ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 111–120

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 111–120

पृष्ठ 111

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 111 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ४ ९ ( नित्यसंयाज्याविधानम् ) ( तत्र विराट्छन्दसः प्रशंसा ) अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराट् ॥ १ ॥

हिन्दी- ( कामना वाले की पुरोनुवाक्या और याज्या को कहने के बाद नित्य पुरोनु-वाक्या और याज्या का विधान करने के लिए विराट् छन्द की प्रशंसा कर रहे हैं - ) यद् विराट् छन्दः जो विराट् छन्द है, एतत् पञ्चवीर्यम् यह पाँच प्रकार की शक्तियों वाला होता है ॥

सा० भा०-- अथो काम्यसंयाज्याकथनानन्तरं नित्ये संयाज्ये कथ्येते इति शेषः ।

विराडाख्यं यच्छन्दोऽस्ति एतच्छन्दः पञ्चविधदीयोंपेतत्वेन प्रसिद्धम् ॥

तदेव विस्पष्टयति— यत्त्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एकादशाक्षराणि पदानि तेन त्रिष्टुब् यत्त्रयस्त्रिंशदक्षरा तेनानुष्टुभ्, न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न द्वाभ्यां, यद्विराट्तत्पञ्चमम् ॥ २ ॥

हिन्दी— (उपर्युक्त कथन को स्पष्ट कर रहे हैं— ) यत् त्रिपदा ( विराट् छन्द) जो तीन पादों वाला होता है, तेन उस (तीन पादों वाला) होने से उष्णिहागायत्र्यौ उष्णिक् और गायत्री के समान होता है । यद् अस्याः एकादशाक्षराणि पदानि जो इस ( विराट) के ग्यारह अक्षर वाले पाद होते हैं तेन उस (पाद में ग्यारह अक्षरों के होने) से त्रिष्टुप् त्रिष्टुप् के समान होता है । यत् त्रयस्त्रिंशाक्षरा जो ( यह छन्द) तैंतीस अक्षरों वाला होता है, उससे अनुष्टुप् अनुष्टुप् के समान है क्योंकि एकेन अक्षरेण एक अक्षर से अथवा द्वाभ्याम् दो ( अक्षरों) से ( न्यून या अधिक होने पर) छन्दांसि नैव वियन्ति छन्द नहीं ही बदलता है । यद् विराट् जो विराट् है । तत्पञ्चमम् वही पञ्चम शक्ति है । विमर्श -( १ ) विराट् छन्द के तीनों पादों में मिलाकर तैतीस अक्षर होते हैं और अनुष्टुप् छन्द के चारों पादों में कुल मिलाकर बतीस अक्षर होते हैं किन्तु एक अथवा दो अक्षरों के कम अथवा अधिक होने होने से छन्द बदलाता नहीं है अतः तैंतीस अक्षरों वाला विराट् भी बत्तीस अक्षर वाले अनुष्टुप् के समान ही है । सा० भा० - यस्मात्कारणादियं विराट् पादत्रयोपेता तेन कारणेनोष्णिग्रूपा गायत्रीरूपा च भवति तयोरपि पादत्रयोपेतत्वेन समत्वादतस्तयोरुभयोर्वीर्यं विराज्यस्ति। यस्मात् कारणा-दस्या विराजः पादा एकादशाक्षरोपेतास्तेन कारणेनेयं त्रिष्टुब्रूपा भवति तदीयं वीर्यं प्राप्नोति । यस्मात्कारणादियं त्रयस्त्रिंशदक्षरोपेता तेन कारणेनानुष्टुब्रूपा तदीयं वीर्यं प्राप्नोति । यद्यप्यनुष्टुब् द्वात्रिंशदक्षरा तथाऽप्येकेनाक्षरेण न्यूनेनाधिकेन वा छन्दांसि नैव नश्यन्ति । तथा द्वाभ्यामक्ष- राभ्यां न्यूनाभ्यामधिकाभ्यां वा न नश्यन्ति । "एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः

पृष्ठ 112

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 112 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५० ऐतरेयब्राह्मणम् १.६ प्रथमपञ्चिकायां किरणेष्विवाङ्कः ” इति न्यायात् । नुन त्रिंशदक्षरा विराडिति श्रूयते तत्र 'प्रेद्धो अग्ने’१ इत्यस्यामृचि एकोनत्रिंशदक्षराणि ' इमो अग्ने' ' इत्यस्यामृचि द्वात्रिंशदक्षरापण्यतस्तयोर्न विराट्त्वमिति चेत्, मैवम् । न वा एकेनाक्षरेणेति वाक्येनैव परिहृतत्वात्' । यस्माद् विराट् तस्मादेतदीयं पञ्चमं वीर्यमस्ति ॥ एवंविधविराड्वेदनं प्रशंसति— सर्वेषां छन्दसां वीर्यमवरुन्धे, सर्वेषां छन्दसां वीर्यमश्नुते, सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नुतेऽन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयाऽन्नाद्यं य एवं विद्वान् विराजौ कुरुते ॥ ३ ॥

हिन्दी– ( उपर्युक्त प्रकार वाले विराट् की प्रशंसा कर रहे हैं - ) यः एवं विद्वान् जो इस प्रकार (उपर्युक्त तथ्य को ) जानने वाला विराजौ कुरुते दो विराट् छन्दस्क ( पुरोनुवाक्या. और आज्या ) करता है वह सर्वेषां छन्दसाम् ( गायत्री इत्यादि) सभी छन्दों के वीर्यम् अवरुन्धे सामर्थ्य को अभिमुख कर लेता है, सर्वेषां छन्दसाम् सभी छन्दों के वीर्यम् अश्नुते बल को प्राप्त करता है और सर्वेषां छन्दसाम् सभी छन्दों के (देवताओं को) सायुज्यं सरूपतां सलोकताम् अश्नुते सहभाव, समानरूपता और समान स्थान में निवास को प्राप्त करता है । अन्नादः अन्नपतिः भवति अन्न को खाने वाला और अन्न का स्वामी होता है । प्रजया अन्नाद्यं च अश्नुते (पुत्रादि) प्रजा के साथ अन्न को प्राप्त करता है । • सा० भा ० – गायत्र्युष्णिक्त्रिष्टुबनुष्टुब्विराङ्ख्पाणां सर्वेषां छन्दसां यत्सामर्थ्यमस्ति तदयं वेदिताऽवरुन्धेऽभिमुखी करोति । कृत्वा चाश्नुते प्राप्नोति । तथा सर्वच्छन्दोभिमानि- देवानां सायुज्यं सहभावं सरूपतां समानरूपत्त्वं सलोकतामेकस्थाननिवासं च प्राप्नोति । अन्नादोऽन्नभक्षणसमर्थो नीरोगः I| अन्नपतिर्बह्वन्नस्वामी भवति न केवलं स्वयमेव किन्तु स्वकीयया पुत्रादिप्रजया सहान्नाद्यमश्नुते ॥ इत्थं छन्दः प्रशस्येदानीं विधत्ते— ( विराट्छन्दस्कयोः संयाज्ययोर्विधानम् ) तस्माद् विराजावेव कर्तव्ये ॥४ ॥

( ) ( ) १ ऋ० सं० ७.१.३ । २ ऋ० सं० ७.१.१८ । ( ३ ) वस्तुतः त्रिंशदक्षरैव विराट् सर्ववेदप्रसिद्धा; तथा ह्याम्नातं तैत्तिरीयैः स्फुटम् —- 'त्रिंशदक्षरा विराट्' -– इति तै ० सं०. २.५.१०.३ । ' विराजो दिश: ' - इति ( ४.५ ) च वैदिकछन्दः- सूत्रं तदनुगतम् । इह त्वाद्याया एकाक्षरन्यूनत्वेन छन्दः शास्त्रमते निचृदिति विशेषणान्वितं विराट्त्वम्, अपरायास्तु स्वराविशेषणान्वितमित्यभिप्रायः । पि० ६.१ ९, २० ।

पृष्ठ 113

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 113 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५१ हिन्दी - तस्मात् इसी कारण विराजौ एव कर्त्तव्ये दो विराट् छन्दस्क (ऋचाओं) वाली ( पुरोनुवाक्या और याज्या) करनी चाहिए ॥ सा० भा० - यस्माद् विराजो ह्युक्तमहिमाऽस्ति तस्मादित्यर्थः ॥... तयोः प्रतीकद्वयं दर्शयति— ( विराट्छन्दस्कमन्त्रप्रतीकद्वयम्) प्रेद्धो अग्न इमो अग्न इत्येते ॥ ५ ॥

हिन्दी -(उस नित्य पुरोनुवाक्या और याज्या की विराट् छन्दस्क ऋचाओं को सङ्केतित कर रहे हैं— ' प्रेद्धो अग्ने' और ' इमो अग्ने ' ये विराट् छन्दस्क दो (ऋचाएँ हैं ) । विमर्श- ( १ ) 'प्रेद्धो अग्ने' (ऋ०७.१.३ ) में उनतीस और ' इमौ अग्ने' (ऋ० ७.१.१८ ) में बत्तीस अक्षर है किन्तु एक अथवा दो अक्षरों की कमी अथवा अधिकता से छन्द नहीं बदलता-इस सिद्धान्त के अनुसार इनमें विराट् छन्द है । सा० भा ० — इत्थं दीक्षणीयेष्टौ स्विष्टकृतः संयाज्ये विधाय दीक्षितस्य सत्यवदनं विधत्ते— ( दीक्षितस्य सत्यवदनविधानम् ) ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यम् ॥ ६ ॥

हिन्दी— ( दीक्षणीयेष्टि में स्विष्टकृत् की दो संयाज्याओं का विधान करके यजन करने वाले दीक्षित के लिए सत्य बोलने का विधान कर रहे हैं - ) ऋतं वाव दीक्षा ॠत ही दीक्षा है और सत्यं दीक्षा सत्य दीक्षा है । तस्मात् इस कारण से दीक्षितेन सत्यमेव वदितव्यम् दीक्षित व्यक्ति को सत्य ही बोलना चाहिए ॥ सा ० भा ० — मनसा यथा वस्तुचिन्तमृतशब्दाभिधेयं वाचा यथावस्तुकथनं सत्य- शब्दाभिधेयं तदुभयात्मिका दीक्षा तद्वैकल्ये विनश्यति । यस्मादेवं तस्माद्दीक्षितेन सत्यमेव वदितव्यं न तु किचिदप्यनृतं वदेत् ॥१ ( १ ) ‘ मानसमर्थतथात्वम् ऋतम् । वाचिकमर्थतथात्वं सत्यम् । तदुभयहेतुका दीक्षा भवति । तद्धेतुत्वात् ताच्छब्द्यम् । तस्माद् दीक्षितेन सत्यमेवं वदितव्यम् इति मनः पूर्वरूपं वागुत्तर- रूपम्' इति मनोऽप्यतथ्यं मनुष्याणां किं पुनर्वागिति प्रतिपादनार्थम् ऋतत्वमन्तरेण वाच: सत्यत्वाभावात् सत्यग्रहणमेवं कृतं न त्वनृतं ज्ञातव्यम्' इति भट्टभास्करः । ‘ यथार्थवादित्वम् ऋतम् । यथादृष्टार्थवादित्वं सत्यम् । अनयोर्दीक्षास्थित्यर्थत्वाद् दीक्षासामानाधिकरण्यम् । तत्र यथार्थवादित्वस्यानुष्ठातुमशक्यत्वाद् यथादृष्टार्थवादित्वमेव विदधाति — तस्माद् दीक्षितेनेति' -इति गोविन्दस्वामी । तु० श०ब्रा० - १.१.१.४: सत्यम् इव देवा अनृतं मनुष्याः ।

पृष्ठ 114

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 114 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५२ ऐतरेयब्राह्मणम् १.६ प्रथमपञ्चिकायां तदशक्याभिधानमित्यभिप्रेत्यानुजिघृक्षया प्रकारान्तरं विधातुं प्रस्तौति— अथो खल्वाहुः कोऽर्हति मनुष्यः सर्वं सत्यं वदितुं, सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति ॥७ ॥

हिन्दी— ( सत्य बोलने के विषय में कुछ याज्ञिकों का कथन ) अथो खलु आहुः अब ( इस सत्य बोलने के विषय में कुछ ब्रह्मवादी ) कहते हैं— सर्वं सत्यं वदितुम् सम्पूर्ण सत्य बोलने के लिए कः मनुष्यः अर्हति कौन मनुष्य समर्थ हो सकता है ( अर्थात् कोई नहीं) क्योंकि सत्यसंहिता वै देवाः देवता ही सत्य से युक्त होते है और अनृतसंहिताः मनुष्याः मनुष्य असत्य से युक्त होते हैं । सा० भा० — प्रकारान्तरप्रारम्भार्थोऽयमथोशब्दः । ब्रह्मवादिन एवमाहुः खलु मनुष्यः को नाम सर्वं वाक्यं सत्यं वदितुमर्हति न कश्चिदपि तथा कर्तुं शक्नोति। देवा एव सत्यसंहिताः सत्ये तात्पर्यवन्तः मनुष्यास्तु प्रायेणानृते तात्पर्ययुक्ताः इतिशब्दो ब्रह्मवादि- वचनसमाप्त्यर्थः ॥ इदानीं सत्यवदनफलसिद्ध्यर्थं प्रकारान्तरं विधत्ते- विचक्षणवतीं वाचं वदेत् ॥ ८ ॥

हिन्दी -( अब सत्य बोलने के फल की प्राप्ति के लिए प्रकारान्तर का विधान कर रहे हैं - ) विचक्षणवतीं वाचं वदेत् विचक्षण- सम्पन्न वाणी को बोलना चाहिए ॥ सा० भा ० — विचक्षणेत्यक्षरचतुष्टयात्मकोऽयं मन्त्रस्तद्युक्तं वाक्यं प्रयुञ्जीत । देवदत्त विचक्षण गामानय यज्ञदत्त विचक्षण गां बधानेत्येवं तत्प्रयोगः । यदाहाऽऽपतम्बः --''चनसित विचक्षण इति नामधेयान्तेषु दधाति, चनसितेति ब्राह्मणं, विचक्षणेति राजन्यवैश्यौ' ' इति ॥ विचक्षणेति मन्त्रस्य सत्यवदनपूर्तिहेतुत्वं प्रतिपादयति— ( विचक्षणशब्दस्य चक्षुः पर्यायत्वम् ) चक्षुर्वै विचक्षणं वि ह्येनेन पश्यतीति ॥ ९ ॥

हिन्दी—( विचक्षण को बतला रहे हैं - ) चक्षुः वै विचक्षणम् नेत्र ही विचक्षण है अनेन हि विपश्यति क्योंकि इस (नेत्र ) द्वारा ही (वस्तुवत्त्व को) विशेष रूप से देखता है । सा ० भा ० - चक्षुरिन्द्रियमेव विचक्षणशब्दवाच्यं तदेव स्पष्टीक्रियते । चक्षिदर्शन ( १ ) आप० श्रौ ० सू० १० १२.७,८। 'चनसितं विचक्षणमिति च प्रातिपदिकनिर्देशः । न विभक्तिर्विवक्षिता । एतद्दर्शयति— 'चनसितेति ब्राह्मणम्' – आमन्त्रयेतेति शेषः । आमन्त्रये- तेत्येव भारद्वाजः । तद्यथा— देवदत्त चनसित, मित्रपाल विचक्षण । ” इति तट्टीका। ‘ विचक्षण - चनसिनवती वाचम्' इति कात्या० श्रौ० ७.५.७।

पृष्ठ 115

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 115 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५३ इत्यस्माद्धातोरयं शब्दो निष्पन्नः । तथा सति विशेषेण वस्तुतत्वमेनेनाऽऽचष्टे पश्यतीति विचक्षणं नेत्रम् । तस्माच्चक्षुर्विचक्षणमिति पर्यायौ । उक्तनिर्वचनप्रदर्शनार्थ इतिशब्दः ॥ अस्त्वेवं तयोः पर्यायत्वं कथमेतावता सत्यसम्मूर्तिसिद्धिरित्याशङ्क्याऽऽह— एतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुः ॥ १० ॥

हिन्दी— यत् चक्षुः जो नेत्र है, एतद् वै यह ही मुनष्येषु सत्यं निहितम् मनुष्यों में सत्य रूप से निहित है ॥ सा० भा०--प्रत्यक्षानुमानादिप्रमाणानां मध्ये प्रत्यक्षप्रमितिसाधनं यच्चक्षुरिन्द्रिय- मस्ति एतदेव मनुष्येषु सर्वेषु सत्यं निहितं यथावस्तुज्ञानसाधनत्वेनाभिमतं तस्माच्चक्षुष्पर्याय- विचक्षणशब्दप्रयोगेण सत्यसम्पूर्तिर्भवति ॥ अन्वयव्यतिरेकाभ्यां चक्षुषो यथावस्तुदर्शनसाधनत्वं साधयति— तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य श्रद्दधति यद्यु वै स्वयं पश्यति न बहूनां चनान्येषां श्रद्दधाति ॥ ११ ॥

हिन्दी— ( अन्वय- व्यातिरेक के द्वारा नेत्र की ही यथावस्तु दर्शन की साधनता को सिद्ध कर रहे हैं — ) तस्मात् इसी कारण आचक्षाणम् आहुः ( किसी बात को ) कहने वाले ( व्यक्ति) से लोग कहते हैं कि अद्राग् इति क्या तुमने देखा है? सः यदि अदर्शम् इति आह वह (बात का कहने वाला ) यदि कहे कि हाँ, मैंने देखा है, अथ अस्य श्रद्धधति तो उसमें लोग विश्वास कर लेते हैं । यदि उ वै स्वयं पश्यति अथवा यदि वह स्वयं देखता है तो न बहूनाम् च न तो बहुत लोगो का और न अन्येषाम् न अन्य लोगों का श्रद्दधाति विश्वास करता है ॥ सा ० भा ० — यस्माच्चक्षुषस्तत्त्वदर्शनहेतुत्वं मनुष्याणामभिप्रेतं तस्माल्लोके सभा-यामागत्य काञ्चिद्वार्तामाचक्षाणं पुरुषं प्रति सभ्या एवमाहुरद्रागिति किंत्वेवमेवाद्राक्षीरि-त्यर्थः । स च पुरुषो यद्यहमेवाद्राक्षमिति ब्रूयात्तदाऽस्य वचनं सत्यमिति सभ्याः सर्वे श्रद्दधति विश्वासं कुर्वन्ति। तदिदमेकमुदाहरणम् । 'यद्यु वा ' इत्ययं निपातसमूह उदाहरणान्तरप्रदर्श-नार्थं । अथवा कश्चित् पुमान् स्वयमेव चक्षुषा स्कन्धमूलाद्युपेतं स्थाणुं पश्यति I। अन्ये बहवः पुरुषा दूरवर्तिनाऽपश्यन्तः पुरुषोऽयमित्याचक्षते । चनशब्दोऽपिशब्दार्थः । बहूनामप्यन्येषां वचनमयं पुरुषो न श्रद्दधाति किंतु स्वकीयं चाक्षुषं दर्शनमेव श्रद्दधाति। वाजसनेयिनोऽप्या-मनन्ति — ‘ द्वौ विवदमानावेवाऽऽयातावहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति, ( १ ) ‘ स्मृति: प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम्' –इति तै ० आर० १.२.१ । ' तदेतत् स्मृत्यादि- चतुष्टयमवगतिकारणभूतं ( धर्मस्य) प्रमाणम् –इति तद्भाष्यम् सा० । 'प्रत्यक्षानुमा- नोपमानशब्दाः प्रमाणानि' - इति गौ० सू० १.१.३ ।

पृष्ठ 116

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 116 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५४ ऐतरेयब्राह्मणम् १.६ प्रथमपञ्चिकायां तस्मा एव श्रद्दध्याम' ' इति । तैत्तिरीयाश्चाऽऽमनन्ति- ' अनृतं वै वाचा वदति । अनृतं मनसा

ध्यायति । चक्षुर्वै सत्यम्। अद्रागित्याह । अहमदर्शमिति । तत्सत्यम्' ' इति ॥

तथाविध्चक्षुःपर्यायस्य विचक्षणशब्दस्य सत्यसम्पूर्तिहेतुत्वमुपपाद्य पूर्वोक्तं विधिमुप- संहरति- तस्माद् विचक्षणवतीमेव वाचं वदेत् सत्योत्तरा हैवास्य वागुदिता भवति भवति ॥ १२ ॥

हिन्दी – ( उक्त कथन का उपसंहार का रहे हैं - ) तस्मात् इसी कारण विचक्षण-वतीम् एव वाचं वदेत् विचक्षण सम्पन्न वाली ही बोलना चाहिए । अस्य इस ( सत्य बोलने वाले ) की सत्योत्तरा ह एव वाग् सत्य से इतर ( असत्य ) वाणी भी उदिता भवति सत्य ही हो जाती है । सा० भा०--' अस्य' विचक्षणशब्दोपेतवचनवादिनो' या वागस्ति सा सत्योत्तरा स्वरूपेणानृताऽपि विचक्षणेतिमन्त्रसामर्थ्येन सत्यभूयिष्ठैव भवति । अनृतदोषो न स्पृशती- त्यर्थः ।४ भवतिशब्दस्याभ्यासोऽध्यायसमाप्त्यर्थः ॥५ ( १ ) शत० ब्रा ० १.३.१.२७ । चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत् सत्यं भवति’ — इति च पुनस्तत्रैवोपरिष्टात् १४.६.१०.९; बृ ० उप ० ४.१.४ । (२ ) तै ० ब्रा० १.१.४.२। 'नानृतं वदेत्' – इति (तै ० सं ० २.५.५.६ ) विधौ विचारितं च मीमांसायाम् जै ० सू० ३.४.१२,१३ । तदधिकरणं चोद्धृतं सव्याख्यानं तत्रैव तैत्तिरीय- संहिताभाष्ये सायणेन ‘ अनृतं न वदेदेषः पुंधर्मो वानुवादगी- इत्यादि जै ० न्या० वि० ३.४.४ । ( ३ ) सामाश्रमीमते तु 'विलक्षणवतीमेव वाचं वदेत्' इत्यस्य वचनस्य हि दृष्टविषयमात्रकथन- विधानेऽदृष्टविषयकथननिषेधे च तात्पर्यम् । विचक्षणेतिमन्त्रयुक्तमिथ्याकथनोऽपि न दोषः इति नाभिप्रेतो ब्राह्मणकृत इति । चनसितविक्षणान्वितनामधेयग्रहणस्य विधानं तु इतः पृथक् ( आप० श्रौ० १०.१३.७,८; कात्या ० श्रौ ७.५.७। लाट्या ० श्रौ० ३.३.१४ ) दीक्षितधर्मान्तरमिति दिक् । ( ४ ) ' सत्यस्य चक्षुषो वाचकस्य विचक्षणशब्दस्य मन्त्रस्थानीयस्य प्रयोगेण परस्य सत्यस्य वस्तुनः स्मरणात् सत्योत्तरैव वागनेनोदिता भवति । सत्यप्यसत्यवदने तेन दोषेण न लिप्यते । यद्वा परवस्तुस्मरणमहिम्ना क्वचिदप्यसत्यवाङ् नोत्पद्यते' – इति भट्टभास्करः । ( ५ ) दीक्षणीयेष्टिरेव सर्वेष्टिरेवमूलम् । वक्ष्यति हि ' दीक्षणीयेष्टिस्तायते तामेवानु या: काश्चेष्ट- यस्ताः सर्वा अग्निष्टोममपियन्ति' – इति ( ३.४.२ ) सैषा प्रथमेष्टिः शत०ब्रा० ३ ये काण्डे प्रथमाध्यायतो द्वितीयाध्यायीय-द्वितीयब्राह्मणान्तं यावछूयते; तैत्तिरीये सांहितिक- ब्राह्मणो च ६.१.१-४ । एवं आश्व० श्री० ४.२. १-१७ । आप० श्रौ० १०.४-२० । कात्या० श्रौ० ७.१ म कण्डिकातः ५म देवेन दीक्षितधर्माश्च कतिचिद् सङ्गृह्य प्रदर्शिताः ॥

पृष्ठ 117

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 117 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]:प्रथमोऽध्यायः षष्ठः खण्ड सायणाचार्यकृतभाष्योपेतम् ५५ ॥ इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण- भाष्ये प्रथमपञ्चिकायां प्रथमाध्याये षष्ठः खण्डः ॥६ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय के षष्ठ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेनं तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा-. चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नामभाष्ये ऐतरेयब्राह्मणस्य प्रथमपञ्चिकायाः प्रथमोध्यायः ॥१॥

॥ इस प्रकार ऐतरेयब्राह्मण के प्रथम अध्याय की 'शशिप्रभा ’ नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 118

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 118 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ प्रथमपञ्चिकायाम् द्वितीयोऽध्यायः अथ प्रथमः खण्डः

सायणभाष्यम्– प्रथमे दीक्षणीयेष्टिस्तत्स्तुतिस्तत्र संस्कृतिः ।

याज्यानुवाक्ये संयाज्याः सत्योक्तिश्चेति वर्णिता ॥१ ॥

अथ प्रायणीयादिकं' विधातुं द्वितीयोऽध्याय आरभ्यते । तत्राऽऽदौ प्रायणीयशब्दार्थं वदति- ( प्रायणीयादिकविधानम्) ( तत्र प्रायणीयेष्टिविधानम् ). स्वर्गं वा एतेन लोकमुपप्रयन्ति यत्प्रायणीयस्तत्प्रायणीयस्य प्राय- णीयत्वम् ॥ १ ॥

हिन्दी- ( अब प्रायणीयेष्टि का विधान कर रहे हैं । सर्वप्रथम प्रायणीय शब्द का अर्थ कर रहे हैं— ) यत् प्रायणीयः जो प्रायणीय कर्म किया जाता है, एतेन इस ( प्रायणीय कर्म) के द्वारा स्वर्गं लोकम् उपप्रयन्ति स्वर्ग लोक की समीपता को प्राप्त करते हैं, वही प्रायणीयस्य प्रायणीयत्वम् प्रायणीय ( कर्म) की सामीप्य प्राप्ति का हेतुभूत होने के कारण प्रायणीयता है । सा ० भा ० — प्रायणीयाख्यो यः कर्मविशेषोऽस्त्येतेन यजमानाः स्वर्गं लोकं सामीप्येन प्राप्नुवन्ति। तस्मात् प्रयन्त्यनेनेति व्युत्पत्त्या तत्प्रायणीयनाम सम्पन्नम् ॥ अथ विधास्यमानौ प्रायणीयोदयनीयाख्यौ कर्मविशेषौ स्तस्तौ सह प्रशंसति- ( प्रायणीयोदयनीययोरिष्टट्योः प्रशंसनम् ) प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति; समानौ हिं प्राणोदानौ; प्राणानां क्लृप्त्यै प्राणानां प्रतिप्रज्ञात्यै ॥ २ ॥

( १ ) ‘ दीक्षान्ते प्रायणीयम्' का ० श्रौ० ७.५.१३ । ' दीक्षान्ते राजक्रयः । तदहः प्रायणीयेष्टिः ' आश्व० श्रौ० ४.२.१८; ३.१ । दीक्षाहःसु परिसमाप्तेषु अनन्तरं यदहः, तस्मिन्नहनि राजक्रयः कर्त्तव्यः; सोमः क्रेतव्य इत्यर्थः । यस्मिन्नहनि सोमः क्रेष्यते, तदहः प्रायणी- यानामेष्टिः कार्या' -इति तट्टीका गा०ना० ।

पृष्ठ 119

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 119 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५७ हिन्दी— ( अब प्रायणीय और उदयनीय कर्म की प्रशंसा कर रहे हैं - ) प्राणः वै प्रायणीयः प्राण ही प्रायणीय और उदानः उदयनीयः उदान ही उदयनीय है । समानः होता भवति ( इन दोनों कर्मों में याज्या और पुरोनुवाक्या करने वाला) होता समान है । समानौ वै प्राणोदानौ क्योंकि प्राण और उदान -दोनों (एक ही वायु-विशेष होने के कारण ) समान हैं ( अतः प्रायणीय और उदयनीय दोनों कर्म) प्राणानां क्लृप्त्यै प्राण- वायु की कार्य- क्षमता के लिए और प्राणानां प्रतिप्रज्ञात्यै प्राणवायु के प्रकृष्ट ज्ञान के लिए होते हैं । सा० भा ० — प्राणवायोः प्रायणीयकर्मणश्च प्रशब्दसाम्यादभेदः । उदानवायोरुदय- नीयकर्मणश्चोच्छब्दसाम्यादभेदः । किञ्च प्राणीयोदयनीययोः कर्मणोर्याज्यानुवाक्यादिप्रयोगार्थ-मेक एव होता भवति । प्राणोदानवायू चैकदेहवर्तित्वादेकेन होत्राऽनुष्ठेयाभ्यां कर्मभ्यां समा-नावतो वायुविशेषयोश्चाभेदः । तच्च कर्मद्वयानुष्ठानं प्राणवायूनां क्लृप्त्यै स्वस्वव्यापार- सामर्थ्याय भवति । तथा प्राणवायूनां प्रत्येकमयं प्राणोऽयमुदान इत्यादिविशेषस्य प्रज्ञानाय भवति। तस्मात् कर्मद्वयं प्रशस्तमित्यर्थः ॥ अथ देवताविशेषविधानायाऽऽख्यायिकामुपक्रमते— ( प्रायणीयेष्टिविधानार्थमाख्यायिका ) यज्ञो वै देवेभ्य उपक्रामत् ते देवा न किञ्चनाशक्नुवन् । कर्तुं न प्राजानंस्तेऽब्रुवन्नदितिं त्वयेमं यज्ञं प्रजानामेति सा तथेत्यब्रवीत् सा वै वो वरं वृणा' इति, वृणीष्वेति; सैतमेव वरमवृणीत मत्प्रायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य' उदयनीयो वरवृतो ह्यस्याः ॥ ३ ॥

हिन्दी – ( अब देवता -विशेष के विधानं के लिए आख्यायिका का उपक्रम कर रहें हैं— ) यज्ञः वै यज्ञ ( सोमयाग किसी कारणवशात् अपरक्त होकर) देवेभ्यः उपक्रामत् ( १ ) प्राणन्ति जीवितुमारभन्तेऽनेनेति प्राणः । प्रयन्ति स्वर्ग गन्तुं प्रारभन्तेऽनेनेति प्रायणीयः । एवं व्युत्पत्त्यादिसाम्यात् प्राणस्थानीयः प्रायणीयः । तथा उदन्ति ऊर्ध्वं जीवन्त्यनेनेत्युदानः । उद्यन्ति ऊर्ध्वं स्वर्गं यन्ति प्राप्नुवन्त्यनेनेत्युदयनीयः । एवं व्युत्पत्त्यादिसाम्याद् उदान- स्थानीय उदयनीयः । यस्मादेवं तस्मात् प्रायणीयोदयनीययोः समान एक एव होता भवति' – इति भट्टभास्करः । ( २ ) द्वे शीर्षे प्रायणीयोदयनीये ( यज्ञस्य ) इति निरु ० १३.१.७ । 'शिरो वै यज्ञस्यातिथ्यं बाहू प्रायणीयोदयनीयौ' शत०ब्रा० ३.२.३.२० । आतिथ्येष्टि तृतीयाऽध्याये वक्ष्यति। ( ३ ) वृङ: कर्मण्यच्, वरणीयम् । वृणै, इट्, 'एते ऐ' -इति पा० सू० ३.४.९ ३ । ( ४ ) ' दित्यदित्या० ' – पा० सू० ४.१.८५ इत्यनेन अदितेर्ण्यः । ऐ.ब्रा. पू- ४

पृष्ठ 120

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 120 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५८ ऐतरेयब्राह्मणम् २.१ प्रथमपञ्चिकायां देवताओं के समीप से दूर चल गया । ते देवाः वे देवतागण न किञ्चन् अशक्नुवन् कुछ भी नहीं कर सके और कर्तुं न प्राजानन् ( यज्ञ ) करने की विधि) को जान भी नहीं सके । ते अदितिम् अब्रुवन् तब 'उन ( देवताओं ) ने अदिति से स्तुति किया कि त्वया इमं यज्ञं प्राजानाम (हे अदिति! ) तुम्हारे अनुग्रह द्वारा इस यज्ञ को जानने में हम समर्थ होवें । सा तब उस ( अदिति! ) ने ( देवताओं से) तथा इति अब्रवीत् ठीक है - इस प्रकार ( स्वीकार करते हुए) कहा कि वः वरं वृणै मैं तुम लोगों से (एक) वर माँगती हूँ । ( तब उन देवताओं ने कहा कि) वृणीष्व (अपना वर हम से ) माँगो । फिर सा एतमेव वरम् अवृणीत उस ( अदिति ) ने यह वर माँगा कि यज्ञाः यज्ञ मत्प्रायणाः मुझ से ही प्रारम्भ होने वाले और मदुदयनाः सन्तु मुझ से ही समाप्त होवें । पुनः ( देवताओं ने कहा कि) तथा ठीक है । तस्मात् इसी कारण प्रायणीयः उदयनीयः चरुः प्रारम्भ वाला और अन्त वाला चरु आदित्यः भवति अदिति से सम्बन्धित होता है ( अर्थात् अदिति के लिए दिया जाता है ), वरवृतः हि अस्याः क्योंकि यह इस (अदिति ) द्वारा माँगा गया वर है । सा० भा० — योऽयं यज्ञः सोमयागाभिमानी पुरुषः सोऽयं केनापि निमित्तेनापरक्तः सन् देवसकाशादुत्क्रम्य गतवान् । यज्ञपुरुषे गते सति ते देवाः किमपि यज्ञाङ्गं कर्तुं शक्तिरहिता- स्तदभिज्ञानरहिताश्चाभवन् । ततस्ते सर्वे समागत्यादितिं प्रार्थितवन्तो हेऽदिते त्वत्प्रसादेन वयमिमं यज्ञं कर्तुं ज्ञातुं च शक्ता भूयास्मेति । ततोऽदितिरङ्गीकृत्य ज्ञापयितुमुक्ता चरुरूपेणैतं वरमवृणीत ये सोमयागास्ते सर्वे मत्प्रायणा मदुपक्रमा मदुदयना मदवसानाश्च सन्त्विति तस्य वरस्य देवैरङ्गीकृतत्वात् प्रायणीयः प्रारम्भकालीनेष्टिगतश्चरुरदितिदेवताकः कर्तव्य उदयनीयः समाप्तिकालिनोऽपि चरुरदितिदेवताकः कर्तव्यः । यस्मादस्या अदितेस्तादृशश्च- रुर्वरेण प्रार्थितस्तस्मात्तथाऽनुष्ठानं युक्तम्। तमिममर्थं तैत्तिरीयाश्चऽऽमनन्ति- ' देवा वै देव- यजनमध्यवसाय दिशो न प्राजानंस्तेऽन्योन्यमुपाधावंस्त्वया प्रजानाम त्वयेति तेऽदित्या समघ्रियन्त त्वया प्रजानामेति साऽब्रवीद् वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना आसन्निति तस्मादादित्यः प्रायणीयो यज्ञात्तामादित्य उदयनयः’३ इति ॥ अदितेर्वरान्तरं दर्शयति— अथो एतं वरमवृणीत मयैव प्राची दिशं प्रजानाथाग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमिति ॥ ४ ॥

हिन्दी –( अदिति द्वारा माँगे गये अन्य वर को दिखला रहे हैं- ) अथो एतं वरम् ( १ ) तदेवं प्रायणीयेष्ट्या सोमयाग आरभ्यते, उदयनीयेष्ट्या च स समाप्यते इति व्यक्तम् । ( २ ) अदितिदेवता ' अदितिरदीना देवमाता' – इत्यादिना, 'अदितिर्दाक्षायणिः’ — इत्यादिना ४.४.२; ११.३.२ च. निरुक्ते व्याख्याता। द्र० - तैत्ति० आर० १.८.२१ । ( ३ ) तै० सं ० ६.१.५.१।