ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 91–100

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 91–100

पृष्ठ 91

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 91 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् २ ९ हिन्दी – ( तृतीय संस्कार — ) एनम् अञ्जन्ति इस ( यजमान) के ( दोनों आँखों में अञ्जन लगाते हैं | सा ० भा ० — अक्ष्णोर्दृष्टिप्रसादहेतुत्वेनाञ्जनं प्रशंसति— ( अञ्जनस्य प्रशंसा ) तेजो वा एतदक्ष्योर्यदाञ्जनं सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति ॥७ ॥

हिन्दी – ( अञ्जन की प्रशंसा करते हैं — ) यद् आंजनम् जो आखों में अञ्जन लगाना है एतत् यह अक्ष्ण्योः तेजः यह आखों का तेज रूप है । इससे एनम् इस (यजमान) को सतेजसं कृत्वा तेजसम्पन्न करके दीक्षयन्ति दीक्षित करते हैं । सा० भा०-–आञ्जनस्याक्षितेजस्त्वं लोके प्रसिद्धम् । तत्प्रकारविशेषः शाखान्तरे 'दक्षिणं पूर्णमाङ्क्ते' ' इत्यादिना विहितः ॥ संस्कारान्तरे विधत्ते- ( दर्भपिलैः पवित्रकरणम् ) एकविंशत्या दर्भपिञ्जलैः पावयन्ति ॥८ ॥

हिन्दी–( चतुर्थ संस्कार— ) एकविंशत्या इक्कीस कुशपिञ्जलैः कुशमुष्ठिकाओं से पावयन्ति ( मार्जन करके यजमान को ) पवित्र करते हैं । सा० भा ० — दर्भपिञ्जूलशब्देन कुशसंघा उच्यन्ते । तैरेकविंशतिसंख्याकैर्यजमानं मार्ज-यित्वा शुद्धं कुर्युः ॥२. यद्यप्यसावभिषेकेणैव शुद्धस्तथाऽप्यतिशयेन शुद्धिरित्येवमभिप्रायं दर्शयति— शुद्धमेवैनं तत्पूतं दीक्षयन्ति॥ ९ ॥

हिन्दी- शुद्धमेव एनम् (स्नान से) पवित्र हुए इस ( यजमान) को पूतम् पवित्र करके दीक्षयन्ति दीक्षित करते हैं ॥ सा० भा ० — पूर्वमपि शुद्धमेव सन्तमेनं यजमानं पुनरपि तत्तेन कुशसङ्घमार्ज़नेन पूतं कृत्वा संस्कुर्वन्ति । यद्यपि शाखान्तरे'- 'द्वाभ्यां पावयति अहोरात्राभ्यामेवैनं पावयति त्रिभिः पावयति' इत्यादिना संख्यान्तरविषया बहवः पक्षा उपन्यस्तास्तथाऽप्येते सर्वं ( १ ) तै ० सं० ६.१.१: ५, ६ । तद्यथा- 'दक्षिणां पूर्वमाङ्कते; सव्यं हि कुतः सतूलत्वनियमः’- इत्यादि तत्र सा० भा ० । शत० ब्राह्मणेऽपि " अथाक्ष्यावनक्ति ” – इत्यादि ३.१.३.१०- १७। (२) तु० आप०श्रौ०० १० ७.५ । ' अथैनमुत्तरेण बहिः प्राग्वंशाद् दर्भपिञ्जलैः पावयति' । ( ३ ) तै ० सं ० ६.१.१.७, ८। तन्मन्त्रा अपि तत्रैव पुरस्तात् १.२.१ ।

पृष्ठ 92

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 92 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३० ऐतरेयब्राह्मणम् १.३ प्रथमपञ्चिकायां एकविंशतावन्तर्भावादवयुत्यानुवादरूपाः प्रशंसार्थाः । अत एव तत्रान्तिमे पर्याय एकविंशत्या पावयतीत्युपसंहारः कृतः ॥१ उक्तैः संस्कारैः संस्कृतस्य दीक्षितस्य प्राचीनवंशाख्यशालाप्रवेशं विश्वत्ते- ( यजमानस्य प्राचीनवंशाख्यशालां प्रवेशः ) • दीक्षितविमितं प्रपादयन्ति ॥ १० ॥ - हिन्दी – ( पञ्चम संस्कार ) दीक्षितविमितं दीक्षित व्यक्ति के लिए विशेषरूप

से निर्मित स्थान विशेष (प्राचीनवंशशाला) पर प्रतिपादयन्ति ( दीक्षित यजमान को) ले जाते हैं । १. सा० भा० - दीक्षितस्य प्रवेशार्थं विशेषेण निर्मितः प्राचीनवंशो दीक्षितविमितस्तं प्रवेशयेयुः ॥ पूर्वत्र दीक्षितस्य गर्भत्वाभिधानादौचित्येन प्राचीनवंशं योनित्वेन प्रशंसति- ( योनित्वेन प्राचीनवंशप्रशंसनम्) योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितं योनिमेवैनं तत्स्वां प्रपादयन्ति ॥११ ॥

हिन्दी - यद्दीक्षितविमितं जो दीक्षितव्यक्ति के लिए विशेष रूप से निर्मित स्थानं-• विशेष है एषा दीक्षितस्य योनिः यह दीक्षित की योनि है । तत् उस (दीक्षितविमित में ले जाने ) से एनम् इस ( यजमान) को स्वां योनिमेव अपनी योनि को ही प्रपादयन्ति प्राप्त कराते हैं | सा० भा ० — प्राचीनवंशस्य योनित्वोपचारात् तत्तेन प्राचीनवंशप्रवेशेन स्वकीययोनि- प्रवेशः सम्पाद्यते। सोऽयं प्रवेशः शाखान्तरे विस्पष्टमाम्नायते— ' बहिः पावयित्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पावयित्वा पूतं देवलोकं प्रणयति' इर्ति । आपस्तम्बोऽ- प्याह— ‘ आवो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्य' इति ॥ तस्य दीक्षितस्य कचिन्नियमं विधत्ते- ( तत्र दीक्षितस्य नियमविशेषकथनम् ) तस्माद् ध्रुवाद्योनेरास्ते च चरति च ॥१२ ॥

हिन्दी – अतः तस्मात् ध्रुवायोने: उस स्थिर योनि में आस्ते बैठता है और चरति ( १ ) द्वाभ्याम्, त्रिभिः, पञ्चभिः, षड्भिः, सप्तभिः, नवभिः, एकविंशत्या । ( २ ) तै० सं०. ६.१.२.१ । ( ३ ) आप० श्रौ० १०.८.१ ।

पृष्ठ 93

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 93 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]: प्रथमोऽध्यायः तृतीयः खण्ड सायणाचार्यकृतभाष्योपेतम् ३१ च सञ्चरण करता है | सा० भा ० – अत्र तिस्रः पञ्चम्यः सप्तम्यर्थे द्रष्टव्याः । तस्मिन् दीक्षितार्थं निर्मितदेवयजनाख्ये स्थिरस्थाने स दीक्षित उपवेशनं सञ्चरणं च कुर्यात् ॥ विहितमर्थं प्रशंसति— तस्माद् ध्रुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते ॥ १३ ॥

हिन्दी— ( क्योंकि लोक में भी ) तस्माद् ध्रुवाद् योने: उस स्थिर योनि में गर्भाः गर्भ धीयन्ते च धारणा किये जाते है और प्रजायन्ते च ( वहीं से ) उत्पन्न होते हैं । सा० भा ० — यस्माद् गर्भस्थानीयस्य दीक्षितस्य स्थिरे देवयजनस्थाने योनिरूप उप- वेशनं सञ्चरणं च तस्माल्लोकेऽपि स्थिरे योनिमध्ये नवसंख्याकान् मासान् गर्भा धार्यन्ते तस्मादेव स्थिराद्योनिमध्यादुत्पद्यन्ते ॥ तस्य दीक्षिस्य देवयजनाद् बहिर्निर्गमनं निषेधति— ( यजमानस्य प्राचीनवंशत: बहिर्गमननिषेधः ) तस्माद् दीक्षितं नान्यत्र दीक्षितविमितादादित्योऽभ्युदियाद्वाऽभ्यस्त- मियाद्वाऽपि वाऽभ्याश्रावयेयुः ॥ १४ ॥

हिन्दी— ( दीक्षित के उस स्थान से बाहर जाने का निषेध कर रहे हैं -) तस्माद् दीक्षितविमितात् उस ( दीक्षित के लिए ) विशेषरूप से बने हुए स्थान -विशेष से अन्यत्र अन्य स्थान पर दीक्षितम् दीक्षित को अभिलक्षित करके आदित्यः आदित्यदेव न •अभ्युवियात् न उदित होवें न अभ्यस्तमियात् न अस्त होवे और न अभ्याश्रावयेयुः

न तो ऋत्विग् गण वार्तालाप करें । अर्थात् (दीक्षित उस स्थान से बाहर न जाये ) ॥

सा० भा०-–यस्माद् दीक्षितस्योपवेशनसञ्चरणयोर्देवयजनमेव स्थानं तस्मात् कार- णाद् दीक्षितविमिताद् देवयजनदेशादन्यत्र बहिर्देशे दीक्षितमभिलक्ष्याऽऽदित्यो नोदियान्नास्त- मियाच्च । किञ्चत्विजो यं बहिरवस्थितं दीक्षितमभिलक्ष्याऽऽश्रावणादिकं न कुर्युः । ' यद्यपि ध्रुवाद्योनेरास्ते चरतिविधानादेवायमर्थः सिद्धस्तथाऽपि मलमूत्रविसर्गाद्यावश्यककार्यार्थं कदा- चिद् बहिर्निर्गमनमभ्युपगम्य तत्र विशेषाभिधानमेतत् । कालान्तरे कथञ्चिद् गमनेऽप्युद- यास्तमयाश्रवणादिकालेषु सर्वथा न निर्गच्छेदित्यर्थः । तदेतद् दृष्टान्तपुरःसरं शाखान्तरेर “प्रपञ्चितम् – 'गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रव- सेद् यथा योनेर्गर्भः स्कन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय' इति ॥ ( १ ) तु० आश्व० श्री० १२.८, आप० श्र० १०.१५.५ । (२ ) तै० सं ० ६.२.५.४ । (३ ) द्र ० शत ०ब्रा० ३.२.१ ।

पृष्ठ 94

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 94 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३२ ऐतरेयब्राह्मणम् १.३ प्रथमपञ्चिकायां संस्कारन्तरं विधत्ते— ( दीक्षितस्य वाससाच्छादनसंस्कारः ) • वाससा प्रोर्णुवन्ति ॥ १५ ॥

हिन्दी–( षष्ठ संस्कार वस्त्र से आच्छादन -) वाससा प्रोर्णुवन्ति (अब ऋत्विग्- गण दीक्षित यजमान को ) वस्त्र से आच्छादित करते ( वस्त्र पहनाते ) हैं । सा ० भा० —ऋत्विजो यजमानं वस्त्रेणाऽऽच्छादयेयुः ॥ गर्भस्थानीयं दीक्षितं प्रत्यौचित्येन वस्त्रस्योल्बत्वं दर्शयति-- ( वस्त्रस्योल्बत्वकथनम् ) उल्बं वा एतद्दीक्षितस्य यद्वास उल्बेनेवैनं तत् प्रोर्णुवन्ति ॥ १६ ॥

हिन्दी - ( वस्त्र की उल्बणता— ) यद् वासः जो वस्त्र है, एतद् दीक्षितस्य यह ( वस्त्र) दीक्षित ( दीक्षित यजमान) को उल्बेन इव प्रोर्णुवन्ति मानो उल्ब से ही आच्छादित करते हैं | सा ० भा ० – उल्बशब्देन गर्भस्याभ्यन्तरं चर्म सर्ववेष्टनमुच्यते । अयमर्थः शाखा- न्तरे स्पष्टीकृतः — ‘ गर्भो वा एष यद्दीक्षित उल्बं वास: प्रोर्णुते तस्माद् गर्भाः प्रावृता जायन्ते ' इति ॥ वाससो बहिर्वेष्टनान्तरं विधत्ते—. ( दीक्षितस्य कृष्णाजिनेनाच्छादानसंस्कारः ) कृष्णाजिमुत्तरं भवति ॥१७ ॥

हिन्दी— ( सप्तम संस्कार- कृष्णाजिन से आच्छादन — ) उत्तरम् वस्त्राच्छादन के बाद उस पर कृष्णाजिनं भवति कृष्णमृगचर्म को लपेटा जाता है ) ॥ सा ० भा ० — बहिर्वेष्टनत्वसाम्येन कृष्णाजिनस्य जरायुरूपत्वं दर्शयति— ( कृष्णाजिनस्य जरायुरूपत्वम् ) उत्तरं वा उल्बाज्जरायुर जरायुणैवैनं तत् प्रोर्णुवन्ति ॥ १८ ॥.

हिन्दी - उल्बाद् उत्तरम् उल्ब के ऊपर ( यह कृष्णमृगचर्म) जरायुः वै जरायु रूप ही होता है । तत् उस ( कृष्णाजिन के लपेटने) से एनम् इस ( यजमान ) को जरायुणा एव जरायु से ही प्रोर्णुवन्ति आच्छादित करते हैं ॥. ( १ ) तै० सं० ६.१.३.२ । ( २ ) येनाविष्टतो जायते गर्भस्तदुल्वं भवति । यत् पुनर्गर्भावरणं गर्भाशय एव तिष्ठति तज्ज- रायुर्भवति' इति गोविन्दस्वामी ।

पृष्ठ 95

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 95 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३३ संस्कारान्तरं विधत्ते— ( मुष्टिद्वयबन्धनसंस्कारः ) मुष्टीं कुरुते ॥१९ ॥

हिन्दी – ( अन्य संस्कार- मुष्टिबन्धन - ) मुष्टीं कुरुते (यजमान) मुट्ठी बाँधता है । सा० भा०– यजमानो हस्तयोर्मुष्टिं कुर्यात् । तत्प्रकार आपस्तम्बेन स्पष्टमभिहित: -‘ अथाङ्गुलीर्न्यञ्चति । स्वाहां यज्ञं मनसेति द्वे स्वाहा दिव इति द्वे स्वाहा पृथिव्या इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यज्ञं वातादारभ इति मुष्टीकरोति ” इति ॥ गर्भसाम्येन यज्ञस्य सर्वदेवतानां च धारणेन प्रशंसति --- ( मुष्टिद्वयप्रशंसनम् ) मुष्टी वै कृत्वा गर्भोऽन्तः शेते, मुष्टी कृत्वा कुमारो जायते, तद्यन्मुष्टी कुरुते यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते ॥ २० ॥

हिन्दी— ( मुष्टिबन्धन की प्रशंसा कर रहे हैं - ) मुष्टी कृत्वा मुट्ठी बाँधे हुए ही गर्भः गर्भस्थ शिशु अन्तः योनि के भीतर शेते शयन करता है, मुष्टी कृत्वा मुट्ठी बाँधे हुए कुमारः जायते शिशु पैदा होता है। तद् यद् मुष्टी कुरुते तो जो ( दीक्षित ) मुट्ठी बाँधता है तत् उस ( मुट्ठी बाँधने ) से यज्ञं च यज्ञ को और सर्वान् च देवताः सभी देवताओं को मुष्ट्योः कुरुते ( अपनी) दोनों मुट्ठी में कर लेता है । सा ० भा ० – गर्भस्य मुष्टीद्वये शास्त्रप्रसिद्व्यर्थो वैशब्दः । जायमानस्य मुष्टिद्वयं लोके प्रसिद्धम् । मुष्टिमध्ये यज्ञधारणं शाखान्तरेऽप्याम्नातम्— 'मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै ' ' ॥ प्रकारान्तरेण मुष्टिद्वयं प्रशंसति- - तदाहुर्न पूर्वदीक्षिणः संसवोऽस्ति, परिगृहीतो वा एतस्य यज्ञः, परिगृहीता देवता नैतस्याऽऽर्तिरस्त्यंपरदीक्षिण एंव यथा तथेति ॥ २१ ॥

हिन्दी— ( प्रकारान्तर से दोनों मुट्ठी बाँधने की प्रशंसां कर रहे हैं— ) तदाहुः इस ( मुट्ठी ) के विषय में कुछ वेदज्ञ कहते हैं - पूर्वदक्षिणः संसवः न अस्ति पहले दीक्षित ( व्यक्ति) का संसव ( एक स्थान पर दो या दो से अधिक यजन करने वालों का सोमाभिषव करने का दोष ) नहीं होता । एतस्य इस ( यजमान) का यज्ञः परिगृहीतः यज्ञ मुट्ठी में होता ( १ ) आप०श्रौ० १०.११.३.४ । ( २ ) तै० सं ० ६.१.४.३ ।

पृष्ठ 96

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 96 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३४ ऐतरेयब्राह्मणम् १.३ प्रथमपञ्चिकायां है और देवताः परिगृहीताः देवता मृट्ठी में होते हैं । अपरदीक्षिणः यथा बाद में दीक्षणीया इष्टि करने वाले को जिस प्रकार आर्तिम् अस्ति दुःख होता है, एतस्य तया न इस ( पहले दीक्षणीया इष्टि करने वाले ) को उस प्रकार (दुःख) नहीं होता है ॥ सा० भा ० — तत्तत्र मुष्ट्योः करणे ब्रह्मवादिनः कञ्चिद् गुणमाहुः । द्वयोर्बहूनां वा यजमानानां संभूय सोमाभिषवः ' संसवः ' । स च महान् दोषस्तस्मिन्नेव देशे तस्मिन्नेव काले मत्सरग्रस्तैर्यजमानैः प्रवर्तितत्वात् । नद्या वा पर्वतेन वा व्यवधानरहितयोः समीपवर्तिनोः परस्परमन्त्रध्वनिसवनयोग्ययोर्देशयोः स्पर्धमानाभ्यां यजमानाभ्यां प्रवर्तितौ यौ सोमयागौ तयोरयं संसवाख्यो दोषः । तथा च सूत्रकार आह— 'संसवोऽनन्तर्हितेषु नद्या वा पर्वतेन वा’१ इति 1। सोऽयं दोषः पूर्वदीक्षिणो नास्ति । एकस्मिन्नेव दिवसे द्वयोर्यजमानयोर्मध्ये यः पूर्व दीक्षणीयेष्टि करोति स पूर्वदीक्षी । एतस्य मुष्ट्योर्मध्ये यज्ञः परिगृहीतः सर्वाश्च देवताः परिगृहीताः । तदानीमितरसंबन्धिनो यज्ञस्याप्रवृत्तत्वेन तत्र गच्छाम इत्येवं यज्ञस्य देवतानां वाऽऽलोचनाभावात् । पश्चाद् दीक्षणीयेष्टिकुर्वाणस्यापरदीक्षितस्य यज्ञो देवताश्च सुलभा न भवन्ति पूर्वमन्येन यजमानेनावरुद्धत्वात् । तस्माद् अपरदीक्षिण आर्तियो विनाशो यथाऽस्ति तथा पूर्वदीक्षिण आर्तिर्नैवास्ति । ' संवेशाय त्वोपवेशाय त्वा' इत्यादिमन्त्रेण येयं संसवप्रायश्चित्ताहुतिः २ सेयमपरदीक्षिणैव कर्तव्या न पूर्वदीक्षिणेत्यर्थः । इतिशब्दो ब्रह्मवादिवचनसमाप्त्यर्थः ॥ यदेतत् कृष्णाजिनवेष्टनं विहितं तस्यावभृथगमनात् प्रागेवोन्मोचनं विधत्ते ( अवभृथगमनात्पूर्वं कृष्णाजिनस्योन्मोचनम् ) उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति, तस्मान्मुक्तो गर्भो जरायो- र्जायन्ते ॥ २२॥

हिन्दी—कृष्णाजिनम् उन्मुच्य ( अब यजमान ) कृष्णमृगचर्म को उतार कर ( योनि- स्थानीय देवयजन से निकल कर) अवभृथम् अभ्यवैति अवभृथ (= स्नान) के लिए जाता है ( क्योंकि लोक में भी ) तस्माद्जरायोः मुक्तः गर्भः उस जरायु से मुक्त हुए ही शिशु जायन्ते जन्म लेते हैं । सा ० भा० — योनिस्थानीयाद् देवयजनदेशान्निर्गत्यावभृथगमनं गर्भरूपस्य दीक्षितस्य जन्मस्थानीयं जन्म च लोके जरायुरूपवेष्टने छिन्ने सति पश्चात् सम्पद्यते । तस्मादत्रापि जरायुस्थानीयं कृष्णाजिनमुन्मुच्य जन्मस्थानीयमवभृथदेशगमनं कुर्यात् ॥ कृष्णाजिनवद्वाससोऽपि प्रसक्तमुन्मोचनं वारयति— ( १ ) आश्व० श्रौ० ६.६.११ । ( २ ) तत्र संवेशाय त्वेत्यादयः पञ्च मन्त्राः तै० सं० ३.१७.१ ।

पृष्ठ 97

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 97 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३५ ( कृष्णाजिनोन्मोचनकाले वस्त्रोन्मोचननिषेधः ) सहैव वाससाऽभ्यवैति, तस्मात् सहैवोल्बेन कुमारो जायते ॥ २३ ॥

हिन्दी— लोक में उल्बेण सहैव उल्ब के साथ ही कुमारः जायते शिशु उत्पन्न होता है तस्मात् अतः वाससा सहैव अभ्यवैति ( वह यजमान ) वस्त्र के साथ आच्छादित ..हुआ ही अवभृथ स्नान करता है । सा ० भा० — उल्बाख्यस्याभ्यन्तरवेष्टनस्य जन्मकालेऽप्यनिवृत्तिदर्शनादुल्बस्थानीय- वस्त्रास्यावभृथगमनकालेऽप्यनुवृत्तिर्द्रष्टव्या ॥ अथ मीमांसा । पञ्चमाध्यायस्य तृतीयपादे' चिन्तितम्—

“इष्टिदण्डादिभिर्दीक्षा किंवेष्ट्यैवोक्तितोऽग्रिमः ।

युक्तः संस्कार इष्ट्यैव दण्डादेर्व्यञ्जकत्वतः ” ॥

ज्योतिष्टोमे श्रूयते— ' आग्नावैष्णमेवकादशकपालं निर्वपेद्दीक्षिष्यमाणः’२ इति । अन्य- दपि श्रुतम्— ‘ दण्डेन दीक्षयति कृष्णाजिनेन दीक्षयति' इति । अत्रेष्टिवद्दण्डादीनामपि साधनत्वविधानात् सर्वैरियं चेत्, मैवम् । इष्टेः क्रियारूपत्वात् संस्कारहेतुत्वं युक्तं दण्डाद- यस्तु न पुरुषं संस्कर्तुं प्रभवन्ति । न चैवं दण्डादिवैयर्थ्यं दीक्षितोऽयमित्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भावात् तस्मादिष्टयैव दीक्षा सिध्यति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य प्रथमाध्याये तृतीयः खण्डः ॥३ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० — विवक्षितस्य हौत्रस्योपोद्धातत्वेन दीक्षणीयेष्टिं विधाय तां च बहुधा प्रशस्य प्रसङ्गाद् दीक्षितसंस्कारा विहिताः । अथ विवक्षितं हौत्रं विधत्ते— ( १ ) जै० न्या० वि० ५.३.११.२१ । (२ ) तै ० सं० ५.६.१.४ । ( ३ ) तै ० सं ० ६.१.३.२ ।

पृष्ठ 98

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 98 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३६ ऐतरेयब्राह्मणम् १.४ प्रथमपञ्चिकायां ( विवक्षितहोत्रविधानम् ) ( तत्र अनीजानस्य प्रथमद्वितीयोराज्यभागस्य पुरोनुवाक्याद्वंयम्) ' त्वमग्ने सप्रथा असि' ' सोम यास्ते मयोभुव' इत्याज्यभागयोः पुरोनुवाक्ये अनुब्रूयाद्यः पूर्वमनीजानः स्यात् तस्मै ॥ १ ॥

हिन्दी— ( अब विवक्षित हौत्र का विधान कर रहे हैं — ) यः पूर्वम् अनीजानः स्यात् जो ( यजन करने वाला) पहले कभी (सोमयाग का ) यजन नहीं किया हुआ है, तस्मै उस ( यजमान ) के लिए ( दीक्षणीयेष्टि के पश्चात्) 'त्वमग्ने सप्रथा असि' और ' सोम यास्ते मयोमुवः ' इत्यादि दोनों क्रमश: आज्यभाग की पुरोनुवाक्ये दो पुरोनुवाक्या को अनुब्रूयात् ( अध्वर्युद्वारा प्रेषित होता) कहे । सा० भा ० — यो यजमान पूर्वं सोमयागं न कृतवानिदानों क्रियमाण एव प्रथमः प्रयोगस्तस्मै यजमानाय तदर्थं दीक्षणोयेष्टौ प्रथमस्याऽऽज्यभागस्य ' त्वमग्ने' ' इति पुरोनु- वाक्या । द्वितीयस्य ‘ सोम यास्ते' इति पुरोनुवाक्या। तदुभयमध्वर्युणा प्रेषितो होताऽ- नुब्रयात् ॥ उक्तस्य प्रथममन्त्रस्य प्रथमप्रयोगानुकूल्यं दर्शयति— त्वया यज्ञं वितन्वत इति यज्ञमेवास्मा एतद् वितनोति ॥ २ ॥

हिन्दी –( पूर्वोक प्रथम मन्त्र 'त्वमग्ने स प्रथा' इत्यादि के पहले प्रयोग करने की अनुकूलता को दिखला रहे हैं— ) ( उक्त मन्त्र ' त्वमग्ने ' के तृतीय पाद) ' त्वया यज्ञं वितन्वते' अर्थात्'हे अग्नि! तुम्हारे द्वारा ऋत्विक् यज्ञ को विस्तृत करते हैं ' के द्वारा अस्मै इस ( यजन करने वाले ) के लिए यज्ञमेव यज्ञ को ही वितनोति विस्तृत करते हैं । सा० भा०-० – तस्मिन् मन्त्रे त्वयेत्यादिस्तृतीयः पादः तस्यायमर्थः — हे अग्ने, क्रिय- माणमस्मद्यज्ञमिममृत्विजस्त्वया त्वत्प्रसादेन वितन्वते विस्तारयन्तीति । एतदेतेन मन्त्र- वचनेनास्मै यजमानाय यज्ञं वितनोत्येव पूर्वमविस्तारितमपि यज्ञमिदानीं विस्तारयन्त्येव ॥ अधिकारिविशेषेण प्रकारान्तरं विधत्ते— ( ईजानस्य प्रथमद्वितीययोराज्यभागस्य पुरोनुवाक्याद्वयम् ) ' अग्निः प्रत्नेन मन्मना', ' सोम गीर्भिष्ट्वा वयम्' इति यः पूर्वमीजानः ( ) ( ) १ ऋ० ५.१३.४ । २ ऋ० १.९१.९ । ( ३ ) आश्व० श्रौ ० - ‘प्रेषितो जपति' १.१.२७ 'द्वे द्वे तु याज्यानुवाक्ये' २.१.७। देवत- लक्षणा याज्यानुवाक्याः' २.१४.१८ । · ( ४ ) पूर्णपाठस्त्वेवम्– “ त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते" - इति ।

पृष्ठ 99

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 99 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

·. ]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३७ स्यात् तस्मै ॥३ ॥

हिन्दी- यः पूर्वम् ईजानः स्यात् जिस ( यजन करने वाले ) ने पहले ( सोमयाग ) यजन किया है तस्मै उस ( यजन करने वाले ) के लिए ' अग्निः प्रत्नेन मन्मना' और ' सोम गीर्भिष्ट्वा वयम्' इति इससे (दीक्षणीयेष्टि में क्रमश: प्रथम और द्वितीय पुरोनुवाक्या करनी चाहिए ) । सा ० भा ० – यो यजमानः पूर्व सोमयागं कृतवांस्तस्मै यजमानार्थं पुनः सोमयागप्रयोगे दीक्षणीयेष्टौ ' अग्निः प्रत्नेन इति प्रथमस्याऽऽज्यभागस्य पुरोनुवाक्या । सोम गीर्भिरिति ’ द्वितीयस्य ॥३ तत्र प्रथम मन्त्रस्य पुनः प्रयोगानुकूल्यं दर्शयति— प्रत्नमिति पूर्वं कर्माभिवदति ॥ ४ ॥

हिन्दी – ( पूर्वोक्त प्रथम मन्त्र 'अग्निः प्रत्नेन' इत्यादि के पहले प्रयोग करने की अनुकूलता को दिखता रहे हैं- ) मन्त्र में प्रयुक्त ' प्रत्नम् इति' इस शब्द से पूर्वं कर्म पूर्व में ( सम्पादित सोमयाग नामक ) कर्म को अभिवदति कहता है ॥ सा० भा० – तस्मिन् मन्त्रे यत्प्रत्नमिति पदं तेन पदेन पूर्वमनुष्ठितं सोमयागाख्यं कर्माभिधीयते। “पुराणे प्रतनप्रत्नपुरातनचिरंतना::""४ इति प्रत्नशब्दस्याभिधानकारैः पुरातनपर्यायत्वाभिधानात् ॥ ईजानादीजानभेदेन व्यवस्थितं यन्मन्त्रचतुष्टयमुक्तं सोऽयं पूर्वः पक्ष इत्यभिप्रेत्य दूषयति— · तत्तन्नाऽऽदृत्यम् ॥५ ॥

हिन्दी— ( पूर्व में यजन करने वाले और न करने वाले यजमान के भेद से व्यवस्थित ' त्वमग्न' इत्यादि चार मन्त्रों को कहा गया है, वह पूर्वपक्ष है। इस पक्ष में दोष को दिखला रहे हैं— ) तत्तत् वह वह ( पूर्व में याग करने वाले और न करने वाले के विषय में कहे गये मन्त्र) न आदृत्यम् आदर करने योग्य (स्वीकार करने योग्य) नहीं है ॥ स० भा० — तत्र दीक्षणीयेष्टिगतयोराज्यभागयोस्त्वमग्न इत्यादिकमनुब्रूयादिति यन्मत- मस्ति तन्मतं नाऽऽदरणीयम् ॥ किं तर्ह्यादरणीयमित्याशङ्क्याऽऽह— ( ) ( ) १ ऋ० ८.४४.१२ । २ ऋ० १.९ १.११ । ( ३ ) आश्व० श्रौ० १.५.३५ । तै० ब्रा० ३.५.६.४,५; तै ० सं० २.६.२। (४ ) अमरकोश ३.१.७७।

पृष्ठ 100

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 100 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८ ऐतरेयब्राह्मणम् १.४ प्रथमपञ्चिकायां ( स्वपक्षे पुरोनुवाक्याद्वयम् ) ' अग्निर्वृत्राणि जङ्घनत्', ' त्वं सोमासि सत्पति: ' इति वार्त्रघ्नावेव कुर्यात् ॥६ ॥

हिन्दी–( अब अपने पक्ष को कह रहे हैं - ) 'अग्निर्वृत्राणि जङ्घनत्' और 'त्वं. सोमासि सत्पति: ’ - इति इन वार्त्रघ्नौ एव कुर्यात् दोनों वृत्रघ्न-सम्बन्धी ( आज्यमाग की क्रमशः प्रथम और द्वितीय पुरोनुवाक्या) को करना चाहिए ॥ सा० भा० — वृत्रं शत्रुं हन्तीति वृत्रहा । वृत्रघ्नः संबन्धिनौ मन्त्रौ वार्त्रघ्नौ । वृत्राणि जङ्घनदिति तल्लिङ्गात् तत्संबन्धित्वम् । अग्निर्वृत्राणीति प्रथमस्याऽऽज्यभागस्य पुरोनु-वाक्या त्वं सोमासीतिर द्वितीयस्य ॥ एतयोर्मन्त्रयोरानुकूल्यं दर्शयति— वृत्रं वा एष हन्ति यं यज्ञ उपनमति तस्माद् वार्त्रघ्नावेव कर्तव्यौ ॥७ ॥

हिन्दी -(इन दोनों की अनुकूलता को दिखता रहे हैं - ) यं यज्ञे उपनमति जिस ( यजन करने वाले ) को यज्ञ में प्रेरित करता है, एषः यह ( यजन करने वाला ) वृत्रं वै हन्ति वृत्ररूप ( पाप ) को विनष्ट करता है । तस्मात् इसी कारण वार्त्रघ्नौ एव कर्त्तव्यौ वृत्र के मारने से सम्बन्धित ( दोनों मन्त्रों) का पाठ करना चाहिए । सा० भा ० — यं यजमानं यज्ञ उपनमति सोमयागे प्रेरयति एष यजमानो वृत्रं पापरूपं शत्रुं हन्त्येव तस्मात् कारणाद् वृत्रहत्यासम्बन्धिनावेव मन्त्रौ कर्तव्यौ । यथा प्रथममन्त्रे वृत्राणि जङ्घनदिति लिङ्गमस्ति तथा द्वितीयेऽपि त्वं राजोत वृत्रहेति लिङ्गं विद्यते । तस्मादुभयोरपि तत्संबन्धित्वं पूर्वोक्तयोस्तु पक्षयोर्वितन्वते प्रत्नमित्यानुकूल्यलिङ्गं प्रथमयोरेव मन्त्रयोर्दृश्यते न तूत्तरयोस्तस्मात् तन्नऽऽदरणीयमिति दूषयित्वोभयलिङ्गसद्भावादयं पक्षः स्वीकृतः ॥ आज्यभाग्यरूपेऽङ्गकर्मणि पुरोनुवाक्यायुग्मं विधाय प्रधानकर्मणि हविषि याज्यानु-वाक्ये विधत्ते— ( प्रधानहविषि याज्यानुवाक्याविधानम् ) अग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तमं मह इत्याग्नावैष्णवस्य हविषो याज्यानुवाक्ये भवतः ॥८ ॥

हिन्दी – ( आज्यभागरूप अङ्गकर्म में पुरोनुवाक्या का विधान करके अब प्रधान-कर्म में हवि की याज्या और अनुवाक्या का विधान कर रहे हैं— ) ' अग्निर्मुखं प्रथमो देवानाम्' और ‘ अग्निश्च विष्णो तप उत्तमं मह' इति- वे दोनों (मन्त्र ) अग्नावैष्णवस्य ( ) ( ) १ ऋ० ६.१६.३४ । २ ऋ० १.९ १.५। ( ३ ) आश्व ० श्रौ ० १.५.२ ९ । तै० ब्रा० ३.५.६.१,२; तै ० सं० २.६.२ /-