ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 121–130
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 121–130
पृष्ठ 121
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५ ९ अवृणीत और ( अदिति द्वारा) यह वर भी माँगा गया कि मया एव प्राचीं दिशम् तुम लोग मेरे द्वारा ही पूर्व की दिशा को अग्निना दक्षिणाम् अग्नि के द्वारा दक्षिण दिशा को, सोमेन प्रतीचीम् सोम के द्वारा पश्चिमादिशा को और सवित्रा उदीचीम् सविता के द्वारा उत्तर दिशा को प्रजानाथ प्रकृष्ट रूप से जानो। सा ० भा ० - अथो, अपि चेत्यर्थः । मयेत्यादिना वरः प्रपच्यते । हे देवा यूयमिदं देवयजनं समीचीनमित्येव बहुधा विचारयन्तस्तदर्थं बहुषु देशेषु पर्यटन्तों दिग्भ्रमं प्राप्य प्राच्यादिदिशं न ज्ञातवन्तोऽतो भवता दिग्विशेषज्ञापनायाहमग्निः सोमः सविता चेत्येते चत्वारश्चतुर्षु देशेष्ववस्थिताः । तथा सति यत्राहमस्मि सा प्राची दिगित्येव मयैव प्राची दिशं बुध्यध्वम् । एवमग्न्यादिभिर्दक्षिणादयस्तिस्त्रो दिशो बोद्धव्याः । इत्येष द्वितीय वरः । एते देवा अनेन चरुणा तत्र यष्टुं योग्या इति तात्पर्यार्थः ॥ ± तत्र प्रथमं यागं विधत्ते ( प्रायणीयेष्टौ पूर्वदिशायां पथ्यदेवतायाः यजनम् ) पथ्यां यजति ॥ ५॥
हिन्दी -( उनमें प्रथम पथ्या नामक देवविशेष के याग को कह रहे हैं - ) पथ्यां यजति वह ( होता ) पथ्या नामक देव- विशेष का. यजन करता है । . सा ० भा ० - पथ्येति देवताया नामधेयम् । यद्यपि शाखान्तरे- 'पथ्यां' स्वस्ति यजति प्राचीमेव तया दिशं प्रजानाति इति पथ्या स्वस्तिरित्येतावन्नामधेयमाम्नातं तथाऽपि भीमशब्दवन्नामैकदेशेनात्र व्यवहारः । ननु पूर्वत्र मयैव प्राचीं दिशं प्रजानाथेत्यदितेर्वाक्य-माम्नातमिह तु पथ्यां यजतीत्युक्तौ पूर्वापरविरोध इति चेन्नायं दोषः । अदितिदेवताया एव पथ्यारूपं मूर्त्यन्तरमिति वक्तुं शक्यत्वात् ॥ उक्तं विधिमनूद्य प्रशंसति— ( १ ) अस्याः श्रुतेर्दिगुपदेशे एव वा स्यात् तात्पर्यम् । ( २ ) ' पथ्या स्वस्ति: ' -पन्था अन्तरिक्षम्, तन्निवासात्' - इति, तन्निगमगत- ' देवगोपा'- इत्येत- त्पदस्य व्याख्यानाय च पुनः 'देवी गोप्त्रो, देवान् गोपायत्विति देवा एनां गोपायन्त्विति वा — इति च निरु ० ११.१३ । ' देवा: - माध्यमिका घुस्थाना वा रश्मयः ' –इति च तट्टीका । तदित्थमन्तरिक्षस्थिता कल्याणसत्ता एव ' पथ्यास्वस्ति' इति, अवगम्यते । (३ ) तै ० सं ० ६.१.५.२ । द्र० - 'पथ्या स्वस्तिरग्निः सोमः सवितादितिः ' आश्व० श्रौ० ४. ३. २; द्र ० -आश्व०श्री०I ६.१४.३ । ' अदितेरेव खल्ववस्थान्तरम् उषोलक्षणं पथ्यास्वस्तिरुच्यते । पथि साध्वी पथ्या शोभनविभूतिहेतुः प्रजानां स्वस्तिः । यत्र चोषा उदेति सा प्राची भवति' - इति भट्टभास्करः ।
पृष्ठ 122
पाठ पढ़ें पाठ छिपाएँ
: [ ६० ऐतरेयब्राह्मणम् २.१ प्रथमपञ्चिकायां यत्पथ्यां यजति तस्मादसौ पुर उदेति पश्चाऽस्तमेति' पथ्यां ह्येषोऽ-' नुसञ्चरति ॥ ६ ॥
हिन्दी– (उक्त विधि को कहकर उसकी प्रशंसा कर रहे हैं - ) यत् पथ्यां यजति जो ( पूर्व दिशा में ) पथ्या नामक देवविशेष का यजन करता है तस्मात् इसी कारण असौ पुरः उदेति यह (आदित्य) पूर्व दिशा में उदित होता है और पश्च अस्तम् एति पश्चिम दिशा में अस्त होता है तथा पथ्यां हि एषः अनुसञ्चरति पथ्या नामक देवविशेष का अनुसरण करते हुए ( दिन में ) सञ्चरण करता है ॥ सा ० भा ० — यद्यस्मात् कारणात् पूर्वस्या दिश्यवस्थिता पथ्यां देवतां यजति तस्मात् कारणादसावादित्यः पुरः पूर्वस्यां दिश्युदेति पश्चात् पश्चिमायां दिश्यस्तुमेति । हि यस्मात्का- रणादेष आदित्यः पथ्याख्यां देवतामनुसृत्य संचरति तस्मात्पूर्वापरयोरुदयास्तमयावुपपन्नौ । न च पूर्वदिशः पथ्यासंबन्धेऽपि पश्चिमदिशः स नास्तीति वाच्यम् । उदयनीयायां पश्चिमदिशि पथ्याया यक्ष्यमाणत्वात् । द्वयोर्दिशोस्तत्संबन्धे सति आदित्यस्य तदनुसंचारो युक्तः ॥ दक्षिणदिग्वर्तिनोऽग्नेर्यागं विधत्ते— ( दक्षिणदिग्वर्तिनोऽग्नेर्यजनम् ) अग्निं यजति ॥७॥
हिन्दी - (दक्षिण दिशा में विद्यमान अग्नि के याग का विधान कर रहे हैं— ) अग्निं यजति ( वह होता दक्षिण दिशा में ) अग्नि का यजन करता है । तं विधिमनूद्य प्रशंसति— यदग्निं यजति तस्माद् दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्या- ग्नेय्यो ह्योषधयः ॥८॥
हिन्दी — (उस विधि को कह कर उसकी प्रशंसा कर रहे हैं --- ) यद् अग्निं यजति (होता दक्षिण दिशा में) जो अग्नि का यजन करता है तस्मात् इसी कारण दक्षिणतः अग्रे (विन्ध्यपर्वत के ) दक्षिण दिशा में पहले पच्यमानाः ओषधयः पकती हुई ओषधियाँ आयन्ति आती हैं, आग्नेयः हि ओषधयः क्योंकि ओषधियाँ अग्नि से सम्बन्धित होती हैं । सा ० भा ० — यस्मादत्र देवानां दिग्विशेषज्ञापनाय दक्षिणस्यां दिश्यवस्थितमग्निं यजति तस्मात् कारणाद्विन्ध्यपर्वतस्य दक्षिणभागे यवगोधूमचणकादिधान्यप्राचुर्यम्। तानि च धा-न्यानि माघफाल्गुनयोः पच्यन्त इति पश्चाद्भावीनि। दक्षिणदिग्भागे तु यवादिप्राचुर्याभावात्। प्राचुर्याणि च व्रीह्यादीनीति कार्तिकमार्गशीर्षयोः पच्यमानत्वादग्रे पाकोऽभिहितः । हि यस्मात्कारणादोषधयः आग्नेय्य आसां पाकस्याग्न्यधीनत्वात्। यथौदनरूपेण बाह्यंपाकोऽ-( १ ) 'पश्च पश्चा च छन्दसि' - इति पा० सू० ५.३.३३ । इत्यनेन पश्चादर्थे निपातितः ।
पृष्ठ 123
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ६१ ग्न्यधीनं एवं बीजरूपेण सस्यपाकोऽपि तदन्तर्वर्त्यग्न्यधीन इति द्रष्टव्यम्। तस्मादग्निसंबन्धिन्यां दक्षिणस्यां दिश्यग्रे पाको युक्तः । पश्चिमदिश्यवस्थितस्य सोमस्य यागं विधत्ते — सोमं यजति ॥ ९ ॥
हिन्दी - ( पश्चिम दिशा में विद्यमान सोम के यजन का विधान कर रहे हैं - ) सोमं यजति (पश्चिम दिशा में होता ) सोम का यजन करता है । तं विधिमनूद्य प्रशंसति- ( पश्चिमदिग्वर्तिनः सोमस्य यजनम् ) यत्सोमं यजति तस्मात् प्रतीच्योऽप्यापो बहव्यः स्यन्दन्ते सौम्या ह्यापः ॥ १० ॥
हिन्दी–(उस विधि को कहकर उसकी प्रशंसा कर रहे हैं - ) यत् सोमं यजति ( पश्चिम दिशा में ) जो सोम का यजन करता है तस्मात् इसी कारण प्रतीच्यः अपि आपः वहव्यः स्यन्दन्ते पश्चिम की ओर जल (नादियाँ ) अधिक बहती है । सोम्याः हि आपः क्योंकि जल सोम से सम्बधित होते हैं । सा ० भा ० — यस्मादापः सोमसंबन्धिन्यः सोमस्यामृतकिरणत्वात् तस्माद् बहव्य आपः प्रतीच्योऽपि प्रत्यङ्मुख्योऽपि सत्यः स्यन्दन्ते। पश्चिमसमुद्रसमीपे प्रवहन्तीनां नदीनां पश्चिमाभिमुखत्वदर्शनात्। सोमस्यात्र पश्चिमदिश्यवस्थितत्वेन तदीयानामपां तन्मुखत्वं युक्तम्। उत्तरदिश्यवस्थितस्य सवितुर्यागं विंधत्ते— ( उत्तरदिग्वर्तिनः सवितुर्यजनम् ) सवितारं यजति ॥ ११ ॥
हिन्दी— (उत्तर दिशा में सविता के याग का विधान कर रहे हैं - ) सवितारं यजति ( वह उत्तर दिशा में ) सविता का यजन करता है । तं विधिमनूद्य प्रशंसति— यत्सवितारं यजति तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवते ॥१२ ॥
हिन्दी- ( इस विधि को कहकर उसकी प्रशंसा कर रहे हैं - ) यत् सवितारं यजति ( १ ) ( i ) अपो सौम्यत्वं सोमस्य वृष्टिहेतुतया। वृष्टिहेतुत्वं च सूर्यरश्मित्वात् सोमस्य। तथाहि श्रुतिः –‘ सुषुम्नः सूर्यरश्मिः’— इति गोविन्दस्वामी । ( ii ) ' सोममण्डलप्रभवत्वात् सर्वा- सामपाम्' इति भट्टभास्करः । ( iii ) इदमर्थे ' सोमाद्व्यण्' पा० सू० ४.२.३० ।
पृष्ठ 124
पाठ पढ़ें पाठ छिपाएँ
: [ ६२ ऐतरेयब्राह्मणम् २.१ प्रथमपञ्चिकायां ( उत्तर दिशा में ) जो सविता का यजन करता है तस्मात् इसी कारण उत्तरतः पश्चात् उत्तर और पश्चिम से अयं पवमानः भूयिष्ठं पवते यह वायु अधिकता से चलता है हि एषः क्योंकि यह ( वायु) सवितृप्रसूतः पवते सविता द्वारा प्रेरित होकर ही चलता है । सा० भा ० — सविता प्रेरको देवः सोऽत्र यस्मादुत्तरस्यां दिश्यवतिष्ठते तस्मात्तेन सवित्रा प्रेरितो वायुरुत्तरपश्चिमयोरन्तरालवर्तिन्यांः वायव्यां दिशि भूयिष्ठं पवतेऽत्यधिकं सञ्चरति। ऊर्ध्वदिग्वर्तिन्या अदितेर्यागं विधत्ते- ( ऊर्ध्वदिग्वर्तिन्यदितेर्यजनम् ). उत्तमामदिति यजति ॥१३॥
हिन्दी – ( ऊपर की दिशा में अदिति के याग का विधान कर रहे हैं - ) उत्तमाम् अदितिं यजति ऊपर की दिशा में अदिति का यजन करता है ।: .सा० भा०-–उत्तमां मूर्धावस्थितामित्यर्थः । अत एव तैत्तिरीया आंमनन्ति— ‘ पथ्यां स्वस्तिमयजन्प्राचीमेव तया दिशं प्रजानन्नग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमदि- त्योर्ध्वाम् ” इति । उक्तं विधिमनूद्य प्रशंसति— यदुत्तमामदितिं यजति तस्मादसाविमां वृष्ट्या - भ्युनत्त्यभिजिघ्रति ॥ १४ ॥
हिन्दी—( इस विधि को कहकर उसकी प्रशंसा कर रहे हैं— ) यद् उत्तमाम् अदितिं यजति जो ऊपर की ओर अदिति का यजन करता है तस्मात् इसी कारण असौ इमां वृष्ट्या अभ्युनत्ति वह ( द्युलोक ) इंस ( पृथिवी ) को वर्षा द्वारा चारो ओर से गीला करता है और अभिजिघ्रति ( ग्रीष्म में ) चारो ओर से (जल को ) सोख लेता है। सा० भा०--यस्मादूर्ध्वदिग्वर्तिनांःतस्मादूर्ध्वदिग्वर्तिनां द्यौरिमामधोवर्तिनीं स्वकीयया वृष्ट्याऽभ्युनत्ति सर्वतः क्लेदयति । पुनरपि धर्मकालेऽभिजिघ्रति भूमिगतं रसमाभिमुख्येनाऽऽ- दत्ते । अत्र पथ्यादीनां चतसृणां देवतानामाज्येन यागः । अदितेस्तु चरुणेति द्रष्टव्यम् । तदाह आपस्तम्बः — ‘ चतुर आज्यभागान् प्रतिदिशं यजति पथ्यां स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात् सवितारमुत्तरतो मध्येऽदितिं हविषा' इति॥ यथोक्तदेवतागतां संख्यां प्रशंसति— पञ्च देवता यजति पाङ्क्तो यज्ञः सर्वा दिशः कल्पन्ते कल्पते यज्ञोऽपि ॥ १५ ॥
( १ ) तै० सं० ६.१.५.२। ( २ ) आप०श्र० १०.२१.११।
पृष्ठ 125
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६३ हिन्दी— (इन देवताओं की संख्या की प्रशंसा कर रहे हैं - ) इस प्रकार पञ्च देवताः यजति (पथ्या, अग्नि, सोम, सविता और अदिति इन ) पाँच देवताओं का यजन करता है । पङ्क्तो यज्ञः ( पाँच देवताओं वाला यह यज्ञ पाँच संख्या वाला है । सर्वा दिशः सभी (ऊर्ध्व को लेकर पाँच) दिशाएँ कल्पन्ते समर्थ होती हैं । इस प्रकार यज्ञः अपि कल्पते यज्ञ भी स्वप्रयोजन में समर्थ होता है । सा० भा ० — पथ्याद्यदित्यन्ताः पञ्च देवता यज्ञस्य पञ्चसंख्यायोगात् पाङ्क्तत्वं बहुधा वक्ष्यतेऽतां यज्ञे देवताविषया पञ्चसंख्या युक्ता । दिशोऽपि प्राच्याद्या ऊर्ध्वान्ताः पञ्चसंख्याकाः । अतो देवतागतपञ्चसंख्यया गताः सर्वा दिशः कल्पन्ते समर्था भवन्ति । पूर्वमविज्ञाताः सत्यो
ज्ञाता भवन्तीत्यर्थः । यज्ञोऽप्यन्या कल्पते स्वप्रयोजनसमर्थो भवति॥
वेदनं प्रशंसति— तस्यै जनताय कल्पते यत्रैवं विद्वान् होता भवति ॥ १६ ॥
हिन्दी—( इस याग की प्रशंसा कर रहे हैं — ) यत्र जिस याग में एवं विद्वान् होता भवति इस प्रकार जानने वाला होता रहता है तस्य जनताय कल्पते उस जन-समुदाय के लिए ( वह होता) समर्थ होता है । सा० भा० — यत्र यस्यां जनतायां याज्ञिकजनमूहे होता प्रायणीयदेवतानां वेदिता भवति तस्यां जनतायामयं होता स्वप्रयोजनसमर्थो भवति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेय- ब्राह्मणभाष्यस्य द्वितीयाध्यायें प्रथमः खण्डः ॥ १॥
|| इस प्रकार ऐतरेयब्राह्मण के द्वितीय अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः प्रायणीयेष्टि विधाय तत्र प्रयाजानां काम्यप्रकारविशेषं विधते— ( प्रयाजाहुतिरूपप्रायणीयाङ्गकर्मविधानम् ). ब्रह्मवर्चसकामस्य प्रागपवर्गत्वम्) यस्तेजो ब्रह्मवर्चसमिच्छेत् प्रयाजाहुतिभिः प्राङ्स इयात्, तेजो वै ब्रह्मवर्चसं प्राची दिक् ॥१ ॥
हिन्दी– (प्रायणीयेष्टि का विधान करके अब इस प्रयाजों के काम्यप्रकार विशेष का विधान कर रहे हैं— ) यः जो ( यजमान ) तेजः ब्रह्मवर्चसम् इच्छेत् तेज और ब्रह्मवर्चस्
पृष्ठ 126
पाठ पढ़ें पाठ छिपाएँ
: [ ६४ ऐतरेयब्राह्मणम् २.२ प्रथमपञ्चिकायां की कामना करें सः वह प्रयाजाहुतिभिः प्रयाज संज्ञक आहुतियों से प्राङ् इयात् पूर्वदिशा की ओर य़जन करे क्योंकि प्राची दिक् पूर्व की दिशा तेजः ब्रह्मवर्चसं वै तेज और ब्रह्मवर्चस रूप वाली है । सा ० भा ० – ‘ समिधो यजति' तनूनपातं यजतीत्यादिना विहिताः पञ्च प्रयाजाहुतयः । तासां प्रकृतावनुष्ठानप्रकार आपस्तम्बेन दर्शित: - 'पञ्च प्रयाजान् प्राचो यजति । प्रतिदिशं वा : समिधः पुरस्तात्तनूनपातं दक्षिणत इडः पश्चाद्द्बर्हिरुत्तरतः स्वाहाकारं मध्ये' इति ।' स प्रकारोऽत्र चोदकप्राप्तस्तमपोद्य शरीरकान्तिश्रुताध्ययनसम्पत्तिं च कायमानस्य प्रकारान्तरं विधीयते । यः पुमांस्तेजो ब्रह्मवर्चसमिच्छेत् स पुमान् प्रयाजाहुतिभिः प्राडिन्यात्। प्रागपवर्गास्ता आचरेदित्यर्थः । आदित्योदयेन प्राच्यास्तेजस्त्वं तदाभिमुख्येन गायत्रीजपानुष्ठानाद् ब्रह्म- वर्चसत्वं च ॥ वेदनं प्रशंसति- तेजस्वी ब्रह्मवर्चसी" भवति य एवं विद्वान् प्राङेति ॥ २ ॥
हिन्दी- ( इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं विद्वान् जो इस तथ्य को जानने वाला प्राङ् एति पूर्व दिशा में जाता है वह तेजस्वी ब्रह्मवर्चसी भवति तेजवान् और ब्रह्मवर्चस् से सम्पन्न हो जाता है। अन्नाद्यकामस्य दक्षिणापवर्गत्वं विधत्ते— ( अन्नाद्यकामस्य दक्षिणापवर्गत्वम् ). योऽन्नाद्यमिच्छेत् प्रयाजाहुतिभिर्दक्षिणा स इयादन्नादो वा एषोऽ- न्नपतिर्यदग्निः ॥३ ॥
हिन्दी— यः अन्नाद्यम् इच्छेत् जो अन्न की कामना करें सः प्रयाजाहुतिभिः दक्षिणा इयात् वह प्रयाज आहुतियों के साथ दक्षिण दिशा में यजन करें; क्योंकि यद् अग्निः जो अग्नि है, एषः अन्नादः अन्नपतिः यह अन्न खाने वाला और अन्न का स्वामी है । सा ० भा ० — दक्षिणस्यां दिश्यवस्थितो योऽग्निः सोऽग्निरन्नादः । भक्षितस्यान्नस्योद- राग्निना जीर्यमाणत्वात् संस्येष्ववस्थाय व्रीह्यादिपाकहेतुतत्वात् स्थाल्यादिष्ववस्था- यौदनपाकहेतुत्वादन्नपतित्वम्। अतोऽन्नकामस्य दक्षिणापवर्गत्वं युक्तम् ॥ · वेदनं प्रशंसति—. ( १ ) समिधो यजति हेमन्तमेवावरुन्धे ' इति तै ० सं० २.६.१.१ । तन्मन्त्राः तै ० ब्रा ० ३.५.५ द्रष्टव्या:।.. (२ ) आप० श्रौ० २.१७.१.२ ।
पृष्ठ 127
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६५ अन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयाऽत्राद्यं य एवं विद्वान् दक्षिणैति ॥४ ॥
हिन्दी—यः एवं विद्वान् जो इस प्रकार जानने वाला दक्षिणा एति दक्षिण दिशा में जाता है, वह अन्नादः अन्नपतिः भवति अन्न को खाने वाला और अन्न का स्वामी होता है तथा प्रजया अन्नाद्यम् अश्नुते ( पुत्रादि ) प्रजा के साथ अन्न को प्राप्त करता है । पशुकामस्य प्रत्यगपवर्गत्वं विधत्ते- ( पशुकामस्य प्रत्यगपवर्गत्वम् ) यः पशूनिच्छेत् प्रयाजाहुतिभिः प्रत्यङ् स इयात् पशवो वा एते यदापः ॥ ५ ॥
हिन्दी- यः पशून् इच्छेत् जो पशुओं की कामना करें सः प्रयाजाहुतिभिः प्रत्यङ् इयात् वह प्रयाजाहुतियों के साथ पश्चिम दिशा की ओर यजन करे; क्योंकि यद् आपः जो जल हैं एते पशवः एव ये पशु रूप वाले हैं । सा० भा०—- प्रत्यग्दिश्यवस्थितस्य सोमस्य संबन्धिन्य आप इति पूर्वमुक्तं तासां चापां पानद्वारेण तृणोत्पादनद्वारेण वा पशूपकारित्वात् पशुत्वमतः पशुकामस्य तथा- विधप्रत्यगपवर्गत्वं युक्तम्॥ वेदनं प्रशंसति— पशुमान् भवति य एवं विद्वान् प्रत्यङ्केति ॥ ६ ॥.
हिन्दी-- यः एवं विद्वान् जो इस प्रकार जानने वाला प्रत्यङ् एति पश्चिम दिशा की ओर जाता है वह पशुमान् भवति पशुसम्पन्न होता है। अहीनाद्युत्तरक्रतुषु सोमपानं कामयमानस्योत्तरापवर्गत्वं विधत्ते— ( सोमपानकामस्योत्तरापवर्गत्वम् ) यः सोमपीथमिच्छेत् प्रयाजाहुतिभिरुदड् स इयादुत्तरा ह वै सोमो राजा ॥७ ॥
हिन्दी- यः सोमपीथम् इच्छेत् जापे सोम पान करने की कामना करे सः प्रयाजाहुतिभिः वह प्रयाजाहुतियों के साथ उदङ् इयात् उत्तर दिशा की ओर यजन करे; क्योंकि उत्तरा ह वै सोमो राजा राजा सोम (उत्तर दिशा में उत्पन्न होने के कारण) उत्तर दिक् रूप हैं । सा ० भा० – यः सोमवल्लीरूपो राजमानत्वेन राजा तस्योत्तरस्यां दिशि प्रभूतत्वात् तद्रूपत्वमतः सोमपानद्वाराऽस्योत्तरापवर्गत्वं युक्तम्॥ वेदनं प्रशंसति— प्र सोमपीथमाप्नोति य एवं विद्वानुदङ्गेति ॥ ८ ॥
पृष्ठ 128
पाठ पढ़ें पाठ छिपाएँ
: [६६ ऐतरेयब्राह्मणम् २.२ प्रथमपञ्चिकायां हिन्दी - यः एवं विद्वान् जो इस प्रकार जानने वाला उदङ् एति उत्तर दिशा की ओर जाता है, यह सोमपीथं प्राप्नोति सोमपान को प्राप्त करता है । स्वर्गकामस्यऽऽहवनीये प्रयाजहोमविधिमर्थवादेनोन्नयति— ( स्वर्गकामस्योर्ध्वापवर्गत्वम् ) स्वग्र्यैवोर्ध्वा दिक्सर्वासु दिक्षु राध्नोति ॥९ ॥
हिन्दी— स्वर्यैव ऊर्ध्वा दिक् ऊपर की दिशा स्वर्ग लोक के लिए है (अत: ऊपर की दिशा की भावना करते हुए आहवनीय के मध्य में प्रयाजाहुति द्वारा यजन करने वाला) सर्वाषु दिक्षु सभी दिशाओं में राध्नोति समृद्ध होता है। •सा ० भा ० - येयमेव दिक्स्वर्गाय हितैव तस्मात् स्वर्गकाम ऊर्ध्वा दिशं भावयन्नाहवनीयमध्ये प्रयाजान् यजेतेत्यर्थः । यथा स्वर्गं प्राप्नोति तथा सर्वासु दिक्षु स समृद्धश्च भवत्यतः समृद्धिकामो मध्ये यजेतेत्यवगन्तव्यम्॥ वेदनं प्रशंसति— सम्यञ्चो वा इमे लोकाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद ॥ १० ॥
हिन्दी- सम्यञ्चः वै इमे लोकाः ये ( पृथिव्यादि ) लोक ( स्वोचित) भोग प्रदान करने वाले हैं। यः एवं वेद जो इस प्रकार जानता है, अस्मै इसके लिए इमे सम्यञ्चः लोकाः ये स्वोचित भोग प्रदान'करनेकरने वालवाले लोक श्रियै दीद्यति सम्पत्ति के लिए प्रकाशित होते हैं । सा ० भा ० -– इमे भूरादयस्त्रयो लोकास्ते सम्यञ्चः स्वोचितभोगप्रदा अतो य एवमा-हवनीयमध्ये होमं वेदास्मै यजमानाय भूरादय इमे लोकाः सम्यञ्चः स्वस्वोचितभोगप्रदाः सन्तः श्रियै धनधान्यादिसम्पदे दीद्यति प्रकाशन्ते॥ इत्थं काम्यान् प्रयाजहोमप्रकारान् विधाय पूर्वोक्तप्रायणीयदेवताः क्रमेण स्तोतुं प्रथम-देवतां प्रशंसति— ( पथ्यायागस्य प्रशंसनम् ) पथ्यां यजति यत्पथ्यां यजति वाचमेव तद्यज्ञमुखे संभरति ॥ ११ ॥
हिन्दी -- पूर्वोक्त प्रायणीय देवताओं की क्रम से स्तुति करने के लिए प्रशंसा कर रहे हैं । उनमें प्रथम पथ्या नामक देवविशेष की प्रशंसा- ) पथ्यां यजति पथ्या नामक देवविशेष का यजन करता है। यत्पथ्यां यजति जो पथ्या नामक देवता-विशेष का (प्रयाजाहुतियों से ) यजन करता है तत् यज्ञमुखे वह सोमयाग के प्रारम्भ में वाचमेव सम्भरति ( मन्त्ररूप) वाणी को ही सम्पादित करता है।
पृष्ठ 129
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ६७ सा ० भा०— पथ्याभिधां देवतां यजतीति पूर्वोक्तविधिरत्र स्मारितः प्रयाजविधि- भिर्व्यवहितत्वात्। स्तोतव्यस्य स्मारणमपेक्षितम्। स्मारितस्य स्तुतावन्वेतुं पुनरनुवादः । पथ्या- यागेन यज्ञमुखे सोमयागप्रारम्भे वाचमेव मन्त्ररूपा संभरति संपादयति। यतो यज्ञानुष्ठानरूपाय मार्गाय हिता पथ्या मन्त्ररूपा. वाक्तादृश्यतः पथ्यायाग एव वाक्संपादनम्॥ अग्न्यादिकाश्चस्रो देवताः प्रशंसति- (- अग्निसोमादीनां प्रशंसनम् ) प्राणापानावग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः ॥ १२ ॥
हिन्दी — ( अग्नि इत्यादि चारों देवताओं की प्रशंसा कर रहे हैं - ) अग्निषोमौ प्राणापानौ अग्नि और सोम प्राण और अपान हैं। सविता प्रसवाय सविता देव ( यज्ञ कर्म की ) प्रेरणा प्रदान करने के लिए तथा अदितिः प्रतिष्ठित्यै अदिति ( पृथिवी पर) अवस्थान के लिए हैं। सा ० भा ० — मुखनासिकाभ्यो बहिः संचरन्नुच्छ्वासरूपो वायुः प्राणः । स ह्यौष्ण्यं शरीरे जनयति । ततोऽग्नेः प्राणरूपत्वं प्रतिनिकृत्य मुखनासिकाभ्यामन्तःसंचरन् वायुरपानः । स च शरीरे शैत्यं जनयतीति निश्वासस्य सोमरूपत्वम्। सविता देवः प्रसवाय यज्ञकर्मणि प्रेरणायोपयुज्यते। अदितिभूमिः प्रतिष्ठित्यै स्थिरावस्थानायोपयुज्यते॥ पुनरपि प्रकारान्तरेण प्रथमां देवतां स्तौति— पथ्यामेव यजति यत्पश्यामेव यजति वाचैव तद्यज्ञं पन्थामपि नयति ॥ १३ ॥
हिन्दी —( प्रकारान्तर से पथ्या नामक देवविशेष की प्रशंसा कर रहे हैं— ) पथ्या-मेव यजति पथ्या नामक देवविशेष का ही (प्रयाजाहु॑तियों से ) यजन करता है । यत् पथ्यामेव यजति जो पथ्या नामक देवविशेष का ही यजन करता है तद् यज्ञं पन्थामपि नयति वह यज्ञ को (मन्त्र रूप वाणी से समीचीनं अनुष्ठान के ) पथ पर ले जाता है । सा० भा ० — अत्रैवकारः पूर्वोक्तस्तुतिविशेषः । तस्यायमर्थः — देवतान्तरं परित्यज्य प्रथमतः पथ्यामेव यजति । ईदृशं यजनं यदस्ति तत्तेन यजनेन मन्त्ररूपया वाचैव च क्रियमाणं यज्ञं वैकल्यपरिहारेण समीचीनमनुष्ठानमार्गं प्रापयति देवतान्तरस्य प्रथमयागे तु नैतत् सम्भवतीति॥ द्वितीयाद्या देवता प्रशंसति— • चक्षुषी एवाग्नीषोमौ. प्रसवाय सविता प्रतिष्ठित्या अदितिः ॥१४ ॥
• हिन्दी - ( अग्नि इत्यादि अन्य देवताओं की प्रकारान्तर से प्रशंसा कर रहे हैं - ) अग्नीषोमा अग्नि और सोम चक्षुषी दोनों नेत्र रूप हैं तथा सविता प्रसवाय सविता देव
पृष्ठ 130
पाठ पढ़ें पाठ छिपाएँ
: [६८ ऐतरेयब्राह्मणम् २.२ प्रथमपञ्चिकायां प्रेरित करने के लिए और अदितिः प्रतिष्ठित्यै अदिति स्थिर अवस्थान के लिए हैं । सा ० भा ० — अग्निषोमयोस्तेजस्वित्वाद् दिग्विशेषज्ञानहेतुत्वाच्चक्षुरिन्द्रियरूपत्वम्। चतुर्थपञ्चमदेवतयोस्तु पूर्वोक्तस्तुतिरेव समीचीनेत्यभिप्रेत्य पुनस्तत्पाठः ॥ अग्नीषोमयोश्चक्षुःस्वरूपत्वे कोऽतिशय इत्याशङ्क्याऽऽह—— चक्षुषा वै देवा यज्ञं प्राजानंश्चक्षुषा वा एतत्प्रज्ञायते यदप्रज्ञेयं तस्मादपि मुग्धश्चरित्वा यदैवानुष्ठ्या चक्षुषा प्रजानात्यथ प्रजानाति ॥१५ ॥
हिन्दी – ( अग्नि और सोम की नेत्रहेतुता को कह रहे हैं - ) चक्षुषा वै देवाः चक्षु द्वारा ही 'देवताओं ने यज्ञं प्राजानन् यज्ञ को जाना । यद् अप्रज्ञेयम् जो अप्रज्ञेय है चक्षुषा वै चक्षु द्वारा ही एतत् प्रज्ञायते वह जाना जाता है । तस्मात् इसी कारण ( लोक में भी ) मुग्धः चरित्वा दिग्भ्रमित ( व्यक्ति भ्रमित ) होकर यदा एव जिस समय अनुष्ठ्या चक्षुषा प्रजानाति अनुष्ठान रूप चक्षु से (दिग्वशेष को ) जान लेता है अथ इसके बाद तब प्रजानाति ( अपने उचित मार्ग को ) जानता है । सा ० भा ० — देवाः पुरा यज्ञपुरुष उत्क्रान्ते सत्यन्विष्य चक्षुषैव प्रज्ञातवन्तः । लोकेऽपि यद्वस्तु सहसा प्रज्ञातुमशक्यं तदेतच्चक्षुषैव प्रज्ञायते। तस्मादित्यादिना तदेवोदाह्रियते। यस्माद् दुर्ज्ञेयमपि चक्षुषा ज्ञातुं शक्यं तस्मादेव कारणाल्लोके मुग्धो दिङ्मोहं प्राप्तः पुरुषो वनेषु बहुधा चरित्वा ‘ यदैव ’ यस्मिन्नेव कालेऽनुष्ठ्याः केनापि प्रयत्नविशेषेण पर्वतारोह- णादिरूपेण सूर्योदयादिरूपं दिग्विशेषलिङ्गं चक्षुषा प्रजानाति। अथ तदानीमेव ग्रामादिमार्गं प्रजांनाति। तस्माच्चक्षुःस्वरूपाभ्यामग्नीषोमाभ्यां दिग्विशेषज्ञानं युक्तम्॥ अथादितेः प्रतिष्ठाहेतुत्वं प्रपञ्चयति— ( अदितेः प्रतिष्ठाहेतुत्वप्रशंसनम् ) यद्वै तद्देवा यज्ञं प्राजानन्नस्यां वाव तत्प्राजानन्नस्यां समभरन्नस्यै वै यज्ञस्तायतेऽस्यै क्रियतेऽस्यै संध्रियत इयं ह्यदितिस्तदुत्तमामदितिं:. यजति यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञात्यैः स्वर्गस्य लोकस्या- नुख्यात्यै ॥ १६ ॥
हिन्दी— ( अब अदिति की प्रतिष्ठा हेतुता को कह रहे हैं— ) यद्वै देवाः यज्ञं प्रजानान् जिस समय देवताओं ने यज्ञ को जाना तद् अस्यामेव प्राजानन् उस ( यज्ञ) ( १ ) शतपथव्याख्यायाम् ‘ अनुष्ठ्या = अनुक्रमेण'- इत्याह हरिस्वामी ( १.४.२.१७; ५.१. ६ ) । सायणेन तूक्तं तत्राऽपि ‘ अनुष्ठ्या = अनुष्ठानेन ' ' - इति' ( २.१.२.१२ )। वस्तुतो .वेदेषु अनुष्ठी- अनुष्ठु - अनुष्ठा- अनुष्ठान- शब्दाः समानार्था इत्येव गम्यते। तत्रानुष्ठीशब्द- स्य तृतीयैकवचने रूपमनुष्ठ्येति, अनुष्ठुशब्दस्यानुष्ठुयेति (ऋ ० सं ० ४,४.१४ ) च।