ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 171–180

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 171–180

पृष्ठ 171

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 171 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् १० ९ सा ० भा ० – विष्णुर्देवता यस्य पुरोडाशस्य सोऽयं वैष्णवः । विष्णोर्व्यापित्वात् सर्वयज्ञस्वरूपत्वम्। तथा सत्यातिथ्येष्टेरपि यज्ञत्वाद्विष्णुः स्वकीया देवता भवति। तया देवतयैनं समृद्धं करोति। यद्यप्यत्र मन्त्राविहितत्वात्तच्छन्दो न प्रकृतं तथापि यज्ञस्य विहितत्वाद्याज्यानुवाक्ययोरवश्यंभावेन च्छन्दोऽर्थसिद्धम्। तेन स्वकीयेन च्छन्दसा यज्ञं समृद्धं करोति । ते च याज्यानुवाक्ये आश्वलायनेन दर्शिते— 'इदं विष्णुर्विचक्रमे ' 'तदस्य प्रियमभि पाथो अश्याम् ' इति । तयोश्च गायत्रीत्रिष्टुप् चेति च्छन्दोद्वयम्। तेन च्छन्दोद्वयेनास्य यज्ञस्य समृद्धिः॥ अत्र शाखान्तरोक्तानग्नेरातिथ्यमसि विष्णवे त्वेत्यादिकांश्च निर्वापमन्त्रान् हृदि निधाय तत्प्रशंसारूपमर्थवादं दर्शयति- ( शाखान्तरीयनिर्वापमन्त्रप्रशंसनम् )

सर्वाणि वाव च्छन्दांसि च पृष्ठानि च सोमं राजानं क्रीतमन्वायन्ति ।

यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते ॥५ ॥

हिन्दी— सर्वाणि वाव छन्दांसि सभी छन्द और पृष्ठानि ( बृहद, रथन्तर, वैरूप इत्यादि रूप ) पृष्ठ ( नामक स्तोत्र) ( सोम के अनुचर होकर) क्रीतं सोमं राजानम् खरीदे गये सोम राजा के अन्वायन्ति पीछे - पीछे ( यजमान के घर आते हैं अतः यावन्तः एव जितने भी (छन्दों और पृष्ठों के अभिमानित देवता) राजानम् अनुयन्ति (सोम) राजा के पीछे - पीछे ( यजन करने वाले के घर आते हैं । तेभ्यः सर्वेभ्यः उन सभी देवताओं के लिए आतिथ्यं क्रियते आतिथ्य किया जाता है । सा० भा०- गायत्री त्रिष्टुबित्यादीनि सर्वच्छन्दांसि बृहद्रथंतरवैरूपादिसामसाध्यानि पृष्ठस्तोत्राणि । तदुभयाभिमानिनो देवा अनुचराः सन्तो राजानमनु यजमानगृहं प्रत्यागच्छन्ति। अतों राज्ञा सहाऽऽगतेभ्यः सर्वेभ्यः सहाऽऽतिथ्यं कर्तव्यम्। तथा सत्यग्नेरातिथ्यमसीत्यादिमन्त्रैः ३ सर्वेषामनुचराणां गायत्र्यादीनां तृप्तिर्भवतीत्यर्थः । तथा च तैत्तिरीया आमनन्ति— ‘ यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्र्या एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोति' इत्यादि। अत्राऽऽतिथ्येष्टिमध्येऽग्निमन्थनमापस्तम्ब ( १ ) आश्व० श्री० ४.५.३ । ऋ ० सं ० १.२२.१७; १.१५४.५/ ( २ ) तै० सं० १.२.१०.१-५। ( ३ ) तै ० सं० ६.२.१.१ । ( ४ ) अग्नेरातिथ्यमसीति पञ्च निर्वापमन्त्राः तै ० सं ० प्रथमे काण्डे ( १.२.१०.१-५ ) श्रुताः, षष्ठे ( ६.२.१.२ ) च ते व्याख्याताः, आपस्तम्बेन विहिताश्च 'अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रम्'- इति ( १०.३०.८ )।

पृष्ठ 172

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 172 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [११० ऐतरेयब्राह्मणम् ३.४ प्रथमपञ्चिकायां आह— ' चतुर्होत्रातिथ्यमासाद्य संभारयजूंषि व्याचष्टे । यजमानं वाचयतीत्येके। पशुवन्निर्मथ्यः सामिधेन्यश्च’ ” इति। आश्वलायनोऽप्याह – ' आतिथ्येलान्ता तस्यामग्निमन्थनम्' इति । तदिदमग्निामन्थनं विधत्ते— ( अग्निमन्थनविधानम् ) अग्निं मन्थन्ति सोमे राजन्यागते । तद्यथैवादो मनुष्यराज आगतेऽ- न्यस्मिन् वाऽर्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा एतत्क्षदन्ते यदग्निं मन्थन्त्यग्निर्हि देवानां पशुः ॥६ ॥

हिन्दी – ( अब अग्निमन्थन का विधान कर रहे हैं - ) सोमे राजनि आगते सोम राजा के ( यजमान के घर आ जाने पर अग्निं मन्यन्ति अग्नि का मन्थन ( मन्थन द्वारा अग्नि का उत्पादन) करते हैं। तद्यथा जैसे कि अदः मनुष्यराजे आगते (लोक में) मनुष्य राजा के आ जाने पर अन्यस्मिन् अथवा अन्य ( किसी महान् पुरुष के ) आ जाने पर उक्षाणं वा वेहतं वा (किसी ) वृषभ अथवा गर्भघातक ( बाँझ) गाय को क्षदन्ते मारते हैं, एवमेव इसी प्रकार अस्मै इस ( सोम) के लिए एतत् क्षदन्ते यह ( अग्नि मन्थन ) करते हैं । यद् अग्निं मन्थन्ति जो अग्नि का मन्थन करते हैं अग्निः हि देवानां पशुः क्योंकि अग्नि ही देवताओं में पशु - स्थानीय है ( अर्थात् जिस प्रकार बैल सोम का वहन करता है उसी प्रकार अग्नि भी देवताओं के हविष् को ले जाता है ) । सा० भा० - लोके यथैवादोऽतिथिसत्करणं तथैव सोमस्यापि तत्सत्कारणं द्रष्टव्यम्। तावेतौ दृष्टान्तदाष्टन्तिकौ मनुष्यराज इत्यादिना स्पष्टीक्रियेते। महति मनुष्यभूपतौ वाऽन्यस्मिंश्चिद्विद्यावृत्तादिसंपन्नत्वेनार्हति पूज्ये मंहति ब्राह्मणेऽब्राह्मणे वा गृहं प्रत्यागते सत्यतिथिसत्कारार्थं शास्त्रकुशलाः शिष्टाः कंचिदुक्षाणं वृषभं वा ' वेहतं' गर्भघातिनीं वृद्धां गां वा ‘ क्षदन्ते ' हिंसन्ति। अयं सत्कार: स्मृतिषु प्रसिद्धो युगान्तरधर्मो द्रष्टव्यः । एवमेवात्रापि, ‘ अग्नि मन्थन्ति' इति यदस्ति, 'एतदस्मै ' सोमायातिथिसत्कारार्थं 'क्षदन्ते' अग्नेर्देवपशुत्वात्। यथाऽनड्वान् हव्यं वहति; तथाऽग्निरपि हव्यं वहति तस्मादग्नेः पशुसाम्यम्। अत्र मीमांसा | सप्तमाध्याये तृतीयपादे चिन्तितम्— (१ ) आप० श्रौ० १०.३१.१०-१२ । (२ ) आश्व०श्री ० ४.५.१,२ । ( ३ ) षडर्ध्या भवन्ति। आचार्य ऋत्विक् स्नातको राजा विवाह्यः प्रियोऽतिथिरिति इति गो ० गृह्य ० ३.१०.२२,२३ । (४ ) शत ० ब्रा ० ३.४.१.२ । गो० गृह्य० ४.१०.१ । ' महोक्षं वा महाजं श्रोत्रियायोपकल्पयेत्'-— इति याज्ञ ० सं ० १.१.९। ‘ दाशगोध्नौ सम्प्रदाने –-इति पा० सू० ३.४.७३ । ‘ गोध्नोऽतिथि’ सि० कौ० ।

पृष्ठ 173

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 173 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् १११ वैष्णवे त्रिकपाले वैष्णवान्नवकपालतः । धर्मातिदेशः स्यान्नो वा विद्यतेऽत्राग्हिोत्रवत् ॥

श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः ।

स गौणवृत्तिमाश्रित्य धर्मान्नातिदिशत्यतः ' ॥

आतिथ्येष्टौ वैष्णवो नवकपालो विहितः । तत्र श्रुतौ वैष्णवशब्दो राजसूयगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्रशब्दवन्नवकपालधर्मानतिदिशतीति पूर्वः पक्षः । विष्णुर्देवता यस्येति विग्रहे विहिततद्धितप्रत्ययो देवतामभिधत्ते, न तु धर्मान्। तस्मान्नातिदिशति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य तृतीयाध्याये चतुर्थः खण्डः ॥४॥

॥ इस प्रकार ऐतरेयब्राह्मण के तृतीय अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पञ्चमः खण्डः सा ० भा ० — अग्निमन्थनं विधाय तत्रत्या ऋचो विधातुं प्रैषमन्त्रं विधत्ते— ( अग्निमन्थनीयानां प्रैषमन्त्रः ) अग्नये मथ्यमानायानुब्रूहीत्याहाध्वर्युः ॥ १ ॥

हिन्दी-( अग्निमन्थन का विधान करके उसमें प्रयुक्त मन्दों का विधान करने के लिए प्रैष मन्त्र को कह रहे हैं— ) ' अग्नये मध्येमानाय मथ्यमान अग्नि के लिए अनुब्रूहि मन्त्र का पाठ करो - इति अध्वर्युः आह इस प्रकार अध्वर्यु ( होता से प्रैष को ) कहता है। सा० भा० — तत्र प्रथमामृचं विधत्ते— ( अग्निमन्थनीयत्रयोदशमन्त्रविधानम्) अभि त्वा देव सवितरिति सावित्रीमन्वाह ॥ २ ॥

हिन्दी - ( अग्निमन्थन वाली ऋचाओं में प्रथम ऋचा का विधान कर रहे हैं— ) ‘ अभित्वा देव सवितः ' इति सावित्रम् अन्वाह इस सविता देवता वाली ( ऋचा) को (होता) पढ़ता है। सा० भा० - सविता देवता गायत्र्या ऋचः, सा सावित्री। अत्र च, अभि त्वा देव सवितरिति सविता मन्त्रदेवत्वेन श्रूयते तस्मादियमृक्सावित्री ' ॥ ( १ ) जै० न्या ० मा ० वि० ७.३.६.१७ ( २ ) ' सास्य देवता' - इति पा० सू० ४.२.२४ । ( ३ ) ऋ० १.२४.३ ।

पृष्ठ 174

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 174 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ११२ ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां अत्र प्रैषानुवचनमन्त्रयोर्वैयाधिकरण्यरूपं चोद्यमुद्भावयति— तदाहुर्यदग्नये मथ्यमानायानुवाचाऽऽहाथ कस्मात्सावित्रीमन्वाहेति ॥ ३ ॥

हिन्दी –( इस विषय में प्रश्न की उद्भावना कर रहे हैं — ) तदाहुः इस विषय में ( कुछ वेदज्ञ) प्रश्न करते हैं—' अग्नये मथ्यमानाय अनुवाच मथ्यमान अग्नि के लिए वाचन करो ' आह यह ( अध्वर्यु द्वारा होता के लिए ) कहा गया है, अथ कस्मात् तो • किस कारण से ( होता ) सवित्रीम् अन्वाह सविता से सम्बन्धित ( ऋचा ) का वाचन करता है? सा० भा ० — तत्तत्र ब्रह्मवादिनश्चोद्यमाहुः । यद्यस्मात्कारणादध्वर्युरग्नये मथ्यमाना- येत्यग्नयेऽनुकूलया वाचा प्रैषमन्त्रमाह तत्तस्मात्कारणादाग्नेयी होत्राऽनुवक्तव्या तां परित्यज्याथा- नन्तरं कस्मात्कारणाद्धोता सावित्रीमृचमनुब्रूते। इतिशब्दश्चोद्यसमाप्त्यर्थः । तस्य चोद्यस्योत्तरमाह— सविता वै प्रसवानामीशे । सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सा- वित्रीमन्वाह ॥४ ॥

हिन्दी— (उसका उत्तर दे रहे हैं - ) सविता वै प्रसवानाम् ईशे सविता ही प्रेरणा देने वालों का स्वामी है सवितृप्रसूता एवं सविता द्वारा प्रेरित हुआ ही एनं तद् मन्थन्ति इस ( अग्नि ) को वे मन्थन करते हैं। तस्मात् इसी कारण सावित्रीम् अन्वाह सविता से सम्बन्धित (ऋचा ) का अनुवाचन करता है । सा० भा० - योऽयं सविता देवः स एव प्रसवानां कर्मस्वनुज्ञानामीशे स्वामी भवति । तथा सति तत्तेन मन्त्रपाठेन सवित्राऽनुज्ञाता एव सन्त एनमग्निं मन्थन्ति। तस्मात्कारणा- त्सावित्रीमृचमनुब्रूयात्॥ द्वितीयामृचं विधत्ते— मही द्यौः पृथिवी च न इति द्यांवापृथिवीयामन्वाह' ॥५ ॥

हिन्दी— (द्वितीय ऋचा का विधान कर रहे हैं - ) ' मही द्यौः पृथिवी च न: ' इति द्यावापृथिवीयाम् अन्वाह इस द्यावापृथिवी से सम्बन्धित (ऋचा ) का (होता ) अनुवाचन करता है । सा ० भा ० — द्यौश्च पृथिवी च देवते यस्या ऋचः सेयं द्यावापृथिवीया। १५ अत्रापि पूर्ववच्चोद्यपरिहारौ दर्शयति- तदाहुर्यदग्नये मथ्यमानायानुवाचाऽऽहाथ कस्माद्द्यावापृथिवीया- ( १ ) ऋ० १.२२.१३ ।

पृष्ठ 175

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 175 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ११३ मन्वाहेति, द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णस्ताभ्यामेवा- द्यापि परिगृहीतस्तस्माद्द्यावापृथिवीयामन्वाह ॥ ६ ॥

हिन्दी –(इस ऋचा के विषय में भी शङ्का और उसके समाधान को दिखला रहे हैं— ) तदाहुः इस विषय में ( कतिपय वेदज्ञ ) प्रश्न करते हैं कि ( अध्वर्यु होता से ) ' मथ्यमानाय अग्नये अनुवाच मध्यमान अग्नि के लिए अनुवाचन करो' इति आह यह कहता है अथ कस्मात् तब किस कारण से द्यावापृथिवीयाम् अन्वाह (होता) द्यावापृथिवी से सम्बन्धित (ऋचा ) का अनुवाचन करता है? (उत्तर— ) एतं जातम् इस उत्पन्न हुए ( अग्नि) को देवाः देवताओं ने द्यावापृथिवीभ्यां वै द्यावापृथिवी के मध्य से ही पर्यगृह्णन् पकड़ लिया और ताभ्यामेव उन्हीं दोनों (द्यावापृथिवी ) के मध्य से ही अद्यापि परिगृहीतः आज़ भी ( अग्नि को ) पकड़ा जाता है तस्मात् इसी कारण द्यावापृथिवीयाम् अन्वाह ( होता ) द्यावापृथिवी से सम्बन्धित ऋचा का पाठ करता है । सा० भा० - पुरा कदाचिद्देवा उत्पन्नमग्निं द्यावापृथिवीभ्यां परिगृहीतवन्तः । अद्यापि ताभ्यामेव परिगृहीतो दृश्यते । पावकोऽग्निर्भूम्या परिगृहीतः प्रकाशकसूर्यरूपोऽग्निर्दिवा परिगृहीतः । तस्मादग्निपरिग्रहाय द्यावापृथिवीदेवताकाया ऋचोऽनुवचनं युक्तम्॥ तृतीयाद्यास्तिस्र ऋचो विधत्ते—

त्वामग्ने पुष्करादधीति' तृचमाग्नेयं गायत्रमन्वाहाग्नौ मथ्यमाने ।

स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति ॥७ ॥

हिन्दी – ( तृतीय से लेकर पञ्चम तक इन तीन ऋचाओं का विधान कर रहे हैं- ) मथ्यमाने अग्नौ अग्नि के मन्थन करते समय 'त्वामग्ने पुष्करादधि' इति आग्नेयं गायत्रं तृचम् इस अग्नि देवता वाले गायत्री छन्दस्क तृच का अन्वाह (होता) अनुवाचन करता है । तत् इससे एनम् इस (अग्नि) को स्वया देवतया अपने देवता और स्वेन छन्दसा एव अपने (गायत्री ) छन्द से समर्धयति समृद्ध करता है। सा० भा० - -अस्य तृचस्याग्निदेवताकत्वेन वैयाधिकरण्यचोद्यानुदयात् स्वयैवेत्यादिना प्रशंसैव क्रियते । गायत्रीछन्दोऽग्नेः स्वकीयमुभयोः प्रजापतिमुखजन्यत्वात्। प्रथमायाऽमृचि द्वितीयपादमनूद्य प्रशंसति— अथर्वा निरमन्थतेति रूपसमृद्धमेतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति ॥८ ॥

हिन्दी–( प्रथम ऋचा 'त्वामग्ने' के द्वितीय पाद को कहकर उसकी प्रशंसा कर रहे ( १ ) ऋ० ६.१६.१३-१५ ।

पृष्ठ 176

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 176 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [११४ ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां हैं— ) ' अथर्वा निरमन्थत अथर्वा ऋषि ने सम्पूर्ण रूप से मन्थन किया' इति इस कथन से रूपसमृद्धम् ( यह अग्निमन्थनरूप कर्म अपने ही) स्वरूप से समृद्ध है। एतद् वै यज्ञस्य समृद्धम् यही यज्ञ की समृद्धि है । यद् रूपसमृद्धम् जो रूप से समृद्ध है, वह क्रियमाणं कर्म किये जाते हुए ( अग्निमन्थन) कर्म को ऋगभिवदति ऋचा कह रही है । सा० भा ० — अथर्वाख्य ऋषिर्निशेषेण मन्थनं कृतवानित्युच्यते। तदेतद्वचनमग्नि- मन्थनस्याऽऽनुकूल्येन रूपेण समृद्धम्। इत्थमुक्तास्वग्निमन्थनास्वृक्षु पञ्चस्वनूक्तासु षष्ठप्रभृतीनामृचामनुवचनात् पूर्वं नैमित्तिका: काश्चिदृचो विधत्ते— ( तत्र नैमित्तिकानां रक्षोघ्नानां नवानामृचामनुवाचनविधानम् ) स यदि न जायेत यदि चिरं जायेत राक्षोघ्न्यो गायत्र्योऽनूच्याः ॥ ९ ॥

हिन्दी- सः यदि न जायेत वह (अग्नि) यदि उत्पन्न न हो अथवा यदि चिरं जायेत् यदि देर से उत्पन्न हो तो राक्षोघ्न्यः गायत्र्यः अनूच्या (इस अग्नि की उत्पत्ति के लिए) राक्षसविनाशक गायत्री छन्द वाली (ऋचा ) का पाठ करना चाहिए। सा० भा ० — पञ्चानामृचामनुवचने सति तस्मिन् काले यदि सोऽग्निर्नोत्पद्येत तत उत्पत्तिलिङ्गं धूमादिरूपं यदि न दृश्येत दृश्यमानेऽपि वा लिङ्गे यदि सहसा नोत्पद्यते किंतु विलम्बेन तदानीं सहसा तदुत्पत्त्यर्थं रक्षोहननलिङ्गोपेता गायत्रीछन्दस्का ऋचोऽनुब्रूयात्। प्रतीकग्रहणेन ता ऋचो दर्शयति- अग्ने हंसिन्य' त्रिणमित्येताः ॥ १० ॥

हिन्दी-(उस रक्षोघ्न ऋचाओं को दिखला रहे हैं - ) 'अग्ने हंसि' इत्यादि त्रिणम् नव ऋचाओं वाला (रक्षोघ्न सूक्त है) इति एताः इन (नौ ऋचाओं ) का वाचन करें। सा ० भा ० — अग्ने हंसीत्यादिके सूक्ते ' नवर्चो विद्यन्ते। एता रक्षोहननलिङ्गकाः॥’ तासामनुवचने प्रयोजनमाह— रक्षसामपहत्यै ॥ ११ ॥

हिन्दी— इन ऋचाओं का पाठ रक्षसाम् अपहत्यै राक्षसों के विनाश के लिए होता है । कः प्रसङ्गो रक्षसामित्याशङ्क्याऽऽह— ( १ ) ऋ० सं ० १०.११८.१ - ९ । ( २ ) तथा चानुक्रम्यते — ' अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं तु'- इति । आश्वलायेनापि सूत्रितम्— अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसिन्यत्रिणमिति सूक्तमावपेत’ इति श्रौ ० २.१६.३,४ ।

पृष्ठ 177

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 177 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ११५ रक्षांसि वा एनं तर्ह्यलभन्ते यर्हि न जायते यर्हि चिरं जायते ॥ १२ ॥

हिन्दी- यर्हि न जायते जब अग्नि उत्पन्न नहीं होता अथवा यर्हि चिरं जायते जब देर से उत्पन्न होता है, तर्हि तब तक एनम् इस (अग्नि) को रक्षांसि आलभन्ते राक्षस- लोग पकड़े रहते हैं । सा० भा ० – यस्मिन् काले मथ्यमानस्य वह्नेः सर्वथाऽनुत्पत्तिर्विलम्बो वा भवेत्तदा- नीमेवं वह्नि रक्षांस्येवाऽऽलभन्ते संस्पृशन्ति प्रतिबध्नन्तीत्यर्थः । ततो रक्षोहननाय ता ऋच: पठनीयाः ॥ नैमित्तिका ऋचो विधाय प्रकृतामेव षष्ठीमृचं विधत्ते — स यद्येकस्यामेवानूक्तायां जायेत यदि द्वयोरथोत ब्रुवन्तु जन्तव इति जाताय जातवतीमभिरूपामनुब्रूयात् ॥ १३ ॥

हिन्दी — (प्रकृत रूप वाली षष्ठी ऋचा का विधान कर रहे हैं - ) यदि एकस्यामेव अनूक्तायां यदि एक ही ऋचा के वाचन कर देने पर जायेत् ( अग्नि ) उत्पन्न हो जाय अथवा यदि द्वयोः यदि दो (ऋचाओं) के ( पाठ कर देने पर उत्पन्न हो जाय) अथ तब जाताय ( अग्नि की ) उत्पत्ति के लिए 'उत ब्रुवन्तु जन्तवः' इति इस जातवतीम् अभिरूपाम् जन्म वाचक शब्द वाली अभिरूप (ऋचा ) का अनुब्रूयात् (होता) अनुवाचन करे । सा० भा ० – राक्षोघ्नीनामृचां मध्ये यद्येकस्यामेव पठितायां स वह्निर्जायेत यदि वा द्वयोः पठितयोरुत्पद्येत । एवं तृतीयादीनामुलक्षणम्। अथेदानीमुत्पत्तिलक्षण एव, उत ब्रुवन्त्वि- त्येताम्' ‘ अनुब्रूयात्’ । सा च जातायाभिरूपा जातस्याग्नेरनुकूला। तदेवाऽऽनुकूल्यं जात-वतीमितिशब्देन स्पष्टीक्रियते । जातं जन्मवाचिपदं तदस्यामस्तीति जातवती तस्या ऋचो द्वितीय: पाद एवं पठ्यते—' उदग्निर्वृत्रहाऽजनि' इति । तस्मिन्नजनीति जन्मवाचकं पदमस्ति । अस्या ऋचोऽभिरूपत्वं प्रशंसति— यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ १४ ॥

हिन्दी — यद् यज्ञे अभिरूपम् जो यज्ञ के अभिरूप है, तत् समृद्धम् वह यज्ञ की समृद्धि है। सप्तमीमृचं विधत्ते— आ यं हस्ते न खादिनमिति ॥ १५ ॥

हिन्दी - ( सप्तमी ऋचा को कह रहे हैं - ) 'आ यं हस्ते न खादिनम्' इति इस (सप्तमी ऋचा का होता वाचन करें ) । ( १ ) ऋ०सं० १.७४.३ ।

पृष्ठ 178

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 178 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [११६ ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां सा० भा ० – अनुब्रूयादिति शेषः । सा च संहितायां पठिता—

'आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।

विशामग्निं स्वध्वरम्' ॥

तस्या अयमर्थः - यंशब्दः प्रसिद्धवाची । नशब्द उपमार्थः । यं मन्थनेन प्रसिद्धम् ' अग्नि हस्ते न' हस्ते इव ऋत्विजः 'आ बिभ्रति' समन्ताद्धारयन्ति। तत्तदृत्विजां हस्ताभ्यां मन्थनं हस्तधारणसदृशं शिशुं जातं नेत्यनेन दृष्टान्तोऽभिधीयते । जातं. शिशुमिव । यथा सद्यः समुत्पन्नं शिशुं हस्ताभ्यां धारयन्ति तद्वत् । कीदृशमग्निं विशां स्वध्वरम्, शोभनोऽध्वरो यागो यस्याग्नेः सोऽयं स्वध्वरः । विशां प्रजानामृत्विग्यजमानरूपाणामध्वरनिष्पादकम्। पुनरपि कीदृशम्। खादिनं हविरादीनां भक्षकमिति । अस्यामृचि प्रथमपादे हस्तशब्देन विवक्षितमर्थं दर्शयति- हस्ताभ्यां ह्येनं मन्थन्ति ॥ १६ ॥

हिन्दी -( इसऋचा में प्रयुक्त 'हस्त' शब्द के विवक्षितार्थ को दिखना रहे हैं - ) हस्ताभ्यां हि दोनों हाथों से ही एनं मन्थन्ति इस ( अग्नि) का मन्थन करते हैं ( अत एव

हस्त में धारण की प्राप्ति होती है ) ।

सा ० भा०—– हि यस्मादेनमग्निं हस्ताभ्यां मन्थन्ति तस्माद्धस्ते धारणमुपपद्यते॥

द्वितीयपादे पूर्वभागमनूद्य तात्पर्य दर्शयति-— शिशुं जातमिति शिशुरिव वा एष प्रथमजातो यदग्निः ॥ १७ ॥

हिन्दी- ( द्वितीय पाद के पूर्वभाग का तात्पर्य दिखला रहे हैं - ) शिशुं जातम् (ऋचा के द्वितीय पद के पूर्वभाग में प्रयुक्त ) शिशुं जातम् ( का तात्पर्य है— ) यद् अग्निः जो अग्नि है एषः यह प्रथमजातः प्रथमतः उत्पन्न हुआ शिशुः इव शिशु के समान होता है। सा० भा ० — योऽग्निर्मन्थनेन प्रथममुत्पन्न एष शिशुना सदृश इत्येतस्य भागस्य तात्पर्यम्। द्वितीयपादस्योत्तरभागं तृतीयपादं चानुवदति— न बिभ्रति विशामग्निं स्वध्वरमिति ॥ १८ ॥

हिन्दी—( ऋचा के द्वितीय पाद के उत्तर भाग और तृतीय पाद का अनुवाद कर रहे हैं— ) न विभ्रति विशामग्निं स्वध्वरम् इति यह (ऋचा के द्वितीय पाद का उत्तर भाग और तृतीय पाद है) । ( १ ) ऋ ० सं० ६.१६.४० ।

पृष्ठ 179

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 179 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] ११७ तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम्ः सा० भा० – अत्र नेति पदं व्याचष्टे- यद्वै देवानां नेति तदेषामो३ मिति ॥ १ ९ ॥ हिन्दी--(ऊपर प्रयुक्त 'न' शब्द का व्याख्यान कर रहे हैं - ) यद्वै देवानां न जो देव- सम्बन्धी ऋचा में यह 'न' शब्द है, तद् एषाम् ओम् इति वह इन (ऋचाओं) में ' ओम्' ( स्वीकार करना ) अर्थ वाला है । सा ० भा ० -– देवानां संबन्धिनि मन्त्रे क्वचित्क्वचिन्नेति पदं यदेवास्ति तदेषां देवप्रति- पादकानां मन्त्राणां नेति पदमोमित्येतस्मिन्नर्थे वर्तते। ' लोके प्रतिषिद्धवाची नेति शब्दो वेदेऽङ्गीकारवाची ' । न ओमित्यस्य पदस्यार्थे वर्तते। तथा सति लोकवैपरीत्यस्य दृष्टत्वादुप- मार्थोऽपि वक्तुं शक्यते । तदेतदुभयं निरुक्तकरेणोक्तम् –- नेति प्रतिषेधार्थीयो भाषायाम्' इति। ‘ उपरिष्टादुपचार उपमार्थीयः ” इति च। अयं च नेति शब्दः शिशुं जातं नेत्युपमेयादुपरिष्टात् प्रयुज्यते । तस्मादुपमार्थी। देवानामित्यत्र देवप्रतिपादकानां मन्त्राणां संबन्धीति व्याख्यातम्। यद्वा दकारवकारयोर्विपर्यासेन वेदानां संबन्धीति व्याख्येयम्॥ अष्टमीमृचं विधत्ते— प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा ॥ २० ॥

हिन्दी-( अष्टमी ऋचा का विधान कर रहे हैं - ) 'प्र देवं देववीतये भरता वसुवित्तमम्' अर्थात्'हे ऋत्विजो! देवताओं की कामना के लिए अतिशय रूप से धन के स्वामी मथित अग्नि को आहवीयाग्नि कुण्ड में डालो' इति यह ऋचा प्रह्रियमाणाय ( आहवीयाग्नि कुण्ड में अग्नि के ) प्रक्षेप के लिए अभिरूपा अनुरूप है । सा ० भा ० — अनुवक्तव्येति शेषः । आहवनीये प्रक्षिप्यमाणोऽयं मथितोऽग्निः प्रह्रियमाणस्तस्येयमृगनुरूपा । कथमिति चेत्तदुच्यते । देववीतये देवानां कामायाभिलाषाय वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञं देवं मथितमग्निं हे ऋत्विजः प्रभरत, आहवनीये प्रहरत प्रक्षिपत। तस्मात् प्रह्रियमाणानुरूपत्वम्। अत्र 'जातायानुब्रू३ हि' इत्यध्वर्युणा प्रेषितो होता पूर्वोक्तामुत ब्रुवन्तु जन्तव इत्येतामनुब्रुयात् । तथा प्रह्रियमाणायानुब्रू३ हीत्येवं प्रेषितः प्र देवमित्यादिकामृचं ब्रूयात् । एवमुत्तरा अपि च । तदेतत्सर्वं तैत्तिरीयाः संगृह्याऽऽमनन्ति— ‘ अग्नये मथ्यमानायानुब्रू३ हीत्याह। सावित्रीमृचमन्वाह सवितृप्रसूता एवैनं मन्यन्ति। जाता- ( १ ) ' यद्वै नेत्यृचि ओमिति तत्' इति च शत ० ब्रा० १.४.१.३ । ( २ ) वक्ष्यति च परस्तात्—' ओमिति वै दैवं तथेति मानुषम्' -इति ऐ० ब्रा० ७.३.६ । ( ३ ) नि० १.४ ( ४ ) 'प्र देवं देववीतय इति (ऋ ० सं० ६.१६.४१ ) द्वे' - आश्व० श्रौ० २.१६.७ । ( ५ ) ब्रूहि प्रेष्यश्रौषड्वौषडावहानामादेः ' इति (पा० सू० ८.२.९ १ ) प्लुतिः ।

पृष्ठ 180

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 180 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [११८ ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां यानुब्रू३ हि प्रह्रियमाणायानुब्रू३ हीत्याह काण्डे काण्ड एवैनं क्रियमाणे समर्धयति । गायत्री सर्वाऽन्वाह' इति॥ प्र देवमित्यस्या ऋच: प्रह्रियमाणायाभिरूपत्वे यज्ञाङ्गसमृद्धिरूपं प्रयोजनं दर्शयति— यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ २१ ॥

हिन्दी— यद् यज्ञे अभिरूपं जो ( अग्नि ) यज्ञ के अनुरूप है, ( वह यज्ञ ) समृद्ध होता है। अस्या ऋचस्तृतीयपादमनुवदति- आ त्वे योनौ निषीदत्विति ॥ २२ ॥

हिन्दी—‘ आते योनो निषीदतु' अर्थात् वह आकर अपने स्थान पर बैठे ' इति यह (ऋचा का तृतीय पाद है ) । सा ० भा ० — अयं मथितोऽग्निरागत्य स्वे योनौ स्वकीयस्थान आहवीयाख्ये नितरामुपविशत्विति पादस्यार्थः ॥ तस्मिन् पादे योनिपदं व्याचष्टे— एष ह वा अस्य स्वो योनिर्यदग्निरग्नेः ॥ २३ ॥.

हिन्दी -(इस पाद में प्रयुक्त योनि शब्द का व्याख्यान कर रहे हैं — ) यद् अग्निः जो यह ( आहवनीय) अग्नि है, एषः यह ( आहवनीयाग्नि ) ही अस्य अग्नेः इस (मथित) अग्नि का स्वः योनिः अपना स्थान है। सा० भा० -- आहवनीयाख्यो योऽग्निरस्ति, एष वा अस्य मथितस्याग्नेः स्वकीयं स्थानम्॥ नवमीमृचं विधत्ते-- आ जातं जातवेदसीति ॥ २४ ॥

हिन्दी – ( नवमी ऋचा का विधान कर रहे हैं - ) ' आ जातं जातवेदसि' इति इस (नवमी ऋचा का होता वाचन करता है ) । सा० भा० – अनुब्रूयादिति शेषः । सा चैवं संहितायामाम्नाता–

आ जातं जातवेदसि प्रियं शिशीतातिथिम् । स्योन आ गृहपतिम् ॥

अस्यायमर्थः — कीदृशमाहवनीयस्य प्रीतिहेतुमतिथिम्। इदानीमागतत्वादतिथिरूपम्।

स्योने सुखकर आहवनीय आ गृहपतिमागत्य गृहस्वामित्वेन वर्तमानम्॥

तस्यामृचि प्रथमपादे पदद्वयं व्याचष्टे— ( ) ( ) १ तै ० सं ० ६.३.५३ । २ ऋ० सं० ६.१६.४२ ।