Genesis of Big Bang, Energy, Consciousness, Perception, Confinement, Interaction, Potential, Charge, Time, Freewill & Life Before Creation
द्वादशविधपुरुषः तत्वम् । केवल निजस्वरूपेण अवस्थितस्य यदा वहुस्यां प्रजायेय इति इच्छा-ज्ञान-क्रियात्मिकाः शक्तयः ताभिर्योगे क्रमेण अर्थ-शव्दसृष्टि अङ्कुरछायावत् युगपद् भवतः । तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवल निष्प्रपञ्चचिदेकात्मा शिवपदवाच्यो परम्ब्रह्म वाच्यो वा भवति । स एव आदिमः तत्वः । परमशिवो जगत् कवलयन्नपि न सार्वात्मैन । अपि त्वंशेन संस्कारात्मना तत् स्थापयति । स एव संस्कारः ईश्वरः सिसृक्षायां सहकारीभूतः । सा […]