ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 151–160

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 151–160

पृष्ठ 151

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]:तृतीयोऽध्यायः द्वितीयः खण्ड सायणाचार्यकृतभाष्योपेतम् ८ ९ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य तृतीयाध्याये प्रथमः खण्डः ॥१ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के तृतीय अध्याय के प्रथम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः मन्त्रगतां संख्यां विधाय तन्मन्त्रान् विधातुमादौ प्रैषमन्त्रं विधत्ते- ( सोमप्रवहणीनां प्रैषमंन्त्रः ) सोमाय क्रीताय प्रोह्यमाणायानुब्रू ३ हीत्याहाध्वर्युः ॥१ ॥

हिन्दी - ( मन्त्रों की संख्या का विधान करके उन मन्त्रों का विधान करने के लिए पहले प्रैषमन्त्र का विधान कर रहे हैं — ) क्रीताय प्रोह्यमाणाय सोमाय (हे होता! ) खरीदे गये और (प्राचीनवंश के समीप) लाये जाते हुए सोम के लिए अनुब्रूहि अनुकूल (ऋचा ) का शंसन करो - इत्याह अध्वर्युः अध्वर्यु (होता से ) इस (प्रैष मन्त्र ) को कहता है। सा० भा० - यः सोमः क्रीतः स क्रयदेशात् प्राचीनवंशं प्रति प्रोते नीयते तदर्थ-मनुकूला ऋचो हे होतरनुक्रमेण ब्रू३हि । तमेवं प्रैषमन्त्रमध्वर्युः पठेत्। अथ होतुः प्रथमामृचं विधत्ते— ( सोमप्रवहणीयानामष्टमन्त्राणां निर्देशनम् ) भद्रादभि श्रेयः प्रेहीत्यन्वाह ॥ २ ॥

हिन्दी-( होता द्वारा पाठ किये जाने वाली प्रथम ऋचा का विधान कर रहे हैं— ) ‘ भद्रादभि श्रेयः प्रेहि' इत्यन्वाह इस ऋचा का ( होता) अनुवाचन करता है । विमर्श-( १ ) भद्रादभि श्रेयः ऋचा इस प्रकार है- भद्रादभि श्रेयः प्रेहि बृहस्पतिं पुर एता ते अस्तु । अथेमवस्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः ॥ अर्थात् हे सोम! मङ्गलकारी ( भूलोक रूपी क्रयस्थान) से श्रेष्ठ (स्वर्गलोक स्थानीय प्राचीनवंश) को अभिलक्षित करके प्रकर्षरूप से जाओ। बृहस्पति तुम्हारे आगे - आगे चलने वाले होवे । ( जाने के बाद ) पृथिवी के चारो ओर श्रेष्ठ अपने अवस्थान के योग्य स्थान का चयन करो । हे सर्ववीर! तुम पापरूप शत्रुओं को दूर करो। ऐ.ब्रा. पू- ६

पृष्ठ 152

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ९ ० ऐतरेयब्राह्मणम् ३.२ प्रथमपञ्चिकायां सा० भा--सेयमृक्तैत्तिरीयशाखायामेवमाम्नाता'– ‘ भद्रादभि श्रेय: प्रेहि बृहस्पति पुर एता ते अस्तु । अथेमवस्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः ॥ इति । तस्यायमर्थ: -हे सोम भद्रान् मङ्गलाद् भूलोकरूपात् तस्मात् क्रयदेशाच्छ्रेयः श्रेष्ठं स्वर्गलोकस्थानीयं प्राचीनवंशदेशमभिलक्ष्य प्रेहि प्रकर्षेण गच्छ । तथा गच्छतस्ते बृह- स्पतिः पुर एता पुरतो गन्ताऽस्तु । अथ गमन्तदूर्ध्वं पृथिव्याः सम्बन्धिन्या समन्ताद् वरे श्रेष्ठे देवयजन ईमवस्येदं तवावस्थानयोग्यं स्थानं निश्चिनु । सर्वेभ्यो वीरः शूरस्त्वं शत्रून् पापरू- पान् यज्ञविद्वेषिण आरे कृणहि पूरे कुरु निराकुर्वित्यर्थः ॥ तस्यामृचि प्रश्नपादं व्याचष्टे— सवाव लोको भद्रस्तस्मादसावेव लोकः श्रेयान् स्वर्गमेव तल्लोकं यजमानं गमयति ॥३ ॥

हिन्दी— ( उपर्युक्त ऋचा के प्रथम पाद का व्याख्यान कर रहे हैं — अयं वाव लोकः भद्रः यह लोक ही मङ्गलयुक्त है । अतः तस्मात् इस लोक से असौ एव लोकः श्रेयान् यह ( स्वर्गलोक ) ही श्रेष्ठ है । (उस प्रथमपाद के पाठ के द्वारा होता) यजमानम् यजमान

को तल्लोकम् स्वर्गमेव उस स्वर्ग लोक को गमयति भेजता है।

सा० भा० –- तत्तेन प्रथमपादपाठेन। स्पष्टमन्यत् ॥

द्वितीयपादमनूद्य व्याचष्टे— बृहस्पतिः पुर एता ते अस्त्विति ब्रह्म वै बृहस्पतिब्रह्मैवास्मा एतत्पुरोगवमकर्ण वै ब्रह्मण्वद्रिष्यति ॥४ ॥

हिन्दी -( द्वितीय पाद को कहकर उसका व्याख्यान कर रहे हैं — ) 'बृहस्पतिः पुर एता ते अस्तु' अर्थात् बृहस्पति तुम्हारे आगे आगे चलें' इति ( यहाँ प्रयुक्त बृहस्पति शब्द) है । ब्रह्म वै बृहस्पतिः ब्रह्म ही बृहस्पति है। एतत् इसके प्रयोग से ब्रह्म एव ब्रह्म को ही अस्मै इस ( यजमान) के लिए पुरोगवम् पुरोगामी अकः करता (बनाता) है । ब्रह्मण्वत् ब्रह्म से युक्त ( कर्म ) न वै रिष्यति विनष्ट नहीं होता है । सा० भा ० — बृहस्पतेर्ब्रह्मत्वं ब्राह्मणजातिमत्त्वं 'ब्रह्म वै देवानां बृहस्पतिः ' इत्यादिश्रुत्यन्तरे' प्रसिद्धम्। एतदेतेन द्वितीयपादपाठेनास्मै यजमानार्थं ब्रह्मैव ब्राह्मणमेव ( १ ) न तु स्वशाखीयेति यावत्। अत एवाश्वलायनेन प्रपठ्य विहितः, न तु प्रतीकग्रहणमात्रेणेति द्रष्टव्यम् ( आश्व० श्रौ ० ४.४.२ )। एषा शैली कल्पसूत्रकाराणां प्रायः सर्वत्रैव । ( २ ) तै ० सं ० १.२.३.३ । ( ३ ) तै ० सं० २.२.९.९। इहाव्युपरिष्टात्' ब्रह्म वै बृहस्पतिः, क्षत्रं सोम आसीत्' इति २.५.६ ।

पृष्ठ 153

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ९ १ पुरोगवं पुरोगन्तारमकः करोति। ब्रह्मण्वद् ब्राह्मणसहायोपेतं कर्म न वै रिष्यति सर्वथा नाशं न प्राप्नोति ॥ तृतीयपादमनूद्य व्याचष्टे— अथेमवस्व वर ओ पृथिव्या इति देवयजनं वै वरं पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून् कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानं भ्रातृव्यमपबाधतेऽ घरं पोदयति ॥ ५ । हिन्दी–( तृतीय पाद को कहकर उसका व्याख्यान कर रहे हैं - ) ' अथेमवस्य वर आ पृथिव्याः ’ अर्थात् ‘ पृथिवी के वरणीय स्थान में इसे स्थापित करों ' इति यहाँ देवयजनं वै पृथिव्याः वरम् देवयजन ( नामक स्थान-विशेष) ही पृथिवीका वरेनीय स्थान है । तद् इस ( पाठ ) से देवयजने एव देवयजन (स्थान ) में ही एनम् इस ( सोम) कोअरसाययत स्थापित करता है। ( चतुर्थ पाद में ) ' आरे शत्रून् कृणुहि सर्ववीरः ' अर्थात् ' सर्ववीर! जुम पापरूप शत्रुओं को दूर करो' इति इस ( पाठ ) से अस्मै इस ( यजमान) के द्विषन्तम् द्वेषे करने करने वाले और पाप्मानं भ्रातृव्यम् पापी भातृव्य ( बान्धव ) को अपबाधते विनष्ट कर देता है तथा अधरं पादयति निम्नस्थान में गिरा देता है । सा० भा ० — देवयजनाख्यस्य यागदेशस्य पृथिवीसंबन्धिश्रेष्ठस्थानत्वात् तत्रैवैनं सोमं तत्तेन तृतीयपादपाठेनास्मै यजमानाय द्वेषं कुर्वन्तं पापरूपं शत्रुमपबाधते । अधरं पादयतीति । निकृष्टं पदं प्रापयतीत्यर्थः ॥ होत्राऽनुपक्तव्या द्वितीयाद्यास्तिस्र ऋचो विधत्ते— सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति ॥ ६ ॥

हिन्दी– ( अब होता द्वारा पठित द्वितीय, तृतीय और चतुर्थ ऋचा को कह रहे हैं— ) 'सोम आस्ते मयोभुव: ' इति गायत्र्यं सौम्यं तृचम् इस गायत्री छन्दस्क सोम देवता वाले तृच का अन्वाह अनुवाचन करता है। इस प्रकार सोमे राजनि प्रोह्यमाणे सोम राजा के ले जाने के समय स्वया एव देवतया अपने ही अर्थात् सोम देवता वाले और स्वया एव छन्दसा अपने ही छन्द (गायत्री ) से समर्धयति समृद्ध करता है । सा० भा० - तिसृणामृचां संवातस्तृच: ' स च सोमदेवताको गायत्रीछन्दस्कश्च सोमानयनकाले तं तृचमनुब्रूयात् । तत्तेनानुवचनेन स्वात्मरूपया देवतया स्वकीयच्छन्दसा चैनं सोमं समृद्धं करोति । अत्र नीयमानद्रव्यविशेषः सोमो मन्त्रदेवताऽप्यसावेव तस्मात् ( १ ) 'ऋचित्रेरुत्तरपदादिलोपश्च छन्दसि' – इति पा० सू० ६.१.३४ वा १ । ( २ ) स च तृचः ऋ० सं० १.९१.९ -११ । आश्वलायनेनाप्य. विहितः (४.४.४ )।

पृष्ठ 154

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ९ २ ऐतरेयब्राह्मणम् ३.२ प्रथमपञ्चिकायां स्वात्मरूपत्वं गायत्री द्युलोकात् सोममानीतवतीति तैत्तिरीयाः कद्रुश्चेत्यनुवाके समामनन्ति । तस्माच्छन्दसः स्वकीयत्वम् ॥ पञ्चमीमृचं विधत्ते— सर्वे नन्दन्ति यशसाऽऽगतेनेत्यन्वाह ॥७॥

हिन्दी–( पञ्चमी ऋचा को कह रहे हैं - ) 'सर्वे नन्दन्ति यशसाऽऽगतेन अर्थात् सभी यजमान इत्यादि यशरूप में प्राप्त सोग से आनन्दित होते हैं' इत्यन्वाह इस ऋचा को पढ़ता है। सा ० भा ० — सा - संहितायामेवमाम्नाता- म्चे नन्दन्ति यशसाऽऽगतेन सम A पख्या सखायः । किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥ इति । तस्या ऋचोऽयमर्थ: -सर्वे सखायो यजमानप्रभृतयः ' सख्या' सोमरूपेण नन्दन्ति तुष्यन्ति। कीदृशेन सख्या। ' यशसा' यशोहेतुना। आगतेन समीपं प्राप्तेन। ' सभासाहेन' विद्वत्सभां विद्याप्रसङ्गेन सहतेऽभिभवति सभासहस्तादृशेन। स तादृशः सोमरूप: सखैषामृत्विग्यजमानानां ‘किल्बिषस्पृत्' किल्बिषात् पापात् स्पृणोति पालयति किल्बिष- स्पृत्। पितुशब्दोऽन्नवाची । ' तस्य सनिर्दानं येन सोमेन लभ्यते सोऽयं 'पितुषणिः ' । सोमस्य पापनिवारकत्वमन्नप्रदानेन सर्वशास्त्रप्रसिद्धिद्योतनार्थो हि शब्दः । तथाऽयं सोमो वाजिन- शब्दाभिधेयेन्द्रियाय वीर्याय वाऽरं हितोऽलमत्यन्तहितो भवतीति॥ तस्या ऋचः प्रथमं पादं व्याचष्टे— यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न ॥८ ॥

हिन्दी– (इस ' सर्वे नन्दन्ति' ऋचा के प्रथम पाद की व्याख्या कर रहे हैं- ) यशो वै सोमो राजा सोम राजा ही यशरूप हैं। एतेन क्रीयमाणेन इस क्रय किये जाते हुए सोम से यः च यज्ञे लप्स्यमानः जो (ऋत्विक्) यज्ञ में धन करने वाले है यश्च न और जो ( धन प्राप्त करने वाले ) नहीं हैं सर्वे वै नन्दन्ति सभी प्रसन्न होतेहैं । सा० भा० – यशःकारणात् सोमस्य यशस्त्वम्। यः पुमानृत्विग् सोमक्रयणं दृष्ट्वा तुष्यति ॥ लप्स्यते यश्च द्रष्टुमागतो न तु धनार्थी सर्वोऽप्यसौ भूत्वा यज्ञे धनं ( १ ) तै० सं० ६.१.६.१ । तथा शतपथेऽपि द्रष्टव्यम्- दिवि वै सोम आसीत्( ) - २ ऋ० १० ७१.१० । इत्यादि ३.२.४ । ( ३ ) पितुरित्यन्ननाम; पातेर्वाः पिबतेर्वा प्यायतेर्वा ' - इत्यादि निरु० ९.२४ । ( ४ ) यश्च यज्ञे भागं लभते देवतात्वेन कर्तृत्वेन वा यश्च न लभते स सर्व: -इति गोविन्दस्वामी ।

पृष्ठ 155

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ९ ३ द्वितीयपादमनूद्य व्याचष्टे— सभासाहेन संख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा ॥९ ॥

हिन्दी - (द्वितीयपाद को दिखला कर उसकी व्याख्या कर रहे हैं - ) 'सभासाहेन संख्या सखायः ' अर्थात् ( यह सोम) ब्राह्मणसभा में प्रधानता को प्राप्त करता है इति यहाँ यत् सोमः राजा जो सोम राजा है, एषः वै सखा ब्राह्मणानां सभासाहः यह ( सोम) ही ब्राह्मणों की सभा में प्रधान मित्र होता है । सा० भा ० — योऽयं राजमानः सोमः सोऽयं ब्राह्मणसभामभिभवति । सर्वे ब्राह्मणाः सोमाधीना भवन्तीत्यर्थः ॥ तृतीयपादे प्रथमं पदमनूद्य व्याचष्टे- किल्बिषस्पृदित्येष उ एवं किल्बिषस्पृत्' ॥ १० ॥

हिन्दी- ( तृतीय पाद के प्रथम शब्द 'किल्विषस्पृत्' को कहकर उसकी व्याख्या करे रहे हैं — ) किल्बिषस्पृत् (ऋचा के तृतीय पाद में ) किल्बिषस्पृत् अर्थात् पाप को विनष्ट करने वाला ( प्रयुक्त है ) । एषः उ एव किल्बिषस्पृत् यह (सोम) ही ( यश के द्वारा) पापों (दोषों ) को विनष्ट करने वाला है । सा० भा० — योऽयं सोमोऽस्ति एष उ एव किल्बिषात् ( स्पृणोति ) पालयति सर्वकामहेतोः सोमयागस्य पापक्षयायानुष्ठातुं शक्यत्वात्॥ यज्ञानुष्ठाने च प्रवृत्तानामृत्विग्यजमानानां कः किल्बिषप्रसङ्ग इत्याशङ्क्याऽऽह— यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषं भवति ॥ ११ ॥

हिन्दी - ( यज्ञ के अनुष्ठान में प्रवृत्त ऋत्विक् और यजमानों में दोष को कह रहे हैं - ). यः वै जो ( पुरुष) भवति (यज्ञ में प्रवृत्त) होता है और यः श्रेष्ठताम् अश्नुते जो (वहाँ भी ) श्रेष्ठता को प्राप्त कर लेता है सः वह ( पुरुष ) किल्विषं भवति (यज्ञ के समापन की व्यग्रता के कारण मन्त्र का अभीष्टोच्चारण न करता हुआ) दोष का भागी होता है। सा० भा ० - यः पुमान् प्रौढे यज्ञे प्रवृत्तो भवति तत्रापि यः श्रेष्ठतां प्रयोगपाटवाभिमान- मश्नुते प्राप्नोति स तादृशः पुरुषः कर्मसमाप्तिव्यग्रतया पण्डितंमन्यत्वेन वाग्वैकल्यं कुर्वन् किल्बषं भवति पापं प्राप्नोति॥ तमेतं पापप्रसङ्गं विस्पष्टयति- ( १ ) किल्बिषस्पृक् किल्बिषो यजमानः विपरीतलक्षणया अकिल्बिषः । अन्धः सहस्राक्ष इतिवत्। तं स्पृशतीति सोमः किल्बिषस्पृक् -इति गोविन्दस्वामी।

पृष्ठ 156

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ९४ ऐतरेयब्राह्मणम् ३.२ प्रथमपञ्चिकायां ( व्यप्रतयानुष्ठानस्य निषेधः ) तस्मादाहुर्माऽनुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति ॥ १२ ॥

हिन्दी – तस्माद् आहुः इसी दोष की सम्भावना के कारण ( यजमान ) कहते हैं कि मा अनुवोचः (हे होता! चञ्चल मन से पुरोनुवाक्या का) अनुवाचन मत करो और मा प्रचारी (हे अध्वर्यु! व्यग्रता के साथ) यज्ञ का विस्तार ( सम्पादन) मत करो जिससे किल्बिषं मा नु यातयन् (क्षिप्रता के कारण गज्ञ) दोष को न प्राप्त कर सकें । सा० भा ० — यस्मादृत्विजां किल्बिषं संभाव्यते तस्माद्यजमाना एवमाहुर्हे होतस्त्वं माऽनुवोचोऽन्यचित्तः सन् पुरोनुवानां मा पठ। हेऽध्वर्यो मा प्रचारीर्व्यग्रतया प्रचारमन्यथाऽ- नुष्ठानं मा कार्षीः । नु क्ष्क्षिषं कुर्वन्तो भवन्तः किल्बिषं मा यातयन्मा प्राप्नुवन्तः । इतिशब्दो

यजमानानामुक्तिम्भाप्तौ । इत्थं संभावितात् किल्बिषात् सोमः पालयति॥

थपादे द्वितीयपदमनूद्य व्याचष्टे- पितुषणिरित्यन्नं वै पितु, दक्षिणा वै पितु, तामेनेन सनोत्यन्नसनि- मेवैनं तत्करोति ॥ १३ ॥

हिन्दी— ( तृतीय पाद के द्वितीय पद का व्याख्यान कर रहे हैं - ) पितुषणिः (तृतीय पाद का द्वितीय शब्द ) पितुषणिः है जिसमें अन्नं वै पितु पितु शब्द अन्न का वाचक है। दक्षिणा वै पितु पितु का अर्थ दक्षिणा भी है । एनेन इस ( सोमयाग कराने ) के कारण (ऋत्विकों को यजमान ) ताम्ं सनोति उस (दक्षिणा ) को देता है । तत् इसी (पितुः शब्द के पाठ ) द्वारा अन्नसनिम् एव ( सोमरूप) अन्नदान का निमित्त भूत करोति बनाता है। सा० भा० – अन्नवाची पितुशब्दो लब्धव्यत्वसाम्याद्दक्षिणामप्युपलक्षयति। तां दक्षि- णामेतेन सोमेन निमित्तभूतेन सनोति ऋत्विग्भ्यो ददाति। तत्तेन पितुशब्दपाठेनैनं सोमामन्न- सनिमन्नदाननिमित्तभूतमेव करोति॥ चतुर्थं पादमनूद्य तत्र वा वाजिनशब्दं व्याचष्टे— अरं हितो भवति वाजिनायेतीन्द्रियं वै वीर्यं वाजिनम् ॥ १४ ॥

हिन्दी –( चतुर्थ पाद के वाजिन शब्द का व्याख्यान कर रहे हैं - ) अरं हितो भवति वाजिनाय' इति इस ( चतुर्थ पाद में ) वाजिनम् इन्द्रियं वीर्यं वै वाजिन् शब्द का अर्थ हैं— इन्द्रियों की शक्ति । वेदनं प्रशंसति— आजरसं हास्मै वाजिनं नापच्छिद्यते य एवं वेद ॥ १५ ॥

हिन्दी -- ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को) जानता है अस्मै इस ( जानने वाले) के लिए आजरसम् वृद्धावस्था तक वाजिनं न

पृष्ठ 157

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ९ ५

अपच्छिद्यते इन्द्रिय और बल क्षीण नहीं होता है ।

सा ० भा ० – जरासमाप्तिर्यन्तं वेदितुरिन्द्रियवीर्ययोरपच्छेदो न भवति॥

षष्ठीमृचं विधत्ते— आगन् देव इत्यन्वाह ॥ १६ ॥

हिन्दी–( षष्ठी ऋचा को कहे रहे हैं - ) आगन् देव ' इति अन्वाह (होता) इस ऋचा का वाचन करता है। विमर्श - ( १ ) आगन् देव (ऋ ० ४.५३.७) ऋचा इस प्रकार है—

आगन् देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुजामिषम् ।

स नः क्षपाभिरहमिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्स्तु ॥

अर्थात् सोम देव इस कर्म में आवें । ( आकर ) ऋतुओं के साथ निवेापस्थान को समृद्ध करें । हमारे प्रेरक वे सोम देव हम लोगों को रात्रि और दिन के द्वारा प्रसन्नतो दान करे तथा सन्तान से युक्त धन हमारे लिए सम्यक् रूप से प्राप्त करावे । सा० भा० – स च मन्त्रः संहितायामाम्नात: -- ' आगन् देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् । स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु' ॥ इति। तस्यायमर्थः – सोमो ' देव' आगन्निह कर्मण्यागच्छतु। आगत्य च 'ऋतुभिः' सह ‘ क्षयं ’ निवासथानं ‘ वर्धतु’ वृद्धिं प्रापयतु । नोऽस्माकं 'सविता' प्रेरकः स देवः ' सुप्रजां' शोभनापत्यमिषमन्नं च ‘ दधातु' सम्पादयतु । स देवो नोऽस्मान् क्षपाभिरात्रिभिरहोभिश्च ‘जिन्वतु ' प्रीणयतु। तथा प्रजोपेतं धनमस्मे समिन्वत्वस्मासु सम्यक् प्रापयत्विति॥ अस्या ऋचः प्रथमपादे पूर्वभागं व्याचष्टे— आगतो हि स तर्हि भवति ॥ १७ ॥

हिन्दी- तर्हि क्रय करने के बाद सः आगतः हि भवति वह ( सोम ) आ गया रहता है ।

सा० भा ० - तर्हि तस्मिन् क्रयोत्तरकाले स सोम आगतो भवतीति प्रसिद्धम् ॥

उत्तरभागमनूद्य व्याचष्टे— ऋतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहाऽऽगमयति ॥ १८ ॥

हिन्दी –(ऋचा के प्रथम पाद के उत्तरभाग को कहकर उसका व्याख्यान कर रहे ( १ ) ऋ० ४.५३.७ /

पृष्ठ 158

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ९ ६ ऐतरेयब्राह्मणम् ३.२ प्रथमपञ्चिकायां हैं— ) ऋतुभिर्वर्धतु क्षयम् अर्थात् 'ऋतुओं के साथ निवास स्थान को समृद्ध करो' इति यहाँ ऋतवः ऋतुएँ सोमस्य राज्ञः राजभ्रातरः राजा सोम के राज- भ्राता हैं। यथा जिस प्रकार ( लोक में ) मनुष्यस्य मनुष्य का ( मनुष्य जातीय भाई होता है ) । तत् उस (मन्त्र के वाचन ) से ( होता) तैः सह उन (ऋतुओं ) के साथ एनम् इस ( सोम) को आगमयति (इस कर्म में ) ले आता है। सा ० भा ० - यथा लोके कस्यचित्मनुष्पस्य भ्रातरोऽपि मनुष्यजातीयास्तथा राज- जातीयस्य सोमस्य भ्रातरोऽपि राजजातीयाः । तत्तेन मन्त्रभागपाठेन तैर्ऋतुभिर्भ्रातृभिः सहैनं वोममस्मिन् कर्मण्यागमयति ॥ द्वितीयपादमनूद्य द नः सविता सुप्रजामिषमित्याशिषमाशास्ते ॥ १ ९ ॥ ॰हन्दी— ( द्वितीय पाद को कहकर उसकी व्याख्या कर रहे हैं— ) ‘ दधातु नः सविता प्रजामिषम्' अर्थात् सविता देव हमें सुप्रजा और अन्न प्रदान करें' इति आशिषम्

आशास्ते इस ( वाचन' द्वारा होता) अपने आशीर्वचन को व्यक्त करता है ।

सा ० भा ० – आशासनीयोपेक्षणीयः प्रजादिपदार्थ आशीस्तामनेन पादपाठेनाऽऽ- शास्ते ॥

तृतीयपादमनूद्य व्याचष्टे— ‘ स नः क्षपाभिरहभिश्च जिन्वतु' इत्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते, ' प्रजावन्तं रयिमस्मे समिन्वतु' इत्याशिषमेवाऽऽशास्ते ॥ २० ॥

हिन्दी— ( ऋचा के तृतीय और चतुर्थ पाद को कहकर उसकी व्याख्या कर रहे हैं— ) ' स नः क्षपाभिरहभिश्च जिन्वतु' अर्थात् वे ही देव रात और दिन ( धनादि) से हमे प्रसन्न करें' इति अहानि वै अहानि यहाँ अहः शब्द दिन और रात्रयः क्षपा क्षपा रात्रि का वाचक है अत: अहोरात्रैरेव दिन और रात्रि के द्वारा ही अस्मै इस ( यजमान ) के लिए एताम् आशिषं आशास्ते इस आशीर्वाद की कामना करता है । 'प्रजावन्तं रयिमस्मे समिन्वतु' अर्थात् प्रजा से युक्त धन हमारे लिए प्रहान करें ' इत्याशिषमेव आशास्ते इस ( चतुर्थ पाद द्वारा भी यजमान के लिए होता) आशार्वाद की कामना करता है । सा ० भा ० — लोकप्रसिद्धान्यहान्येवात्र मन्त्रोक्तान्यहानि । अहोभिरिति वक्तव्ये वर्णविकारेणाहभिरित्युक्तत्वात्। '१ शब्दान्तरभ्रमं व्युदसितुमिदं व्याख्यानम्। एवमत्र व्याख्यातव्यः ( १ ) ' कालहलच्स्वरकर्तृयडाश्च व्यत्ययमिच्छति' – इति पा ० सू० ३.१.८५ वा० ।

पृष्ठ 159

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ९ ७ पदविशेषो नास्ति किंत्वाशी: प्रार्थनरूपं तात्पर्यमेवेत्यभिप्रेत्यैवकारः प्रयुक्तः ॥ सप्तमीमृचं विधत्ते— या ते धामानि हविषा यजन्तीत्यन्वाह ॥ २१ ॥

हिन्दी — ( सप्तमी ऋचा का विधान कर रहे हैं - ) 'याते धामानि हविषा यजन्ति' इति अन्वाह ( होता) इस (ऋचा ) का वाचन करता है ।. विमर्श - ( १ ) ' याते धामानि' (ऋ ० १.११.१ ९ ) ऋचा इस प्रकार हैं—

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ।

गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान्॥

अर्थात् (हे सोम! तुम्हारे उत्तरवेदि इत्यादि ) जिन स्थानों को यजमान लोग हविषा यजन्ति हविष्द्वारा यजन करते हैं, तुम्हारे वे सभी स्थान यज्ञ के चारो ओर व्याप्त होवें । तुम हमारे गायों की वृद्धि करने वाले, सभी आपदाओं को विनष्ट करने वाले, शोभन पुत्रादि देने वाले होवो । हे सोम! हमारे पुत्रादियों की हिंसा न करने वाले तुम हमारे घरों पर प्रकृष्ट रूप से आओ। सा ० भा०— सेयमृक्संहितायामाम्नाता-

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम्।

गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥१

तस्यायमर्थः — हे सोम ते तव धामानि यान्युत्तरवेद्यादिस्थानानि यजमाना हविषा यजन्ति ते तव ता विश्वा तानि सर्वाणि स्थानानि व्याप्येति शेषः । ततो भ॑वान् यज्ञं ' परिभूरस्तु' परितः प्राप्तवान् भवतु । किञ्च। त्वं गयस्फानो गयानामस्मदीयानां गवां वर्धयिता प्रतरण: प्रतारयिता सर्वापदुत्तारणहेतुः सुवीरः शोभनपुत्रपौत्रादिप्रदो भवेति शेषः । हे सोमावीरहाऽ-स्मदीयानां वीरपुरुषाणां हननमकुर्वाणो दुर्यानस्मदीयगृहान् प्रति प्रचर प्रकर्षेण गच्छ॥ अत्र प्रथमपादस्य स्पष्टार्थत्वबुद्ध्या व्याख्यानमुपेक्ष्य द्वितीयपादमपि स्पष्टार्थाभिप्राये-णैव पठति- ता ते विश्वा परिभूरस्तु' यज्ञम् ॥ २२ ॥

हिन्दी-( द्वितीय पाद की स्पष्टार्थता के अभिप्राय से कह रहे हैं - ) ता ते विश्वा परिभूः अस्तु तुम्हारे वे ( सभी गुण) सभी स्थानों में चारो ओर से व्याप्त होवें। यज्ञम् (तब तुम ) यज्ञ को प्राप्त होवों। (१ ) ऋ० १.११.१ ९ । ( २ ) द्र० - ' व्यत्ययो बहुलम् -इति पा० सू० ३.१.८५ इत्यनेन लिङ्गवचनव्यत्ययौ ।

पृष्ठ 160

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [९ ८ ऐतरेयब्राह्मणम् ३.२ प्रथमपञ्चिकायां तृतीयपादमनूद्य व्याचष्टे- गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितै- धीत्येव तदाह ॥ २३ ॥

हिन्दी— ( ऋचा के तृतीय पाद को कहकर उसकी व्याख्या कर रहे हैं— ) ( ऋचा के तृतीय पाद में ) ‘ गयस्फानः गायों की वृद्धि करने वाला, प्रतरणः आपत्तियों को विनष्ट करने वाला और सुवीरः सुन्दर सन्तान को देने वाला' इति यह कहा गया है । यहाँ गवां नः स्फावयिता गयस्फानः का अर्थ- हमारी गायों की वृद्धि करने वाला और प्रतारयिता प्रतरणः का अर्थ — आपत्तियों को दूर करने वाला है । सा० भा० – स्फावयिता वर्धयिता। चतुर्थपादमनूद्य व्याचष्टे— अवीरहा प्रचरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्राज्ञ आयतो यजमानस्य गृहाः, स यदेतामन्वाह शान्त्यैवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून् हिनस्ति ॥ २४ ॥

हिन्दी–( चतुर्थ पाद को कहकर उसकी व्याख्या कर रहे हैं - ) ' अवीरहा प्रचरा सोम दुर्यान् अर्थात् हे सोम! हमारे वीर पुत्रादियों की हिंसा न करते हुए हमारे गृहों में प्रकृष्टरूप से आओ ' इति यहाँ (ऋचा के चतुर्थ पाद में) गृहाः वै दुर्याः दुर्या शब्द गृह का वाचक है। आयतः सोमाद् राज्ञः आये हुए सोम राजा से यजमानस्य गृहाः यजमान के घर वाले लोग विभ्यति (परिचर्या के विषय में ) भयभीत रहते हैं। सः यद् एताम् अन्वाह वह ( होता) जो (ऋचा के चतुर्थपाद का वाचन करता है, तत् उस ( पाठ) से शान्त्या एव एनं शमयति शन्ति की हेतुभूत इस ( राजा सोम) को शान्त करता है और शान्तः सः शान्त हुआ वह ( राजा सोम) अस्य इस यजमान के न प्रजां न पशून् हिनस्ति न तो सन्तान की और न तो पशुओं की हिंसा करता है । सा० भा ० — आयत आगच्छतः सोमाद्राज्ञो यजमानस्य गृहा गृहवर्तिनो वीरपुरुषाः केनापि परिचर्यावैकल्येन राजा कोपं करिष्यतीति मत्वा तस्मात् सर्वे बिभ्यति तदानीं स होता यद्येतामवीरहेतिपदयुक्तामृचमन्वाह तत्तेनानुवचनेन शान्त्या शान्तिहेतुभूतया सुवीरपदोक्त- यैवैनं राजानं शमयति शान्तं करोति। सःच राजा शान्तः सन्नस्य यजमानस्य पुत्रादिकां प्रजां गवादिपशूंश्च न हिनस्ति॥ अष्टमीमृचं विधत्ते— इमां धियं शिक्षमाणस्य देवेति वारुण्या परिदधाति ॥ २५ ॥

हिन्दी— ( अष्टमी ऋचा का विधान कर रहे हैं - ) 'इमां धियं शिक्षमाणस्य देव ' इति