गोपथब्राह्मणम् पूर्व

गोपथब्राह्मणम् पूर्व Gopatha Brahmanam Poorva, Atharva Veda

ओं नमोऽथर्ववेदाय नमः ॥

ओं ब्रह्म ह वा इदं अग्र आसीत्स्वयंभ्वेकं एव तदैक्षत महद्वै यक्षं यदेकं एवास्मि हन्ताहं मदेव मन्मात्रं द्वितीयं देवं निर्मिमा इति तदभ्यश्राम्यदभ्यतपत्समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यदार्द्रं आजायत तेनानन्दत् तदब्रवीत् महद्वै यक्षं सुवेदं अविदं अहं इति तद्यदब्रवीत् महद्वै यक्षं सुवेदं अविदं अहं इति तस्मात्सुवेदोऽभवत् तं वा एतं सुवेदं सन्तं स्वेद इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥

स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त ताभिरनन्दत् तदब्रवीत् आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं च आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं च आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति तद्यदब्रवीत् आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं चेति तस्माद्धारा अभवन् तद्धाराणां धारात्वं यच्चासु ध्रियते तद्यदब्रवीत् आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं चेति तस्माज्जाया अभवन् तज्जायानां जायात्वं यच्चासु पुरुषो जायते यच्च पुत्रः [एद्.ः याच्] पुन्नाम नरकं अनेकशततारम् तस्मात्त्रातीति पुत्रस् तत्पुत्रस्य पुत्रत्वम् तद्यदब्रवीत् आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति तस्मादापोऽभवन् तदपां अप्त्वम् आप्नोति वै स सर्वान्कामान्यान्कामयते ॥ २ ॥

ता अपः सृष्ट्वान्वैक्षत तासु स्वां छायां अपश्यत् तां अस्येक्षमाणस्य स्वयं रेतोऽस्कन्दत् तदप्सु प्रत्यतिष्ठत् तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् ताः श्रान्तास्तप्ताः संतप्ताः सार्धं एव रेतसा द्वैधं अभवन् तासां अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन् अथेतराः पेयाः स्वाद्व्यः शान्तास् तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यो यद्रेत आसीत्तदभृज्ज्यत [एद्.ः असीत्] तस्माद्भृगुः समभवत् तद्भृगोर्भृगुत्वम् भृगुरिव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥

स भृगुं सृष्ट्वान्तरधीयत स भृगुः सृष्टः प्राङैजत तं वागन्ववदत् वायो वाय इति स न्यवर्तत स दक्षिणां दिशं ऐजत तं वागन्ववदत् मातरिश्वन्मातरिश्वन्निति स न्यवर्तत स प्रतीचीं दिशं ऐजत तं वागन्ववदत् पवमान पवमानेति स न्यवर्तत स उदीचीं दिशं ऐजत तं वागन्ववदत् वात वातेति तं अब्रवीत् न न्वविदं अहं इति न हीति अथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति तद्यदब्रवीदथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति तदथर्वाभवत् तदथर्वणोऽथर्वत्वम् तस्य ह वा एतस्य भगवतोऽथर्वण ऋषेर्यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवं एवास्य सर्व आत्मा समभवत् तं अथर्वाणं ब्रह्माब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तद्यदब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत् तत्प्रजापतेः प्रजापतित्वम् अथर्वा वै प्रजापतिः प्रजापतिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

तं अथर्वाणं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत् तस्माच्छ्रान्तात्तप्तात्संतप्ताद्दशतयानथर्वण ऋषीन्निरमिमतैकर्चान्द्व्यृचांस्तृचांस्चतुरृचान्पञ्चर्चान्त्षडर्चान्त्सप्तर्चानष्टर्चान्नवर्चान्दशर्चानिति [एद्.ः षडर्चांत्] तानथर्वण ऋषीनभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाथर्वणानार्षेयान्निरमिमतैकादशान्द्वादशांस्त्रयोदशांश्चतुर्दशान्पञ्चदशान्षोडशान्त्सप्तदशानष्टादशान्नवदशान्विंशानिति [एद्.ः षोडशांत्, नोते अल्सो पञ्चर्चान्तबोवे] तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आथर्वणो वेदोऽभवत् तं आथर्वणं वेदं अभ्यश्राम्यदभ्यतपत्समतपत् तस्माच्छ्रान्तात्तप्तात्संतप्तादों इति मन एवोर्ध्वं अक्षरं उदक्रामत् स य इच्छेत्सर्वैरेतैरथर्वभिश्चाथर्वणैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत सर्वैर्ह वा अस्यैतैरथर्वभिश्चाथर्वणैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते ॥ ५ ॥

स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् स आतमत एव त्रींल्लोकान्निरमिमीत पृथिवीं अन्तरिक्षं दिवं इति स खलु पादाभ्यां एव पृथिवीं निर्ममिमीत उदरादन्तरिक्षं मूर्ध्नो दिवम् स तांस्त्रींल्लोकानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्देवान्निरमिमीत अग्निं वायुं आदित्यं इति स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद्वायुं दिव आदित्यम् स तांस्त्रीन्देवानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्वेदान्निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदं इति अग्नेरृग्वेदं वायोर्यजुर्वेदं आदित्यात्सामवेदम् स तांस्त्रीन्वेदानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्तिस्रो महाव्याहृतीर्निरमिमीत भूर्भुवः स्वरिति भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात् स य इच्छेत्सर्वैरेतैस्त्रिभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत सर्वैर्ह वा अस्यैतैस्त्रिभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते ॥ ६ ॥

ता या अमू रेतः समुद्रं वृत्वातिष्ठंस्ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त तद्यत्समवद्रवन्त तस्मात्समुद्र उच्यते ता भीता अब्रुवन् भगवन्तं एव वयं राजानं वृणीमह इति यच्च वृत्वातिष्ठंस्तद्वरणोऽभवत् तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स समुद्रादमुच्यत स मुच्युरभवत् तं वा एतं मुच्युं सन्तं मृत्युरित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् तं वरुणं मृत्युं अभ्यश्राम्यदभ्यतपत्समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत् सोऽङ्गरसोऽभवत् तं वा एतं अङ्गरसं सन्तं अङ्गिरा इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥

तं अङ्गिरसं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत् तस्माच्छ्रान्तात्तप्तात्संतप्ताद्विंशिनोऽङ्गिरस ऋषीन्निरमिमीत तान्विंशिनोऽङ्गिरस ऋषीनभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाङ्गिरसानार्षेयान्निरमिमीत षोडशिनोऽष्टादशिनो द्वादशिन एकर्चान्द्व्यृचांस्तृचांश्चतुरृचान्पञ्चर्चान्षडर्चान्सप्तर्चानिति तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत् तां आङ्गिरसं वेदं अभ्यश्राम्यदभ्यतपत्समतपत् तस्माच्छ्रान्तात्तप्तात्संतप्ताज्जनदिति द्वैतं अक्षरं व्यभवत् स य इच्छेत्सर्वैरेतैरङ्गिरोभिश्चाङ्गिरसैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत सर्वैर्ह वा अस्यैतैरङ्गिरोभिश्चाङ्गिरसैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते ॥ ८ ॥

स ऊर्ध्वोऽतिष्ठत् स इमांल्लोकान्व्यष्टभ्नात् तस्मादङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति तद्व्रतं स मनसा ध्यायेद्यद्वा अहं किं च मनसा ध्यास्यामि तथैव तद्भविष्यति [एद्.ः येद्] तद्ध स्म तथैव भवति तदप्येतदृचोक्तम् श्रेष्ठो ह वेदस्तपसोऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । ऋज्यद्भूतं यदसृज्यतेदं निवेशनं अनृणं दूरं अस्येति [एद्.ः ऋच्यृग्भूतं – सी नोते Pअत्यल्] ता वा एता अङ्गिरसां जामयो यन्मेनयः करोति मेनिभिर्वीर्यं य एवं वेद ॥ ९ ॥

स दिशोऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीं उदीचीं ध्रुवां ऊर्ध्वां इति तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान्निरमिमीत सर्पवेदं पिशाचवेदं असुरवेदं इतिहासवेदं पुराणवेदं इति स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत दक्षिणस्याः पिशाचवेदम् प्रतीच्या असुरवेदम् उदीच्या इतिहासवेदम् ध्रुवायाश्चोर्ध्वायाश्च पुराणवेदम् स तान्पञ्च वेदानभ्यश्राम्यदभ्यतपत्समतपत् तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर्निरमिमीत वृधत्करद्रुहन्महत्तदिति वृधदिति सर्पवेदात् करदिति पिशाचवेदात् रुहदित्यसुरवेदात् महदितीतिहासवेदात् तदिति पुराणवेदात् स य इच्छेत्सर्वैरेतैः पञ्चभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत सर्वैर्ह वा अस्यैतैः पञ्चभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते ॥ १० ॥

स आवतश्च परावतश्चान्वैक्षत तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः शं इत्यूर्ध्वं अक्षरं उदक्रामत् स य इच्छेत्सर्वाभिरेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैवा तन्महाव्याहृत्या कुर्वीत सर्वाभिर्ह वा अस्यैताभिरावद्भिश्च परावद्भिश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते ॥ ११ ॥

स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् स मनस एव चन्द्रमसं निरमिमीत नखेभ्यो नक्षत्राणि लोमभ्य ओषधिवनस्पतीन् क्षुद्रेभ्यः प्राणेभ्योऽन्यान्बहून्देवान् स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् स एतं त्रिवृतं सप्ततन्तुं एकविंशतिसंस्थं यज्ञं अपश्यत्[एद्. एकविशतिसंस्थं] तदप्येतदृचोक्तम् <अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं [PS५.२८.१च्]> इति अथाप्येष प्राक्रीडितः श्लोकः प्रत्यभिवदति सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥

तं आहरत् तेनायजत तस्याग्निर्होतासीत् वायुरध्वर्युः सूर्य उद्गाता चन्द्रमा ब्रह्मा पर्जन्यः सदस्यः ओषधिवनस्पतयश्चमसाध्वर्यवः विश्वे देवा होत्रकाः अथर्वाङ्गिरसो गोप्तारस् तं ह स्मैतं एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्यभिव्रजन्ति मा नोऽयं घर्म उद्यतः प्रमत्तानां अमृताः प्रजाः प्रधाक्षीदिति तान्वा एतान्परिरक्षकान्त्सदःप्रसर्पकानित्याचक्षते दक्षिणासमृद्धान् तदु ह स्माह प्रजापतिः यद्वै यज्ञेऽकुशला ऋत्विजो भवन्त्यचरितिनो ब्रह्मचर्यं अपराग्या वा तद्वै यज्ञस्य विरिष्टं इत्याचक्षते यज्ञस्य विरिष्टं अनु यजमानो विरिष्यते यजमानस्य विरिष्टं अन्वृत्विजो विरिष्यन्ते ऋत्विजां विरिष्टं अनु दक्षिणा विरिष्यन्ते दक्षिणानां विरिष्टं अनु यजमानः पुत्रपशुभिर्विरिष्यते पुत्रपशूनां विरिष्टं अनु यजमानः स्वर्गेण लोकेन विरिष्यते स्वर्गस्य लोकस्य विरिष्टं अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्नर्धे यजन्त इति ब्राह्मणं ॥ १३ ॥

तं ह स्मैतं एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्युपाधावेरन् नमस्ते अस्तु भगवन् यज्ञस्य नो विरिष्टं सन्धेहीति तद्यत्रैव विरिष्टं स्यात्तत्राग्नीनुपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिरेवाग्नीन्त्सम्प्रोक्षति त्रिः पर्युक्षति त्रिः कारयमानं आचामयति च संप्रोक्षति च यज्ञवास्तु व सम्प्रोक्षति अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्वेवं एवास्य यज्ञस्य विरिष्टं संधीयते यज्ञस्य संधितिं अनु यजमानः संधीयते [एद्. संघीयते] यजमानस्य संधितिं अन्वृत्विजः संधीयन्ते ऋत्विजां संधितिं अनु दक्षिणाः संधीयन्ते दक्षिणानां संधितिं अनु यजमानः पुत्रपशुभिः संधीयते पुत्रपशूनां संधितिं अनु यजमानः स्वर्गेण लोकेन संधीयते स्वर्गस्य लोकस्य संधितिं अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्नर्धे यजन्त इति ब्राह्मणं ॥ १४ ॥

तदु ह स्माहाथर्वा देवो विजानन्यज्ञविरिष्टानन्दानीत्युपशमयेरन्यज्ञे प्रायश्चित्तिः क्रियतेऽपि च यदु बह्विव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युं अपात्येति पुनाराजातिं कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्ब्रह्मा भवति यस्य चैवंविद्वान्ब्रह्मा दक्षिणतः सदोऽध्यास्ते यस्य चैवंविद्वान्ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर्जुहोतीति ब्राह्मणं ॥ १५ ॥

ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे स खलु ब्रह्मा सृष्टश्चिन्तां आपेदे केनाहं एकेनाक्षरेण सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयं इति स ब्रह्मचर्यं अचरत् स ओं इत्येतदक्षरं अपश्यद्द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम् तया सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत् तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् ॥ १६ ॥

तस्य प्रथमया स्वरमात्रया पृथिवीं अग्निं ओषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिं गायत्रं छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तं ऋतुं वाचं अध्यात्मं जिह्वां रसं इतीन्द्रियाण्यन्वभवत् ॥ १७ ॥

तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मं ऋतुं प्राणं अध्यात्मं नासिके गन्धघ्राणं इतीन्द्रियाण्यन्वभवत् ॥ १८ ॥

तस्य तृतीयया स्वरमात्रया दिवं आदित्यं सामवेदं स्वरिति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमं उदीचीं दिशं वर्षा ऋतुं ज्योतिरध्यात्मं चक्षुषी दर्शनं इतीन्द्रियान्यन्वभवत् ॥ १९ ॥

तस्य वकारमात्रयापश्चन्द्रमसं अथर्ववेदं नक्षत्राण्यों इति स्वं आत्मानं जनदित्यङ्गिरसां आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदं ऋतुं मनोऽध्यात्मं ज्ञानं ज्ञेयं इतीन्द्रियाण्यन्वभवत् ॥ २० ॥

तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीरुपनिषदोऽनुशासनानीति वृधत्करद्रुहन्महत्तच्छं ओं इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्यन्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवां ऊर्ध्वां दिशं हेमन्तशिशिरावृतू श्रोत्रं अध्यात्मं शब्दश्रवणं इतीन्द्रियाण्यन्वभवत् ॥ २१ ॥

सैषैकाक्षरर्ग्ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् अत एव मन्त्राः प्रादुर्बभूवुः स तु खलु मन्त्राणां अतपसासुश्रूषानध्यायाध्ययनेन यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेत् मन्त्राश्च मां अभिमुखीभवेयुर्गर्भा इव मातरं अभिजिघांसुः पुरस्तादोंकारं प्रयुङ्क्ते एतयैव तदृचा प्रत्याप्यायेत् एषैव यज्ञस्य पुरस्ताद्युज्यते एषा पश्चात् सर्वत एतया यज्ञस्तायते तदप्येतदृचोक्तम् या पुरस्ताद्युज्यत ऋचो अक्षरे परमे व्योमन्निति तदेतदक्षरं ब्राह्मणो यं कामं इच्छेत्त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व आवर्तयेत् सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणं ॥ २२ ॥

वसोर्धाराणां ऐन्द्रं नगरम् तदसुराः पर्यवारयन्त ते देवा भीता आसन् क इमानसुरानपहनिष्यतीति [एद्. ईमान्] त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् ते तं अब्रुवन् भवता मुखेनेमानसुराञ्जयेमेति स होवाच किं मे प्रतीवाहो भविष्यतीति वरं वृणीष्वेति वृणा इति स वरं अवृणीत न मां अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः यदि वदेयुरब्रह्म तत्स्यादिति तथेति ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन् तानोंकारेणाग्नीध्रीयाद्देवा असुरान्पराभावयन्त तद्यत्पराभावयन्त तस्मादोंकारः पूर्वं उच्यते यो ह वा एतं ओंकारं न वेदावशी स्यादित्यथ य एवं वेद ब्रह्मवशी स्यादिति तस्मादोंकार ऋच्यृग्भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रम् ब्राह्मणे ब्राह्मणम् श्लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणं ॥ २३ ॥

ओंकारं पृच्छामः को धातुः किं प्रातिपदिकम् किं नामाख्यातम् किं लिङ्गम् किं वचनम् का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणम् को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षुकाः किं उच्चारयन्ति किं छन्दः को वर्ण इति पूर्वे प्रश्राः अथोत्तरे मन्त्रः कल्पो ब्राह्मणं ऋग्यजुः साम कस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति किं दैवतम् किं ज्योतिषम् किं निरुक्तम् किं स्थानम् का प्रकृतिः किमध्यात्मं इति षट्त्रिंशत्प्रश्र्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः एतैरोंकारं व्याख्यास्यामः ॥ २४ ॥

इन्द्रः प्रजापतिं अपृच्छत् भगवन्नभिष्टूय पृच्छामीति पृच्छ वत्सेत्यब्रवीत् किं अयं ओंकारः कस्यः पुत्रः किं चैतच्छन्दः किं चैतद्वर्णः किं चैतद्ब्रह्मा ब्रह्म सम्पद्यते तस्माद्वै तद्भद्रं ओंकारं पूर्वं आलेभे स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे उदात्तोदात द्विपद अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनं इत्याहुः या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदं अनामकम् ओंकारस्य चोत्पत्तिः विप्रो यो न जानाति तत्पुनरुपनयनम् तस्माद्ब्राह्माणवचनं आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः गायत्रं च्छन्दः शुक्लो वर्णः पुंसो वत्सः रुद्रो देवता ओंकारो वेदानां ॥ २५ ॥

को धातुरिति आपृधातुः अवतिं अप्येके रूपसामान्यादर्थसामान्यं नेदीयस् तस्मादापेरोंकारः सर्वं आप्नोतीत्यर्थः कृदन्तं अर्थवत् प्रातिपदिकं अदर्शनम् प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तदव्ययीभूतम् अन्वर्थवाची शब्दो न व्येति कदा चनेति सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् को विकारी च्यवते प्रसारणम् आप्नोतेराकरपकारौ विकार्यौ आदित ओंकारो विक्रियते द्वितीयो मकारः एव द्विवर्ण एकाक्षर ओं इत्योंकारो निर्वृत्तः ॥ २६ ॥

कतिमात्र इति आदेस्तिस्रो मात्राः अभ्यादाने हि प्लवते मकारश्चतुर्थीम् किं स्थानं इति उभावोष्ठौ स्थानम् नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्फ़्. Pअत्यल्प्. २८] संध्यक्षरं अवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृतकरणस्थितश्च द्वितीयस्पृष्टकरणस्थितश्च न संयोगो विद्यते आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान्भवन्तो ब्रुवन्त्विति तद्वाच्युपलक्षयेद्वर्णाक्षरपदाङ्कशः विभक्त्यां ऋषिनिषेवितां इति वाचं स्तुवन्ति तस्मात्कारणं ब्रूमः वर्णानां अयं इदं भविष्यतीति षडङ्गविदस्तत्तथाधीमहे किं छन्द इति गायत्रं हि छन्दः गायत्री वै देवानां एकाक्षरा श्वेतवर्णा च व्याख्याता द्वौ द्वादशकौ वर्गौ एतद्वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता मन्त्रः कल्पो ब्राहमणं ऋग्यजुः सामाथर्वाणि एषा व्याहृतिश्चतुर्णां वेदानां आनुपूर्वेणों भूर्भुवः स्वरिति व्याहृतयः ॥ २७ ॥

असमीक्ष्यप्रवल्हितानि श्रूयन्ते द्वापरादावृषीणां एकदेशो दोषपतिरिह चिन्तां आपेदे त्रिभिः सोमः पातव्यः समाप्तं इव भवति तस्मादृग्यजुःसामान्यपक्रान्ततेजांस्यासन् तन्त्र महर्षयः परिदेवयां चक्रिरे महच्छोकभयं प्राप्ताः स्मः न चैतत्सर्वैः समभिहितम् ते वयं भगवन्तं एवोपधावाम सर्वेषां एव शर्म भवानीति ते तथेत्युक्त्वा तूष्णीं अतिष्ठन् नानुपसन्नेभ्य इति उपोपसीदामीति नीचैर्बभूवुः स एभ्य उपनीय प्रोवाच मामिकां एव व्याहृतिं आदित आदितः कृणुध्वं इति एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः ऋत्विजः पराभवन्ति यजमानो रजसापध्वस्यति श्रुतिश्चापध्वस्ता तिष्ठतीति एवं एवोत्तरोत्तराद्योगात्तोकं तोकं प्रशाध्वं इति एवं प्रतापो न पराभविष्यतीति तथा ह तथा ह भगवन्निति प्रतिपेदिर आप्याययन् ते तथा वीतशोकभया बभूवुस् तस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति ॥ २८ ॥

किं देवतं इति ऋचां अग्निर्देवतम् तदेव ज्योतिः गायत्रं छन्दः पृथिवी स्थानम् <अग्निं ईळे पुरोहितं यज्ञस्य देवं ऋत्विजं होतारं रत्नधातमं [èV१.१.१]> इत्येवं आदिं कृत्वा ऋग्वेदं अधीयते यजुषां वायुर्देवतम् तदेव ज्योतिस् त्रैष्टुभं छन्दः अन्तरिक्षं स्थानम् <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [VS१.१]>इत्येवं आदिं कृत्वा यजुर्वेदं अधीयते साम्नां आदित्यो देवतम् तदेव ज्योतिः जागतं छन्दः द्यौः स्थानम् <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [SV१.१]>इत्येवं आदिं कृत्वा समावेदं अधीयते अथर्वणां चन्द्रमा देवतम् तदेव ज्योतिः सर्वाणि छन्दांसि आपः स्थानम् <शं नो देवीरभिष्टय [PS१.१.१]> इत्येवं आदिं कृत्वाथर्ववेदं अधीयते अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति तस्मात्सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यबिति प्रकृतिरपां ओंकारेण च एतस्माद्व्यासः पुरोवाच भृग्वङ्गिरोविदा संस्कृतोऽन्यान्वेदानधीयीत नान्यत्र संस्कृतो भृग़्गिरसोऽधीयीत सामवेदेऽथ खिलश्रुतिर्ब्रह्मचर्येण चैतस्मादथर्वाङ्गिरसो ह यो वेद स वेद सर्वं इति ब्राह्मणं ॥ २९ ॥

अध्यात्मं आत्मभैषज्यं आत्मकैवल्यं ओंकारः आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत् अतिक्रम्य वेदेभ्यः सर्वपरं अध्यात्मफलं प्राप्नोतीत्यर्थः सवितर्कं ज्ञानमयं इत्येतैः प्रश्नैः प्रतिवचनैश्च यथार्थं पदं अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात्सर्वस्मिन्वाकोवाक्य इति ब्राह्मणं ॥ ३० ॥

एतद्ध स्मैतद्विद्वांसं एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम स तस्मिन्ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन्मर्या अयं तन्मौद्गल्योऽध्येति यदस्मिन्ब्रह्मचर्यं वसतीति तद्धि मौद्गल्यस्यान्तेवासी शुश्राव स आचार्यायाव्रज्याचचष्टे दुरधीयानं वा अयं भवन्तं अवोचद्योऽयं अद्यातिथिर्भवति किं स्ॐय विद्वानिति त्रीन्वेदान्ब्रूते भो इति तस्य स्ॐय विपष्टो विजिगीषोऽन्तेवासी तं मे ह्वयेति तं आजुहाव तं अभ्युवाचासाविति भो इति किं स्ॐय त आचार्योऽध्येतीति त्रीन्वेदान्ब्रूते भो इति यन्नु खलु स्ॐयास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवं आचार्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् यं ह्येनं अहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्येनं अध्येतीति स ह मौद्गल्यः स्वं अन्तेवासिनं उवाच परेहि स्ॐय ग्लावं मैत्रेयं उपसीद अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम् यस्या भृग्वङ्गिरसश्चक्षुः यस्यां सर्वं इदं श्रितं तां भवान्प्रब्रवीत्विति स चेत्स्ॐय दुरधीयानो भविष्यत्याचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत्त्वं ब्रूयाद्दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत् स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः पुरा संवत्सरादार्तिं आरिष्यसीति ॥ ३१ ॥

स तत्राजगाम यत्रेतरो बभूव तं ह पप्रच्छ स ह न प्रतिपेदे तं होवाच दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत् स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः पुरा संवत्सरादार्तिं आरिष्यसीति स ह मैत्रेयः स्वानन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम् दुरधीयानं वा अहं मौद्गल्यं अवोचम् स मा यं प्रश्नं अप्राक्षीन्न तं व्यवोचम् तं उपैष्यामि शान्तिं करिष्यामीति स ह मैत्रेयः प्रातः समित्पाणिर्मौद्गल्यं उपससादासौ वा अहं भो मैत्रेयः किमर्थं इति दुरधीयानं वा अहं भवन्तं अवोचम् त्वं मा यं प्रश्नं अप्राक्षीर्न तं व्यवोचम् त्वां उपैष्यामि शान्तिं करिष्यामीति स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तं आहुः अथोऽयं मम कल्याणस्[Pअत्यल्ऽस्त्रन्स्ल्. इम्प्लिएस्थे एमेन्दतिओनाहू रथो] तं ते ददामि तेन याहीति स होवाचैतदेवात्रात्विषं चानृशंस्यं च यथा भवानाह उपायामि त्वेव भवन्तं इति तं होपेयाय तं होपेत्य पप्रच्छ किं स्विदाहुर्भोः सवितुर्वरेण्यं भर्गो देवस्य कवयः किं आहुर्धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्, चोर्र्. Pअत्यल्] तस्मा एतत्प्रोवाच वेदांश्छन्दांसि सवितुर्वरेण्यम् भर्गो देवस्य कवयोऽन्नं आहुः कर्माणि धियस् तदु ते प्रब्रवीमि प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्] तं उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥

मन एव सविता वाक्सावित्री यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन्मन इति एते द्वे योनी एकं मिथुनम् अग्निरेव सविता पृथिवी सावित्री यत्र ह्येवाग्निस्तत्पृथिवी यत्र वै पृथिवी तदग्निरिति एते द्वे योनी एकं मिथुनम् वायुरेव सवितान्तरिक्षं सावित्री यत्र ह्येव वायुस्तदन्तरिक्षं यत्र वा अन्तरिक्षं तद्वायुरिति एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इति एते द्वे योनी एकं मिथुनम् चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्षत्राणि तच्चन्द्रमा इति एते द्वे योनी एकं मिथुनम् अहरेव सविता रात्रिः सावित्री यत्र ह्येवाहस्तद्रात्रिर्यत्र वै रात्रिस्तदहरिति एते द्वे योनी एक मिथुनम् उष्णं एव सविता शीतं सावित्री यत्र ह्येवोष्णं तच्छीतं यत्र वै शीतं तदुष्णं इति एते द्वे योनी एकं मिथुनम् अभ्रं एव सविता वर्षं सावित्री यत्र ह्येवाभ्रं तद्वर्षं यत्र वै वर्षं तदभ्रं इति एते द्वे योनी एकं मिथुनम् विद्युदेव सविता स्तनयित्नुः सावित्री यत्र ह्येव विद्युत्तत्स्तनयित्नुर्यत्र वै स्तनयित्नुस्तद्विद्युदिति एते द्वे योनी एकं मिथुनम् प्राण एव सवितान्नं सावित्री यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत्प्राण इति एते द्वे योनी एकं मिथुनम् वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स्सेन्तेन्चे एन्द्मर्केर्] यत्र ह्येव वेदास्तच्छन्दांसि यत्र वै छन्दांसि तद्वेदा इति एते द्वे योनी एकं मिथुनम् यज्ञ एक सविता दक्षिणाः सावित्री यत्र ह्येव यज्ञस्तद्दक्षिणा यत्र वै दक्षिणास्तद्यज्ञ इति एते द्वे योनी एकं मिथुनम् एतद्ध स्मैतद्विद्वांसं ओपाकारिं आसस्तुर्ब्रह्मचारी ते संस्थित इत्यथैत आसस्तुराचित इव चितो बभूव अथोत्थाय प्राव्राजीदित्येतद्वा अहं वेद नैतासु योनिष्वित एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयादिति ॥ ३३ ॥

ब्रह्म हेदं श्रियं प्रतिष्ठां आयतनं ऐक्षत तत्तपस्व यदि तद्व्रते ध्रियेत तत्सत्ये प्रत्यतिष्ठत् स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत्सवित्रीं पर्यदधात् तत्सवितुर्वरेण्यं इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] पृथिव्यर्चं समदधात् ऋचाग्निम् अग्निना श्रियम् श्रिया स्त्रियम् स्त्रिया मिथुनम् मिथुनेन प्रजाम् प्रजया कर्म कर्मणा तपस्[एद्. कमणा] तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥

भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः अन्तरिक्षेण यजुः समदधात् यजुषा वायुम् वायुनाभ्रम् अभ्रेण वर्षम् वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥

धियो यो नः प्रचोदयादिति सावित्र्यास्तृतीयः पादः दिवा साम समदधात् साम्नादित्यम् आदित्येन रश्मीन्[एद्. रश्मि+ईन्] रश्मिभिर्वर्षम् वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्यास्तृतीयं पादं व्याचष्टे ॥ ३६ ॥

तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम् ब्रह्मणाकाशं अभिपन्नं ग्रसितं परामृष्टम् आकाशेन वायुरभिपन्नो ग्रसितः परामृष्टः वायुना ज्योतिरभिपन्नं ग्रसितं परामृष्टम् ज्योतिषापोऽभिपन्ना ग्रसिताः परामृष्टाः अद्भिर्भूमिरभिपन्ना ग्रसिता परामृष्टा भूम्यान्नं अभिपन्नं ग्रसितं परामृष्टम् अन्नेन प्राणोऽभिपन्नो ग्रसितः परामृष्टः प्राणेन मनोऽभिपन्नं ग्रसितं परामृष्टम् मनसा वागभिपन्ना ग्रसिता परामृष्टा वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः वेदैर्यज्ञोऽभिपन्नो ग्रसितः परामृष्टस्[एद्. परिमृष्टस्] तानि ह वा एतानि द्वादशमहाभूतान्येवंविदि प्रतिष्ठितानि तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥

तं ह स्मैतं एवांविद्वांसो मन्यन्ते विद्मैनं इति याथातथ्यं अविद्वांसः अयं यज्ञो वेदेषु प्रतिष्ठितः वेदा वाचि प्रतिष्ठिताः वाङ्मनसि प्रतिष्ठिता मनः प्राणे प्रतिष्ठितम् प्राणोऽन्ने प्रतिष्ठितः अन्नं भूमौ प्रतिष्ठितम् भूमिरप्सु प्रतिष्ठिता आपो ज्योतिषि प्रतिष्ठिताः ज्योतिर्वायौ प्रतिष्ठितम् वायुराकाशे प्रतिष्ठितः आकाशं ब्रह्मणि प्रतिष्ठितम् ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् यो ह वा एवंवित्स ब्रह्मवित् पुण्यां च कीर्तिं लभते सुरभींश्च गन्धान् सोऽपहतपाप्मा अनन्तां श्रियं अश्नुते य एवं वेद यश्चैवंविद्वानेवं एतां वेदानां मातरं सावित्रीं संपदं उपनिषदं उपास्त इति ब्राह्मणं ॥ ३८ ॥

<आपो गर्भं जनयन्तीर्[PS४.१.८]> इति अपां गर्भः पुरुषः स यज्ञः अद्भिर्यज्ञः प्रणीयमानः प्राङ्तायते तस्मादाचमनीयं पूर्वं आहारयति स यदाचामति त्रिराचामति द्विः परिशुम्भति आयुरवरुह्य पाप्मानं निर्णुदति उपसाद्य यजुषोद्धृत्य मन्त्रान्प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणावमृतं अस्यमृतोपस्तरणं अस्यमृताय त्वोपस्तृणामीति पाणावुदकं आनीय <जीवा स्थ [PS१९.५५.१२-१५, ऋS१९.६९.१-४]>इति सूक्तेन त्रिराचामति स यत्पूर्वं आचामति सप्त प्राणांस्तानेतेनास्मिन्नाप्याययति या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतदग्निं वायुं आदित्यं चन्द्रमसं अपः पशूनन्यांश्च प्रजास्तानेतेनास्मिन्नाप्याययति आपोऽमृतम् स यद्द्वितीयं आचामति सप्तापानांस्तानेतेनास्मिन्नाप्याययति या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पौर्णमासीं अष्टकां अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास्तानेतेनास्मिन्नाप्याययति आपोऽमृतम् स यत्तृतीयं आचामति सप्त व्यानांस्तानेतेनास्मिन्नाप्याययति या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पृथिवीं अन्तरिक्षं दिवम् नक्षत्राण्यृतूनार्तवान्संवत्सरांस्तानेतेनास्मिन्नाप्याययति आपोऽमृतम् पुरुषो ब्रह्म अथाप्रियनिगमो भवति तस्माद्वै विद्वान्पुरुषं इदं पुण्डरीकं इति [एद्. अथाप्रींग्निगमो, बुत्सी Pअत्यल्प्. ४४] प्राण एष स पुरि शेते संपुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स यत्पूर्वं आचामति पुरस्ताद्धोमांस्तेनास्मिन्नवरुन्द्धे स यद्द्वितीयं आचामत्याज्यभागौ तेनास्मिन्नवरुन्द्धे स यत्तृतीयं आचामति संस्थितहोमांस्तेनास्मिन्नवरुन्द्धे स यद्द्विः परिशुम्भति तत्समित्संबर्हिः [एद्. संमित्, च्फ़्. Pअत्यल्प्. ४५] स यत्सर्वाणि खानि सर्वं देहं आप्याययति यच्चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे स यदोंपूर्वान्मन्त्रान्प्रयुङ्क्त आ सर्वमेधादेते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्यर्धे च न प्रमीयते य एवं वेद तदप्येतदृचोक्तं आपो भृग्वङ्गिरो रूपं आपो भृग्वङ्गिरोमयं सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते त्रयो वेदा भृगूनङ्गिरसोऽनुगाः ॥ अपां पुष्पं मूर्तिराकाशं पवित्रं उत्तमं इति आचम्याभ्युक्ष्यात्मानं अनुमन्त्रयत <इन्द्र जीव [PS२०.४३.१, ऋS१९.७०.१]>इति ब्राह्मणं ॥ ३९ ॥

इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥ ओं <ब्रह्मचारीष्णंश्चरति रोदसी उभे [ऋS११.३.१अ, PS१६.१५३.१अ]> इत्याचार्यं आह <तस्मिन्देवाः संमनसो भवन्ति [ऋS११.३.१, PS१६.१५३.१ब्]>इति वायुं आह <स सद्य एति पूर्वस्मादुत्तरं समुद्रं [ऋS११.३.६, PS१६.१५३.६]> इत्यादित्यं आह दीक्षितो दीर्घश्मश्रुः एष दीक्षित एष दीर्घश्मश्रुरेष एवाचार्यस्थाने तिष्ठन्नाचार्य इति स्तूयते वैद्युतस्थाने तिष्ठन्वायुरिति स्तूयते द्यौस्थाने तिष्ठन्नादित्य इति स्तूयते तदप्येतदृचोक्तं <ब्रह्मचारीष्णन्[ऋS११.३.१, PS१६.१५३.१]>इति ब्राह्मणं ॥ १ ॥

जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्चसं च यशश्च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यं एव गन्धं सप्तमम् तानि ह वा अस्यैतानि ब्रह्मचर्यं उपेत्योपक्रामन्ति मृगानस्य ब्रह्मवर्चसं गच्छति आचार्यं यशः अजगरं स्वप्नः वराहं क्रोधः अपः श्लाघा कुमारीं रूपम् ओषधिवनस्पतीन्पुण्यो गन्धः स यन्मृगाजिनानि वस्ते तेन तद्ब्रह्मवर्चसं अवरुन्द्धे यदस्य मृगेषु भवति स ह स्नातो ब्रह्मवर्चसी भवति स यदहरहराचार्याय कर्म करोति तेन तद्यशोऽवरुन्द्धे यदस्याचार्ये भवति स ह स्नातो यशस्वी भवति स यत्सुषुप्सुर्निद्रां निनयति तेन तं स्वप्नं अवरुन्द्धे योऽस्याजगरे भवति तं ह स्नातं स्वपन्तं आहुः स्वपितु मैनं बोबुधथेति स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं क्रोधं अवरुन्द्धे योऽस्य वराहे भवति तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते अथाद्भिः श्लाघमानो न स्नायात् तेन तां श्लाघां अवरुन्द्धे यास्याप्सु भवति स ह स्नातः श्लाघीयोऽन्येभ्यः श्लाघ्यते अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास् तां नग्नां नोदीक्षेत इति वेति वा मुखं विपरिधापयेत् तेन तद्रूपं अवरुन्द्धे यदस्य कुमार्यां भवति तं ह स्नातं कुमारीं इव निरीक्षन्ते अथैतद्ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् तेन तं पुण्यं गन्धं अवरुन्द्धे योऽस्यौषधिवनस्वपतिषु भवति स ह स्नातः पुण्यगन्धिर्भवति ॥ २ ॥

स वा एष उपयंश्चतुर्धोपैत्यग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन स यदहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्तेन तं पादं अवरुन्द्धे योऽस्याग्नौ भवति स यदहरहराचार्याय कर्म करोति तेन तं पादं अवरुन्द्धे योऽस्याचार्ये भवति स यदहरहर्ग्रामं प्रविश्य भिक्षां एव परीप्सति न मैथुनं तेन तं पादं अवरुन्द्धे योऽस्य ग्रामे भवति स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं पादं अवरुन्द्धे योऽस्य मृत्यौ भवति ॥ ३ ॥

पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्घस्तयोर्मुखे हृदय उपस्थ एव पञ्चमः स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकं अवरुन्द्धे यत्सव्येन तेन प्रव्राजिनाम् यन्मुखेन तेनाग्निप्रस्कन्दिनाम् यद्धृदयेन तेन शूराणाम् यदुपस्थेन तेन गृहमेधिनाम् तैश्चेत्स्त्रियं पराहरत्यनग्निरिव शिष्यते स यदहरहराचार्याय कुलेऽनुतिष्ठते सोऽनुष्ठाय ब्रूयाद्धर्म गुप्तो मा गोपायेति धर्मो हैनं गुप्तो गोपायति तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति धाय्यैव प्रतिधीयते स्वर्गे लोके पितॄन्निदधाति तान्तवं न वसीत यस्तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म तस्मात्तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रं इति नोपर्यासीत यदुपर्यास्ते प्राणं एव तदात्मनोऽधरं कुरुते यद्वातो वहति अध एवासीताधः शयीताधस्तिष्ठेदधो व्रजेत् एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनं आहुरुपनयेतैनं इति आ समिद्धारात्स्वरेष्यन्तोऽन्नं अद्यात् अथाह जघनं आहुः स्नापयेतैनं इतिया समिद्धारात् न ह्येतानि व्रतानि भवन्ति तं चेच्छयानं आचार्योऽभिवदेत्स प्रतिसंहाय प्रतिशृणुयात् तं चेच्छयानं उत्थाय तं चेदुत्थितं अभिप्रक्रम्य तं चेदभिप्रक्रान्तं अभिपलायमानम् एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तेषां ह स्म वैषा पुण्या कीर्तिर्गच्छत्या ह वा अयं सोऽद्य गमिष्यतीति ॥ ४ ॥

जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन्हंसाभ्यां असिष्यन्नुपावतस्थ इति तावूचतुर्जनमेजयं पारीक्षितं अभ्याजगाम स होवाच नमो वां भगवन्तौ कौ नु भगवन्ताविति तावूचतुर्दक्षिणाग्निश्चाहवनीयश्चेति स होवाच नमो वां भगवन्तौ तदाकीयतां इति इहोपारामं इति अपि किल देवा न रमन्ते न हि देवा न रमन्तए अपि चैकोपारामाद्देवा आरामं उपसंक्रामन्तीति स होवाच नमो वां भगवन्तौ किं पुण्यं इति ब्रह्मचर्यं इति किं लौक्यं इति ब्रह्मचर्यं एवेति तत्को वेद इति दन्तावलो ध्ॐरः अथ खलु दन्तावलो ध्ॐरो यावति तावति काले पारीक्षितं जनमेजयं अभ्याजगाम तस्मा उत्थाय स्वयं एव विष्टरं निदधौ तं उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यं इति ब्रह्मचर्यं इति किं लौक्यं इति ब्रह्मचर्यं एवेति तस्मा एतत्प्रोवाचाष्टाचत्वारिंशद्वर्षं सर्ववेदब्रह्मचर्यम् तच्चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्यवरार्धम् अपि स्नायंश्चरेद्यथाशक्त्यपरम् तस्मा उहस्यृषभौ सहस्रं ददौ अप्यपकीर्तितं आचार्यो ब्रह्मचारीत्येक आहुराकाशं अधिदैवतम् अथाध्यात्मं ब्राह्मणो व्रतवांश्चरणवान्ब्रह्मचारी ॥ ५ ॥

ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत् ब्रह्मचारिणं एव न संप्रददौ स होवाचाश्यां अस्मिन्निति किं इति यां रात्रीं समिधं अनाहृत्य वसेत्तां आयुषोऽवरुन्धीयेति तस्माद्ब्रह्मचार्यहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत् नोपर्युपसादयेदथ प्रतिष्ठापयेत् यदुपर्युपसादयेज्जीमूतवर्षी तदहः पर्जन्यो भवति ते देवा अब्रुवन्ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति ब्रूतास्मै भिक्षा इति गृहपतिर्ब्रूत बहुचारी गृहपत्न्या इति किं अस्या वृञ्जीताददत्या इति इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति तस्माद्ब्रह्मचारिणेऽहरहर्भिक्षां दद्याद्गृहिणी मा मायं इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति सप्तमीं नातिनयेत्सप्तमीं अतिनयन्न ब्रह्मचारी भवति समिद्भैक्षे सप्तरात्रं अचरितवान्ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥

नोपरिशायी स्यान्न गायनो न नर्तनो न सरणो न निष्ठीवेत् यदुपरिशायी भवत्यभीक्ष्णं निवासा जायन्ते यद्गायनो भवत्यभीक्ष्णश आक्रन्दान्धावन्ते यन्नर्तनो भवत्यभीक्ष्णशः प्रेतान्निर्हरन्ते यत्सरणो भवत्यभीक्ष्णशः प्रजाः संविशन्ते यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति स चेन्निष्ठीवेद्<दिवो नु मां [ऋS६.१२४.१, PS१९.४०.४, Vऐत्S१२.७]> <यदत्रापि मधोरहं [PS२०.३८.६, Vऐत्S१२.८]> <यदत्रापि रसस्य मे [PS२०.२७.८, Vऐत्S१२.९]>इत्यात्मानं अनुमन्त्रयते <यदत्रापि मधोरहं निरष्ठविषं अस्मृतं अग्निश्च तत्सविता च पुनर्मे जठरे धत्तां [PS२०.३८.६, Vऐत्S१२.८]> ॥ <यदत्रापि रसस्य मे परापपातास्मृतं तदिहोपह्वयामहे तन्म आप्यायतां पुनः [PS२०.२७.८]>इति न श्मशानं आतिष्ठेत् स चेदभितिष्ठेदुदकं हस्ते कृत्वा <यदीदमृतुकाम्येत्य्[PS२०.५४.९]> अभिमन्त्र्य जपन्त्सम्प्रोक्ष्य परिक्रामेत् समयायोपरिव्रजेद् <यदीदमृतुकाम्याघं रिप्रं उपेयिम । अन्धः श्लोण इव हीयतां मा नोऽन्वागादघं यतः [PS२०.५४.९]>इति अथ हैतद्देवानां परिषूतं यद्ब्रह्मचारी तदप्येतदृचोक्तं देवानां एतत्परिषूतं अनभ्यारूढं चरति रोचमानं तस्मिन्सर्वे पशवस्तत्र यज्ञास्तस्मिन्नन्नं सह देवताभिरिति ब्राह्मणं ॥ ७ ॥

प्राणापानौ जनयन्निति शङ्खस्य मुखे महर्षेर्वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाविहोत्सौ प्रादुर्भवेयातां इति तथा तच्छश्वदनुवर्तते अथ खलु विपाण्मध्ये वसिष्ठशिला नाम प्रथम आश्रमः द्वितीयः कृष्णशिलास् तस्मिन्वसिष्ठः समतपत् विश्वामित्रजमदग्नी जामदग्ने तपतः गौतमभरद्वाजौ सिंहौ प्रभवे तपतः गुंगुर्गुंगुवासे तपति ऋषिरृषिद्रोणेऽभ्यतपत् अगस्त्योऽगस्त्यतीर्थे तपति दिव्यत्रिर्ह तपति स्वयम्भूः कश्यपः कश्यपतुङ्गेऽभ्यतपत् उलवृकर्क्षुतरक्षुः श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात्सरणवाटात्सिद्धिर्भवति ब्राह्म्यं वर्षसहस्रं ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति द्वितीयं वर्षसहस्रं मूर्धन्येवामृतस्य धारां आधारयत् ब्राह्माण्यष्टाचत्वारिंशद्वर्षसहस्राणि सलिलस्य पृष्ठे शिवोऽभ्यतपत् तस्मात्तप्तात्तपसो भूय एवाभ्यतपत् तदप्येता ऋचोऽभिवदन्ति प्राणापानौ जनयन्निति ब्राह्मणं ॥ ८ ॥

एकपाद्द्विपद इति वायुरेकपात् तस्याकाशं पादः चन्द्रमा द्विपात् तस्य पूर्वपक्षापरपक्षौ पादौ आदित्यस्त्रिपात् तस्येमे लोकाः पादाः अग्निः षट्पादस् तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादास् तेषां सर्वेषां वेदा गतिरात्मा प्रतिष्ठिताश्चतस्रो ब्रह्मणः शाखाः अथो आहुः षडिति मूर्तिराकाशश्चेति [एद्. अहुः] ऋचा मूर्तिः याजुषी गतिः साममयं तेजः भृग्वङ्गिरसा माया एतद्ब्रह्मैव यज्ञश्चतुष्पाद्द्विः संस्थित इति तस्य भृग्वङ्गिरसः संस्थे अथो आहुरेकसंस्थित इति यद्धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति एतस्यां ह्यग्निश्चरति तदप्येतदृचोक्तं <अग्निवासाः पृथिव्यसितज्ञूः [ऋS१२.१.२१, PS१७.३.२]>इति यदध्वर्युर्यजुषा करोत्यन्तरिक्षं तेनाप्याययति तस्मिन्वायुर्न निविशते कतमच्च नाहरिति तदप्येतदृचोक्तं <अन्तरिक्षे पथिभिर्ह्रीयमाणो न नि विशते कतमच्च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव [PS१.१०७.४]>इति यदुद्गाता साम्ना करोति दिवं तेनाप्याययति तत्र ह्यादित्यः शुक्रश्चरति तदप्येतदृचोक्तं <उच्चा पतन्तं अरुणं सुपर्णं [ऋS१३.२.३६, PS१८.२४.३]> इति यद्ब्रह्मर्चां काण्डैः करोत्यपस्तेनाप्याययति चन्द्रमा ह्यप्सु चरति तदप्येतदृचोक्तं चन्द्रमा अप्स्वन्तरिति तासां ओषधिवनस्पतयः काण्डानि ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर्यज्ञो वर्तते अद्भिः कर्णाणि प्रवर्तन्ते अद्भिः सोमोऽभिषूयते तद्यद्ब्रह्माणां कर्णाणि कर्मण्यामन्त्रयत्यपस्तेनानुजानाति एषो ह्यस्य भागस् तद्यथा भोक्ष्यमाणः अप एव प्रथमं आचामयेदप उपरिष्टादेवं यज्ञोऽद्भिरेव प्रवर्तते अप्सु संस्थाप्यते तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर्यज्ञो वर्तते अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर्यज्ञं परिगृह्णाति अन्तरा हि भृग्वङ्गिरसो वेदानादुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते सोमात्मको ह्ययं वेद तदप्येतदृचोक्तं सोमं मन्यते पपिवानिति तद्यथेमां पृथिवीं उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति एवं ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयति अग्निरादित्याय शमयति एतेऽङ्गिरसः एत इदं सर्वं समाप्नुवन्ति वायुरापश्चन्द्रमा इत्येते भृगवः एत इदं सर्वं समाप्याययन्ति एकं एव संस्थं भवतीति ब्राह्मणं ॥ ९ ॥

विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसकोऽनूचान आस स ह स्वेनातिमानेन मानुषं वित्तं नेयाय तं मातोवाच त एवैतदन्नं अवोचंस्त इम एषु कुरुपञ्चालेष्वङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्वन्नं अदन्तीति अथ वयं तवैवातिमानेनानाद्याः स्मः वत्स वाहनं अन्विच्छेति स मान्धातुर्यौवनाश्वस्य सार्वभ्ॐअस्य राज्ञः सोमं प्रसूतं आजगाम स सदोऽनुप्रविश्यर्त्विजश्च यजमानं चामन्त्रयां आस तद्याः प्राच्यो नद्यो वहन्ति याश्च दक्षिणाच्यो याश्च प्रतीच्यो याश्चोदीच्यस्ताः सर्वाः पृथङ्नामधेया इत्याचक्षते तासां समुद्रं अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्याचक्षते एवं इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् तेषां यज्ञं अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्येवाचक्षते ॥ १० ॥

भूमेर्ह वा एतद्विच्छिन्नं देवयजनं यदप्राक्प्रवणं यदनुदक्प्रवणं यत्कृत्रिमं यत्समविषमम् इदं ह त्वेव देवयजनं यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद्ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति तान्ह पप्रच्छ किं विद्वान्होता हौत्रं करोति किं विद्वानध्वर्युराध्वर्यवं करोति किं विद्वानुद्गातौद्गात्रं करोति किं विद्वान्ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति ते ब्रूमो वागेव होता हौत्रं करोति वाचो हि स्तोमाश्च वषट्काराश्चाभिसम्पद्यन्ते ते ब्रूमो वागेव होता वाग्ब्रह्म वाग्देव इति प्राणापानाभ्यां एवाध्वर्युराध्वर्यवं करोति प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास् ते ब्रूमः प्राणापानावेवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति चक्षुषैवोद्गातौद्गात्रं करोति चक्षुषा हीमानि भूतानि पश्यन्ति अथो चक्षुरेवोद्गाता चक्षुर्ब्रह्म चक्षुर्देव इति मनसैव ब्रह्मा ब्रह्मत्वं करोति मनसा हि तिर्यक्च दिश ऊर्ध्वं यच्च किं च मनसैव करोति तद्ब्रह्म ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥

तद्यथा ह वा इदं यजमानश्च याजयितारश्च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौरिति ब्रूयुस्तदन्यो नानुजानात्येतां एवं नानुजानाति यदेतद्ब्रूयात् अथ नु कथं इति होतेत्येव होतारं ब्रूयाद्वागिति वाचं ब्रह्मेति ब्रह्म देव इति देवं अध्वर्युरित्येवाध्वर्युं ब्रूयात्प्राणापानाविति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवं उद्गातेत्येवोद्गातारं ब्रूयाच्चक्षुरिति चक्षुर्ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्येव ब्रह्माणं ब्रूयान्मन इति मनो ब्रह्मेति ब्रह्म देव इति देवं ॥ १२ ॥

नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति किमर्थं इति यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति तथेति तेभ्य एतान्प्रश्नान्व्याचचष्टे तद्येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद्ब्रह्म तद्यो वेद स ब्राह्मणोऽधीयानोऽधीत्याचक्षत इति ब्राह्मणं ॥ १३ ॥

अथातो देवयजनानि आत्मा देवयजनम् श्रद्धा देवयजनम् ऋत्विजो देवयजनम् भ्ॐअं देवयजनम् तद्वा एतदात्मा देवयजनं यदुपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरं अधिवसति एष यज्ञः एष यजतः एतं यजन्तः एतद्देवयजनम् अथैतच्छ्रद्धा देवयजनम् यदैव कदा चिदादध्यात् श्रद्धा त्वेवैनं नातीयात् तद्देवयजनम् अथैतदृत्विजो देवयजनम् यत्र क्व चिद्ब्राह्मणो विद्यावान्मन्त्रेण करोति तद्देवयजनम् अथेतद्भ्ॐअं देवयजनम् यत्रापस्तिष्ठन्ति यत्र स्यन्दन्ति प्र तद्वहन्त्युद्वहन्ति तद्देवयजनम् यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात्स्यात् न देवयजनमात्रं पुरस्तात्पर्यवशिष्येत् नोत्तरतोऽग्नेः पर्युपसीदेरन्निति ब्राह्मणं ॥ १४ ॥

अदितिर्वै प्रजाकामौदनं अपचत् तत उच्छिष्टं आश्नात् सा गर्भं अधत्त तत आदित्या अजायन्त य एष ओदनः पच्यत आरम्भणं एवैतत्क्रियत आक्रमणं एव प्रादेशमात्रीः समिधो भवन्ति एतावान्ह्यात्मा प्रजापतिना संमितः अग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छत एषास्य घृत्या तनूर्यद्घृतम् यद्घृतेन समिधोऽनक्ति ताभ्यां एवैनं तत्तनूभ्यां समर्धयति यन्निर्मार्गस्यादधात्यवगूर्त्या वै वीर्यं क्रियते यन्निर्मार्गस्यादधात्यवगूर्त्या एव संवत्सरो वै प्रजननम् अग्निः प्रजननम् एतत्प्रजननम् यत्संवत्सर ऋचाग्नौ समिधं आदधाति प्रजननादेवैनं तत्प्रजनयिता प्रजनयति अभक्तर्तुर्वै पुरुषः न हि तद्वेद यं ऋतुं अभिजायते यन्नक्षत्रं तदाप्नोति य एष ओदनः पच्यते योनिरेवैषा क्रियते यत्समिध आधीयन्ते रेतस्तद्धीयते संवत्सरे वै रेतो हितं प्रजायते यः संवत्सरे पर्येतेऽग्निं आधत्ते प्रजातं एवैनं आधत्ते द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास् ता हि संवत्सरस्य प्रतिमा अथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निं आदधानेन आदित्या वा इत उत्तमा अमुं लोकं आयन् ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्तः उच्छेषणभाजा वा आदित्याः [यदुच्छिष्टम्] यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत्तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥

प्रजापतिरथर्वा देवः स तपस्तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रं इति चत्वारो वा इमे लोकाः पृथिव्यन्तरिक्षं द्यौराप इति चत्वारो वा इमे देवा अग्निर्वायुरादित्यश्चन्द्रमाः चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति चतस्रो वा इमा होत्रा हौत्रं आध्वर्यवं औद्गात्रं ब्रह्मत्वं इति तदप्येतदृचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [PS८.१३.३]>इति चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयो अस्य पादा इति सवनान्येव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्यावेव सप्त हस्तासो अस्येति छन्दांस्येव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् वृषभो रोरवीत्येष ह वै वृषभ एष तद्रोरवीति यद्यज्ञेषु शस्त्राणि शंसत्यृग्भिर्यजुर्भिः सामभिर्ब्रह्मभिरिति महो देवो मर्त्यां आविवेशेत्येष ह वै महान्देवो यद्यज्ञः एष मर्त्यां आविवेश यो विद्यात्सप्त प्रवत इति प्राणानाह सप्त विद्यात्परावत इत्यपानानाह शिरो यज्ञस्य यो विद्यादित्येतद्वै यज्ञस्य शिरो यन्मन्त्रवान्ब्रह्मौदनः यो ह वा एतं अमन्त्रवन्तं ब्रह्मौदनं उपेयादपशिरसा ह वा अस्य यज्ञं उपेतो भवति तस्मान्मन्त्रवन्तं एव ब्रह्मौदनं उपेयान्नामन्त्रवन्तं इति ब्राह्मणं ॥ १६ ॥

[एद्. ब्राह्मनम्] किं उपज्ञ आत्रेयो भवतीति आदित्यं हि तमो जग्राह तदत्रिरपनुनोद तदत्रिरन्वपश्यत् तदप्येतदृचोक्तं <स्रुताद्यं अत्रिर्दिवं उन्निनाय [ऋS१३.२.४च्, PS१८.२०.८च्]> <दिवि त्वात्रिरधारयत्सूर्या मासाय कर्तवे [ऋS१३.२.१२अब्, PS१८.२१.६अब्]>इति तं होवाच वरं वृणीष्वेति स होवाच दक्षिणीया मे प्रजा स्यादिति तस्मादात्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणं ॥ १७ ॥

प्रजापतिर्वेदानुवाचाग्नीनादधीयेति तान्वागभ्युवाचाश्वो वै सम्भाराणां इति तं घोरात्क्रूरात्सलिलात्सरस उदानिन्युस् तान्वागभ्युवाचाश्वः शम्येतेति तथेति तं ऋग्वेद एत्योवाचाहं अश्वं शमेयं इति तस्मा अभिसृप्ताय महद्भयं ससृजे स एतां प्राचीं दिशं भेजे स होवाचाशान्तो न्वयं अश्व इति तं यजुर्वेद एत्योवाचाहं अश्वं शमेयं इति तस्मा अभिसृप्ताय महद्भयं ससृजे स एतां प्रतीचीं दिशं भेजे स होवाचाशान्तो न्वयं अश्व इति तं सामवेद एत्योवाचाहं अश्वं शमेयं इति केन नु त्वं शमयिष्यसीति रथन्तरं नाम मे सामाघोरं चाक्रूरं च तेनाश्व अभिष्टूयेतेति तस्मा अप्यभिसृप्ताय तदेव महद्भयं ससृजे स एतां उदीचीं दिशं भेजे स होवाचाशान्तो न्वयं अश्व इति तान्वागभ्युवाच शंयुमाथर्वणं गच्छतेति ते शंयुमाथर्वणं आसीनं प्राप्योचुर्नमस्ते अस्तु भगवन्नश्वः शम्येतेति तथेति स खलु कबन्धस्याथर्वणस्य पुत्रं आमन्त्रयां आस विचारिन्निति भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव अश्व शम्येतेति तथेति स खलु शान्त्युदकं चकाराथर्वणीभिश्चाङ्गिरसीभिश्च चातनैर्मातृनामभिर्वास्तोष्पत्यैरिति शमयति तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्योऽङ्गारा आशीर्यन्त सोऽश्वस्तुष्टो नमस्कारं चकार नमः शंयुमाथर्वणाय यो मा यज्ञियं अचीक्ळ्पदिति भविष्यन्ति ह वा अतोऽन्ये ब्राह्मणा लघुसम्भारतमास् त आदित्यस्य पद आधास्यन्त्यनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा एतद्वा आदित्यस्य पदं यद्भूमिस् तस्यैव पद आहितं भविष्यतीति सोऽग्नौ प्रणीयमाणेऽश्वेऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>इति पञ्च तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत एष ह वै विद्वान्त्सर्वविद्ब्रह्मा यद्भृङ्गिरोविदिति ब्राह्मणं ॥ १८ ॥

देवाश्च ह वा असुराश्चास्पर्धन्त ते देवा इन्द्रं अब्रुवन्निमं नस्तावद्यज्ञं गोपाय यावदसुरैः संयतामहा इति स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुं इति स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत् तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत् तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत् तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुं इति तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्तद्ब्रह्माभवत् तद्ब्रह्मणो ब्रह्मत्वम् तद्वा एतदथर्वणो रूपं यदुष्णीषी ब्रह्मा तं दक्षिणतो विश्वे देवा उपासीदन् तं यद्दक्षिणतो विश्वे देवा उपासीदंस्तत्सदस्योऽभवत् तत्सदस्यस्य सदस्यत्वम् बलेर्ह वा एतद्बलं उपजायते यत्सदस्ये आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति घोरा वा एषा दिग्दक्षिणा शान्ता इतरास् तद्यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनदित्येतां व्याहृतिं जपति आत्मानं जनयति नजित्यात्मानं अपित्वे दधाति तं देवा अब्रुवन्वरं वृणीष्वेति वृणा इति स वरं अवृणीत अस्यां एव मां होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्, चोर्र्. Pअत्यल्] तं तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् तं यत्तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद्ब्राह्मणाच्छंस्यभवत् तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम् सैषैन्द्री होत्रा यद्ब्राह्मणाच्छंसीया द्वितीयं वरं वृणीष्वेति वृणा इति स वरं अवृणीत अस्यां एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिस्थेयुरिति [एद्. तिस्थेयुर्] तं तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् तं यत्तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तत्पोताभवत् तत्पोतुः पोतृत्वम् सैषा वायव्या होत्रा यत्पोत्रीया तृतीयं वरं वृणीष्वेति वृणा इति स वरं अवृणीत अस्यां एव मां होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्त शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्] तं तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् [एद्.ऽतिस्थंस्, चोर्र्. Pअत्यल्] तं यत्तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्[एद्.ऽतिस्थंस्] तदाग्नीध्रस्याग्नीध्रत्वम् सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणं ॥ १९ ॥

ब्राह्मणो ह वा इमं अग्निं वैश्वानरं बभार सोऽयं अग्निर्वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल्लोकाञ्जनयते अथायं ईक्षतेऽग्निर्जातवेदा ब्राह्मणद्वितीयो ह वा अयं इदं अग्निर्वैश्वानरो ज्वलति हन्ताहं यन्मयि तेज इद्रियं वीर्यं तद्दर्शयाम्युत वै मा बिभृयादिति स आत्मानं आप्याय्यैतं पयोऽधोक् तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् स द्वितीयं आत्मानं आप्याय्यैतं घृतं अधोक् तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् स तृतीयं आत्मानं आप्याय्यैतदिदं विश्वं विकृतं अन्नाद्यं अधोक् तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् स चतुर्थं आत्मानं आप्याय्यैतेन ब्राह्मणस्य जायां विराजं अपश्यत् तां अस्मै प्रायच्छत् सात्मा अपित्वं अभवत् तत इमं अग्निं वैश्वानरं परास्युर्ब्राह्मणोऽग्निं जातवेदसं अधत्त सोऽयं अब्रवीदग्ने जातवेदोऽभिनिधेहि मेहीति तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च सोऽश्वो भवत् तस्मादश्वो वहेन रथं न भवति पृस्थेन सादिनम् स देवानागच्छत् स देवेभ्योऽन्वातिष्ठत् तस्माद्देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तं एतयर्चाशमयत् ॥ २० ॥

<अग्निं त्वाहुर्वैश्वानरं सदनान्प्रदहन्वगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [PS१.९५.३, सकल अल्सो अत्Vऐत्S६.७]>इति तं एताभिः पञ्चभिरृग्भिरुपाकुरुते <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद्प्. ३०२] सोऽशाम्यत् तस्मादश्वः पशूनां जिघत्सुतमो भवति वैश्वानरो ह्येष तस्मादग्निपदं अश्वं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तम् तस्य रसं अपीडयत् स रसोऽभवत् रसो ह वा एष तं वा एतं रसं सन्तं रथ इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स देवानागच्छत् स देवेभ्योऽन्वातिष्ठत् तस्माद्देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तं एतयर्चाज्याहुत्याभ्यजुहोत् <इन्द्रस्यौजो मरुतां अनीकं [ऋS६.१२५.३, च्फ़्. PS१५.११.७]> इति रथं अभिहुत्य तं एतयर्चातिष्ठद्<वनस्पते वीड्वङ्गो हि भूयाः [ऋS६.१२५.१, PS१५.११.८]> इति तस्मादाग्न्याधेयिकं रथं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तम् तस्य तक्षाणस्तनूं ज्येष्ठां दक्षिणां निरमिमत तां पञ्चस्वपश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे तासां द्वे ब्रह्मणे प्रायच्छद्वाचं च ज्योतिश्च वाग्वै धेनुर्ज्योतिर्हिरण्यम् तस्मादाग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्ता पशुषु शाम्यमानेषु चक्षुर्हापयन्ति चक्षुरेव तदात्मनि धत्ते यद्वै चक्षुस्तद्धिरण्यम् तस्मादाग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तं तस्यात्मन्नधत्त तेन प्राज्वलयत् यन्नाधत्त तदाग्लाभवत् तदाग्ला भूत्वा सा समुद्रं प्राविशत्[च्फ़्. PS१७.२८.१ फ़ोर्थिसन्द्थे फ़ोल्लोwइन्ग्सेन्तेन्चेस्] सा समुद्रं अदहत् तस्मात्समुद्रो दुर्गिरवपि वैश्वानरेण हि दग्धः सा पृथिवीं उदैत् सा पृथिवीं व्यदहत् सा देवानागच्छत् सा देवानहेडत् ते देवा ब्रह्माणं उपाधावन् स नैवागायन्नानृत्यत् सैषाग्ला एषा कारुविदा नम तं वा एतं आग्लाहतं सन्तं आग्लागृध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. -द्विषो] य एष ब्राह्मणो गायनो नर्तनो वा भवति तं आग्लागृध इत्याचक्षते तस्माद्ब्राह्मणो नैव गायेन्न नृत्येन्माग्लागृधः स्यात् तस्माद्ब्राह्म्यं पूर्वं हविरपरं प्राजापत्यं प्राजापत्याद्ब्राह्म्यं एवोत्तरं इति ब्राह्मणं ॥ २१ ॥

अथर्वाणश्च ह वा अङ्गिरसश्च भृगुचक्षुषी तद्ब्रह्माभिव्यपश्यन् तदजानन्वयं वा इदं सर्वं यद्भृग्वङ्गिरस इति ते देवा ब्राह्म्यं हविर्यत्सांतपनेऽग्नावजुहवुः एतद्वै ब्राह्म्यं हविर्यत्सांतपनेऽग्नौ हूयत एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणस् तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् तेन सुन्वन्त्यृषयोऽन्तत स्त्रियः केवल आत्मन्यवारुन्धत बाह्या उभयेन सुन्वन्ति यद्वै यज्ञे ब्राह्म्यं हविर्न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन् असौ यांल्लोकाञ्छृण्विति पिता ह्येष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर्योऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य] देवाः प्रिये धामनि मदन्ति तेषां एषोऽग्निः सांतपनः श्रेष्ठो भवति एतस्य वाचि तृप्तायां अग्निस्तृप्यति प्राणे तृप्ते वायुस्तृप्यति चक्षुषि तृप्त आदित्यस्तृप्यति मनसि तृप्ते चन्द्रमास्तृप्यति श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति स्नेहेषु तृप्तेष्वापस्तृप्यन्ति लोमेषु तृप्तेष्वोषधिवनस्पतयस्तृप्यन्ति शरीरे तृप्ते पृथिवी तृप्तति एवं एषोऽग्निः सांतपनः श्रेष्ठस्तृप्तः सर्वांस्तृप्तांस्तर्पयतीति ब्राह्मणं ॥ २२ ॥

सांतपना इदं हविरिति एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः अथ योऽयमनग्निकः स कुम्भे लोष्टस् तद्यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्येवं एवायं ब्राह्मणोऽनग्निकस्तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान्न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति तदप्येतदृचोक्तं <अग्निं दूतं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतुं [ऋS२०.१०१.१, èV१.१२.१]> इति ब्राह्मणं ॥ २३ ॥

अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो होतारं वृणीय कं अध्वर्युं कं उद्गातारं कं ब्राह्मणं इति त ऊचुरृग्विदं एव होतारं वृणीष्.व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्राह्मणम् तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद तस्मादृग्विदं एव होतारं वृणीष्व स हि हौत्रं वेद अग्निर्वै होता पृथिवी वा ऋचां आयतनम् अग्निर्देवता गायत्रं छन्दो भूरिति शुक्रम् तस्मात्तं एव होतारं वृणीष्वेत्येतस्य लोकस्य जितये एतस्य लोकस्य विजितये एतस्य लोकस्य संजितये एतस्य लोकस्यावरुद्धये एतस्य लोकस्य विवृद्धये एतस्य लोकस्य समृद्धये एतस्य लोकस्योदात्तये एतस्य लोकस्य व्याप्तये एतस्य लोकस्य पर्याप्तये एतस्य लोकस्य समाप्तये अथ चेन्नैवंविदं होतारं वृणुते पुरस्तादेवैषां यज्ञो रिच्यते यजुर्विदं एवाध्वर्युं वृणीष्व स ह्याध्वर्यवं वेद वायुर्वा अध्वर्युः अन्तरिक्षं वै यजुषां आयतनम् वायुर्देवता त्रैष्टुभं छन्दो भुव इति शुक्रम् तस्मात्तं एवाध्वर्युं वृणीष्वेत्येतस्य लोकस्येत्येव अथ चेन्नैवंविदं अध्वर्युं वृणुते पश्चादेवैषां यज्ञो रिच्यते सामविदं एवोद्गातारं वृणीष्व स ह्यौद्गात्रं वेद आदित्यो वा उद्गाता द्यौर्वै साम्नां आयतनम् आदित्यो देवता जागतं छन्दः स्वरिति शुक्रम् तस्मात्तं एवोद्गातारं वृणीष्वेत्येतस्य लोकस्येत्येव अथ चेन्नैवंविदं उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते अथर्वाङ्गिरोविदं एव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेद चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो] आपो वै भृगवङ्गिरसां आयतनम् चन्द्रमा देवता वैद्युतश्चोष्णिक्काकुभे छन्दसी ओं इत्यथर्वणां शुक्रं जनदित्यङ्गिरसाम् तस्मात्तं एव ब्रह्माणं वृणीष्वेत्येतस्य लोकस्य जितये एतस्य लोकस्य विजितये एतस्य लोकस्य संजितये एतस्य लोकस्यावरुद्धये एतस्य लोकस्य विवृद्धये एतस्य लोकस्य समृद्धये एतस्य लोकस्योदात्तये एतस्य लोकस्य व्याप्तये एतस्य लोकस्य पर्याप्तये एतस्य लोकस्य समाप्तये अथ चेन्नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥

इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥ ओं दक्षिणाप्रवणा भूमिर्दक्षिणत आपो वहन्ति तस्माद्यज्ञास्तद्भूमेरुन्नततरं इव भवति यत्र भृग्वङ्गिरसो विष्ठास् तद्यथाप इमांल्लोकानभिवहन्त्येवं एव भृग्वङ्गिरसः सर्वान्देवानभिवहन्ति एवं एवैषा व्याहृतिः सर्वान्वेदानभिवहत्यों इति हर्चां ओं इति यजुषां ओं इति साम्नां ओं इति सर्वस्याहाभिवादस् तं ह स्मैतदुत्तरं यज्ञे विद्वांसः कुर्वन्ति देवा ब्रह्माण आगच्छतागच्छतेति एते वै देवा ब्रह्माणो यद्भृग्वङ्गिरसस् तानेवैतद्गृणानास्तान्वृणाना ह्वयन्तो मन्यन्ते नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन् यज्ञस्य तेजसा तेज आप्नोत्यूर्जयोर्जां यशसा यशः नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति तद्यथा पूर्वं वत्सोऽधीत्य गां धयेदेवं ब्रह्मा भृग्वङ्गिरोविद्वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति तद्यथा गौर्वाश्वो वाश्वतरो वैकपाद्द्विपात्त्रिपादिति स्यात्किं अभिवहेत्किं अभ्यश्नुयादिति तस्मादृग्विदं एव होतारं वृणीष्व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्रह्माणम् तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद यश्चैवं ऋत्विजां आर्त्विज्यं वेद यश्च यज्ञे यजनीयं वेदेति ब्राह्मणं ॥ १ ॥

प्रजापतिर्यज्ञं अतनुत स ऋचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम् तं वा एतं महावाद्यं कुरुते यदृचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम् स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति अयं उ वै यः पवते स यज्ञस् तस्य मनश्च वाक्च वर्तनी मनसा चैव हि वाचा च यज्ञो वर्तते अद एव मन इयं एव वाक् स यद्वदन्नास्ति विद्यादर्धं मेऽस्य यज्ञस्यान्तरगादिति तद्यथैकपात्पुरुषो यन्नेकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवं एवास्य यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषं अनु यजमानो भ्रेषं न्येति यजमानस्य भ्रेषं अन्वृत्विजो भ्रेषं नियन्ति ऋत्विजां भ्रेषं अनु दक्षिणा भ्रेषं नियन्ति दक्षिणानां भ्रेषं अनु यजमानः पुत्रपशुभिर्भ्रेषं न्येति पुत्रपशूनां भ्रेषं अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति स्वर्गस्य लोकस्य भ्रेषं अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं ॥ २ ॥

तदु ह स्माह श्वेतकेतुरारुणेयो ब्रह्माणं दृष्ट्वा भाषमाणं अर्धं मेऽस्य यज्ञस्यान्तरगादिति तस्माद्ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यं उपांश्वन्तर्यामाभ्याम् अथ ये पवमाना ओदृचस्तेषु अथ यानि स्तोत्राणि सशस्त्राण्या वषट्कारात्तेषु स यदृक्तो भ्रेषं न्यृच्छेदों भूर्जनदिति गार्हपत्ये जुहुयात् यदि यजुष्ट ओं भुवो जनदिति दक्षिणाग्नौ जुदुयात् यदि सामत ओं स्वर्जनदित्याहवनीये जुहुयात् यद्यनाज्ञाताद्ब्रह्मतो वों भूर्भुवः स्वर्जनदों इत्याहवनीय एव जुहुयात् तद्वाकोवाक्यस्यर्चां यजुषां साम्नां अथर्वाङ्गिरसाम् अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते तद्यथा लवणेनेत्युक्तम् तद्यथोभयपात्पुरुषो यन्नुभयचक्रो वा रथो वर्तमानोऽभ्रेषं न्येति एवं एवास्य यज्ञोऽभ्रेषं न्येति यज्ञस्याभ्रेषं अनु यजमानोऽभ्रेषं न्येति यजमानस्याभ्रेषं अन्वृत्विजोऽभ्रेषं नियन्ति ऋत्विजां अभ्रेषं अनु दक्षिणा अभ्रेषं नियन्ति दक्षिणानां अभ्रेषं अनु यजमानः पुत्रपशुभिरभ्रेषं न्येति पुत्रपशूनां अभ्रेषं अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति स्वर्गस्य लोकस्याभ्रेषं अनु तस्यार्धस्य योगक्षेमोऽभ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं ॥ ३ ॥

तद्यदौदुम्बर्यां म आसिष्ट हिङ्ङकार्षीन्मे प्रास्तावीन्म उदगासीन्मे सुब्रह्मण्यां आह्वासीदित्युद्गात्रे दक्षिणा नीयन्ते ग्रहान्मेऽग्रहीत्प्राचारीन्मेऽशुश्रुवन्मे समनसस्कार्षीदयाक्षीन्मेऽवषट्कार्षीन्म इत्यध्वर्यवे होतृषदन आसिष्टायाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति होत्रे देवयजनं मे चीक्ळ्पद्ब्रह्मासादं मेऽसीसृपद्ब्रह्मजपान्मेऽजपीत्पुरस्ताद्धोमसंस्थितहोमान्मेऽहौषीदयाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति ब्रह्मणे भूयिष्ठेन मा ब्रह्मणाकार्षीदिति एतद्वै भूयिष्ठं ब्रह्म यद्भृग्वङ्गिरसः येऽङ्गिरसः स रसो येऽथर्वाणो येऽथर्वाणस्तद्भेषजम् यद्भेषजं तदमृतं यदमृतं तद्ब्रह्म स वा एष पूर्वेषां ऋत्विजां अर्धभागस्यार्धं इतरेषां अर्धं ब्रह्मण इति ब्राह्मणं ॥ ४ ॥

देवाश्च ह वा असुराश्च संग्रामं समयतन्त तत्रैतास्तिस्रो होत्रा जिह्मं प्रतिपेदिरे तासां इन्द्र उक्थानि सामानि लुलोप तानि होत्रे प्रायच्छत् आज्यं ह वै होतुर्बभूव प्रऽउगं पोतुर्वैश्वदेवं ह वै होतुर्बभूव निष्केवल्यं नेष्टुः मरुत्वतीयं ह वै होतुर्बभूव अग्निमारुतं आग्नीध्रस्य तस्मादेतदभ्यस्ततरं इव शस्यते यदाग्निमारुतम् तस्मादेते संशंसुका इव भवन्ति यद्धोता पोता नेष्टा आग्नीध्रो मुमुहे वसीत तद्ब्रह्मेयसामिवास तासां अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद्दक्षिणां चैतत्परिशिषेदेदिति ब्राह्मणं ॥ ५ ॥

उद्दालको ह वा आरुणिरुदीच्यान्वृतो धावयां चकार तस्य ह निष्क उपाहितो बभूवोपवादाद्बिभ्यतो यो मा ब्राह्मणोऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति तद्धोदीच्यान्ब्राह्मणान्भयं विवेदोद्दालको ह वा अयं आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः स ऊर्ध्वं वृतो न पर्यादधीत केनेमं वीरेण प्रतिसंयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकं ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठोऽसीति त्वयेमं वीरेण प्रतिसंयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे तं ह स्वैदायना इत्यामन्त्रयां आस स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ ६ ॥

यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्मादन्ततः सर्वा एव पलिता भवन्ति यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजा अदन्तिका जायन्ते कस्मादासां अपरं इव जायन्ते यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्मादासां पुनरेव जायन्ते कस्मादन्ततः सर्व एव प्रभिद्यन्ते यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमौ दंष्ट्रौ दीर्घतरौ कस्मात्समे इव जंभे यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुवः स्त्रियः यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां संततं इव शरीरं भवति कस्मादासां अस्थीनि दृढतराणीव भवन्ति यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति कस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति कस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिदं शिश्नं उच्चश एति नीची पद्यते [एद्. इं] कस्मात्सकृदपानं ॥ ७ ॥

अथ यः पुरस्तादष्टावाज्यभागान्विद्यान्मध्यतः पञ्च हविर्भागाः षट्प्राजापत्या उपरिष्टादष्टावाज्यभागान्विद्यात् अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात् अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात् तस्मै ह निष्कं प्रयच्छन्नुवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति तदुपयम्य निश्चक्राम तत्रापवव्राज यत्रेतरो बभूव तं ह पप्रच्छ किं एष गौतमस्य पुत्र इति एष ब्रह्मा ब्रह्मापुत्र इति होवाच यदेनं कश्चिदुपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत्प्राणा वैनं जह्युरिति ते मिथ एव चिक्रन्देयुर्विप्रापवव्रज यत्रेतरो बभूव ते प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति किं अर्थं इति यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति तथेति तेभ्य एतान्प्रश्नान्व्याचचष्टे ॥ ८ ॥

यत्पुरस्ताद्वेदेः प्रथमं बर्हि स्तृणाति तस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते यदपरं इव प्रस्तरं अनुप्रस्तृणाति तस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते यत्प्राग्बर्हिषः प्रस्तरं अनुप्रहरति तस्मादिमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति यदन्ततः सर्वं एवानुप्रहरति तस्मादन्ततः सर्व एव पलिता भवन्ति यत्प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादिमाः प्रजा अदन्तिका जायन्ते यद्धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्मादासां अपरं इव जायन्ते यदनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते यत्पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां पुनरेव जायन्ते यत्समिष्टयजुरपुरोऽनुवाक्यावद्भवति तस्मादन्ततः सर्व एव प्रभिद्यन्ते यद्गायत्र्यानूच्य त्रिष्टुभा यजति तस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे यदृचानूच्य यजुषा यजति तस्मादधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस] यदाघारौ दीर्घतरौ प्राञ्चावाघारयति तस्मादिमौ दंष्ट्रौ दीर्घतरौ यत्संयाज्ये सच्छन्दसी तस्मात्समे इव जम्भे यच्चतुर्थे प्रयाजे समानयति तस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे यज्जपं जपित्वाभिहिंकृणोति तस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुव स्त्रियः यत्सामिधेनीः संतन्वन्नन्वाह तस्मादासां संततं इव शरीरं भवति यत्सामिधेन्यः काष्ठहविषो भवन्ति तस्मादासां अस्थीनि दृढतराणीव भवन्ति यत्प्रयाजा आज्यहविषो भवन्ति तस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति यन्मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति यदनुयाजा आज्यहविषो भवन्ति तस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति यदुत्तमेऽनुयाजे सकृदपानिति तस्मादिदं शिश्नं उच्चश एति नीची पद्यते यन्नापानेत्सकृच्छूनं स्यात् यन्मुहुरपानेत्सकृत्पन्नं स्यात् तस्मात्सकृदपानिति नेत्सकृच्छूनं स्यात्सकृत्पन्नं वेति ॥ ९ ॥

अथ ये पुरस्तादष्टावाज्यभागाः पञ्च प्रयाजा द्वावाघारौ द्वावाज्यभागावाग्नेय आज्यभागानां प्रथमः स्ॐयो द्वितीयो हविर्भागानाम् हविर्ह्येव स्ॐयम् आग्नेयः पुरोडाशः अग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदित्येते मध्यतः पञ्च हविर्भागाः अथ ये षट्प्राजापत्या इडा च प्राशित्रं च यच्चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागोऽन्वाहार्य एव षष्ठः अथ य उपरिष्टादष्टावाज्यभागास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टमम् अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति वेदिरेव सा तस्य ये पुरस्तादष्टावाज्याभागाः स दक्षिणः पक्षः अथ य उपरिष्टादष्टावाज्यभागाः स उत्तरः पक्षः [एद्. इपरिष्टाद्] हवींष्यात्मा [एद्. हविंष्य्] गार्हपत्यो जघनम् आहवनीयः शिरः सौवर्णराजतौ पक्षौ तद्यदादित्यं पुरस्तात्पर्यन्तं न पश्यन्ति तस्मादज्योतिष्क उत्करो भवति अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति याज्यैव सा तस्या ओं श्रावयेति चतुरक्षरम् अस्तु श्रौषदिति चतुरक्षरम् यजेति द्व्यक्षरम् ये यजामह इति पञ्चाक्षरम् द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति तद्यत्रास्यैश्वर्यं स्याद्यत्र वैनं अभिवहेयुरेवंविदं एव तत्र ब्रह्माणं वृणीयान्नानेवंविदं इति ब्राह्मणं ॥ १० ॥

अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति पृच्छ प्राचीनयोग्येति किंदेवत्यं ते गवीडायाम् किंदेवत्यं उपहूतायाम् किंदेवत्यं उपसृष्टायाम् किंदेवत्यं वत्सं उन्नीयमानम् किंदेवत्यं वत्सं उन्नीतम् किंदेवत्यं दुह्यमानम् किंदेवत्यं दुग्धम् किंदेवत्यं प्रक्रम्यमाणम् किंदेवत्यं ह्रियमाणम् किंदेवत्यं अधिश्रीयमाणम् किंदेवत्यं अधिश्रितम् किंदेवत्यं अभ्यवज्वाल्यमानम् किंदेवत्यं अभ्यवज्वालितम् किंदेवत्यं समुद्वान्तम् किंदेवत्यं विष्यण्णम् किंदेवत्यं अद्भिः प्रत्यानीतम् किंदेवत्यं उद्वास्यमानम् किंदेवत्यं उद्वासितम् किंदेवत्यं उन्नीयमानम् किंदेवत्यं उन्नीतम् किंदेवत्यं प्रक्रम्यमाणम् किंदेवत्यं ह्रियमाणम् किंदेवत्यं उपसाद्यमानम् किंदेवत्यं उपसादितम् किंदेवत्या समित् किंदेवत्यां प्रथमां आहुतिं अहौषीः किंदेवत्यं गार्हपत्यं अवेक्षिष्ठाः किंदेवत्योत्तराहुतिः किंदेवत्यं हुत्वा स्रुचं त्रिरुदञ्चं उदनैषीः किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः किंदेवत्यं द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षीः किंदेवत्यं प्रथमं प्राशीः किंदेवत्यं द्वितीयम् किंदेवत्यं अन्ततः सर्वं एव प्राशीः किंदेवत्यं अप्रक्षालितयोदकं स्रुचा न्यनैषीः किंदेवत्यं प्रक्षालितया किंदेवत्यं अपरेणाहवनीयं उदकं स्रुचा न्यनैषीः [एद्. उदक] किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः किंदेवत्यं रात्रौ स्रुग्दण्डं अवामार्क्षीः किंदेवत्यं प्रातरुदमार्क्षीरिति एतच्चेद्वेत्थ गौतम हुतं ते यद्यु न वेत्थाहुतं त इति ब्राह्मणं ॥ ११ ॥

स होवाच रौद्रं मे गवीडयाम् मानव्यं उपहूतायाम् वायव्यं उपसृष्टायाम् वैराजं वत्सं उन्नीयमानम् जागतं उन्नीतम् आश्विनं दुह्यमानम् स्ॐयं दुग्धम् बार्हस्पत्यं प्रक्रम्यमाणम् द्यावापृथिव्यं ह्रियमाणं [एद्. ह्रियमानम्, चोर्र्. Pअत्यल्] आग्नेयं अधिश्रीयमाणम् वैश्वानरीयं अधिश्रितम् वैष्णवं अभ्यवज्वाल्यमानम् मारुतं अभ्यवज्वालितम् पौष्णं समुद्वान्तम् वारुणं विष्यन्नम् सारस्वतं अद्भिः प्रत्यानीतम् त्वाष्ट्रं उद्वास्यमानम् धात्रं उद्वासितम् वैश्वदेवं उन्नीयमानम् सावित्रं उन्नीतम् बार्हस्पत्यं प्रक्रम्यमाणम् द्यावापृथिव्यं ह्रियमाणम् ऐन्द्रं उपसाद्यमानम् बलायोपसन्नम् आग्नेयी समित् यां प्रथमां आहुतिं अहौषं मां एव तत्स्वर्गे लोकेऽधाम् यद्गार्हपत्यं अवेक्षिषं अस्य लोकस्य संतत्यै प्राजापत्योत्तराहुतिस् तस्मात्पूर्णतरा मनसैव सा यद्धुत्वा स्रुचं त्रिरुदञ्चं उदनैषं रुद्रांस्तेनाप्रैषम् यद्बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षं ओषधिवनस्पतींस्तेनाप्रैषम् यद्द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षं पितॄंस्तेनाप्रैषम् यत्प्रथमं प्राशिषं प्राणांस्तेनाप्रैषम् यद्द्वितीयं गर्भांस्तेन तस्मादनश्नन्तो गर्भा जीवन्ति यदन्ततः सर्वं एव प्राशिषं विश्वान्देवांस्तेनाप्रैषम् यदप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस्तेनाप्रैषम् यत्प्रक्षालितया सर्पपुण्यजनांस्तेन यदपरेणाहवनीयं उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस्तेनाप्रैषम् यत्स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस्तेनाप्रैषम् यद्रात्रौ स्रुग्दण्डं अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस्तानुदनैषम् यत्प्रातरुदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस्तानुदनैषं इति ब्राह्मणं ॥ १२ ॥

एवं एवैतद्भो यथा भवानाह पृच्छामि त्वेव भवन्तं इति पृच्छ प्राचीनयोग्येति यस्य सायं अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्युपसन्नानि स्युरथ चेद्दक्षिणागिरुद्वायात्किं वा ततो भयं आगच्छेदिति क्षिप्रं अस्य पत्नी प्रैति योऽविद्वाञ्जुहोति विद्यया त्वेवाहं अभिजुहोमीति का ते विद्या का प्रायश्चित्तिरिति गार्हपत्यादधि दक्ष्.इणाग्निं प्रणीय प्राचोऽङ्गारानुद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात् अथ प्रातर्यथास्थानं अग्नीनुपसामधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति अथ चेदाहवनीय उद्वायात्किं वा ततो भयं आगच्छेदिति क्षिप्रं अस्य पुत्रः प्रैति योऽविद्वाञ्जुहोति विद्यया त्वेवाहं अभिजुहोमीति का ते विद्या का प्रायश्चित्तिरिति गार्हपत्यादध्याहवनीयं प्रणीय प्रतीचोऽङ्गारानुद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात् अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति अथ चेद्गार्हपत्य उद्वायात्किं वा ततो भयं आगच्छेदिति क्षिप्रं गृहपतिः प्रैति योऽविद्वाञ्जुहोति विद्यया त्वेवाहं अभिजुहोमीति का ते विद्या का प्रायश्चित्तिरिति सभस्मकं आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात् अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति अथ चेत्सर्वेऽग्नय उद्वायेयुः किं वा ततो भयं आगच्छेदिति क्षिप्रं गृहपतिः सर्वज्यानिं जीयते योऽविद्वाञ्जुहोति विद्यया त्वेवाहं अभिजुहोमीति का ते विद्या का प्रायश्चित्तिरिति आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात् अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति अथ चेन्नाग्निं जनयितुं शक्नुयुर्न कुतश्चन वातो वायात्किं वा ततो भयं आगच्छेदिति मोघं अस्वेष्टं च हुतं च भवति योऽविद्वाञ्जुहोति विद्यया त्वेवाहं अभिजुहोमीति का ते विद्या का प्रायश्चित्तिरिति आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्य <वात आ वातु भेषजं [PS१९.४६.७-९]> इति सूक्तेनात्मन्येव जुहुयात् अथ प्रातरग्निं निर्मथ्य यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात् सा मे विद्या सा प्रायश्चित्तिरिति ब्राह्मणं ॥ १३ ॥

एवं एवैतद्भो भगवन्यथा भवानाह उपयामि त्वेव भवन्तं इति एवं चेन्नावक्ष्यो मूर्धा ते व्यपतिष्यदिति हन्त तु ते तद्वक्ष्यामि यथा ते न विपतिष्यतीति यो ह वा एवंविद्वानश्नाति च पिबति च वाक्तेन तृप्यति वाचि तृप्तायां अग्निस्तृप्यति अग्नौ तृप्ते पृथिवी तृप्यति पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्यन्वायत्तानि तानि तृप्यन्ति यो ह वा एवंविद्वानश्नाति च पिबति च प्राणस्तेन तृप्यति प्राणे तृप्ते वायुस्तृप्यति [एद्. प्रणे] वायौ तृप्तेऽन्तरिक्षं तृप्यति अन्तरिक्षे तृप्ते यान्यन्तरिक्षे भूतान्यन्वायत्तानि तानि तृप्यन्ति यो ह वा एवंविद्वानश्नाति च पिबति च चक्षुस्तेन तृप्यति चक्षुषि तृप्त आदित्यस्तृप्यति आदित्ये तृप्ते द्यौस्तृप्यति दिवि तृप्तायां यानि दिवि भूतान्यन्वायत्तानि तानि तृप्यन्ति यो ह वा एवंविद्वानश्नाति च पिबति च मनस्तेन तृप्यति मनसि तृप्ते चन्द्रमास्तृप्यति चन्द्रमसि तृप्त आपस्तृप्यन्ति अप्सु तृप्तासु यान्यप्सु भूतान्यन्वायत्तानि तानि तृप्यन्ति यो ह वा एवंविद्वानश्नाति च पिबति च श्रोत्रं तेन तृप्यति श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्यन्वायत्तानि तानि तृप्यन्ति यो ह वा एवंविद्वानश्नाति च पिबति च तस्यायं एव दक्षिणः पाणिर्जुहूः सव्य उपभृत् कण्ठो ध्रुवा अन्नं हविः प्राणा ज्योतींषि सदेष्टं सदा हुतं सदाशितं पायितं अग्निहोत्रं भवति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं ॥ १४ ॥

प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास् ते ह स्म न कञ्चन वेदविदं उपयन्ति ते सर्वं अविदुस् ते सहैवाविदुस् तेऽग्निहोत्र एव न समवदन्त तेषां एकः सकृदग्निहोत्रं अजुहोद्द्विरेकस्त्रिरेकस् तेषां यः सकृदग्निहोत्रं अजुहोत्तं इतरावपृच्छतां कस्मै त्वं जुहोषीति एकधा वा इदं सर्वं प्रजापतिः प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातरिति तेषां यो द्विरजुहोत्तं इतरावपृच्छतां काभ्यां त्वं जुहोषीति अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस् तेषां यस्त्रिरजुहोत्तं इतरावपृच्छतां केभ्यस्त्वं जुहोषीत्यग्नये प्रजापतयेऽनुमतय इति सायं सूर्याय प्रजापतयेऽग्नये स्विष्टकृत इति प्रातस् तेषां यो द्विरजुहोत्स आर्ध्नोत् स भूयिष्ठोऽभवत् प्रजया चेतरौ श्रिया चेतरावत्याक्रामत् तस्य ह प्रजां इतरयोः प्रजे सजातत्वं उपैताम् तस्माद्द्विर्होतव्यं यजुषा चैव मनसा च यां एव स ऋद्धिं आर्ध्नोत्तां ऋध्नोति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं ॥ १५ ॥

स्वाहा वै कुतः संभूता केन प्रकृता किं वास्या गोत्रम् कत्यक्षरा कति पदा कति वर्णा किं पूर्वावसाना क्व चित्स्थिता किं अधिष्ठाना ब्रूहि स्वाहाया यद्दैवतं रूपं च स्वाहा वै सत्यसंभूता ब्रह्मणा प्रकृता लामगायनसगोत्रा द्वे अक्षरे एकं पदम् त्रयश्च वर्णाः शुक्लः पद्मः सुवर्ण इति सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. Pअत्यल्] षडङ्गान्योषधिवनस्पतयो लोमानि चक्षुषी सूर्याचन्द्रमसौ सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते तस्या अग्निर्दैवतम् ब्राह्मणो रूपं इति ब्राह्मणं ॥ १६ ॥

अथापि कारवो ह नाम ऋषयोऽल्पस्वा आसन् त इमं एकगुं अग्निष्टोमं ददृशुस् तं आहरन् तेनायजन्त ते स्वर्ययुः स य इच्छेत्स्वरियां इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणं ॥ १७ ॥

अथातः सवनीयस्य पशोर्विभागं व्याख्यास्यामः उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः कण्ठः सकाकुद्रः प्रतिहर्तुः श्येनं वक्ष उद्गातुः दक्षिणं पार्श्वं सांसं अध्वर्योः सव्यं उपगातॄणाम् सव्योऽंसः प्रतिप्रस्थातुः दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः अवरसक्थं ब्राह्मणाच्छंसिनः ऊरुः पोतुः सव्या श्रोणिर्होतुः अवरसक्थं मैत्रावरुणस्य अरुरच्छावाकस्य दक्षिणा दोर्नेष्टुः सव्या सदस्यस्य सदं चानूकं च गृहपतेः जाघनी पत्न्यास् तां सा ब्राह्मणेन प्रतिग्राहयति वनिष्ठुर्हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुराग्नीध्रस्य सव्य आत्रेयस्य दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः सहैवैनयोरोष्ठस् तं गृहपतिरेवानुशिनष्टि मणिकाश्च स्कन्ध्यास्तिस्रश्च कीकसा ग्रावस्तुतस् तिस्रश्चैव कीकसा अर्धं चापानस्योन्नेतुः अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः शिरः सुब्रह्मण्यस्य यः श्वःसुत्यां आह्वयते तस्य चर्म तथा खलु षट्त्रिंशत्सम्पद्यन्ते षट्त्रिंशदवदाना गौः षट्त्रिंशदक्षरा बृहती बार्हतो वै स्वर्गो लोकः बृहत्या वै देवाः स्वर्गे लोके यजन्ते बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति प्रतितिष्ठन्ति प्रजया पशुभिर्य एवं विभजन्ते अथ यदतोऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्नेवं एवैषां पशुर्विमथतो भवत्यस्वर्ग्यः देवभाजो ह वा इमं श्रुतऋषिः पशोर्विभागं विदां चकार तं उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच ततोऽयं अर्वाङ्मनुष्येष्वासीदिति ब्राह्मणं ॥ १८ ॥

[एद्. मनुष्येस्व्] अथातो दीक्षा कस्य स्विद्धेतोर्दीक्षित इत्याचक्षते श्रेष्ठां धियं क्षियतीति तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः कस्य स्विद्धेतोर्दीक्षितोऽप्रत्युत्थायिको भवत्यनभिवादुकः प्रत्युत्थेयोऽभिवाद्यः ये प्रत्युत्थेया अभिवाद्यास्त एनं आविष्टा भवन्त्यथर्वाङ्गिरसस् तस्य किं आथर्वणं इति यदात्मन्येव जुह्वति न परस्मिन् एवं हाथर्वणानां ओदनसवानां आत्मन्येव जुह्वति न परस्मिन् [एद्. अदनसवानाम्, चोर्र्. Pअत्यल्] अथास्य किं आङ्गिरसं इति यदात्मनश्च परेषां च नामानि न गृह्णात्येवं ह तस्मिन्नासादात्मनश्चैव परेषां च नामानि न गृह्यन्ते विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम् सैषा व्रतधुगथर्वाङ्गिरसस् तां ह्यन्वायत्ताः कस्य स्विद्धेतोर्दीक्षितोऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति अन्नस्थो नामस्थो भवतीत्याहुस्तस्य येऽन्नं अदन्ति तेऽस्य पाप्मानं अदन्ति अथास्य ये नाम गृह्णन्ति तेऽस्य नाम्नः पाप्मानं अपाघ्नते अथापि वेदानां गर्भभूतो भवतीत्याहुस् तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्याहुः स दीक्षाणां प्रातर्जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्याहुः कस्य स्विद्धेतोः संसवा परिजिहीर्षिता भवन्ति यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति कस्य स्विद्धेतोर्दैवे न ध्यायेत्संस्थिते नाधीयीतेति संसवस्यैव हेतोरिति विद्योतमाने स्तनयत्यथो वर्षति वायव्यं अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति तदभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसोऽनूचानास् तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति स दैवे न ध्यायेत्संस्थिते नाधीयीतेति ब्राह्मणं ॥ १९ ॥

समावृत्ता आचार्या निषेदुस् तान्ह यज्ञो दीक्षिष्यमाणान्ब्राह्मणरूपं कृत्वोपोदेयाय इत्थं चेद्वोऽपसमवत्सुर्हन्त वोऽहं मध्ये दीक्षा इति [एद्.ऽपसमवत्सुर्, Pअत्यल्प्रोपोसेसपसमवतस्थुर्, एद्. दिक्षा] त ऊचुर्नैव त्वा विद्म न जानीमः को हीदविज्ञायमानेन सह दीक्षिष्यतीति यन्न्विदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ ते तूष्णीं ध्यायन्त आसां चक्रिरे स होवाच किं नु तूष्णीं आध्वे भूयो वः पृच्छामः पृच्छतेति यन्न्विदं दीक्षिष्यध्व उपमे एतस्मिन्संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [Pअत्यल्फ़िन्द्सुपमयेतस्मिनिन्त्wओ B्Oऱी म्स्स्. अन्द्प्रोपोसेस्तो अच्चेप्त्थिसे रेअदिन्ग्] धिगिति होचुः कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति ते वै ब्राह्मणानां अभिमन्तारो भविष्यथ रेतो ह वो य एतस्मिन्संवत्सरे ब्राह्मणास्तदभविष्यंस्ते बोधिमता भविष्यथेति अथ वा उपेष्यामो नोपेष्यामहा इति ते वै दीक्षिता अवकीर्णिनो भविष्यथ न ह वै देवयानः पन्था प्रादुर्भविष्यतीति तिरो वै देवयानः पन्था भविष्यतीति ते वयं भगवन्तं एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं ॥ २० ॥

स होवाच द्वादश ह वै वसूनि दीक्षितादुत्क्रामन्ति न ह वै दीक्षितोऽग्निहोत्रं जुहुयात् न पौर्णमासेन यज्ञेन यजेत नामावास्येन अस्मिन्वसीत न पितृयज्ञेन यजेत न तत्र गच्छेद्यत्र मनसा जिगमिषेत् नेष्ट्या यजेत न वाचा यथाकथा चिदभिभाषेत न मिथुनं चरेत् नान्नास्य यथाकामं उपयुञ्जीत न पशुबन्धेन यज्ञेन यजेत न तत्र गच्छेद्यत्र चक्षुषा परापश्येत् कृष्णाजिनं वसीत कुरीरं धारयेत् मुष्टी कुर्यात् अङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेत् मृगशृङ्गं गृह्णीयात् तेन कषेत अथ यस्य दीक्षितस्य वाग्वायता स्यान्मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ २१ ॥

अग्निहोत्रं च मा पौर्णमासश्च यज्ञः पुरस्तात्प्रत्यञ्चं उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् वसतिश्च मामावास्यश्च यज्ञः पश्चात्प्राञ्चं उभाविति समानम् मनश्च मा पितृयज्ञश्च यज्ञो दक्षिणत उदञ्चं उभाविति समानम् वाक्च मेष्टिश्चोत्तरतो दक्षिणाञ्चं उभाविति समानम् रेतश्च मान्नं चेत ऊर्ध्वं उभाविति समानम् चक्षुश्च मा पशुबन्धश्च यज्ञोऽमुतोऽर्वाञ्चं उभौ कामप्रौ भूत्वाक्षित्या सहाविशतां इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युम् अपात्येति पुनराजातिम् कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्दीक्षां उपैतीति ब्राह्मणं ॥ २२ ॥

अथ यस्य दीक्षितस्यर्तुमती जाया स्यात्प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात् रेतो वा अन्नम् वृषा हिंकारः एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति एतेनैव प्रक्रमेण यजेतेति ब्राह्मणं ॥ २३ ॥

इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥ ओं अयं वै यज्ञो योऽयं पवते तं एत ईप्सन्ति ये संवत्सराय दीक्षन्ते तेषां गृहपतिः प्रथमो दीक्षते अयं वै लोको गृहपतिः अस्मिन्वा इदं सर्वं लोके प्रतिष्ठितम् गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः प्रतिष्ठाया एवैनं तत्प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥

अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनोऽध्यात्मम् मनसैव तदोषधीः संदधाति तद्या ओषधीर्वेद स एव ब्रह्मौषधीस् तदनेन लोकेन संदधाति तस्मादेतावन्तरेणान्यो न दीक्षेत स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं ओषधिभिर्व्यापादयेत् उच्छोषुका ह स्युस् तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ २ ॥

अथोद्गातारं दीक्षयति आदित्यो वा उद्गाताधिदैवं चक्षुरध्यात्मम् पर्जन्य आदित्यः पर्जन्यादधि वृष्टिर्जायते वृष्टिरेव तदोषधीः संदधाति तस्मादेतावन्तरेणान्यो न दीक्षेत स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत् अवर्षुका ह स्युस् तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ३ ॥

अथ होतारं दीक्षयति अग्निर्वै होताधिदैवं वागध्यात्मम् अन्नं वृष्टिः वाचं चैव तदग्निं चान्नेन संदाधाति तस्मादेतावन्तरेणान्यो न दीक्षेत स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं अन्नेन व्यापादयेत् अशनायुका ह स्युस् तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ४ ॥

अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति वायुर्वा अध्वर्युरधिदैवं प्राणोऽध्यात्मम् अन्नं वृष्टिः वायुं चैव तत्प्राणं चान्नेन संदधाति तस्मादेतावन्तरेणान्यो न दीक्षेत [एद्. एतव्] स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत् प्रमायुका ह स्युस् तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ५ ॥

अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति अथोद्गात्रे प्रस्तोतारं दीक्षयति अथ होत्रे मैत्रावरुणं दीक्षयति अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति स हैनं अनु एतेषां वै नवानां क्ळ्प्तिं अन्वितरे कल्पन्ते नव वै प्राणाः प्राणैर्यज्ञस्तायते अथ ब्रह्मणे पोतारं दीक्षयति अथोद्गात्रे प्रतिहर्तारं दीक्षयति अथ होत्रेऽच्छावाकं दीक्षयति अथाध्वर्यवे नेष्टारं उन्नेता दीक्षयति स हैनं अनु अथ ब्रह्मण आग्नीध्रं दीक्ष्यति अथोद्गात्रे सुब्रह्मण्यं दीक्षयति अथ होत्रे ग्रावस्तुतं दीक्षयति अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति न पूतः पावयेदित्याहुः सैषानुपूर्वं दीक्षा तद्य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते सत्त्रिणां प्रायश्चित्तं अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्नर्धे दीक्षन्त इति ब्राह्मणं ॥ ६ ॥

श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम् सोमात्क्रयम् विष्णोरातिथ्यम् आदित्यात्प्रवर्ग्यम् स्वधाया उपसदः अग्नीषोमाभ्यां औपवसथ्यं अहः प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम् वसुभ्यः प्रातःसवनम् रुद्रेभ्यो माध्यंदिनं सवनम् आदित्येभ्यस्तृतीयसवनम् वरुणादवभृथम् अदितेरुदयनीयाम् मित्रावरुणाभ्यां अनूबन्ध्याम् त्वष्टुस्त्वाष्ट्रम् देवीभ्यो देविकाभ्यो देवताहवींषि कामाद्दशातिरात्रम् स्वर्गाल्लोकादुदवसानीयाम् तद्वा एतदग्निष्टोमस्य जन्म स य एवं एतदग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ ७ ॥

अथ यद्दीक्षणीयया यजन्ते श्रद्धां एव तद्देवीं देवतां यजन्ते श्रद्धा देवी देवता भवन्ति श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्प्रायणीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते अदितिर्देवी देवता भवन्ति अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्क्रयं उपयन्ति सोमं एव तद्देवं देवतां यजन्ते सोमो देवो देवता भवन्ति [एद्. दवता] सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदातिथ्यया यजन्ते विष्णुं एव तद्देवं देवतां यजन्ते विष्णुर्देवो देवता भवन्ति विष्णोर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्प्रवर्ग्यं उपयन्त्यादित्यं एव तद्देवं देवतां यजन्ते [एद्. दवतां] आदित्यो देवो देवता भवन्ति आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदुपसदं उपयन्ति स्वधां एव तद्देवीं देवतां यजन्ते स्वधा देवी देवता भवन्ति स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदौपवसथ्यं अहरुपयन्त्यग्नीषोमावेव तद्देवौ देवते यजन्ते अग्नीषोमौ देवौ देवते भवन्ति अग्नीषोमयोर्देवतयोः सायुज्यं सलोकतां यन्ति ये एतदुपयन्ति [एद्.ऽग्नीषोमयोर्] अथ यत्प्रातरनुवाकं उपयन्ति प्रातर्याव्ण एव तद्देवान्देवता यजन्ते प्रातर्यावाणो देवा देवता भवन्ति प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्प्रातःसवनमुपयन्ति वसूनेव तद्देवान्देवता यजन्ते वसवो देवा देवता भवन्ति वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यन्माध्यंदिनं सवनं उपयन्ति रुद्रानेव तद्देवान्देवता यजन्ते रुद्रा देवा देवता भवन्ति रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्तृतीयसवनं उपयन्त्यादित्यानेव तद्देवान्देवता यजन्ते आदित्या देवा देवता भवन्ति आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदवभृथं उपयन्ति वरुणं एव तद्देवं देवतां यजन्ते वरुणो देवो देवता भवन्ति वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदुदयनीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते अदितिर्देवी देवता भवन्ति अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति [एद्. आदित्या] अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद्देवौ देवते यजन्ते मित्रावरुणौ देवौ देवते भवन्ति मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्त्वाष्ट्रेण पशुना यजन्ते त्वष्टारं एव तद्देवं देवतां यजन्ते त्वष्टा देवो देवता भवन्ति त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्देविकाहविर्भिश्चरन्ति या एता उपसत्सु भवन्त्यग्निः सोमो विष्णुरिति देव्यो देविका देवता भवन्ति देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्दशातिरात्रं उपयन्ति कामं एव तद्देवं देवतां यजन्ते कामो देवो देवता भवन्ति कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदुदवसानीयया यजन्ते स्वर्गं एव तल्लोकं देवं देवतां यजन्ते स्वर्गो लोको देवो देवता भवन्ति स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति तद्वा एतदग्निष्टोमस्य जन्म स य एवं एतदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद अग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ ८ ॥

अहोरात्राभ्यां वै देवाः प्रायणीयं अतिरात्रं निरमिमत अर्धमासेभ्यश्चतुर्विंशं अहः ब्रह्मणोऽभिप्लवम् क्षत्रात्पृष्ठ्यम् अग्नेरभिजितम् अद्भ्यः स्वरसाम्नः सूर्याद्विषुवन्तम् उक्ता आवृत्ताः स्वरसामानः इन्द्राद्विश्वजितम् उक्तौ पृष्ठ्यभिप्लवौ मित्रावरुणाभ्यां गवायुषी विश्वेभ्यो देवेभ्यो दशरात्रम् दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम् एभ्यो लोकेभ्यश्छन्दोमं त्र्यहम् संवत्सराद्दशमं अहः प्रजापतेर्महाव्रतम् स्वर्गाल्लोकादुदयनीयं अतिरात्रम् तद्वा एतत्संवत्सरस्य जन्म स य एवं एतत्संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ ९ ॥

अथ यत्प्रायणीयं अतिरात्रं उपयन्त्यहोरात्रावेव तद्देवौ देवते यजन्ते अहोरात्रौ देवौ देवते भवन्ति अहोरात्रयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति [एद्.ऽहोरात्रयोर्] अथ यच्चतुर्विंशं अहरुपयन्त्यर्धमासानेव तद्देवान्देवता यजन्ते अर्धमासा देवा देवता भवन्ति अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदभिप्लवं उपयन्ति ब्रह्माणं एव तद्देवं देवतां यजन्ते ब्रह्मा देवो देवता भवन्ति ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्पृष्ठ्यं उपयन्ति क्षत्रं एव तद्देवं देवतां यजन्ते क्षत्रं देवो देवता भवन्ति क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदभिजितं उपयन्त्यग्निं एव तद्देवं देवतां यजन्ते अग्निर्देवो देवता भवन्ति अग्नेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यत्स्वरसाम्न उपयन्त्येव तद्देवीर्देवता यजन्त आपो देव्यो देवता भवन्ति अपां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्विषुवन्तं उपयन्ति सूर्यं एव तद्देवं देवतां यजन्ते सूर्यो देवो देवता भवन्ति सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति उक्ता आवृत्ताः स्वरसामानः अथ यद्विश्वजित मुपयन्तीन्द्रं एव तद्देवं देवतां यजन्ते इन्द्रो देवो देवता भवन्ति इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति उक्तौ पृष्ठ्याभिप्लवौ अथ यद्गवायुषी उपयन्ति मित्रावरुणावेव तद्देवौ देवते यजन्ते मित्रावरुणौ देवौ देवते भवन्ति मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्दशरात्रं उपयन्ति विश्वानेव तद्देवान्देवता यजन्ते विश्वे देवा देवता भवन्ति विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्दाशरात्रिकं पृष्ठ्यं षडहं उपयन्ति दिश एव तद्देवीर्देवता यजन्ते दिशो देव्यो देवता भवन्ति दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यच्छन्दोमं त्र्यहं उपयन्तीमानेव तल्लोकान्देवान्देवता यजन्ते इमे लोका देवा देवता भवन्ति एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यद्दशमं अहरुपयन्ति संवत्सरं एव तद्देवं देवतां यजन्ते संवत्सरो देवो देवता भवन्ति [एद्. दवता] संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यन्महाव्रतं उपयन्ति प्रजापतिं एव तद्देवं देवतां यजन्ते प्रजापतिर्देवो देवता भवन्ति [एद्. दवता] प्रजापतेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति अथ यदुदयनीयं अतिरात्रं उपयन्ति स्वर्गं एव तल्लोकं देवं देवतां यजन्ते स्वर्गो लोको देवो देवता भवन्ति स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति तद्वा एतत्संवत्सरस्य जन्म स य एवं एतत्संवत्सरस्य जन्म वेदाप्त्वैव तत्संवत्सरं स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ १० ॥

स वा एष संवस्तरोऽधिदैवं चाध्यात्मं च प्रतिष्ठितः स य एवं एतत्संवत्सरं अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ११ ॥

स वा एष संवत्सरो बृहतीं अभिसंपन्नः द्वावक्षरावह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ गवायुषी दशरात्रस् तथा खलु षट्त्रिंशद्संपद्यन्ते षट्त्रिंशदवदाना गौः षट्त्रिंशदक्षरा बृहती बार्हतो वै स्वर्गो लोकः बृहत्या वै देवाः स्वर्गे लोके यजन्ते बृहत्या स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ १२ ॥

स वा एष संवत्सरस्त्रिमहाव्रतः चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम् तं ह स्मैतं एवंविद्वांसः पूर्वे त्रिमहाव्रतं उपयन्ति ते तेजस्विन आसंत्सत्यवादिनः संशितव्रताः य एनं अद्य तथोपेयुर्यथामपात्रं उदक आसिक्ते निर्मृत्येदेवं यजमाना निर्मृत्येरन्नुपर्युपयन्ति तथा हास्य सत्येन तपसा व्रतेन चाभिजितं अवरुद्धं भवति य एवं वेद ॥ १३ ॥

अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात् अभिप्लवात्पृष्ठ्यो निर्मितः पृष्ठ्यादभिजित् अभिजितः स्वरसामानः स्वरसामभ्यो विषुवान् विषुवतः स्वरसामानः स्वरसामभ्यो विश्वजित् विश्वजितः पृष्ठ्याभिप्लवौ पृष्ठ्याभिप्लवाभ्यां गवायुषी गवायुर्भ्यां दशरात्रः दशरात्रान्महाव्रतम् महाव्रतादुदयनीयोऽतिरात्रः उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ १४ ॥

अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात् अभिप्लवात्पृष्ठ्यो निर्मितः पृष्ठ्यादभिजित् अभिजितः स्वरसामानः स्वरसामभ्यो विषुवान्[एद्. विषवान्] विषुवतः स्वरसमानः स्वरसामभ्यो विश्वजित् विश्वजितः पृष्ठ्याभिप्लवौ पृष्ठ्याभिप्लवाभ्यां गवायुषी गवायुर्भ्यां दशरात्रः अथ ह देवेभ्यो महाव्रतं न तस्थे कथं ऊर्ध्वै स्तोमैर्विषुवन्तं उपागातावृत्तैर्मां इति ते देवा इहसामिवासुर् उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतदहरवाप्नुयामेति तत एतं द्वादशरात्रं ऊर्ध्वस्तोमं ददृशुस् तं आहरन् तेनायजन्त तत एभ्योऽतिष्ठन् तिष्ठति हास्मै महाव्रतम् प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ १५ ॥

अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात् तदाहुः कति संवत्सरस्य पराञ्च्यहानि भवन्ति कत्यर्वाञ्चि तद्यानि सकृत्सकृदुपयन्ति तानि पराञ्चि अथ यानि पुनःपुनरुपयन्ति तान्यर्वाञ्चीत्येवैनान्युपासीरन् षडहयोर्ह्यावृत्तिं अन्वावर्तन्ते ॥ १६ ॥

अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात् [एद्.ऽतिरत्रम्] अभिप्लवं पुरस्ताद्विषुवतः पूर्वं उपयन्ति पृष्ट्यं उपरिष्टात् पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् तस्मात्पूर्वे वयसि पुत्राः पितरं उपजीवन्ति पृष्ठ्यं पश्चाद्विषुवतः पूर्वं उपयन्त्यभिप्लवं उपरिष्टात् पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् तस्मादुत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद तदप्येतदृचोक्तं <शतं इन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः [èV१.८९.९]>इति उप ह वा एनं पूर्वे वयसि पुत्राः पितरं उपजीवन्त्युपोत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद ॥ १७ ॥

अथ हैष महासुपर्णस् तस्य यान्पुरस्ताद्विषुवतः षण्मासानुपयन्ति स दक्षिणः पक्षः अथ यानावृत्तानुपरिष्टात्षडुपयन्ति स उत्तरः पक्षः आत्मा वै संवत्सरस्य विषुवानङ्गानि पक्षौ यत्र वा आत्मा तत्पक्षौ यत्र वै पक्षौ तदात्मा न वा आत्मा पक्षावतिरिच्यते नो पक्षावात्मानं अतिरिच्येते इति एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात् ॥ १८ ॥

[एद्. बूयात्] तदाहुर्यद्द्वादश मासाः संवत्सरोऽथ हैतदहरवाप्नुयामेति यद्वैषुवतं अपरेषां स्विदितमहां परेषां इति अपरेषां चैव परेषां चेति ब्रूयात् आत्मा वै संवत्सरस्य विषुवानङ्गानि मासाः यत्र वा आत्मा तदङ्गानि यत्राङ्गानि तदात्मा न वा आत्माङ्गान्यतिरिच्यते नोऽङ्गान्यात्मानं अतिरिच्यन्त इति एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात् स वा एष संवत्सरः ॥ १९ ॥

तदाहुः कथं उभयतोज्योतिषोऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति एष ह वा एतेषां ज्योतिर्य एनं प्रमृदीव तपति देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते तद्य एवंविदुषां दीक्षितानां पापकं कीर्तयदेते एवास्य तद्देवचक्रे शिरश्छिन्दतः दशरात्रं उद्धिः पृष्ठ्याभिप्लवौ चक्रे दशरात्रं उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस् तयो स्तोत्राणि च शस्त्राणि च संचारेयत् यः संचारयेत्तस्मादिमे पुरुषे प्राणा नाना सन्त एकोदयाच्छरीरं अधिवसति यन्न संचारयेत्प्रमायुको ह यजमानः स्यात् एष ह वै प्रमायुको योऽन्धो वा बधिरो वा नवाग्निष्टोमा मासि संपद्यन्ते नव वै प्राणाः प्राणैर्यज्ञस्तायते एकविंशतिरुक्थ्याः एक उक्थ्यः षोडशी अन्नं वा उक्थ्यः वीर्यं षोडश्येव तथा रूढ्वा स्वर्गं लोकं अध्यारोहन्ति ॥ २० ॥

अथातोऽह्नां अध्यारोहः प्रायणीयेनातिरात्रेणोदयनीयं अतिरात्रं अध्यारोहन्ति चतुर्विंशेन महाव्रतम् अभिप्लवेन परं अभिप्लवम् पृष्ठ्येन परं पृष्ठ्यम् अभिजिताभिजितं स्वरसामभिः परान्त्स्वरसामानः अथैतदहरवाप्नुयामेति यद्वैषुवतं अपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात् स वा एष संवत्सरः ॥ २१ ॥

अथातोऽह्नां निवाहः प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति चतुर्विंशं अहरभिप्लवाय अभिप्लवः पृष्ठ्याय पृष्ठ्योऽभिजिते अभिजित्स्वरसामभ्यः स्वरसामानो विषुवते विषुवान्त्स्वरसामभ्यः स्वरसामनो विश्वजिते विश्वजित्पृष्ठ्याभिप्लवाभ्याम् पृष्ठ्याभिप्लवौ गवायुर्भ्याम् गवायुषी दशरात्राय दशरात्रो महाव्रताय महाव्रतं उदनीयायातिरात्राय उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ २२ ॥

[एद्.ऽतिरत्रः] आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति त आदित्या लघुभिः सामभिश्चतुर्भि स्तोमैर्द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकं अभ्यप्लवन्त यदभ्यप्लवन्त तस्मादभिप्लवः अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकं अभ्यस्पृशन्त यदभ्यस्पृशन्त तस्मात्स्पृश्यस् तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः अभिप्लवात्पृष्ठ्यो निर्मितः पृष्ठ्यादभिजित् अभिजितः स्वरसामानः स्वरसामभ्यो विषुवान् विषुवतः स्वरसामानः स्वरसामभ्यो विश्वजित् विश्वजितः पृष्ठ्याभिप्लवौ पृष्ठ्याभिप्लवाभ्यां गवायुषी गवायुर्भ्यां दशरात्रस्[एद्. दशरत्रस्] तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि तेषां शतंशतं रथानान्यन्तरं तद्यथारण्यान्यारूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते एवं हैवैते प्रप्लवन्ते येऽविद्वांस उपयन्त्यि अथ ये विद्वांस उपयन्ति तद्यथा प्रवाहात्प्रवाहं स्थलात्स्थलं समात्समं सुखात्सुखं अभयादभयं उपसंक्रामन्तीत्येवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं ॥ २३ ॥

प्रेदिर्ह वै कौशाम्बेयः कौसुरुबिन्दुरुद्दालक आरुणौ ब्रह्मचर्यं उवास तं आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति कति त्वेवेति दशेति होवाच दश वा इति होवाच दशाक्षरा विराड्विराजो यज्ञः कति त्वेवेति नवेति होवाच नव वा इति होवाच नव वै प्राणाः प्राणैर्यज्ञस्तायते कति त्वेवेति अष्टेति होवाच अष्टौ वा इति होवाच अष्टाक्षरा गायत्री गायत्री यज्ञः कति त्वेवेति सप्तेति होवाच सप्त वा इति होवाच सप्त छन्दांसि छन्दोभिर्यज्ञस्तायते कति त्वेवेति षडिति होवाच षड्वा इति होवाच षड्वा ऋतवः ऋतूनां आप्त्यै कति त्वेवेति पञ्चेति होवाच पञ्च वा इति होवाच पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः कति त्वेवेति चत्वारीति होवाच चत्वारि वा इति होवाच चत्वारो वै वेदाः वेदैर्यज्ञस्तायते कति त्वेवेति त्रीणीति होवाच त्रीणि वा इति होवाच त्रिषवणो वै यज्ञः सवनैर्यज्ञस्तायते कति त्वेवेति द्वे इति होवाच द्वे वा इति होवाच द्विपाद्वै पुरुषः द्विप्रतिष्ठः पुरुषः पुरुषो वै यज्ञः कति त्वेवेति एकं इति होवाच एकं वा इति होवाच अहरहरित्येव सर्वं संवत्सरं ॥ २४ ॥

इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥ ओं अभिप्लवः षडहः षड्ढ्यहानि भवन्ति ज्योतिर्गौरायुर्गौरायुर्ज्योतिः अभिप्लवः पञ्चाहः पञ्च ह्येवाहानि भवन्ति यद्ध्येव प्रथमं अहस्तदुत्तमं अहः अभिप्लवश्चतुरहः चत्वारो हि स्तोमा भवन्ति त्रिवृत्पञ्चदशः सप्तदश एकविंश एव अभिप्लवस्त्र्यहस् त्र्यावृत्तिर्ज्योतिर्गौरायुः अभिप्लवो द्व्यहः द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव अभिप्लव एकाह एकाहस्य हि स्तोमैस्तायते चतुर्णां उक्थ्यानां द्वादश स्तोत्राण्यतिरिच्यन्ते स सप्तमोऽग्निष्टोमस् तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणं ॥ १ ॥

अथातो गाधप्रतिष्ठा समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते तेषां तीर्थं एव प्रायणीयोऽतिरात्रस् तीर्थेन हि प्रतरन्ति तद्यथा समुद्रं तीर्थेन प्रतरेयुस्तादृक्तत् गाधं प्रतिष्ठा चतुर्विंशं अहर्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् प्रस्नयोऽभिप्लवः प्रस्नेयः पृष्ठ्यः गाधं प्रतिष्ठाभिजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् नीविदग्ध एव प्रथमः स्वरसामा जानुदग्धो द्वितीयः कुल्फदग्धस्तृतीयः द्वीपः प्रतिष्ठा विषुवान्यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् कुल्फदग्ध एव प्रथमोऽर्वाक्स्वरसामा जानुदग्धो द्वितीयः नीविदग्धस्तृतीयः गाधं प्रतिष्ठा विश्वजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् प्रस्नेयः पृष्ठ्यः प्रस्नेयोऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् तेषां तीर्थं एवोदयनीयोऽतिरात्रस् तीर्थेन ह्युद्यन्ति तद्यथा समुद्रं तीर्थेनोदेयुस्तादृक्तत् अथ ह स्माह श्वेतकेतुरारुणेयः संवत्सराय न्वहं दीक्षा इति [एद्. दिक्षा] तस्य ह पिता मुखं उदीक्ष्योवाच वेत्थ नु त्वं आयुष्मन्त्संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. Pअत्यल्] वेदेति एतद्ध स्मैतद्विद्वानाहेति ब्राह्मणं ॥ २ ॥

पुरुषो वाव संवत्सरस् तस्य पादावेव प्रायणीयोऽतिरात्रः पादाभ्यां हि प्रयन्ति तयोर्यच्छुक्लं तदह्नो रूपम् यत्कृष्णं तद्रात्रेः नखानि नक्षत्राणां रूपम् लोमान्योषधिवनस्पतीनाम् ऊरू चतुर्विंशं अहः उरोऽभिप्लवः पृष्ठं पृष्ठ्यः शिर एव त्रिवृत्त्रिवृतं ह्येव शिरो भवति त्वगस्थि मज्जा मस्तिष्कम् ग्रीवाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति वीर्यं पञ्चदशम् तस्मादाभिरण्वीभिः सतीभिर्गुरुं भारं हरति तस्माद्ग्रीवाः पञ्चदशः उरः सप्तदश. अष्टावन्ये जत्रवोऽष्टावन्य उरः सप्तदशम् तस्मादुरः सप्तदशः उदरं एकविंशः विंशतिर्ह्येवैतस्यान्तर उदरे कुन्तापानि भवन्त्युदरं एकविंशम् तस्मादुदरं एकविंशः पार्श्वे त्रिणवस् त्रयोदशान्याः पर्शवस्त्रयोदशान्याः पार्श्वे त्रिणवे तस्मात्पार्श्वे त्रिणवः अनूकं त्रयस्त्रिंशः द्वात्रिंशतिर्ह्येवैतस्य पृष्टीकुण्डीलानि भवन्ति अनूकं त्रयस्त्रिशम् तस्मादनूकं त्रयस्त्रिंशस् तस्यायं एव दक्षिणो बाहुरभिजित् तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः आत्मा विषुवान् तस्येमे सव्ये त्रयः प्राणा अर्वाक्स्वरसामानस् तस्यायं सव्यो बाहुर्विश्वजित् उक्तौ पृष्ठ्याभिप्लवौ याववाञ्चौ प्राणौ ते गवायुषी अङ्गानि दशरात्रः मुखं महाव्रतम् तस्य हस्तावेवोदयनीयोऽतिरात्रः हस्ताभ्यां ह्युद्यन्ति ॥ ३ ॥

पुरुषो वाव संवत्सरस् तस्य प्राण एव प्रायणीयोऽतिरात्रः प्राणेन हि प्रयन्ति वागारम्भणीयं अहः यद्यदारभते वागारभते वाचैव तदारभते तस्यायं एव दक्षिणः पाणिरभिप्लवस् तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् गायत्र्या आयतने तस्मादियं अस्यै ह्रसिष्ठा तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् त्रिष्टुभ आयतने तस्मादियं अस्यै वरिष्ठा तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् जगत्या आयतने तस्मादियं अनयोर्वरिष्ठा तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् पङ्क्त्या आयतने पृथुरिव वै पङ्क्तिस् तस्मादियं आसां प्रथिष्ठा तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् विराज आयतने अन्नं वै श्रीः विराडन्नाद्यम् अन्न्नाद्यस्य श्रियोऽवरुद्ध्यै तस्मादियं आसां वरिष्ठा तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् अतिछन्दस आयतने अतिछन्दो वै छन्दसां आयतनम् तस्मादिदं प्रथिष्ठं फलकम् तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम् स इतः स इतोऽभिप्लवः स इत आत्मा पृष्ठ्यः प्लवतीवाभिप्लवस् तिष्ठतीव पृष्ठ्यः प्लवत इव ह्येवं अङ्गैस् तिष्ठतीवात्मना तस्यायं एव दक्षिणः कर्णोऽभिजित् तस्य यद्दक्षिणं अक्ष्णः शुक्लं स प्रथमः स्वरसामा यत्कृष्णं स द्वितीयः यन्मण्डलं स तृतीयः नासिके विषुवान्मण्डलं एव प्रथमोऽर्वाक्स्वरसामा यत्कृष्णं स द्वितीयः यच्छुक्लं स तृतीयस् तस्यायं सव्यः कर्णो विश्वजित् उक्तौ पृष्ठ्याभिप्लवौ याववाञ्चौ प्राणौ ते गवायुषी अङ्गानि दशरात्रः मुखं महाव्रतम् तस्योदान एवोदयनीयोऽतिरात्रः उदानेन ह्युद्यन्ति ॥ ४ ॥

पुरुषो वाव संवत्सरः पुरुष इत्येकम् संवत्सर इत्येकम् अत्र तत्समम् द्वे अहोरात्रे संवत्सरस्य द्वाविमौ पुरुषे प्राणाविति अत्र तत्समम् त्रयो वा ऋतवः संवत्सरस्य त्रय इमे पुरुषे प्राणा इति अत्र तत्समम् षड्वा ऋतवः संवत्सरस्य षडिमे पुरुषे प्राणा इति अत्र तत्समम् सप्त वा ऋतवः संवत्सरस्य सप्तेमे पुरुषे प्राणा इति अत्र तत्समम् द्वादश मासाः संवत्सरस्य द्वादशेमे पुरुषे प्राणा इति अत्र तत्समम् त्रयोदश मासाः संवत्सरस्य त्रयोदशेमे पुरुषे प्राणा इति अत्र तत्समम् चतुर्विंशतिरर्धमासाः संवत्सरस्य चतुर्विंशोऽयं पुरुषः विंशत्यङ्गुलिश्चतुरङ्ग इति अत्र तत्समम् षड्विंशतिरर्धमासाः संवत्सरस्य षड्विंशोऽयं पुरुषः प्रतिष्ठे षड्विंशे इति अत्र तत्समम् त्रीणि च ह वै शतानि षष्टिश्च संवत्सरस्याहोरात्राणीति एतावन्त एव पुरुषस्य प्राणा इति अत्र तत्समम् सप्त च ह वै शतानि विंशतिश्च संवत्सरस्याहानि च रात्रयश्चेति एतावन्त एव पुरुषस्यास्थीनि च मज्जानश्चेति अत्र तत्समम् चतुर्दश च ह वै शतानि चत्वारिंशच्च संवत्सरस्यार्धाहाश्चार्धरात्रयश्चेति एतावन्त एव पुरुषस्य स्थूरा मांसानीति अत्र तत्समम् अष्टाविंशतिश्च ह वै शतान्यशीतिश्च संवत्सरस्य पादाहाश्च पादरात्रयश्चेति एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति अत्र तत्समम् दश च ह वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ता इति एतावन्त एव पुरुषस्य पेशशमरा इति अत्र तत्समम् यावन्तो मुहूर्ताः पञ्चदश कृत्वस्तावन्तः प्राणाः यावन्तः प्राणाः पञ्चदश कृत्वस्तावन्तोऽपानाः यावन्तोऽपानाः पञ्चदश कृत्वस्तावन्तो व्यानाः यावन्तो व्यानाः पञ्चदश कृत्वस्तावन्तः समानाः यावन्तः समानाः पञ्चदश कृत्वस्तावन्त उदानाः यावन्त उदानाः पञ्चदश कृत्वस्तावन्त्येतादीनि यावन्त्येतादीनि तावन्त्येतर्हीणि यावन्त्येतर्हीणि तावन्ति स्वेदायनानि यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः यावन्तो रोमकूपाः पञ्चदश कृत्वस्तावन्तो वर्षतो धारास् तदेतत्क्रोशशतिकं परिमाणम् तदप्येतदृचोक्तं <श्रमादन्यत्र परिवर्तमानश्चरन्वासीनो यदि वा स्वपन्नपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणां अष्टौ च शतानि संवत्सरस्य मुहूर्तान्यान्वदन्त्यहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [ऋBं १२.३.२.७-८]>इति ब्राह्मणं ॥ ५ ॥

संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः एकं एव पुरस्ताद्विषुवतोऽतिरात्रं उपयन्त्येकं उपरिष्टात् त्रिपञ्चाशतं एव पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति त्रिपञ्चाशतं उपरिष्टात् विंशतिशतं एव पुरस्ताद्विषुवत उक्थ्यानुपयन्ति विंशतिशतं उपरिष्टात् षडेव पुरस्ताद्विषुवतः षोडशिन उपयन्ति षडुपरिष्टात् त्रिंशदेव पुरस्ताद्विषुवतः षडहानुपयन्ति त्रिंशदुपरिष्टात् सैषा संवत्सरस्य समता स य एवं एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्रह्मणं ॥ ६ ॥

अथातो यज्ञक्रमाः अग्न्याधेयम् अग्न्याधेयात्पूर्णाहुतिः पूर्णहुतेरग्निहोत्रम् अग्निहोत्राद्दर्शपूर्णमासौ दर्शपूर्णमासाभ्यां आग्रयणम् आग्रयणाच्चातुर्मास्यानि चातुर्मास्येभ्यः पशुबन्धः पशुबन्धादग्निष्टोमः अग्निष्टोमाद्राजसूयः राजसूयाद्वाजपेयः वाजपेयादश्वमेधः अश्वमेधात्पुरुषमेधः पुरुषमेधात्सर्वमेधः सर्वमेधाद्दक्षिणावन्तः दक्षिणावद्भ्योऽदक्षिणाः अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् ते वा एते यज्ञक्रमाः स य एवं एतान्यज्ञक्रमान्वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ ७ ॥

प्रजापतिरकामयतानन्त्यं अश्नुवीयेति सोऽग्नीनाधाय पूर्णाहुत्यायजत सोऽन्तं एवापश्यत् सोऽग्निहोत्रेणेष्ट्वान्तं एवापश्यत् स दर्शपूर्णमासाभ्यां इष्ट्वान्तं एवापश्यत् स आग्रयणेनेष्ट्वान्तं एवापश्यत् स चातुर्मास्यैरिष्ट्वान्तं एवापश्यत् स पशुबन्धेनेष्ट्वान्तं एवापश्यत् सोऽग्निष्टोमेनेष्ट्वान्तं एवापश्यत् स राजसूयेनेष्ट्वा राजेति नामाधत्त सोऽन्तं एवापश्यत् स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त सोऽन्तं एवापश्यत् सोऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त सोऽन्तं एवापश्यत् स पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त सोऽन्तं एवापश्यत् स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त सोऽन्तं एवापश्यत् सोऽहीनैर्दक्षिणावद्भिरिष्ट्वान्तं एवापश्यत् सोऽहीनैरदक्षिणावद्भिरिष्ट्वान्तं एवापश्यत् स सत्त्रेणोभयतोऽतिरात्रेणान्ततोऽयजत वाचं ह वै होत्रे प्रायच्छत् प्राणं अध्वर्यवे चक्षुरुद्गात्रे मनो ब्रह्मणेऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः एवं आनन्त्यं आत्मानं दत्त्वानन्त्यं आश्नुत तद्या दक्षिणा आनयत्ताभिरात्मानं निष्क्रीणीय तस्मादेतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत यो ह्यनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सोऽनिष्क्रीय प्रैतीति ब्राह्मणं ॥ ८ ॥

यद्वै संवत्सराय संवत्सरसदो दीक्षन्ते कथं एषां अग्निहोत्रं अनन्तरितं भवति व्रतेतेति ब्रूयात् कथं एषां दर्शोऽनन्तरितो भवति दध्ना च पुरोडाशेन चेति ब्रूयात् कथं एषां पौर्णमासं अनन्तरितं भवति आज्येन च पुरोडाशेन चेति ब्रूयात् कथं एषां आग्रयणं अनन्तरितं भवति स्ॐयेन चरुणेति ब्रूयात् कथं एषां चातुर्मास्यान्यनन्तरितानि भवन्ति पयस्ययेति ब्रूयात् कथं एषां पशुबन्धोऽनन्तरितो भवति पशुना च पुरोडाशेन चेति ब्रूयात् कथं एषां स्ॐयोऽध्वरोऽनन्तरितो भवति ग्रहैरिति ब्रूयात् कथं एषां गृहमेधोऽनन्तरितो भवति धानाकरम्भैरिति ब्रूयात् कथं एषां पितृयज्ञोऽनन्तरितो भवति औपासनैरिति ब्रूयात् कथं एषां मिथुनं अनन्तरितं भवति हिंकारेनेति ब्रूयात् सैषा संवत्सरे यज्ञक्रतूनां अपीतिः स य एवं एतां संवत्सरे यज्ञक्रतूनां अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं ॥ ९ ॥

देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्यासन्नथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तदयातयाम मध्ये यज्ञस्यापश्यन् तेनायातयाम्ना या वेदे व्यष्टिरासीत्तां पञ्चस्वपश्यन्नृचि यजुषि साम्नि शान्तेऽथ घोरे ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा] को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यं अपश्यन् ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि स खलु द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिर्द्वाशमासांत्सुत्याभिः अथ यद्द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिस्तेनैतावग्न्यर्कावाप्नोति अथ यद्द्वादश मासांत्सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं संवत्सरंं तापश्चितस्याञ्जस्यं अपश्यन् ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं द्वादशाहं संवत्सरस्याञ्जस्यं अपश्यन् ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि स खलु द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिर्द्वादशाहं सुत्याभिः अथ यद्द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिस्तेनैतावग्न्यर्कावाप्नोति अथ यद्द्वादशाहं सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप] को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यं अपश्यन् ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यं अपश्यन् ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा एष ह प्रजानां प्रजापतिर्यद्विश्वजिदिति ब्राह्मणं ॥ १० ॥

पुरुषं ह वै नारायणं प्रजापतिरुवाच यजस्य यजस्वेति स होवाच यजस्व यजस्वेत्येवं हात्थ मा त्रिरपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषोऽहं वा एतद्वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषो विद्वांसो नूनं त्वा याजयेयुः एते ह वा अविद्वांसो यत्रानृग्विद्धोता भवत्ययजुर्विदध्वर्युरसामविदुद्गाताभृग्वङ्गिरोविद्ब्रह्मा यजस्वैव हन्त तु ते तद्वक्ष्यामि यथा सूत्रे मणिरिव सूत्रं एतान्युक्थाहानि भवन्ति सूत्रं इव वा मणाविति तस्माद्य एव सर्ववित्स्यात्तं ब्रह्माणं कुर्वीत एष ह वै विद्वांत्सर्वविद्ब्रह्मा यद्भृग्वङ्गिरोवित् एते ह वा अस्य सर्वस्य शमयितारः पालयितारस् तमाद्ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥

श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारयेति स यदाह श्येनोऽसीति सोमं वा एतदाह एष ह वा अग्निर्भूत्वास्मिंल्लोके संशाययति तद्यत्संशाययति तस्माच्छेयनस् तच्छेयनस्य श्येनत्वम् स यदाह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निं सन्तं अन्वारभते स यदाह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच्छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद अथ माध्यंदिने पवमाने वाचयति सम्राडसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति स यदाह सम्राडसीति सोमं वा एतदाह एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति तद्यत्सम्राजति तस्मात्सम्राट् तत्सम्राजस्य सम्राट्त्वम् स यदाह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर्देवैर्माध्यंदिने सवनेऽन्तरिक्षलोके वायुं सन्तं अन्वारभते स यदाह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति त्रैष्टुभेनैवैनं तच्छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥

अथार्भवे पवमाने वाचयति स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वारभे स्वस्ति मा संपारयेति स यदाह स्वरोऽसीति सोमं वा एतदाह एष ह वै सूर्यो भूत्वामुष्मिंल्लोके स्वरति तद्यत्स्वरति तस्मात्स्वरस् तत्स्वरस्य स्वरत्वम् स यदाह गयोऽसीति सोमं वा एतदाह एष ह वै चन्द्रमा भूत्वा सर्वांल्लोकान्गच्छति तद्यद्गच्छति तस्माद्गयस् तद्गयस्य गयत्वम् स यदाह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्यं सन्तं अन्वारभते स यदाह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच्छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥

अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वं इति पृथिव्येव भर्गोऽन्तरिक्ष एव महो द्यौरेव यशोऽप एव सर्वम् अग्निरेव भर्गो वायुरेव मह आदित्य एव यशश्चन्द्रमा एव सर्वम् [एद्. आदित्या] वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम् गायत्र्येव भर्गस्त्रिष्टुबेव महो जगत्येव यशोऽनुष्टुबेव सर्वम् प्राच्येव भर्गः प्रतीच्येव मह उदीच्येव यशो दक्षिणैव सर्वम् वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरदेव सर्वम् त्रिवृदेव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम् ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम् होतैव भर्गोऽध्वर्युरेव मह उद्गातैव यशो ब्रह्मैव सर्वम् वागेव भर्गः प्राण एव महश्चक्षुरेव यशो मन एव सर्वं ॥ १५ ॥

स यदाह मयि भर्ग इति पृथिवीं एवैतल्लोकानां अहाग्निं देवानां वसून्देवान्देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तं ऋतूनां त्रिवृतं स्तोमानां ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचं इन्द्रियाणां ॥ १६ ॥

स यदाह मयि मह इत्यन्तरिक्षं एवैतल्लोकानां आह वायुं देवानां रुद्रान्देवान्देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मं ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानां आध्वर्यवं होत्रकाणां प्राणं इन्द्रियाणां ॥ १७ ॥

स यदाह मयि यश इति दिवं एवैतल्लोकानां आहादित्यं देवानां आदित्यान्देवगणानां जागतं छन्दसां उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानां औद्गात्रं होत्रकाणां चक्षुरिन्द्रियाणां ॥ १७ ॥

स यदाह मयि सर्वं इत्यप एवैतल्लोकानां आह चन्द्रमसं देवानां विश्वान्देवान्देवगणानां आनुष्टुभं छन्दसां दक्षिणां दिशां शरदं ऋतूनां एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणां ॥ १८ ॥

स वा एष दशधा चतुः संपद्यते दश च ह वै चतुर्विराजोऽक्षराणि तं गर्भा उपजीवन्ति श्रीर्वै विराड् यशोऽन्नाद्यम् श्रियं एव तद्विराजं यशस्यन्नाद्यो प्रतिष्ठापयति प्रतिष्ठन्तीरिदं सर्वं अनुप्रतिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ २० ॥

अनर्वाणं ह वै देवं दध्यङ्ङाङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति स दध्यङ्ङाङ्गिरसोऽब्रवीद्यो वै सप्तदशं प्रजापतिं यज्ञेऽन्वितं वेद नास्य यज्ञो रिष्यते न यज्ञपतिं रिष्यन्त इति ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति स दध्यङ्ङाङ्गिरसोऽब्रवीन्न वयं विद्मो यदि ब्राह्मणाः स्मो यद्यब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति अनर्वाणश्च ह वा ऋतावन्तश्च पितरः स्वधायां आवृषायन्त वयं वदामहै वयं वदामहा इति सोऽयात्स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति तस्मात्प्रवरे प्रव्रियमाणे वाचयेद्देवाः पितर इति तिस्रः य एति संयजति स भवति यश्च न ब्रूते यश्च न ब्रूत इति ब्राह्मणं ॥ २१ ॥

सावित्रं ह स्मैतं पूर्वे पुरस्तात्पशुं आलभन्त इत्येतर्हि प्राजापत्यम् यो ह्येव सविता स प्रजापतिरिति वदन्तस् तस्मादु समुप्याग्नींस्तेन यजेरन् ते समानधिष्ण्या एव स्युरोखासंभरणीयायाः उखासंभरणीयायां विन्युपयाग्नींस्तया यजेरन् ते नानाधिष्ण्या एव स्युरा दीक्षणीयायाः दीक्षणीयायां संन्युप्याग्नींस्तया यजेरन् ते समानधिष्ण्या एव स्युरोदवसानीयायाः उदवसानीयायां विन्युप्याग्नींस्तया यजेरन् ते नानाधिष्ण्या एव स्युः अथ यदि यजमानस्योपतपेत्पार्श्वतोऽग्नीनाधाय तावदासीत यावदगदः स्यात् यदि प्रेयात्स्वैरेव तं अग्निभिर्दहेत् अशवाग्निभिरितरे यजमाना आसत इति वदन्तस् तस्य तदेव ब्राह्मणं यददः पुरःसवने पितृमेध आशिषो व्याख्याताः ॥ २२ ॥

सायंप्रातर्होमौ स्थालीपाको नवश्च यः । बलिश्च पितृयज्ञश्चाष्टका सप्तमः पशुः ॥ इत्येते पाकयज्ञाः अग्न्याधेयं अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धोऽत्र सप्तमः ॥ इत्येते हविर्यज्ञाः अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशिमांस्ततः । वाजपेयोऽतिरात्रश्चाप्तोर्यामात्र सप्तमः ॥ इत्येते सुत्याः के स्विद्देवा प्रवोवाजाः के स्विद्देवा अभिद्यवः । के स्विद्देवा हविष्मन्तः किं स्विज्जिगाति सुम्नयुः ॥ ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस्तज्जिगाति सुन्मयुः ॥ कति स्विद्रात्रयः कत्यहानि कति स्तोत्राणि कति शस्त्राण्यस्य । कति स्वित्सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्यस्य ॥ <द्वावतिरात्रौ षट्शतं अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्S३१.१५]> ॥ अहान्यस्य विंशतिशतानि त्रीण्यहश्चैकं तावदस्य । संवत्सरस्य सवनाः सहस्रं असीति त्रीणि च संस्तुतस्य ॥ षट्षष्टिश्च द्वे च शते भवत स्तुतशस्त्राणां अयुतं चैकं अस्य । स्तोत्रियाश्च नवतिसहस्रा द्वे नियुते नवतिश्चाति षट्च ॥ अष्टौ शतान्ययुतानि त्रिंशच्चतुर्नवतिश्च पदान्यस्य । संवत्सरस्य कविभिर्मितस्यैतावती मध्यमा देवमात्रा ॥ अयुतं एकं प्रयुतानि त्रिंशद्द्वे नियुते तथा ह्यनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्येतावानात्मा परमः प्रजापतेः ॥ आद्यं वषट्कारः प्रदानान्तं एतं अग्निष्टोमे पर्वशः साधु क्ळ्प्तं । सौभेषजं छन्द ईप्सन्यदग्नौ चतुःशतं बहुधा हूयते यत् ॥ प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन क्ळ्प्तस्त्रयस्त्रिंशेन सवनं तृतीयं ॥ २३ ॥

श्रद्धायां रेतस्तपसा तपस्वी वैश्वानरः सिषिचेऽपत्यं ईप्सन् । ततो जज्ञे लोकजित्सोमजम्भा ऋषेरृषिरङ्गिराः संनभूव ॥ ऋषेर्यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकं अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृतां उ लोकं ॥ ऋचोऽस्य भागांश्चतुरो वहन्त्युक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर्हविर्भिश्च कृताकृतश्च यजूंषि भागांश्चतुरो वहन्ति ॥ औदुम्बर्यां सामघोषेण तावत्सविष्टुतिभिश्च स्तोमैः छन्दसा । सामानि भागांश्चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥ प्रायश्चित्तैर्भेषजैः संस्तुवन्तोऽथर्वाणोऽङ्गिरसश्च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान्भागांश्चतुरो वहन्ति ॥ यो ब्रह्मवित्सोऽभिकरोऽस्तु वः शिवो धिया धीरो रक्षतु धर्मं एतं । मा वः प्रमत्तां अमृताच्च यज्ञात्कर्माच्च येनानङ्गिरसोऽपियासीत् ॥ मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर्युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मं उद्यतं यज्ञं कालाश स्तुतिगोपनायनं ॥ होता च मैत्रावरुणश्च पादं अच्छावाकः सह ग्रावस्तुतैकं । ऋग्भि स्तुवन्तोऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥ अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादं एकं । सं अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥ साम्नोद्गाता छादयन्नप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान्प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥ साम्ना दिव्येकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादं एकं ॥ अथर्वभिरङ्गिरोभिश्च गुप्तोऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक्चतुर्धा ॥ मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञं । दक्षिणतो ब्रह्मणस्यों जनदित्येतां व्याहृतिं जपन् ॥ सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥ एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिरेव सुन्वन् । एकविंशतिरेवैषां संस्थायां अङ्गिरो वह ॥ वेदैरभिष्टुतो लोको नानावेशापराजितः ॥ । २४ ॥ सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना यानृषयो सृजन्ति ये च सृष्टाः पुराणैः ॥ एतेषु वेदेष्वपि चैकं एवापव्रजं ऋत्विजां संभरन्ति । कृट्स्तृपात्सचते तां अशस्तिं विष्कन्धं एनं विसृतं प्रजासु ॥ निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्यनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥ द्वादशवर्षं ब्रह्मचर्यं पृथग्वेदेषु तत्स्मृतं । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥ सन्ति चैषां समानाः मन्त्राः कल्पाश्च ब्राह्मणानि च । व्यवस्थानं तु तत्सर्वं पृथग्वेदेषु तत्स्मृतं ॥ ऋग्वेदस्य पृथिवी स्थानं अन्तरिक्षस्थानोऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतं ॥ अग्निर्देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश्च भृग्वङ्गिरसां ॥ त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥ वागध्यात्मं ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतं ॥ ऋग्भिः सह गायत्रं जागतं आहुर्यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥ ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं उद्वहेत ॥ ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं आरुरोह ॥ ऋचो विद्वान्पृथिवीं वेद संप्रति यजूंषि विद्वान्बृहदन्तरिक्षं । दिवं वेद सामगो यो विपश्चित्सर्वान्लोकान्यद्भृग्वङ्गिरोवित् ॥ यांश्च ग्रामे यांश्चारण्ये जपन्ति मन्त्रान्नार्थान्बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना सा हि गतिर्ब्रह्मणो यावरार्ध्या ॥ त्रिविष्टपं त्रिदिवं नाकं उत्तमं तं एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तोऽथर्वणां अङ्गिरसां च सा गतिः ॥ अथर्वणां अङ्गिरसां च सा गतिरिति ब्राह्मणं ॥ २५ ॥

इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥ इति पूर्वब्राह्मणं समाप्तम्। namaste@thevyasa.in Dwaipayan Pradhan

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.