ब्) ता अर्धर्चशः शंसति
(२,६.१३च्च्) प्रतिष्ठित्या एव_
(२,६.१३द्द्) अथातिवादं शंसति <वीमे देवा अक्रंसत [èVKह्५.१९.१, ऋS२०.१३५.४]>इति (२,६.१३ई) श्रीर्वा अतिवादस् (२,६.१३फ़्फ़्) तं एकर्चं शंसति
(२,६.१३ग्ग्) एकस्ता वै श्रीस्
(२,६.१३ह्ह्) तां वै विरेभं शंसति
(२,६.१३इइ) विरेभैः श्रियं पुरुषो वहतीति
(२,६.१३ज्ज्) तां अर्धर्चशः शंसति
(२,६.१३क्क्) प्रतिष्ठित्या एव । । १३ । ।

(२,६.१४अ) अथादित्याश्चाङ्गिरसीश्च शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो अदक्षिणां अनयन्[èVKह्५.२०.१, ऋS२०.१३५.६]>इति (२,६.१४ब्) तद्देवनीथं इत्याचक्षते
(२,६.१४च्) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति
(२,६.१४द्) ते हाङ्गिरसः श्वःसुत्यां ददृशुस्
(२,६.१४ए) ते हाग्निं ऊचुः परेह्यादित्येभ्यः श्वःसुत्यां प्रब्रूहीति_
(२,६.१४फ़्) अथादित्या अद्यसुत्यां ददृशुस्
(२,६.१४ग्) ते हाग्निं ऊचुरद्यसुत्यास्माकम्_
(२,६.१४ह्) तेषां नस्त्वं होतासीत्युपेमस्त्वां इति
(२,६.१४इ) स एत्याग्निरुवाचाथादित्या अद्यसुत्यां ईक्षन्ते कं वो होतारं अवोचन्वाह्वयन्ते युष्माकं वयं इति
(२,६.१४ज्) ते हाङ्गिरसश्चुक्रुधुर्मा त्वं गमो नु वयं इति
(२,६.१४क्) नेति हाग्निरुवाचानिन्द्या वै माह्वयन्ते
(२,६.१४ल्) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति
(२,६.१४म्) तस्मादतिद्रूरं अत्यल्पं इति यजमानस्य हवं इयादेव
(२,६.१४न्) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति
(२,६.१४ओ) तान्हादित्यानङ्गिरसो याजयां चक्रुस्
(२,६.१४प्) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस्
(२,६.१४क़्) तां ह न प्रतिजगृहुः
(२,६.१४र्) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत्कुपिता मां न प्रत्यग्रहीषुरिति
(२,६.१४स्) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते
(२,६.१४त्) तस्मान्निवृत्तदक्षिणां नोपाकुर्यान्नैनां प्रमृजेत्_
(२,६.१४उ) नेद्दक्षिणां प्रमृणजानीति
(२,६.१४व्) तस्माद्य एवास्य समानजन्मा भ्रातृव्यः स्याद्वृणहूयुस्तस्मा एनां दद्यात्
(२,६.१४w) तन्न पराची दक्षिणा विवृणक्ति
(२,६.१४x) द्विषति भ्रातृव्येऽन्ततः शुचं प्रतिष्ठापयति योऽयौ तपति
(२,६.१४य्) स वै शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो दक्षिणां अनयंस्तां ह जरितः प्रत्यायन्[èVKह्५.२०.१अब्च्, ऋS२०.१३५.६अब्च्]>इति (२,६.१४ज़्) न हीमां पृथिवीं प्रत्यायन्
(२,६.१४आ) <तां उ ह जरितः प्रत्यायन्[èVKह्५.२०.१द्, ऋS२०.१३५.६द्]>इति प्रति हि तेऽमुं आयन्
(२,६.१४ब्ब्) <तां ह जरितर्नः प्रत्यगृभ्णन्[èVKह्५.२०.२अ, ऋS२०.१३५.७अ]>इति (२,६.१४च्च्) न हीमां पृथिवीं प्रत्यगृभ्णन्
(२,६.१४द्द्) <तां उ ह जरितर्नः प्रत्यगृभ्ण [èVKह्५.२०.२ब्, ऋS२०.१३५.७ब्]>इति प्रगृह्यादित्यं अगृभ्णन्
(२,६.१४ई) <अहानेतरसं न विचेतनानि [èVKह्५.२०.२च्, ऋS२०.१३५.७च्]>इत्येष ह वा अह्नां विचेता योऽसौ तपति (२,६.१४फ़्फ़्) स वै शंसति <यज्ञानेतरसं न पुरोगवासः [èVKह्५.२०.२द्, ऋS२०.१३५.७द्]>इति_
(२,६.१४ग्ग्) एषा ह वै यज्ञस्य पुरोगवी यद्दक्षिणा
(२,६.१४ह्ह्) यथार्हामः स्रस्तं अतिरेतदन्त्येतेष एवेश्वर उन्नेता
(२,६.१४इइ) <उत श्वेत आशुपत्वा उत पद्याभिर्यविष्ठ उतें आशु मानं पिपर्ति [èVKह्५.२०.३, ऋS२०.१३५.८]>इति
(२,६.१४ज्ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर्यविष्ठः_
(२,६.१४क्क्) <उतें आशु मानं पिपर्ति [èVKह्५.२०.३च्, ऋS२०.१३५.८च्]>इति
(२,६.१४ल्ल्) <आदित्या रुद्रा वसवस्तेनुत इदं राधः प्रतिगृभ्णीह्यङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत्पृथु देवा ददत्वासुरं तद्वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्येव गृभायत [èVKह्५.२०.४-५, ऋS२०.१३५.९-१०]>इति तद्यदादित्याश्चाङ्गिरसीश्च शंसति स्वर्गताया एवैतत् [एद्. यसंआं, चोर्र्. Pअत्यल्]
(२,६.१४म्म्) अहरहः शंसति यथा निविदः_
(२,६.१४न्न्) अथ भूतेछदः शंसति <त्वं इन्द्र शर्म रिणा [èVKह्५.२१.१, ऋS२०.१३५.११]>इति (२,६.१४ऊ) इमे वै लोका भूतेछदः
(२,६.१४प्प्) असुरान्ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस्तितीर्षमाणास्
(२,६.१४क़्क़्) तानिमे देवाः सर्वेभ्यो भूतेभ्योऽछादयन्_
(२,६.१४र्र्) तद्यदेतानिमे देवाः सर्वेभ्योऽछादयंस्तस्माद्भूतेछदस्
(२,६.१४स्स्) तद्भूतेछदां भूतेछदत्वम्_
(२,६.१४त्त्) छादयन्ति ह वापरं इमे लोकाः
(२,६.१४उउ) सर्वेभ्यो भूतेभ्यो निरघ्नन्_
(२,६.१४व्व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद । । १४ । ।

(२,६.१५अ) अथाहनस्याः शंसति <यदस्या अंहुभेद्याः [èVKह्५.२२.१, ऋS२०.१३६.१]>इति
(२,६.१५ब्) आहनस्याद्वा इदं सर्वं प्रजातम्
(२,६.१५च्) आहनस्याद्वा एतदधिप्रजायते_
(२,६.१५द्) अस्यैव सर्वस्याप्त्यै प्रजात्यै
(२,६.१५ए) ता वै षट्शंसेत्
(२,६.१५फ़्) षड्वा ऋतवः_
(२,६.१५ग्) ऋतवः पितरः
(२,६.१५ह्) पितरः प्रजापतिः
(२,६.१५इ) प्रजापतिराहनस्यास्
(२,६.१५ज्) ता दश शंसेदिति शाम्भव्यस्य वचः_
(२,६.१५क्) दशाक्षरा विराट्_
(२,६.१५ल्) वैराजो यज्ञस्
(२,६.१५म्) तं गर्भा उपजीवन्ति
(२,६.१५न्) श्रीर्वै विराट्_
(२,६.१५ओ) यशोऽन्नाद्यम्_
(२,६.१५प्) श्रियं एव तद्विराजं यशस्यन्नाद्ये प्रतिष्ठापयति
(२,६.१५क़्) प्रतितिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति
(२,६.१५र्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१५स्) तिस्रः शंसेदिति वात्स्यस्
(२,६.१५त्) त्रिवृद्वै रेतः सिक्तं संभवत्याण्डं उल्वं जरायु
(२,६.१५उ) त्रिवृत्प्रत्ययं माता पिता यज्जायते तत्तृतीयम्
(२,६.१५व्) अभूतोद्यं एवैतद्यच्चतुर्थीं शंसेत्
(२,६.१५w) सर्वा एव षोडश शंसेदिति हैके
(२,६.१५x) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. Pअत्यल्]
(२,६.१५य्) रेतसः सिक्तात्प्रजाः प्रजायन्ते प्रजानां प्रजननाय
(२,६.१५ज़्) प्रजावान्प्रजनयिष्णुर्भवति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद । । १५ । ।

(२,६.१६अ) अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषं [èV४.३९.६, èVKह्५.२२.१३, ऋS२०.१३७.३]> इति
(२,६.१६ब्) तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [èV९.१०१.४, ऋS२०.१३७.४]>इत्यन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. Pअत्यल्] (२,६.१६च्) पवित्रं पावमान्यस् (२,६.१६द्) तदु हैके पावमानीभिरेव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वागन्नाद्या यः पवत इति वदन्तस् (२,६.१६ए) तदु तथा न कूर्यादुपनश्यति ह वागशनायती (२,६.१६फ़्) स दाधिक्रीं एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति (२,६.१६ग्) तद्यद्दाधिक्रीं शंसतीयं वागाहनस्यां वाचं अवादीत् (२,६.१६ह्) तद्देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. Pअत्यल्] (२,६.१६इ) सा वा अनुष्टुब्भवति (२,६.१६ज्) वाग्वा अनुष्टुप् (२,६.१६क्) तत्स्वेनैव छन्दसा वाचं पुनीते (२,६.१६ल्) तां अर्धर्चशः शंसति (२,६.१६म्) प्रतिष्ठित्या एव
(२,६.१६न्) अथ पावमानीः शंसति
(२,६.१६ओ) पवित्रं वै पावमान्यः_
(२,६.१६प्) इयं वागाहनस्यां वाचं अवादीत्
(२,६.१६क़्) तत्पावमानीभिरेव वाचं पुनीते
(२,६.१६र्) ताः सर्वा अनुष्टुभो भवन्ति
(२,६.१६स्) वाग्वा अनुष्टुप्
(२,६.१६त्) तत्स्वेनैव छन्दसा वाचं पुनीते
(२,६.१६उ) ता अर्धर्चशः शंसति
(२,६.१६व्) प्रतिष्ठित्या एव_
(२,६.१६w) <अव द्रप्सो अंशुमतीं अतिष्ठत्[èV८.९६.१३, ऋS२०.१३७.७]>इत्येतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसति
(२,६.१६x) अथ हैतदुत्सृष्टम्_
(२,६.१६य्) तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति सवनधारणं इदं गुल्मह इति वदन्तस्
(२,६.१६ज़्) तदु तथा न कुर्यात्
(२,६.१६आ) त्रिष्टुबायतना वा इयं वागेषां होत्रकाणां यदैन्द्राबार्हस्पत्या तृतीयसवने
(२,६.१६ब्ब्) तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति स्व एवैनं तदायतने प्रीणाति स्वयोर्देवतयोः
(२,६.१६च्च्) कामं नित्यं एव परिदध्यात्
(२,६.१६द्द्) कामं तृचस्योत्तमया
(२,६.१६ई) तदाहुः संशंसेत्षष्ठेऽहनि न संशंसेत्
(२,६.१६फ़्फ़्) कथं अन्येष्वहःसु संशंसति
(२,६.१६ग्ग्) कथं अत्र न संशंसतीति_
(२,६.१६ह्ह्) अथो खल्वाहुर्नैव संशंसेत्
(२,६.१६इइ) स्वर्गौ वै लोकः षष्ठं अहः_
(२,६.१६ज्ज्) असमायी वै स्वर्गो लोकः
(२,६.१६क्क्) कश्चिद्वै स्वर्गे लोके शमयतीति
(२,६.१६ल्ल्) तस्मान्न संशंसति
(२,६.१६म्म्) यदेव न संशंसति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.१६न्न्) यद्वेवैनाः संशंसति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुदेतानि वा अत्रोक्थानि भवन्ति तस्मान्न संशंसति_
(२,६.१६ऊ) ऐन्द्रो वृषाकपिः
(२,६.१६प्प्) सर्वाणि छन्दांस्यैतशप्रलापः_
(२,६.१६क़्क़्) उपाप्तो यदैन्द्राबार्हस्पत्या तृतीयसवने तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्यैन्द्राबार्हस्पत्या परिधानीया विशो अदेवीरभ्याचरन्तीरिति_
(२,६.१६र्र्) अपरजना ह वै विशो देवीर्न ह्यस्यापरजनं भयं भवति
(२,६.१६स्स्) शान्ताः प्रजाः क्ळ्प्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणं । । १६ । ।

(२,६.१६चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः । ।

(चोल्) इत्यथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तं । ।