ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 141–150
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 141–150
पृष्ठ 141
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ७९ (प्रथम अक्षर की समानता के कारण) प्रयाज ( यजमान के ) प्राण स्वरूप और प्रजा अनुयाजा ( अनु = पश्चात् उत्पन्न होने के कारण) अनुयाज ( यजमान की पुत्रादि) प्रजा स्वरूप हैं । यत् प्रयाजान् अन्तरियात् यदि प्रयाजों को त्याग दे तद् यजमानस्य प्राणान् अन्तरियात् तो यजमान के प्राणों को छोड़ देता है और यद् अनुयाजान् जो अनुयाजों को छोड़ दे तद् यजमानस्य प्रजाम् अन्तरियात् तो. यजमान की (पुत्रादि ) प्रजा को छोड़ देता है । सा० भा० — प्रथमशब्दसामान्यात् प्रथमभावित्वाद् प्रयाजा यजमानस्य प्राणरूपाः । पश्चाद्भावित्वादनुयाजाः पुत्रादिरूपाः । यदा प्रयाजा वर्ज्यन्ते तदा यजमानसम्बन्धिनां प्राणांनाम- न्तरायो विच्छेदःस्यात् । अनुयाजवर्जने पुत्रादिविच्छेदः । अयमेव पूर्वपक्षबाधस्तैत्तिरीयै- राम्नातः —‘ तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाद् यदनूयाजानन्तरियात् प्रजामन्तरियात् " इति। यद्यपि प्रायणीये प्रयाजवर्जनमप्रसक्तं तथाऽप्युद- यनीये तैत्तिरीयोपन्यस्तं प्रयाजवर्जनमभिप्रेत्वायं बाधोपन्यासः || इत्थं पूर्वपक्षे बाधमुपन्यस्य चोदकैः प्राप्तस्योभयानुष्ठानस्य प्रतिप्रसवरूपं सिद्धान्तं विधत्ते- तस्मात् प्रयाजवदेवानुयाजवत् कर्तव्यम् ॥ ४ ॥
कि हिन्दी- तस्मात् प्रयाजवत् अनुवाजवत् कर्तव्यम् इसी कारण प्रयाजयुक्त और अनुयाजयुक्त यजन करना चाहिए। सा ० भा ० — यस्मादन्यतरत्यागे बाधस्तस्मादित्यर्थः । तैत्तिरीया अप्येतदामनन्ति— ‘प्रयाजवदेवानूयाजवत्प्रायणीयं कार्यं प्रजायवदनूयाज वदुदयनीयम्' इति। अत्र सर्वत्रैतरेयपाठे- ऽनुयाज इति ह्रस्व उकारः । तैत्तिरीयपाठे दीर्घ इति विवेकः ॥ चोदकप्राप्तान् पत्नीसंयाजान् समिष्टयजुश्च निषेधति– ( पत्नीसंयाजानां समिष्ट्यजुषः निषेधः ) पत्नी न संयाजयेत् संस्थितयजुर्न जुहुयात्' ॥ ५ ॥
( १ ) तै ० सं० ६.१.५.४ ( २ ) तै ० सं ० ६.१.५.५.। ( ३ ) ( i ) पत्न्यनुष्ठेयाश्चत्वारो यागाः पत्नीसंयाजा उच्यन्ते। (कात्या० १०.८.१० )। चतस्रो देवता यजति पत्नी स्वगा करोति ( शत०ब्रा० १.७. ६-१५ ) । तैत्तिरीयकेऽपि — 'सोमं यजति’ इत्यादि ‘ आज्येन पत्नीसंयाजा: ' -( तै० सं ० २.६.१० ) तन्मन्त्रादिविधयस्तु तद्द्ब्राह्मणे ३.५.१२.१३ । जै० सू० चैतन्मूलकमधिकरणमेकमारचितम् ( ३.२.२०- अधि १० ) । ( ii ) पत्नीस्तु न संयाजयेत्— इति आपप००श्रौ० १०.२१.१४ । अथ समिष्टयजुर्जुहोति ( शत ०ब्रा० १.७.३.२५-२७ ) तथा तैत्तिरीयकेऽपि
पृष्ठ 142
पाठ पढ़ें पाठ छिपाएँ
: [ ८० ऐतरेयब्राह्मणम् २.५ प्रथमपञ्चिकायां हिन्दी —( पत्नी के संयाज करने और संस्थित यजुः से यजन का निषेध - ) पत्नी न संयाजयेत् पत्नी संयाजाओं को न करें और संस्थितयजुः न जुहुयात् संस्थितयजुः से भी होम नहीं करना चाहिए । ततः किमित्यपेक्षायामाह— तावतेव यज्ञोऽसंस्थितः ॥ ६ ॥
हिन्दी - तावता एव इतने से ही यज्ञः असंस्थितः यज्ञ पूर्ण नहीं होता । सा० भा०-१ – तदानीं यज्ञस्य समाप्तत्वादुत्तरकालीनं सोमक्रमादिकं न प्रवर्तेत। एतेषामननुष्ठानमात्रेण यज्ञोऽसमाप्तो भवति। तत उत्तरानुष्ठानं निर्बाधं प्रवर्तते। कंचिद्विशेषं विधत्ते --- ( निष्कासस्थापनविधानम् ) प्रायणीयस्य निष्कासं निदध्यात् तमुदयनीयेनाभिनिर्वपेद् यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय ॥७ ॥
हिन्दी— ( प्रायणीयेष्टि के विषय में कुछ विशेष का विधान कर रहे हैं - ) यंज्ञस्य सन्तत्यै यज्ञ की निरन्तरता के लिए और यज्ञस्य अव्यवच्छेदाय यज्ञ की अव्यवच्छिन्नता के लिए प्रायणीयस्य तं निष्कासम् प्रायणीयेष्टि का अवशिष्ट ( निष्कासित ) भाग को ( किसी पात्र में ) निदध्यात् रखना चाहिए । सा ० भा ० — भाण्डगतो लेपरूपो हविःशेषो निष्कासः । प्रायणीयकर्मसंबन्धिनं निष्कासं कस्मिश्चित्पात्रे स्थापयेत्। ततः सुत्यादिने ' सोमयागस्यावसान उदयनीयेष्टिगतेन हविषा सह तं निष्कासं समभिनिर्वपेत्। एवं सति प्रायणीयशेषस्यानुवर्तनात् सोमयागः संततो भवति न – ' तुसैवतस्यसा विच्छेदःयज्ञस्य सन्ततिःप्राप्नोति'। तैत्तिरीयाश्चाऽऽमनन्तिइति॥ प्रायणीयस्य निष्कास उदयनयमभिनिर्वपति ( सं० ६.६.२.१। एतद् विधानं च तत्पुरस्तादेव श्रुतं द्रष्टव्यम् ( २.६.१० ) तत्रैवेदमप्युक्तं सायणेन – ‘ देवा गातुविदः ’ इत्ययं मन्त्रः (वा० सं० ८.२१ ) इष्टिसम्पूर्तिकारित्वात् समिष्टयजुरित्युच्यते। स च मन्त्र आध्वर्यकाण्डे समाम्नातो व्याख्यातश्च' – इति। तत्र चाध्वर्यवे ( तै ० सं ० १.१.४४ ) समिष्टयजुर्होमो निरूपितः । 'नव समिष्टयजूंषि जुहोति’— इत्यादि शत० ब्रा० ४.४.४.१ द्रष्टव्यम्। 'समिन्द्रेण' इति ( वा० सं ० ८.१५ )। द्र० कात्या ० श्रौ ० · १०.८.११ । ( १ ) सुत्यालक्षमामिहैव चतुर्थाध्यायान्ते वक्ष्यति भाष्यकारः - ' यस्यां क्रियायां सोमः सूयते अभिषूयते, सा सुत्या’—इति। तथा च सुत्यादिने इत्यस्य अभिषवक्रियादिवसे इत्यर्थः । (२ ) तै ० सं० ६.१.५.५।
पृष्ठ 143
पाठ पढ़ें पाठ छिपाएँ
] द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम्ः ८१ प्रकारान्तरमाह- अथो खलु यस्यामेव स्थाल्यां प्रायणीयं निर्वपेत् तस्यामुदयनीयं निर्वपेत्' तावतैव यज्ञः संततोऽव्यवच्छिन्नो भवति ॥८ ॥
हिन्दी - अथो खलु अथवा यस्यामेव स्थाल्याम् जिस स्थाली में प्रायणीयं निर्वपेत् प्रायणीयेष्टि ( के पुरोडाश) का निर्वाप करे तस्यामेव उसी (स्थाली) में ही उदयनीयं निर्वपेत् उदयनीयेष्टि ( के पुरोडाश ) का निर्वाप करना चाहिए। तावता एव उसी से ही यज्ञः संततः अव्यवच्छिन्नः भवति यज्ञ निरन्तर और अव्यवच्छिन्न होता है । सा० भा ० – नात्र निष्कासोऽपेक्षितः किंतु स्थाल्येकत्वमात्रेण यज्ञस्य संततत्वाद् व्यवच्छेदराहित्यं सिध्यति । सातत्यव्यवच्छेदराहित्ययोरर्थत एकत्वेऽप्यन्वयव्यतिरेकरूपत्वेन पृथगुपन्यासः । अथ प्रायणीयोदयनीयेष्ट्योर्याज्यानुवाक्याव्यत्यासं विधातुं प्रस्तौति— ( प्रायणीयोदयनीयेष्टौ याज्यानुवाक्यानां व्यत्यासविधानम् ) अमुष्मिन् वा एतेन लोके राष्नुवन्ति नास्मिन्नित्याहुर्यत्प्रायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्येवास्माल्लोकाद् यजमाना इति ॥ ९ ॥
हिन्दी— ( अब प्रायणीयेष्टि और उदयनीयेष्टि की अनुवाक्या और याज्या के व्यत्यास का विधान करने के लिए प्रस्तावित करे रहे हैं - ) (यजन करने वाला) एतेन अमुष्मिन् वै लोके इस ( कर्म) से उस (स्वर्ग ) लोक में ही राघ्नुवन्ति समृद्धि को प्राप्त करते हैं, न अस्मिन् इस (लोक में ) नहीं - इत्याहुः ऐसा ब्रह्मवादियों ने कहा है, (क्योंकि जब वे ) प्रायणीयम् इति प्रायणीयम् इति प्रायणीय, प्रायणीय इस प्रकार ( कहकर ) निर्वपन्ति निर्वाप करते हैं और प्रायणीयमिति चरन्ति प्रायणीय 'इस प्रकार कह कर आहुति देते हैं' तब यजमानाः यजन करने वाले लोग अस्मात् लोकात् प्रयन्ति इस लोक से प्रस्थान कर जाते हैं। सा ० भा ० – प्राणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति ब्रह्मवादिनः कंचिद्दोषमाहुः । प्रायणीयमित्येवं विधिनोपेतं यत्कार्यमस्ति एतेन कर्मणा यजमानाः स्वर्गलोक एव समृद्धिं प्राप्नुवन्ति नास्मिँल्लोके। कथमिति चेत्। प्रायणीयमित्येतन्नाम मनसा कृत्वा निर्वपन्ति । चरणकालेऽपि तथैव चरन्ति। चरणमाहुतिप्रक्षेपः । तस्य च नाम्नोऽयमर्थः । अनेन कर्मणा यजमाना अस्माल्लोकात् प्रयन्त्येव न त्वस्मिँल्लोके कचित्कालं प्रतितिष्ठन्ति। तस्मात्
प्रायणीयनाम संपन्नमिति । श्रौत इतिशब्दो ब्रह्मवाद्युद्भावितदोषसमाप्त्यर्थः ॥
( १ ) ‘ तस्यामेव स्थाल्यामनिष्कासितायां श्रपयति' इति आप० श्रौ० १३.२३.२ ।
पृष्ठ 144
पाठ पढ़ें पाठ छिपाएँ
: [८२ ऐतरेयब्राह्मणम् २.५ प्रथमपञ्चिकायां अथ तद्दोषसमाधानं विधत्ते— अविद्ययैव तदाहुर्व्यतिषजेद् याज्यानुवाक्याः ॥ १० ॥
हिन्दी—( उपर्युक्त दोष का समाधान दिखला रहे हैं — ) अविद्यया एव तदाहुः अज्ञानता के कारण ही वे ऐसा कहते हैं ( क्योंकि प्रायणीयेष्टि और उदयनीयेष्टि में) याज्यानुवाक्याः व्यतिषजेत् याज्या और अनुवाक्या का व्यतिषङ्ग (उलट फेर) होना चाहिए। सा ० भा ० —– अज्ञानेनैव ब्रह्मवादिनस्तद्वचनमाहुः । न त्वत्र तदुक्तदोषोऽस्ति । तद्दोषानु-दयाय स्वस्ति नः पथ्यास्वित्यारभ्य महीमू षु मातरमित्यन्तानां याज्यानुवाक्यानां व्यतिषङ्गं कुर्यात्॥१ तमेव व्यतिषङ्गं विस्पष्टयति— याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद् या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्याद्, तद- व्यतिषजत्युभयोर्लोकयोर्ऋध्या उभयोर्लोकयोः प्रतिष्ठित्या, उभयो- लर्ऋध्नोत्युभयोर्लोकयोः प्रतितिष्ठति ॥ १० ॥
हिन्दी—(उस व्यतिषङ्ग को स्पष्ट कर रहे हैं- ) याः प्रायणीयस्य पुरोनुवाक्या जो प्रायणीयेष्टि पुरोनुवाक्या होती है ताः उदयनीयस्य याज्या उनको उदयनीयेष्टि की याज्या करनी चाहिए और याः उदयनीयस्य पुरोनुवाक्या जो उदयनीयेष्टि की पुनोनुवाक्या होती है ताः प्रायणीयस्य याज्या कुर्यात् उनको प्रायणीयेष्टि की याज्या करनी चाहिए । उभयोर्लोकयो ऋध्यै दोनों लोकों की समृद्धि के लिए और उभयोर्लोकयोः प्रतिष्ठित्यै दोनों लोकों की प्रतिष्ठा के लिए तद् व्यतिषजति यह उलट फेर करता है। (इस उलट फेर से ) उभयोर्लोकयोः ऋध्नोति दोनों लोकों को समृद्ध करता है और उभयोर्लोकयोः प्रतितिष्ठति और दोनों लोकों में प्रतिष्ठित रहता है । सा० भा० — तत्तेन याः प्रायणीयस्येत्युक्तप्रकारेण व्यतिषङ्गः संपद्यते। स च लोकद्वये भोग्यवस्तुसमृद्ध्यै स्थैर्येणावस्थानाय भवति। तथाऽनुष्ठानेन यजमानो लोकद्वये समृद्धः प्रतिष्ठितश्च भवति । यथोक्तदोषसमाधाने तैत्तिरीया आमनन्ति— 'याः प्रायणीयस्य याज्यास्ता उदयनीयस्य पुरोनुवाक्या कुर्यात् प्राङमुं लोकमारोहेत् प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनु- वाक्यास्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति ' ' इति ॥ व्यतिषङ्गवेदनं प्रशंसति— ( १ ) विपरीताश्च याज्यानुवाक्या' आश्व० श्री० ६.१४.४ ।( ) ( ) २ तै० सं० ६.१.५। १
पृष्ठ 145
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ८३ प्रतितिष्ठति य एवं वेद ॥१२ ॥ ६
हिन्दी – ( इस व्यतिषङ्ग के ज्ञान के फल की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह प्रतितिष्ठाति वह प्रतिष्ठित होता है । सा ० भा० — योऽयं प्रथमखण्डे प्रायणीयोदयनीययोरदितिदेवताकश्चरुर्विहितस्तमिमं प्रशंसति॥ ( अदितेश्चरुप्रशंसनम् ) आदित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्या यज्ञस्य बर्सनद्वयै यज्ञस्याप्रस्त्रसाय ॥ १३ ॥
हिन्दी - (प्रथम खण्ड में विहित अदिति के चरु की प्रशंसा कर रहे हैं— ) आदित्यः चरुः प्रायणीय भवति प्रायणीयेष्टि में अदिति के लिए चरु होता है और आदित्यः उदयनीयः उदयनीयेष्टि में आदित्य के लिएं ( होता है ) (यह प्रारम्भ और अन्त में होने कारण) यज्ञस्य धृत्यै यज्ञ के धारण के लिए यज्ञस्य बर्सनबद्ध्यै यज्ञ की बर्स ( विशेष प्रकार की गाँठ ) को बाँधने के लिए और यज्ञस्य अप्रत्रवाय' यज्ञ की स्थिरता के लिए होता है । सा ० भा ०|-– सोमयागस्याऽऽदौ प्रायणीयेष्टिः । अन्ते चोदनीयेष्टिस्तयोरुभयोरयमंदि-तिदेवताकश्चरुः । सोऽयं तस्य यज्ञस्य धारणाय मण्याकारो ग्रन्थिविशेषः । तस्य बन्धनं तत्सिद्ध्यर्थमुभयत्राऽऽदित्यचरुकरणम्। बन्धनस्थानीयेन चरुणा यज्ञस्य धारणं सिध्यति । सति च धारणे यज्ञाङ्गं किंचिदपि स्रस्तं लुप्तं न भवति। ततो यज्ञस्याप्रस्त्रंसायोभयतञ्चरुः । अत्र दृष्टान्तमाह— तद्यथैवाद इति ह स्माऽऽह तेजन्या उभयतोऽन्तयोरप्रस्त्रंसाय बर्सी नह्यत्येवमेवैतद्यज्ञस्योभयतोऽन्तयोरप्रत्रंसाय बर्सी नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः ॥ १४ ॥
हिन्दी– ( इस विषय में दृष्टान्त कह रहे हैं - ) तद् एव अदः तो यह (दृष्टान्त) ह स्म आह (ब्रह्मवादियों द्वारा) कहा गया है कि यथा जिस प्रकार (लोक में) तेजन्याः उभयतः अन्तयोः रस्सी के दोनों किनारों पर अप्रस्त्रंसाय प्रकृष्ट रूप से नहीं सरकने के लिए बर्सी नह्यति ( एक-एक इस प्रकार दो मणि के आकार की ) गाँठ बाधते हैं एवमेव इसी प्रकार यद् आदित्यः चरुः प्रायणीयः जो (प्रारम्भ में ) प्रायणीयेष्टि में अदिति का चरु होता है और आदित्यः उदयनीयः भवति अन्त में उदयनीयेष्टि अदिति का चरु होता (१ ) बर्सेन बन्धनेन रज्ज्वादिना नर्द्धिः बर्सनर्द्धिः । यथा वंशादिकं रज्ज्वादिनोभयोरन्तयोर्बध्यते एवमेकया देवतया उभयोरन्तयोर्यज्ञो बध्यते'-इति भट्टभास्करः ।
पृष्ठ 146
पाठ पढ़ें पाठ छिपाएँ
: [: ८४ ऐतरेयब्राह्मणम् २ ५ प्रथमपञ्चिकायां है, एतद् यज्ञस्य उभयतः अन्तयोः यज्ञ के दोनों किनारों ( आदि और अन्त) में अप्रस्रंसाय ( यज्ञ को ) न सरकने के लिए बसौं नह्यति मणि के आकार वाली गाँठ बाँधता है। सा० भा ० - अदो वक्ष्यमाणं निदर्शनं यथा भवति तथा दान्तिकमित्येवं कश्चिद् ब्रह्मवाद्याह स्म तेजन्या इत्यादिना । तावेव दृष्टान्तदाष्टन्तिकौ स्पष्टीक्रियेते । तेजनी रज्जु- स्तस्या उभयोरन्तयोरप्रस्रंसाय विश्लेषनिवारणाय लौकिकः पुरुषो बर्सौ नह्यति मण्याकारौ ग्रन्थी बध्नाति । एवमेव चरुद्वयं यदस्ति तदेतद् यज्ञस्योपक्रमोपसंहाररूपयोरुभयोरन्त- योरशैथिल्याय मण्याकाररबन्धनस्थानीयं भवति ॥ येयं प्रायणीये पथ्याख्या प्रथमा देवताऽस्ति, उदयनीये तस्या उत्तमात्वमर्थवादेनोन्न- यति— पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति ॥ १४ ॥
हिन्दी - इतः इस ( आज्य हविष् वाले देवताओं) में पथ्यया स्वस्त्या 'पथ्या स्वस्ति' इस प्रकार प्रयन्ति प्रारम्भ करते हैं और पथ्यां स्वस्तिम् उद्यन्ति ' पथ्या स्वस्ति ' से समापन करते हैं । इस प्रकार स्वस्ति प्रयन्ति स्वास्ति से ही प्रारम्भ करते है और स्वस्ति उद्यन्ति स्वस्ति के साथ समाप्त करते हैं । सा० भा०— इतः शब्दः षष्ठ्यर्थे वर्तते । आसामाज्यहविष्कानां देवतानां मध्ये पथ्ययैव स्वस्त्यैतच्छब्दद्वयाभिहितयैव देवतया प्रयन्ति प्रारभन्ते प्रायणीये तां देवतां प्रथमं यजन्तीत्यर्थः । पथ्यां स्वस्तिमभिशब्दद्वयाभिहिता देवतामभिलक्ष्योद्यन्ति समापयन्ति। उदयनीये तां देवता- मुत्तमां यजन्तीत्यर्थः । स्वस्त्याख्याया देवताया आद्यन्तयोर्यागे। उदयनीये तां देवतामुत्तमां यजन्तीत्यर्थः । स्वस्त्याख्याया देवताया आद्यन्तयोर्यागे सति यजमाना ' इतः ' अस्मिन् कर्मणि' स्वस्त्ये क्षेम एव यथा भवति तथा प्रयन्ति प्रारभन्ते। तथा स्वस्त्युद्यन्ति क्षेमेण समापयन्ति। अभ्यासोऽध्यायसमाप्त्यर्थः ॥ अथ मीमांसा । एकादशाध्यायस्य द्वितीयपादे चिन्तितम्-- प्रायणीयस्य निष्कासे यो निर्वापोऽर्थकर्म तत् ॥ निष्कासप्रतिपत्तिर्वोदयनीयस्य संस्कृतिः ॥२१॥
उताऽऽद्यः पूर्ववन्मैवं मुख्यस्य प्रकृतत्वतः ॥ मध्योऽस्स्तु नोपयोक्तव्यसंस्कारस्य गुरुत्वतः ॥ २२ ॥
( १ ) ‘ इतो लोकाद्' इति भट्टभास्करगोविन्दस्वामिन्नौ। (२ ) जै ० न्या ० वि० ११.२.१६.६३-६६ ।
पृष्ठ 147
पाठ पढ़ें पाठ छिपाएँ
] ८५ द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम्: ज्योतिष्टोमे श्रूयते— ‘प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति' इति । ' अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयसमानधर्मकमन्यदर्थकर्मेत्याद्यः पक्षः। मुख्यस्योदयनीस्य प्रकृतत्वाद् भिन्नप्रकरणाम्नातावभृथधर्मातिदेशवदुदयनीस्य धर्मातिदेशस्याप्यसंभवान्नार्थकर्मत्वम् । यदि तर्हि निष्कासप्रतिपत्तिरिति मध्यमः पक्षोऽस्तु। सोऽपीत्थं न संभवति, उपयुक्तसंस्कारादुपयो- क्ष्यमाणसंस्कारस्य गरीयस्त्वात्। तस्माद् उदयनीयस्य संस्कारः ॥। इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण- भाष्ये प्रथमपञ्चिकायां द्वितीयाध्याये पञ्चमः खण्डः ॥५ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वितीय अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश'-नामभाष्ये ऐतरेयब्राह्मणस्य प्रथमपञ्चिकायाः द्वितीयोध्यायः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वितीय अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) तै० सं ० ६.१.५.५।
पृष्ठ 148
पाठ पढ़ें पाठ छिपाएँ
अथ प्रथमपञ्चिकायाम् तृतीयोऽध्यायः अथ प्रथमः खण्डः
सायणभाष्यम्— प्रायणीया तदङ्गं च देवतादिकमीरितम् ।
तथैवोदयनीया च तद्विशेषाश्च वर्णिताः ॥ १॥ १
अथ सोमप्रवहणाङ्गमन्त्रादयो वक्तव्याः । तत्राऽऽद्रौ सोमक्रयणस्य दिशं विधत्ते— ( सोमक्रयदिनिरूपणम्) प्राच्यां वै दिशि देवाः सोमं राजानमक्रीणंस्तस्मात् प्राच्यां दिशि क्रीयते ॥ १ ॥
हिन्दी-( अब सोम प्रवहण के अङ्गभूत मन्त्रों को कहने के लिए सर्वप्रथम सोमक्रय की दिशा का विधान कर रहे हैं - ) देवाः देवताओं ने प्राच्यां वै दिशि (प्राचीनवंश से) पूर्व दिशा में राजानं सोमम् राजा सोम को अक्रीणन्ं खरीदा था तस्मात् इसी कारण प्राच्यां दिशि पूर्व दिशा में क्रीयते (सोम) खरीदा जाता है । सा ० भा ० — प्राचोनवंशात् पूर्वस्यां दिशि देवैः पुरा सोमस्य क्रीतत्वादृत्विग्भिरपि तथा सोमः क्रेतव्य इत्यर्थः । प्रसङ्गात् सोमविक्रयिणः प्रत्यवायं दर्शयति— तं त्रयोदशान् मासादक्रीणंस्तस्मात् त्रयोदशो मासो नानुविद्यते, न वै सोमविक्रय्यनुविद्यते पापो हि सोमविक्रयी ॥ २ ॥
हिन्दी – (प्रसङ्गवश सोम-विक्रेता के प्रत्यवाय को दिखला रहे हैं - ) तम् उस ( सोम) को देवताओं ने ) त्रयोदशान् मासाद् अक्रीणन् तेरहवें महीने से खरीदा था तस्मात् इसी कारण त्रयोदशो मासः तेरहवाँ महीना ( अधिमास ) नानुविद्यते अनुकूल नहीं होता । सोमविक्रयी वै सोम का विक्रेता भी नानुविद्यते शिष्टाचार के अनुकूल नहीं होता ( १ ) द्वितीयाध्यायार्थसङ्ग्रहश्लोक एषः । तत्र पञ्चसु खण्डेसु क्रमात् १ – प्रायणीयेष्टिः, २- प्रयाजाहुतिरूपं प्रायणीङ्गकर्म, ३– प्रायणीयदेवतादिकम्, ४– उदयनीयानुष्ठेयविशेषाश्चेति पञ्चार्था उपदिष्टा इत्यर्थः । ( २ ) सोमक्रयाख्यायिकादिकं तु पञ्चमे वक्ष्यति; सोमक्रयप्रकारादयस्त्वाध्वर्यवेषु विशेषतः श्रुताः ।
पृष्ठ 149
पाठ पढ़ें पाठ छिपाएँ
: ] ८७ तृतीयोऽध्यायः प्रथमः खण्ड सायणाचार्यकृतभाष्योपेतम्: अतः सोमविक्रयी हि पापः सोमविक्रेता भी पापी होता है । सा० भा० – पुरा संवत्सरस्य त्रयोदश मासाः सन्ति नेदानीम्। देवास्त्रयोदशस्य मासस्याभिमानिनः पुरुषात् तं सोमं क्रीतवन्तः । यस्मात् तदभिमानी पुरुषः सोमविक्रयी तस्माल्लोके तदीयस्त्रयोदशमासो नानुविद्यते शुभकर्मानुकूलो नास्ति। मेषादिसंक्रान्त्यादि- रहितत्वान् मलमास इत्यभिप्रेत्य तस्मिन् मासे शिष्टाः शुभकर्माणि वर्जयन्ति। अत एवेदानी- मपि सोमविक्रयी शिष्टाचारस्यानुकूलो नैव विद्यते। सोमविक्रयिणः पापरूपत्वे श्रुत्यन्तर- प्रसिद्धिद्योतनार्थो हिशब्दः । अत एव श्रुत्यन्तरे तद्विषयो मन्त्र एवं व्याख्यायते— ' अस्मे ज्योतिः सोमविक्रयिणि तम ' इत्याह । ज्योतिरेव यजमाने दधाति। तमः सोमविक्रयिणमर्प- यति' २ इति। अत्र तमः शब्दः पापवाची । क्रयादूर्ध्वं प्राचीनवंशं प्रति नीयमाने सोमे पठितव्यानामृचामष्टसंख्यामादौ प्रशंसति- ( प्राचीनवंशं प्रति नीयमाने सोमे पठितव्यानामृचामष्टसंख्यानां प्रशंसनम् ) तस्य क्रीतस्त मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदंस्तान्येकयर्चाऽवारुरुत्सन्त तानि नाशक्नुवंस्तानि द्वाभ्यां तानि तिसृभिस्तानि चतसृभिस्तानि पञ्चभिस्तानि षड्भिस्तानि सप्त- भिर्नैवावावरुन्धत तान्यष्टाभिरवारुन्धताष्टाभिराश्नुवत यदष्टाभिर- वारुन्धताष्टाभिराश्नुवत तदष्टानामष्टत्वम् ॥ ३ ॥
हिन्दी-( सोम खरीदने के बाद उसे प्राचीनवंश के प्रति ले जाये जाने पर पठनीय आठ ऋचाओं की आठ संख्या की प्रशंसा कर रहे हैं- ) क्रीतस्य सोमस्य मनुष्यान् अभ्युपावर्तमानस्य (उस) खरीदे गये और (खरीदने वाले यजमान) मनुष्यों के समीप आने वाले सोम के वीर्याणि इन्द्रियाणि वीर्य (बल प्रदान का सामर्थ्य ) और इन्द्रियों की पटुता दिशः व्युदसीदन् दिशाओं में व्याप्त ( समाहित) हो गयी । तानि उन ( वीर्य और इन्द्रिय पटुत्व) को एकया ऋचा एक ऋचा द्वारा अवारुरुत्सन्त ( यजमानों ने ) रोकने का प्रयत्न किया किन्तु तानि न अशक्नुवन् उनको (रोकने में ) असमर्थ हो गये। तानि ( १ ) तै० सं ० १.२.७। (२ ) तै ० सं ० ६.१.१०.४ । ( ३ ) ' अस्मे ज्योतिः’— इत्येकः, 'सोमविक्रयिणि तमः' - इत्यपरः, तैत्तिरीयके श्रूयते । सं ० १.२.७ । तयोरेव व्याख्यानायेदं ब्राह्मणम्। तत्राद्यस्य विनियोग एवं प्रोक्त आपस्तम्बेन 'अस्मे ज्योतिरिति शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति इत्यादि ( १०.२६.११ ), द्वितीयस्य चैवम्— ‘ कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वेदमहं सर्पाणां दन्दशूकानां ग्रीवा I उपग्रथ्नामीत्युपग्रथ्य तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तम इति' - इति ( १४ ) ‘ अविलोमभिर्निर्मितस्तन्तुः, ऊर्णास्तुका’—इति तै ० सा० भा ० ।
पृष्ठ 150
पाठ पढ़ें पाठ छिपाएँ
: [ ८८ ऐतरेयब्राह्मणम् ३.१ प्रथमपञ्चिकायां द्वाभ्याम् उनको दो (ऋचाओं) द्वारा, तानि तिसृभिः उनको तीन (ऋचाओं) द्वारा, तानि चतसृभिः उनको (चार ऋचाओं) द्वारा, तानि पञ्चभिः उनको पाँच (ऋचाओं) द्वारा, तानि षड्मिः उनको छः (ऋचाओं ) द्वारा और तानि सप्तभिः उनको सात (ऋचाओं) द्वारा ( रोकने का प्रयत्न किया, किन्तु) न एव अवरुन्धन्त (उनको ) नहीं रोक सके । तानि अष्टाभिः अवरुन्धन्त उनकों आठ (ऋचाओं) से रोक लिया और अष्टाभिः आश्नुवत और आठ (ऋचाओं) से प्राप्त कर लिया । यद् अष्टाभिः अवारुन्धत जो आठ (ऋचाओं) से रोका और अष्टाभिः आश्नुवत आठ (ऋचाओं) से प्राप्त किया तद् अष्टानाम् अष्टत्वम् वही आठ का (प्राप्त करने के कारण अश् धातु से ) अष्टत्व है । सा० भा ० --– क्रीतः सोमो यदा मनुष्यान् यजमानादीनभिलक्ष्यागच्छति तदानीं तस्य सोमस्य दिगादीनि व्युदसीदन् विशेषेणोत्सन्नान्यभवन्। दिक्शब्देनाधिष्ठानमुपलक्ष्यते । सोमं नेतुं यदधिष्ठानं यच्च वीर्यं सोमनिष्ठं बलप्रदानसामर्थ्यं यच्चेन्द्रियचक्षुरादिपाटवहेतुत्वं तत्सर्वं विनष्टम्। तदानीं ते यजमाना ये मनुष्यास्तानि दिगादीन्येकयर्चाऽवरोद्धुं स्वाधीनं कर्तुमैच्छत्। ततस्तान्यवरोद्धुं नाशक्नुवन्। एवं द्वित्वादिसप्तपर्यन्तया मन्त्रसंख्यया नैवा- वरोधं कृतवन्तः । अष्टसंख्यया त्ववरोधं कृतवन्तः । अष्टसंख्यया त्ववरोधं कृत्वा तानि दिगादीनि प्राप्तवन्तः । अष्टसंख्यया तस्मादवरुध्यन्त। एभिर्नश्यन्तेऽश्नुवत एभिरिति वा व्युत्पत्त्याऽष्टशब्दो निष्पन्नः॥ एतद् वेदनं प्रशंसति— अश्नुते यद्यत्कामयते य एवं वेद ॥४ ॥
हिन्दी –(इस ज्ञान कर प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता
है वह यद् यत् कामयते जो जो कामना करता है, अश्नुते (उसको ) प्राप्त करता है ।
सा० भा०--तत्काम्यमश्नुत इति योज्यम् ॥
इदानीमष्टसंख्या विधत्ते- तस्मादेतेषु कर्मस्वष्टावष्टावनूंच्यन्त इन्द्रियाणां वीर्याणामवरुद्ध्यै ॥ ५ ॥
हिन्दी — तस्मात् इसी कारण एतेषु कर्मसु इन कर्मों में इन्द्रियाणां वीर्याणाम् अवरुद्ध्यै इन्द्रिय - सामर्थ्य और बल की प्राप्ति के लिए अष्टौ अष्टौ अनूच्यन्ते आठ - आठ (ऋचाओं ) का पाठ (होता द्वारा ) किया जाता है । सा ० भा० – इदानीं प्रस्तुतं सोमप्रवहणाख्यं यत्कर्म तत्र करिष्यमाणं कर्मान्तरं तथाविधेषु प्रत्येकमष्टावष्टावृचो होताऽनुब्रूयात् । तथाऽष्टसंख्ययेन्द्रियाणि वीर्याणि चाव-रुद्धानि भवन्ति ॥ ( १ ) तत्र सोमप्रवहण्यो नामाष्टौ ऋच उत्तरस्मिन्नेव खण्डे विधास्यन्ते ।