ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 101–110

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 101–110

पृष्ठ 101

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 101 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३ ९ हविषः अग्नि और विष्णु की हविष की क्रमशः याज्यानुवाक्ये भवतः अनुवाक्या और याज्या होते हैं ॥ -विमर्श– ( १ ) देवता के स्मरणार्थ उच्चारित मन्त्र पुरोनुवाक्या और हवि प्रदान करने वाला मन्त्र याज्या कहलाता है । ( २ ) ‘ अग्निर्मुखं ' और ' अग्निश्च'- ये दोनों मन्त्र ऋग्वेद संहिता में उपलब्ध नहीं हैं । इन दोनों ऋचाओं को आश्वलायनश्रौतसूत्र ४.२.३ में पढ़ा गया है I। ये दोनों मन्त्र इस

प्रकार हैं- ( १ ) अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत् ।

यजमानाय परिगृह्य देवान् दीक्षयेदं हविरागच्छतं नः ॥

( २ ) अग्निश्च विष्णो तप उत्तमं महो दीक्षांपालाय वनं तं हि शक्रा ।

विश्वेर्देवैर्यज्ञियैः संविदानौ दीक्षामस्मै यजमानाय धत्तम् ॥

सा ० भा ० — प्रथमनिर्दिष्टत्वादग्निर्मुखमित्येषा पुरोनुवाक्या पश्चान्निर्दिष्टत्वादग्निश्चेति ’ याज्या । यद्यप्यथांनुसारेणानुवाक्यायाज्ये भवत इति विधातव्यं तथाऽप्यल्पाच्तरमिति व्याकरणसूत्रानुसारेण' याज्याशब्दस्य पूर्वनिपातो द्रष्टव्यः ॥ तयोर्ऋचोः कर्मानुकूल्यं दर्शयति— ( ॠग्द्वयोः कर्मानुकूलत्वम्) आग्नावैष्णव्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति ॥९ ॥

हिन्दी— ( अग्निर्मुखम्' इत्यादि दोनों ऋचाओं की कर्मानुकूलता को दिखला रहे हैं - ) आग्नावैष्णव्यौ अग्नि और विष्णु देवताक (ये उपर्युक्त) दोनों ऋचाएँ रूपसमृद्धे ( कर्मानुकूल) रूप से समृद्ध हैं । यद् रूपसमृद्धम् जो (ये अपने ) रूप से समृद्ध हैं एतद् ( १ ) तै ० सं ० २.४.३.३ ( २ ) तै ० सं ० २.४.३.४ । ऋचावेतेऽन्यशाखीये गम्येते; आश्वलायनेन हि प्रपठ्य विहिते (श्रौ ० ४.२.३ ) । तैत्तिरीय पाठस्तु किञ्चिद् भिन्न एवेति । ( ३ ) ' सर्वोषामग्रेऽग्रेवाक्यास्ततो याज्याः' - इति आश्व० श्रौ० ३.७.३ । ( ४ ) याज्यानुवाक्यास्ततो दर्शयति -' पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति, जातानेव...। उपरिष्टा- ल्लक्ष्मा याज्या; जनिष्यमाणानेव इति तै ० सं ० २.६.२.३ । मन्त्रप्रतिपाद्याया देवताया नामधेयं लक्ष्म। तद्यस्यामृचि पूर्वार्द्धं विद्यते सा पुरोऽनुवाक्या; तन्नाम यस्यामुत्तरार्द्धे विद्यते सा याज्या । तद्यथा — अग्निर्मूर्द्धा। अनुवाक्यातिष्ठन्नन्वाहः आसीनो याज्यां यजति’—इति च शत ०ब्रा० १.४.२.१८,१ ९ । (५) पा० सू० २.२.३४ ।

पृष्ठ 102

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 102 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४० ऐतरेयब्राह्मणम् १.४ प्रथमपञ्चिकायां वै यज्ञस्य समृद्धम् यही यज्ञ की समृद्धि हैं । यत् क्रियमाणम् कर्म जो कर्म जैसा किया जाने वाला है वैसा ही ऋक् अभि वदति ( यह) ऋचा कह रही है ॥ सा० भा ० – अग्निश्च विष्णुश्च ययोर्ऋचोः प्रतिपाद्ये देवते भवतस्ते उभे ऋचा-वाग्नावैष्णव्यौ । ' ते च कर्मानुकूल्येन रूपेण समृद्धे । न च रूपसमृद्धवैयर्थ्यं शङ्कनीयम् । कर्मणो यदङ्गं रूपसमृद्धं भवत्येतदेव यज्ञस्याङ्गेषु समृद्धं सम्पूर्णं न तु तस्मिन्किञ्चिदपि वैकल्यमस्ति । केयं रूपसमृद्धिरिति चेत्? पठ्यमानेयमृगनुष्ठीयमानं कर्माभिवदति साकल्येन ब्रवीतीति यदस्ति, एषैव रूपसमृद्धिः ॥ मन्त्रप्रतिपाद्यदेवताप्रशंसाद्वारेणं/ पुनरपि मन्त्रौ प्रशंसति— ( अग्नेर्विष्णोश्च दीक्षापालत्वेन प्रशंसनम् ) अग्निश्च ह वै विष्णुश्च देवानां दीक्षापालौ, तौ दीक्षाया ईशाते, तद्यदाग्नावैष्णवं हविर्भवति यौ दीक्षाया ईशाते तौ प्रीतौ दीक्षां प्रयच्छतां यौ दीक्षयितारौ तौ दीक्षयेतामिति ॥ १० ॥

हिन्दी– ( मन्त्र में प्रतिपादितं देवता द्वारा पुनः मन्त्र की प्रशंसा कर रहे हैं - ) देवानाम् देवताओं में अग्निः च विष्णुः च ह वै ( प्रथम स्थानीय ) अग्नि और ( अन्तिम स्थान वाले ( विष्णु) देवानां दीक्षापालौ देवताओं में दीक्षा के रक्षक हैं, तौ दीक्षायाः ईशाते वे दोनों दीक्षा के स्वामी हैं । तद् यत् तो जो आग्नावैष्णवं हविः भवति अग्नि और विष्णु ( देवता) से सम्बन्धित हविष होती है और यौ दीक्षायाः ईशाते जो दोनों दीक्षा के स्वमी हैं तौ वे दोंनों ( अग्नि और विष्णु) प्रीतौ प्रसन्न होकर दीक्षां प्रयच्छताम् दीक्षा को प्रदान करते हैं । यौ दीक्षितारौ जो दीक्षा प्रदान करने वाले हैं, तौ दीक्षयेताम् वे दीनों दीक्षा को प्रदान करें । सा ० भा ० – योऽयमग्निः सर्वेषां देवानां प्रथमो यश्च विष्णुः सर्वेषामुत्तमस्तावुभौ देवानां मध्ये दीक्षाख्यस्य च व्रतस्य पालयितारौ तावुभौ दीक्षाया ईशाते स्वमिनौ भवतस्तस्मात्तयोर्दीक्षपालकत्वं युक्तम् । तथा सति यद्यग्नाविष्णुदेवताकं हविर्दीक्षणीयेष्टौ भवति तदानीं यौ दीक्षायाः स्वामिनौ देवौ तौ प्रीतौ यजमानाय दीक्षां प्रयच्छताम् । उक्तस्यैव व्याख्यानं यौ दीक्षयितारावित्यादिकम् । इतिशब्दोऽभिप्रायपरामर्शार्थः । अनेनाभिप्रायेणाऽऽ-ग्नावैष्णवं हविः क्रियते । तस्मान्मन्त्रप्रतिपाद्यावग्नाविष्णू प्रशास्तावित्यर्थः ॥ अनेनाभिप्रायेण मन्त्रगतं छन्दः प्रशंसति— ( १ ) 'विमुक्तादिभ्योऽण्', ' देवताद्वन्द्वे च', ' इद्वृद्धौ', ' इद्वृद्धौं' विष्णोः प्रतिषेधः – इति पा० सू० ५.२.६१; ६.३.२८; वा ० १ । ( २ ) ‘ इतिकरणोऽर्थनिर्देशार्थः ' – इत्यादि पात० भा० १.१.६ आह्निके द्रष्टव्यम् । ऋ ० प्राति० १.१ ९ । अमरकोश ३.३.२४५ । हे० अने ० कौ० ७.२१,२२ ।

पृष्ठ 103

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 103 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४१ ( मन्त्रगतछन्दसः प्रशंसनम् ) त्रिष्टुभौ भवतः सेन्द्रियत्वाय ॥ ११ ॥

हिन्दी— ( मन्त्रगत छन्द की प्रशंसा कर रहे हैं- ) त्रिष्टुभौ भवतः ( ' अग्निमुखं' इत्यादि दोनों ऋचाएँ ) त्रिष्टुप् छन्द वाली है; (जो यजमान की ) सेन्द्रियत्वाय इन्द्रियशक्ति से सम्पन्न करने के लिए होती हैं ॥ सा ० भा० –त्रिष्टुप्छन्दस इन्द्रियसाधनत्वेनेन्द्रियरूपत्वं श्रुत्यन्तरे श्रुतम्—'इन्द्रियं वै त्रिष्टुप्'? इति अतो मन्त्रगतं छन्दो यजमानस्य सेन्द्रियत्वाय भवति ॥ अथ मीमांसा । द्वादशाध्यायस्य चतुर्थपादें चिन्तितम्— “ पुरोनुवाक्यया याज्या विकल्प्या वा समुच्चिता । पुरेवाऽऽद्यः समाख्यानाद् वचनाच्च समुच्चयः ” ॥ ’ देवताप्रकाशनकार्यस्यैकत्वाद् याज्ययोर्यथा विकल्पः, तथैवैकयुग्मगतयोरिति चेत् मैवम्। पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः । किञ्च ' पुरोनुवाक्या- मनूच्य याज्यया जुहोति ' इति प्रत्यक्षवचनेन देवतोपलक्षणहविः प्रकाशनकार्यभेदोक्तिपुरःसरं

साहित्यं विधीयते । तस्मात् समुच्चयः ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण-- भाष्यस्य प्रथमाध्याये चतुर्थः खण्डः ||४|| ॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के प्रथम चतुर्थ की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ सा ० भा ० – प्रधानस्य हविषो1318याज्यानुवाक्येHIS12 विधाय2012स्विष्टकृद्रूपस्य यागस्य फल-विशेषाय च्छन्दोविशेषयुक्तयाज्यानुवाक्ये विधातुकामः प्रथमं द्वे ऋचौ विधत्ते— ( १ ) तै०ब्रा० १.७.९ २। तत्र तु त्रिष्टुगिति पाठः। 'गायत्री पुरोऽनुवाक्या भवति, त्रिष्टुग् याज्या ' -इति ( तै ० सं ० २.६.२.५ ) च तद्विधायकं वचनम् । ( २ ) जै ० न्या० वि० १२.४.४ । ( ३ ) पुरोऽनुवाक्या देवतास्मरणार्था भवति, याज्या तु हविः प्रदानार्था। तथाहीयं शातपथश्रुतिः 'ह्वयति वाऽनुवाक्यया, प्रयच्छति याज्यया' –इति शत०ब्रा० १.७.२.१७। अत एवाश्वलायनेन च सूत्रितम्— ' सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्या ' – इति ३.७.३ । ऐ.ब्रा. पू- ३

पृष्ठ 104

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 104 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४२ ऐतरेयब्राह्मणम् १.५ प्रथमपञ्चिकायां ( स्विष्टकृद्रूपस्य यागस्य याज्यानुवाक्याविधानम् ) (तत्र ब्रह्मवर्चसकामस्य गायत्रीछन्दस्कयोर्विधानम् ) गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ॥१ ॥

हिन्दी — ( प्रधान हविष् की याज्या और अनुवाक्या का विधान करके अब स्विष्टकृत् रूप याग के फल - विशेष के लिए छन्दोविशेष से युक्त याज्या और अनुवाक्या का विधान करने के लिए दो ऋचाओं को कह रहे हैं - ) तेजस्कामः ब्रह्मवर्चस्कामः तेज की कामना वाला और ब्रह्मवर्चस् की कामना करने वाला यजमान गायत्र्यौ गायत्री छन्दस्क ऋचाओं को स्विष्टकृतः संयाज्ये कुर्वीत स्विष्टकृत् की पुरोनुवाक्या और याज्या करें ॥ सा ० भा ० – ‘ स हव्यवाळमर्त्य'' इत्येका गायत्री । ' अग्निर्होता पुरोहित' ' इत्यपरा गायत्री । ते उभे स्विष्टकृद्यागस्य संयाज्ये कुर्यात् । कीदृशोऽधिकारी? तेजः शरीरकान्तिः । ब्रह्मवर्चसं श्रुताध्ययनसम्पत्तिः । तदुभयकामोऽत्राधिकारी । संयाज्याशब्दार्थमाश्वलायनं आह— 'स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात् इति स्विष्टकृत्संबधिन्यो याज्यानुवाक्ये इत्यर्थः ॥ गायत्र्या उक्तफलसाधनत्वमुपपादयति— तेजो वै ब्रह्मवर्चस गायत्री ॥ २ ॥

हिन्दी— क्योंकि तेजः वै ब्रह्मवर्चसं गायत्री गायत्री (छन्द ) ही तेज और ब्रह्मवर्चस वाली है । सा ० भा० –'तत्सवितुर्वरेण्यम् " इत्यस्यामृचि यद् गायत्रीछन्दस्तस्य तेजोब्रह्म- वर्चससाधनत्वेन तद् रूपत्वं लोके प्रसिद्धम् । स्नानधौतवस्त्रदर्भतिलकधारणपुरःसरं गायत्रीं जपतो ब्राह्मणस्य देहे काचिदाकारशोभा दृश्यते तदिदं तेजः । स च जपिता वेदमधीते तदर्थं च शृणोति तदिदं ब्रह्मवर्चसम् ॥ वेदनपुरःसरमनुष्ठातृफलं दर्शयति— तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् गायत्र्यौ कुरुते ॥ ३ ॥

( १ ) ऋ० सं० ३. ११.२ । ( २ ) ऋ ० सं० ३.११. १। ( ३ ) ‘स्विष्टकृद्यागानुमन्त्रणम्' तै० सं ० १. ६.२.४ । तद्ब्राह्मणम्, तन्निर्वचनसूत्रको मन्त्रश्च सायण- भाष्ये स्विष्टकृद्यागविधिस्तु द्र० तै० सं ० २.६.६.५ । तद्विचारास्तु द्र० - जै० न्या० वि० ३.४.१ ९, ३५; पुनः ३६, ३७, ततः ४.१.२८-३२ । (४ ) श्रौ० सू० २.१.२१ । ( ५ ) ऋ० सं० ३. ६२.१० ।

पृष्ठ 105

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 105 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४३ हिन्दी— ( इस तथ्य को जानने वाले अनुष्ठाता के लिए फल को कह रहे हैं— ) यः एवंविद्वान् जो इस प्रकार जानने वाला गायत्र्यौ कुरुते गायत्री से सम्बन्धित दो (ऋचाओं) की. ( पुरोनुवाक्या और याज्या ) करता है वह तेजस्वी ब्रह्मवर्चसी भवति तेज- सम्पन्न और ब्रह्मवर्चस से युक्त होता है । सा ० भा ० — यद्यपि विधिवाक्येऽनुष्ठानमात्रात्फलमुक्तं तथाऽपि वेदनपूर्वकानुष्ठाने . तस्मिन्नेव फले कश्चिदतिशयो द्रष्टव्यः ॥ फलान्तराय च्छन्दोन्तरं विधत्ते- ( आयुष्कामस्योष्णिक्छन्दस्कयोर्विधानम् ) उष्णिहा वाऽऽयुष्कामः कुर्वीत ॥४ ॥

हिन्दी -( आयु की कामना करने वाले के लिए अन्य छन्द का विधान कर रहे हैं - ) उष्णिहा वा आयुष्कामः अथवा आयु की कामना वाला उष्णिहा ( उष्णिक्) छन्द वाली ऋचाओं कर पाठ करे ॥ सा० भा ० — 'अग्ने वाजस्य गोमत'" इत्येकोष्णिक् । ‘ सं इंधानो वसुष्कविः ” २ इत्यपरा । ते उभे शतसंवत्सरपर्यन्तायुष्कामः कुर्वीत ॥ गायत्र्या अप्यक्षरचतुष्टयेनोष्णिक्छन्दसोऽधिकत्वाद् आयुर्वृद्धिहेतुत्वं युक्तमित्यभि- प्रेत्योष्णिगायुषोरभेदमाह– आयुर्वा उष्णिक् ॥ ५ ॥

हिन्दी — क्योंकि आयुः वै उष्णिक् उष्णिक् आयु वाला है ॥ सा० भा० – पूर्ववद् वेदनं प्रशंसति-- सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुते ॥ ६ ॥

हिन्दी- यः एवं विद्वान् जो इस प्रकार (उष्णिक् को. आयुरूप) जानने वाला उष्णिहौ कुरुते उष्णिक् छन्द वाली ऋचाओं से ( पुरोनुवाक्या और याज्या करता है, वह सर्वम् आयुः एति सम्पूर्ण वायु को प्राप्त करता है ॥. फलान्तराय च्छन्दोन्तरं विधत्ते- ( स्वर्गकामस्यानुप्छन्दस्कयोर्विधानम् ) अनुष्टुभौ स्वर्गकामः कुर्वीत ॥७॥

( १ ) ऋ० सं० १.७ ९.४ । ( २ ) ऋ० सं० १.७ ९.५ । ( ३ ) तथाचेदं पिङ्गलसूत्रम्—' चतुरश्चतुरः प्राजापत्यायाः ' इति-३.११ ।

पृष्ठ 106

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 106 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४४ ऐतरेयब्राह्मणम् १.५ प्रथमपञ्चिकायां हिन्दी— स्वर्गकामः स्वर्ग की कामना वाला ( यजमान) अनुष्टुभौ कुर्वीत अनुष्टुप् छन्द वाले (पुरोनुवाक्या और याज्या को) करे ॥ सा ० भा ० – त्वमग्ने वसून् इति द्वे ' अनुष्टुभौ ॥ अनुष्टुभर्गहेतुत्वमुपपादयति- द्वयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि त्रय इम ऊर्ध्वा एकविंश लोका एकविंशत्यैकविंशत्यैवेमाँल्लोकान् रोहति स्वर्ग व लोके चतु: - षष्टितमेन प्रतितिष्ठति ॥८ ॥

हिन्दी— ( अनुष्टुप् छन्द की स्वर्गहेतुता को कह रहे हैं - ) द्वयोः वै अनुष्टुभोः दो अनुष्टुप् छन्द वाली ऋचाओं के चतुःषष्ठिः अक्षराणि चौंसठ अक्षर होते हैं त्रयः इमे लोकाः ऊर्ध्वाः ये (पृथिवी, अन्तारिक्षत और द्युलोक ) तीन लोक, एक के ऊपर एक अवस्थित हैं इमान् लोकान् इन लोकों एकविंशत्या एकविंशत्या इक्कीस- इक्कीस की अक्षर संख्या से रोहति आरोहरण करता है । चतुःषष्ठितमेन चौसठवें (अक्षर) से स्वर्गे लोके प्रतितिष्ठति स्वर्गलोक में प्रतिष्ठित होता है ॥ सा० भा० - श्रुत्यन्तरे' ' द्वात्रिंशादक्षराऽनुष्टुप्' इत्यभिधानाद् द्वयोरनुष्टुभोर्मिलित्वा चतुःषष्टिसंख्याकान्यक्षराणि सम्पद्यन्ते । इमे पृथिव्यन्तरिक्षस्वर्गरूपा एकैकस्मादूर्ध्वत्वेन वर्तमानाः प्रत्येकमेकविंशत्यवयवसमूहरूपा लोकास्रयो विद्यन्ते । तेष्वेकैकं लोकमेकै- काक्षरगतयैकविंशतिसंख्यया यजमान आरोहति । अन्तिमेन चतुःषष्टितमेनाक्षरेण तृतीये स्वर्ग एव लोके यजमानः प्रतितिष्ठति स्थिरोऽवतिष्ठते ॥ वेदनं प्रशंसति- प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते ॥९ ॥

हिन्दी - ( इस तथ्य के ज्ञान की प्रसंसा कर रहे हैं - ) यः एवं विद्वान् जो इस प्रकार जानने वाला अनुष्टुभौ कुरुते अनुष्टुप् छन्दस्क (ऋचाओं) की (पुरोनुवाक्या और याज्या ) करता है, प्रतितिष्ठति वह प्रतिष्ठित होता है । सा० भा० - फलान्तराय च्छन्दोन्तरं विधत्ते— ( यशस्कामस्य बृहतीछन्दस्कयोर्विधानम्) बृहत्यौ श्रीकामो यशस्कामः कुर्वीत ॥ १० ॥

( १ ) ऋ० सं० १.४५.१-२ । (२ ) तै ० सं० २.५.१०.३ । ( ३ ) अनुष्टुबनुष्टोभनात् । ‘ गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति । इति च ब्राह्मणम् (दै० ब्रा ० ३ )–इति निरु ० ७.१२ । ' द्वात्रिंशदक्षरानुष्टुप् चत्वारोऽष्टाक्षराः समाः ’ ऋक्प्राति० १६.३७।

पृष्ठ 107

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 107 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४५ हिन्दी— श्रीकाम: यशस्कामः ( धन धान्यादि) सम्पत्ति और यश की कामना करने वाला यजमान बृहत्यौ कुर्वीत दो बृहती छन्दस्क (ऋचओं) की (पुरोनुवाक्या और याज्या ) करे || सा० भा ० — श्रीर्धनधान्यादिसंपत्ति: । यशः सत्कुलदानादिजन्या कीर्तिः । एना वो

अग्निमिति द्वे ' ( उदस्य शोचिरस्यात्' - इति ) बृहत्यैौ । श्रीयशसोः कारणत्वेन ॥

बृहत्यास्तदुभयरूपत्वं दर्शयति— श्रीर्वै यशश्छन्दसां बृहती ॥ ११ ॥

हिन्दी— क्योंकि बृहती जो बृहती छन्द है, वह छन्दसाम् छन्दों की श्रीः यशः श्री और यश है । सा ० भा ० – गायत्र्यादीनां छन्दसां मध्ये या बृहती सैव श्रीरूपा यशोरूपा च सर्वेषां छन्दसां पशुसंपादनमात्सर्ये सति बृहत्या विजयमाप्तायाः पशुरूपत्वाच्छ्रीरूपत्वम्। तथा च तैत्तिरीया आमनन्ति— ‘ छन्दांसि पशुष्वाजिमयुस्तान्बृहत्युदजयत्तस्माद् बार्हताः पशव उच्यन्ते ' ' इति । इतरच्छन्दोभिराश्रितत्वादपि श्रीरूपत्वं त एवाऽऽमनन्ति——यानि च च्छन्दांस्यत्यरिच्यन्त । यानि च नोदभवन् तानि निर्वीर्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहतीम् । मामेव भूत्वा मामुपस् श्रयत्" इति । मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहतीति मध्यत्वेन प्रशंसनाद्यशोरूपत्वमपि द्रष्टव्यम् ॥ वेदनं प्रशंसति— श्रियमेव यश आत्मन् धत्ते य एवं विद्वान् बृहत्यौ कुरुते ॥ १२ ॥

हिन्दी-( इस ज्ञान की प्रशंसा कर रहे हैं -) यः एवं विद्वान् जो इस प्रकार (छन्दों के श्री और यश रूप बृहती ) को जानने वाला विद्वान् बृहत्यौ कुरुते बृहती छन्द से पुरोनुवाक्या और याज्या करता है, वह आत्मन् अपने भीतर श्रियम् यशः एव धत्ते श्री और यश को धारण करता है ॥ सा ० भा ० — एवकारः श्रीयशसोः समुच्चयार्थः ॥ अहीनसत्राद्युतरयज्ञप्राप्तिकामस्य च्छन्दोन्तरं विधत्ते— ( यज्ञकामस्य पङ्क्तिछन्दस्कयोर्विधानिम् ) पङ्क्ती यज्ञकामः कुर्वीत ॥ १३ ॥

( ) हिन्दी— यज्ञकामः यज्ञ की कामना( )करने वाला ( यजमान ) पङ्क्तीः कुर्वीत दो १ ऋ० सं० ७.१६.१ । २ ऋ० सं ० ७.१६.३ ।( ) ( ) ३ सं० ५.३.२.३-४ । ४ तै०ब्रा० १.५.१२.३ ।

पृष्ठ 108

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 108 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४६ ऐतरेयब्राह्मणम् १.५ प्रथमपञ्चिकायां पङ्क्ति छन्दस्क ऋचाओं की पुरोनुवाक्या और याज्या को करें ॥ सा० भा ० – अग्नि तं मन्य इति द्वे ' पङ्क्ती ॥ यज्ञस्य पङ्क्तिसम्बन्धित्वं दर्शयति- पाङ्क्तो वै यज्ञः ॥ १४ ॥

हिन्दी—क्योंकि पाङ्क्तः वै पज्ञः यज्ञ (आहुति इत्यादि ) पाँच संख्या वाला है ।

सा० भा ० — वैशब्दो वक्ष्यमाणबहुविधपाङ्क्तत्वप्रसिद्धिप्रदर्शनार्थः ॥

वेदनं प्रशंसति— उपैनं यज्ञो नमति य एवं विद्वान् पङ्क्ती कुरुते ॥ १५ ॥

हिन्दी–(इस पाङ्क छन्द की प्रशंसा कर रहे हैं - ) यः एवं विद्वान् जो इस प्रकार ( पाँच संख्या वाले यज्ञ को) जानने वाला पङ्क्ती कुरुते पङ्क्ति छन्दस्क ( पुरोनुंवाक्या और याज्या) करता है एनं यज्ञः उपनमति इस ( यजमान) के प्रति यज्ञ झुक जाता है । सा० भा० – वीर्यप्राप्त्यर्थं छन्दोन्तरं विधत्ते- ( वीर्यकामस्य त्रिष्टुप्छन्दस्कयोर्विधानम् ) त्रिष्टुभौ वीर्यकामः कुर्वीत ॥ १६ ॥

हिन्दी— वीर्यकामः वीर्य की कामना करने वाला ( यजमान ) त्रिष्टुभौ कुर्वीत दो त्रिष्टुप् छन्दस्क ( ऋचाओं) की (पुरोनुवाक्या और याज्या ) करें ॥ सा ० भा ० — द्वै विरूपे चरत इति द्वे ' त्रिष्टुभौ ॥ त्रिष्टुप्छन्दसो वीर्यसाधनत्वेन तद्रूपत्वं दर्शयति— ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् ॥ १७ ॥

हिन्दी — क्योंकि त्रिष्टुप् त्रिष्टुप् छन्द ओजः इन्द्रियं वीर्यम् बल का हेतु, इन्द्रिय और बल है | सा ० भा ० -– वीर्यं शरीरबलम् । तच्चौजस इन्द्रियस्य चोपलक्षणम् । ओजो बल-हेतुरष्टमो धातुः । इन्द्रियं चक्षुरादिपाटवम् ॥ वेदनं प्रशंसति—' ( ) ओजस्वीन्द्रियवान् वीर्यवान् भवति( य) एवं विद्वास्त्रिष्टुभौ कुरुते ॥ १८ ॥ १ ऋ० सं० ५.६.१-२। २ ऋ ० सं० १.१५.१-२ ।( ३ ) निघ० २.९.१ । अमरकोष ३.३.२३३ । छा० उप० ३.१३.५ । ' ओजस्तेजसि धातू- नामवष्टम्भप्रकाशयोः । बले च दीप्तौ च' इति विश्वः ३.१ ९ । रघु० ५: ३७|

पृष्ठ 109

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 109 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४७ हिन्दी- यः एवं विद्वान् जो इस प्रकार (त्रिष्टुप् को ओज इत्यादि रूप में) जानने वाला त्रिष्टुभौ कुरुते त्रिष्टुप् छन्दस्क ( पुरोनुवाक्या और याज्या) करता है, वह ओजस्वी इन्द्रियवान् वीर्यवान् भवति ओज से युक्त, इन्द्रिय-सम्पन्न और वीर्यवान् होता है । सा० भा० – गवादिपशुप्राप्तये छन्दोन्तरं विधत्ते— ( पशुकामस्य जगतीछन्दस्कयोर्विधानम् ) जगत्य पशुकामः कुर्वीत ॥ १ ९ ॥ हिन्दी — पशुकामः पशु की कामना करने वाला ( यजमान ) जगत्यौ कुर्वीत दो जगती छन्दस्क ऋचाओं से (क्रमशः पुरोनुवाक्या और याज्या ) करें ॥ सा० भा०-'-'जनस्या गोपा' इति द्वे ' जगत्यौ । पशूनां जगतीछन्दः साध्यत्वेन तत्सम्बन्धं दर्शयति— I जागता वै पशवः ॥ २० ॥

हिन्दी – क्योंकि जागताः दै पशवः पशु जगती छन्द से सम्बन्धित होते हैं ॥ सा० भा० - वेदनं प्रशंसति— पशुमान् भवति य एवं विद्वाञ्जगत्यौ कुरुते ॥ २१ ॥

हिन्दी- यः एवं विद्वान् जो इस प्रकार (पशुओं को जगती छन्द से सम्बन्धित ) जानने वाला जगत्यौ कुरुते जगती छन्दस्क ऋचाओं की (पुरोनुवाक्या और याज्या करता है, वह पशुमान् भवति पशुओं से सम्पन्न होता है ॥ सा ० भा० — अत्तुं योग्यमन्नं कामयमानस्य च्छन्दोन्तरं विधत्ते- ( अन्नकामस्य विराट्छन्दस्कयोर्विधानम् ) विराजावन्नाद्यकामः कुर्वीत ॥ २२ ॥

हिन्दी- अन्नाद्यकामः अन्न की कामना करने वाला ( यजमान ) विराजौ कुर्वीत विराट् छन्दस्क दो ( ऋचाओं ) की (पुरोनुवाक्या और याज्या) करे ॥ सा ० भा० -'प्रद्धो अग्न' ' इमो अग्न' इति द्वे' विराजौ ॥३ अन्नस्य विराजनहेतुत्वेन विरारूपत्वमाह— ( १ ) ऋ० सं ० ५.११.१-२ । ( २ ) ऋ ० सं ० ७.१.३,१८ । ( ३ ) 'प्रेद्धो अग्न' ' इमो अग्न' इति संयाज्ये विराजावित्युक्त एते प्रतीयात्' आश्व० श्रौ० २.१.३० ।

पृष्ठ 110

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 110 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४८ ऐतरेयब्राह्मणम् १.६ प्रथमपञ्चिकायां अन्नं वै विराट् ॥ २३ ॥

हिन्दी— क्योंकि अन्नं वै विराट् विराट् छन्द अन्न रूप होता है । सा० भा०--तदेव स्पष्टयति— तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके विराजति तद्विराजो विराट्त्वम् ॥ २४ ॥

हिन्दी- तस्मात् इस (विराट् के अन्न रूप होने ) के कारण इह लोके इस ( लोक ) में यस्य भूयिष्ठम् अन्नं भवति जिसके पास अधिक अन्न होता है, सः एव वही भूयिष्ठं विराजति अत्यधिक प्रतिष्ठित होता है । तद् विराजः विराट्त्वम् यही विराट् की विराटता है ॥ सा० भा० --यस्मादन्नस्य विराजनहेतुत्वं तस्मात् कारणादिह लोके यस्यैव पुरुष- स्यान्नं प्रभूतं भवति स एव जनमध्येऽत्यन्तं शोभते तस्माद् विराजत्यनेनेति व्युत्तत्त्या विराट्शब्दो निष्पन्नः ॥। वेदनं प्रशंसति— वि स्वेषु राजति, श्रेष्ठः स्वानां भवति य एवं वेद ॥ २५ ॥

• हिन्दी— यः एवं वेद जो इस प्रकार (इस विराट् की विराटता को) जानता है; वह स्वेषु विराजति अपनों में विराजमान रहता है और स्वानां श्रेष्ठं भवति अपने लोगों में श्रेष्ठ होता है ॥ सा ० भा ० — यः पुमान् विराजो महिमानं वेत्ति स पुमान् स्वकीयेषु ज्ञातिषु मध्ये विशेषेण राजति लौकिकसामर्थ्येन शोभते 1। तथा स्वीयानां ज्ञातीनां मध्ये वृत्तविद्याविनयादिभिः श्रेष्ठो भवति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य प्रथमाध्याये पञ्चमः खण्डः ॥१ ॥

|| इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० – काम्ये संयाज्ये नानाविधे विधाय नित्ये संयाज्ये विधातुं विराट्छन्दः प्रशंसति-