ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 181–190
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 181–190
पृष्ठ 181
पाठ पढ़ें पाठ छिपाएँ
: ] ११ ९ तृतीयोऽध्यायः पञ्चमः खण्ड सायणाचार्यकृतभाष्योपेतम्: जात इतरो जातवेदाः इतरः ॥ २५ ॥
हिन्दी -( इस ऋचा के जात और जातवेदस्- इन दो पदों का व्याख्यान कर रहे हैं— ) इतरः जातः एक (मन्थन से सद्य: उत्पन्न अग्नि) जात कहलाता है और इतरः जातवेदः अन्य (पहले से सिद्ध आहवनीय अग्नि सद्यः उत्पन्न अग्नि को यहाँ जानता है अतः ) जातवेद कहा जाता है। सा० भा ० — इतर इदानीं मथितोऽग्निः सद्यः समुत्पन्नत्वाज्जात इत्युच्यते पूर्वसिद्धाहवनीयोऽग्निरिदानीं जातमग्निं वेत्तीति जातवेदा इत्युच्यते॥ इतरः द्वितीयपादमनूद्य व्याचष्टे— प्रियं शिशीतातिथिमित्येष ह वा अस्य प्रियोऽतिथिर्यदग्निरग्नेः ॥ २६ ॥
हिन्दी - ( द्वितीय पाद को कहकर व्याख्यान कर रहे हैं — ) 'प्रियं शिशीतातिथिम्’ यद् अग्निः जो ( मन्थन से उत्पन्न) अग्नि है एषः ह वै यह ही अस्य अग्नेः इस (जातवेद ) अग्नि का प्रियः अतिथिः प्रिय अतिथि है । सा ० भा ० – योऽग्निर्मन्थनेनोत्पन्न एष एवास्य पूर्वसिद्धस्याहवनीयस्याग्नेः प्रियश्चा- तिथिश्च। तृतीयपादमनूद्य व्याचष्टे— स्योन आ गृहपतिमिति शान्त्यामेवेनं तद्दधाति ॥ २७ ॥
हिन्दी -( तृतीय पाद की व्याख्या कर रहे हैं - ) 'स्योन आ गृहपतिः ' इति यहाँ शान्त्याम् शान्ति रूप ( आहवनीयाग्नि) में ही एनम् इस (मन्थन से उत्पन्न अग्नि) को दधाति स्थापित करता है । सा० भा०-- स्योने सुखरूपे पूर्वाग्नौ स्थापनं यदस्ति तत्तेन स्थापनेन नूतनमेवमग्निं
शान्त्यामेव स्थापयति। पूर्वाग्नेः सुखनिवासहेतुत्वाच्छान्तित्वम्॥
दशमीमृचं विधत्ते— अग्निनाऽग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड् जुह्वास्य इत्यभिरूपा ॥ २८ ॥
हिन्दी—( दशमी ऋचा का विधान कर रहे हैं- ) अग्निना ( आधारभूत आहवनीय) अग्नि से अनुगृहीत कविः गृहपतिः युवा: क्रान्तद्रष्टा, ( यजमान के ) गृह का पालक और नूतन ( मन्थन द्वारा उत्पन्न) हव्यवाट् हविष को देवताओं तक ले जाने वाला तथा जुहास्यः जुहुरूप मुख वाला अग्निः अग्नि समिध्यते सम्यक्रूप से प्रज्वलित की जाती है । इति अभिरूपा यह (ऋचा ) कर्म के अनुरूप है ।
पृष्ठ 182
पाठ पढ़ें पाठ छिपाएँ
: [१२० ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां सा० भा० –अनूच्येति शेषः । अस्या अयमर्थः - अग्निाऽऽधारभूतेनाऽऽहवनीये-नानुगृहीत इदानीं प्रहृतोऽग्निः सम्यग् दीप्यते । कीदृशोऽग्निः । कविर्विद्वानाकूताभिज्ञोऽत एव गृहपतिर्यजमानस्य गृहस्य पालकः । युवा नूतनः । देवेभ्यो हव्यं वहतीति हव्यवाट्, होमसाघनभूतः । जुहूरेवाऽऽस्यं मुखं यस्यासौ जुह्वास्यः । सेयमृक् प्रह्रियमाणाग्निगुण-कीर्तनात्तस्याग्नेरनुरूपा॥ तदेतदानुरूप्यं प्रशंसति— यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ २ ९ ॥ हिन्दी— यद् यज्ञे अभिरूपम् जो यह ऋचा यज्ञ के अनुरूप है तत्समृद्धम् वह ( यज्ञ की ) समृद्धि है । एकादशीमृचं विधत्ते— त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्ततेति ॥ ३० ॥
हिन्दी– (एकादशी ऋचा को दिखला रहे हैं— ) (त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्तत' अर्थात्हे ( मन्थनोत्पन्न) अग्ने! तुम ( आहवनीय) अग्नि द्वारा प्रदीप्त किये जाते हो, हे विप्र! ब्राह्मण के द्वारा प्रदीप्त किये जाते हो— इति ( होता ) इस (ऋचा ) का ( वाचन करता है ) । सा ० भा ० — अनुब्रूयादिति शेषः । हे नूतनाग्ने त्वं सिद्धेनाऽऽहवनीयेनाग्निना समि- ध्यस इति तृतीयपादगतेन' पदेन योज्यम्। उभयोरग्न्योर्विद्यमानत्वात् सम्यगनुष्ठाननिर्वाह- कत्वाद् वा सच्छब्दवाच्यत्वम्। ' अग्ने महा असि ब्राह्मणभारत ' ' इति श्रुतेर्ब्राह्मणजात्यभि- मानित्वाद् विप्रत्वम्॥ तदेतदुभयं विशदयति— विप्र इतरो विप्र इतरः सन्नितरः सन्नितरः ॥ ३१ ॥
हिन्दी— ( ऋचा में ) इतरो विप्रः एक अन्य ( मन्थनोत्पन्न अग्नि) विप्र है इतरः विप्रः दूसरा ( अन्य आहवनीय अग्नि) भी विप्र है। इतरः सत् एक (सद्यः मन्थनोत्पन्न अग्नि) अच्छा है और इतरः सत् दूसरा ( आहवनीयाग्नि ) भी अच्छा है । तृतीयपादमनूद्य व्याचष्टे— सखा सख्या समिध्यस इत्येष ह वा अस्य स्व सखा यदग्निरग्नेः ॥ ३२ ॥
( १ ) ऋ० सं ० १.१२.६ । ( २ ) स एष तृतीयपादः -' सखा सख्या समिध्यसे' –-इति सं ० ८.४३.१४ । ( ३ ) तै० ब्रा० ३.५.३ ।
पृष्ठ 183
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् १२१ हिन्दी –( तृतीय पाद को कहकर व्याख्या कर रहे हैं - ) 'सखा सख्या समि- ध्यसे अर्थात् हे मित्ररूप ( मन्थनोत्पन्न अग्ने )! मित्र रूप (आहवनीय अग्नि) द्वारा प्रज्वलित होते हो '– इति यहाँ यदग्निः अग्नेः जो (आहवीय) अग्नि का ( मित्रता का ) सम्बन्ध है, (प्रदीप्त) अग्नि और वह एषः ह वा यह (आहवनीयाग्नि) ही अस्य सखा इस ( मन्थ- नोत्पन्न अग्नि का ) मित्र है । सा ० भा ० — योऽग्निराहवनीयाख्य एष एवास्याग्नेर्मथितस्य स्वकीयः सखा॥ द्वादशीमृचं विधत्ते—
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु । स्वेषु क्षयेषु वाजिनमिति' ॥ ३३ ॥
हिन्दी - ( द्वादशी ऋचा का विधान कर रहे हैं— ) ( होता तं मर्जयन्त इस द्वादशी ऋचा का वाचन करता हैं ) । मन्त्रार्थ -( हे ऋत्विक् )! सुक्रतुम् शोभन यज्ञ के निर्वाहंक, आजिषु पुरोयावानम् युद्धों में आगे- आगे चलने वाले और स्वेषु क्षयेषु वाजिनम् अपने ( आहवनीयादि ) गृहों में अन्न -सम्पन्न अथवा जाते हुए तम् उस ( मन्थनोत्पन्न अग्नि) को मर्जयन्त शोधित करो। सा० भा० – अनुब्रूयादिति शेषः । हे ऋत्विजस्तं नूतनमग्निं मर्जयन्त शोधयन्त । कीदृशं शोभनस्य क्रतोर्निर्वाहकम्। आजिषु सङ्ग्रामेषु पुरोयावानं पुरोगन्तारम्। स्वेषु क्षयेषु स्वकीयेषु गृहेष्वाहवनीयादिषु वाजिनमन्नवन्तं गच्छन्तं वा॥ क्षयशब्देनात्राऽऽहवनीयाग्निरूपगृहविवक्षां दर्शयति— एष ह वा अस्य स्वः क्षयो यदग्निरग्नेः ॥ ३४ ॥
हिन्दी— (ऋचा में प्रयुक्त क्षय शब्द की आहवनीयाग्निरूप विवक्षा को दिखला रहे हैं— ) एषः यद् अग्निः यह जो (आवहनीय) अग्नि है वह अस्य अग्नेः इस ( मन्थनोत्पन्न) अग्नि का स्वः क्षयः अपना घर है । त्रयोदशीमृचं विधत्ते— यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति ॥ ३५ ॥ २
हिन्दी–- (त्रयोदशी ऋचा का विधान कर रहे हैं - ) 'यज्ञेन यज्ञमयजन्त देवाः ' इति इस उत्तमया अन्तिम (ऋचा के वाचन ) से परिदधाति (अग्नि - मन्थन का ) समापन करता है। सा० भा ० — उत्तमया चानया परिधाति, अनुवचनं समापयेत्। यदाहाऽऽश्वलायनः- ‘यज्ञेन यज्ञमयजन्त देवा इति परिदध्यात्' ' सर्वत्रोत्तमां परिधानीयेति विद्यात्' इति ॥३ ( ) ( ); १ ऋ० ८.८४.८ । २ ऋ० १.१६४.५० १०.९ ०.१६ । (३ ) आश्व० श्री० २.१६.७,८ । ऐ.ब्रा. पू- ८
पृष्ठ 184
पाठ पढ़ें पाठ छिपाएँ
': [: १२२ ऐतरेयब्राह्मणम् ३ ५ प्रथमपञ्चिकायां • उदाहृतमृचः पादं व्याचष्टे --:: यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निनाऽग्निमयजन्त ते स्वर्ग लोकमायन् ॥ ३६ ॥
हिन्दी— यद् अग्निना अग्निम् अयजन्त जो ( मन्थनोत्पन्न ) अग्नि से ( आहवनीय) अग्नि का यजन किया, यज्ञेन (उसी ) यज्ञ से देवाः यज्ञम् अयजन्त देवतओं ( पूर्वसिद्ध ऋत्विजों ) नैं यज्ञ का यजन किया। इससे ते स्वर्गं लोकम् आयन् वे ( देवता) स्वर्गलोक को प्राप्त किये । ६ ) सा ० भा ० अग्निना प्रह्रियमाणेन नूतनेन पूर्वसिद्धमाहवनीयाग्निमयजन्तः पूजित-वन्त इति यदस्ति तेन कारणेन यज्ञेन वै देवा यज्ञमयजन्तेत्युच्यते। उभौ यज्ञशब्दौ स्वकारणभूतसंग्निद्वयमुपलक्षयतः । देवशब्देनेदानीं देवत्वेन वर्तमानाः पूर्वसिद्धा ऋत्विजो विवक्षिताः। ते च पूर्वमनुष्ठितेन यागेन स्वर्गलोकं प्राप्ताः ॥ अवशिष्टं पादत्रयं पठत्ति—' तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे 'साध्याः सन्ति देवा इति ॥ ३७ ॥
' ( ' ' - ) ( हिन्दी- यज्ञेन यज्ञं ऋचा के अवशिष्ट तीन पादों को दिखला रहे हैं यजन करने वालों द्वारा जो ज्योतिष्टोम इत्यादि का अनुष्ठान किया गया) तानि धर्माणि प्रथमान आसन् वे ( सभी संपादित अनुष्ठान) प्रथम (सृष्टि के आदिकाल में ) धर्म ( सुकृत ) थे। ते ह महिमानं नाकम् उन ( यजन करने वालों ) ने स्वर्ग (महत्वपूर्ण भोग ) को सचन्त प्राप्त किया, यत्र जिस ( लोक) में पूर्वे साध्याः देवाः सन्ति पूर्ववर्ती ( सृष्टिकाल में ). यज्ञादि के सम्पादक देवता लोग विद्यमान हैं । सा० भा ० — इदानीं देवत्वेन वर्तमानैः पूर्वसिद्धैर्ऋत्विग्यजमानैर्यानि ज्योतिष्टोमादीनि कर्माण्यनुष्ठितानि तानि सर्वाणि प्रथमानि धर्माण्यादिसृष्टिकालीनानि सुकृतसाधनान्यासन्। ते ह ते चानुष्ठातारो महिमानो महत्त्वोपेता नाकं सचन्त कं सुखमकं दुःखं तद्रहितो भोगो नाकस्तं संप्राप्तवन्तः । यत्र यस्मिल्लोके पूर्वे साध्याः पूर्वसृष्टिगता यज्ञादिसाधका इदानीं यज्ञादिभिः साध्यत्वेन वर्तमाना देवाः सन्ति वर्तन्ते तं नाकं सचन्तेति पूर्वत्रान्वयः ॥ `चतुर्थपादस्य तात्पर्यं दर्शयति— छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निाऽग्निमयजन्त ते स्वर्गं लोक- मायन् ॥ ३८ ॥.
हिन्दी—( चतुर्थ पाद के तात्पर्य को दिखला रहे हैं— ) छन्दांसि वै साध्याः देवाः ( गायत्र्यादि) छन्द ही सिद्ध देवता है, ये जिन्होंने अग्रे सर्वप्रथम अग्निना अग्निम्
पृष्ठ 185
पाठ पढ़ें पाठ छिपाएँ
: ]: तृतीयोऽध्यायः पञ्चमः खण्ड सायणाचार्यकृतभाष्योपेतम् १२३ अयजन्त ( मन्थनोत्पन्न ) अग्नि के द्वारा ( आहवनीय) अग्नि का यजन किया और उन लोगों ने स्वर्गं लोकम् आयन् स्वर्ग लोक को प्राप्त किया। सा ० भा० –- छन्दासि वै गायत्र्यादिच्छन्दोभिमानिन एवं साध्या इदानीं जनैः पूज्या देवास्तेऽग्रे च पूर्वसृष्टाग्निना मथितेनाग्निनाऽऽहवनीयमग्निमयजन्त पूजितवन्तः । ते च तेन यागेन स्वर्गं प्राप्ताः । न केवलं छन्दोदेवा एव चतुर्थपादे विवक्षिताः किन्त्वन्येऽपीत्याह—— आदित्याश्चैवेहाऽऽसन्नङ्गिरसश्च तेऽग्रेऽग्निनाऽग्निमयजन्त ते स्वर्गं लोकमायन् ॥ ३ ९ ॥ हिन्दी -(चतुर्थपाद के अन्य अर्थ को बतला रहे हैं - ) आदित्याः च अङ्गिरसः च आदित्य गज और अङ्गिरागज इह आसन् इस ( सृष्टि ) में (पहले ) उत्पन्न हुए थे।... अग्रे अग्निना अग्निम् अयजन्त उन लोगों ने सर्वप्रथम ( मन्थनोत्पन्न ) अग्नि के द्वारा ( आहवनीय) अग्नि का यजन किया और ते स्वर्गं लोकम् आयन् उन्होंने स्वर्ग लोक को प्राप्त किया था । सा० भा० - इदानीमादित्यशब्देनाभिधेया देवा अङ्गिरः शब्देनाभिधेया ये चर्षयस्ते द्विविधा अपीहैवाऽऽसन्भूमावेव पूर्वसृष्टौ मनुष्यरूपेणावस्थिताः । तेऽग्र इत्यादि पूर्ववत्। तदेवं चतुर्थपादतात्पर्यद्वयमुक्तम्। यद्वा छन्दासीत्यादिकमेव चतुर्थपादतात्पर्यम् । आदित्यादिक- मितरपादतात्पर्यमिति द्रष्टव्यम्॥' येयमाहवनीयेऽग्नौ मथिताग्निप्रक्षेपलक्षणाहुतिस्तां प्रशंसति-— सैषां स्वर्ग्याहुतिर्यदग्न्याहुतिर्यदि ह वा अप्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाऽऽहुतिर्गच्छत्येव देवान्न पाप्मना संसृज्यते ॥ ४० ॥
हिन्दी—( आहवनीयाग्नि में मन्थनोत्त्पन्न अग्नि के प्रक्षेपरूप आहुति प्रशंसा कर रहे हैं—- ) यद् अग्न्याहुतिः जो यह ( आहवनीयाग्नि में मन्थनोत्पन्न ) अग्नि की आहुति है सा एषा स्वर्ग्याहुतिः वह यह स्वर्ग को प्राप्त कराने वाली आहुति होती है । यदि ह वै अपि अब्राह्मणोक्तः यदि ब्राह्मण ग्रन्थ में कहे गये से रहित ( अर्थात् अपनी बुद्धि से अनुष्ठान करने वाला) अथवा यदि दुरोक्तोक्तः यदि विधि- रहित यजते यजन करता है अथ तब भी एषा आहुतिः देवान् गच्छति यह आहुति देवताओं को प्राप्त होती है और पाप्मना न संसृजते ( यजन करने वाला ) पाप से संसृत ( सम्पृक्त ) नहीं होता है । ( १ ) एष मन्त्रः सायणेन संहिताभाष्ये पञ्चधा व्याख्यातः यास्केन च स्वमते आख्यानमते चेति द्विधा व्याख्यातः ( १२.४१ ) । आदित्यादीनामप्यर्था नैरुक्तमते विभिन्ना एव (२. ६.१३ )।
पृष्ठ 186
पाठ पढ़ें पाठ छिपाएँ
: [ १२४ ऐतरेयब्राह्मणम् ३.५ प्रथमपञ्चिकायां सा० भा० — अग्निरूपद्रव्याहुतिर्या विद्यते सैषा स्वर्गाय हिता । ' ' यदि हेत्यादिना स्वर्गत्वमेव स्पष्टीक्रीयते । ब्राह्मणं विधायकं वाक्यम्, तेन प्रेरितो ब्राह्मणोक्तः, तद्विपरीतः पण्डितंमन्यः स्वबुद्ध्यैव यत्किंचिद् योऽनुतिष्ठति सोऽयम् ' अब्राह्मणोक्त' । पुरुषेणान्यथाऽ- वबुद्धं विधिवाक्यं दुरुक्तम्, तेन प्रेरितो दुरुक्तोक्तः । अथवा स्मृतिष्वब्राह्मणत्वेन प्रतिपादितो योऽस्ति
तद्यथा सोऽयमब्राह्मणोक्तः--- अब्राह्मणास्तु॥ षट्प्रोक्ता इति शातातपोऽब्रवीत् ।
आद्यस्तु राजभृत्यः स्याद्द्द्वितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्याख्यश्चतुर्थोऽश्रौतयाजकः । पञ्चमो ग्रामयाजी च षष्ठो ब्रह्मबन्धुः स्मृतः । इति। यद्यपि याजनाध्यापनप्रतिग्रहा ब्राह्मणस्य जीवनहेतुत्वेन विहितत्वाद् अनिषिद्धा- स्तथाऽपि यावता जीवनं निष्पद्यते तावदेव याजनं शास्त्रेणाङ्गीकृतम् । यस्तु सत्यपि जीवने धनाधिक्यवाञ्छया याजनशीलः सोऽत्र बहुयाजी विवक्षितः । यः पुमान् श्रौतकर्मण्यधिकृतोऽ- नादरेण स्वयं श्रौतं नानुतिष्ठति, अन्यानपि नानुष्ठापयपि किंतु स्मार्तकर्मपरः सन्ननुतिष्ठत्यनुष्ठा- पयति सोऽयमश्रौतयाजकः । ग्रामे नगरे च योग्यायोग्याश्च यावन्तः सन्ति, धनाभिलाषेण तावता सर्वेषां याजका ग्रामनगरयाजी। यः पुमान् प्रातः सूर्योदयात् प्राक् सन्ध्यां नोपास्ते, सायं चास्तमयात् प्राङ्नोपास्ते, सोऽयं ब्रह्मबन्धुः । एते षडब्राह्मणत्वेन स्मृतिषूक्ताः । दुष्टान्यपवादरूपाणि वचनानि दुरुक्तानि, तैरभिशस्तो दुरुक्तोक्तः । ' अब्राह्मणोक्तो' वा 'दुरु- क्तोक्तो ’ वा यद्यपि ‘ यजते ’ अथाऽप्येषाऽऽहवनीये हुता मथिताऽग्न्याहुतिर्देवान् प्राप्नोत्येव । ततो यजमानस्य पापसंसर्गो न भवति॥ वेदनं प्रशंसति— गच्छत्यस्याऽऽहुतिर्देवान्नास्याऽऽहुतिः पाप्मना संसृज्यते य एवं वेद ॥ ४१ ॥
हिन्दी— ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को) जानता है अस्य आहुतिः उस (जानने वाले ) की आहुति देवान् गच्छति देवतओं को प्राप्त होती है और अस्य आहुतिः पाप्मना न संसृज्यते उसकी आहुति पाप ( १ ) स्वर्ग्या । 'तस्मै हितम् -इति पा ० सू० ५.१.५। ( २ ) ' अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्ववादिना । आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी । तृतीय: बहुयाज्यः स्याच्चतुर्थे ग्रामयाजकः । पञ्चमस्तु वृतस्तेषा ग्रामस्य नगरस्य च । अनागतां तु यः पूर्वं सादित्यां चैव पश्चिमाम्। नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्रह्माणः स्मृतः । इति वा पाठः । ( ३ ) षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ - इति मनुः १०.७६ ।
पृष्ठ 187
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् १२५ (दोष) से सम्पृक्त नहीं होती । सा ० भा० – उक्तार्थवेदिता यद्यपि यत्किंचित्कर्म विकलमनुतिष्ठति तथाऽपि तत्सर्वंसकलं भवति॥ न्यूनाधिकसंख्याभ्रमव्युदासाय विहितानामृचां संख्यां दर्शयति— ता एतात्रयोदशान्वाह रूपसमृद्धाः ॥४२ ॥
हिन्दी -(ऋचाओं में न्यूनाधिकता के निवारण के लिए उनकी संख्या को दिखला रहे हैं - ) ताः एताः त्रयोदश उन इन ( पूर्वोक्त ) तेरह (ऋचाओं) को अन्वाह ( होता अग्नि- मन्थन में) पढ़ता है; क्योंकि रूपसमृद्धाः (वे ऋचाएँ अग्निमन्थन के ) रूप से समृद्ध हैं । सा० भा० - राक्षोघ्नीनां नैमित्तिकत्वात्' परित्यागेनेतरास्रयोदशसंख्याकाः । ताश्च मथ्यमानस्य जायमानस्य प्रह्रियमाणस्याऽऽहवनीयेन संसृज्यमानस्य च प्रतिपादनेनानुकूले-नैव रूपेण समृद्धा:। तामेतां समृद्धिं प्रशंसति— एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्मं क्रियमाणमृगभिवदति ॥ ४३ ॥
हिन्दी - ( उस समृद्धि की प्रशंसा कर रहे हैं - ) यद् रूपसमृद्धम् जो (ऋचाएँ) रूप से समृद्ध है, एतद् यज्ञस्य समृद्धम् यह यज्ञ की समृद्धि है। यत् क्रियमाणं कर्म जिस किये जाते हुए कर्म को ऋक् अभिवदति ऋचा कहती है । आद्यन्तयोर्ऋचोरावृत्तिविधिमावृत्तानां संख्याप्रशंसां वेदनप्रशंसामावृत्तिप्रशंसा च दर्शयति— तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां, ताः सप्तदश संपद्यन्ते, सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्तांवान् संवत्सरः, संवत्सरः प्रजापतिः, प्रजापत्यायतनाभिरेवाऽऽभी राध्नोति य एवं वेद, त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बस नह्यति स्थेम्ने बलाया- विस्रंसाय ॥ ४४ ॥
हिन्दी— (उन तेरह ऋचाओं में प्रथम और अन्तिम ऋचा की तीन - तीन आवृत्ति को कह रहे हैं ) तासाम् उन (तेरह ऋचाओं में) प्रथमां त्रिः प्रथम (ऋचा) को तीन बार और उत्तमां त्रिः अन्तिम (ऋचा) को तीन बार अन्वाह पढ़ता है । ताः सप्तदशः सम्पद्यन्ते वे ( प्रथम और अन्तिम ऋचा की तीन तीन बार आवृत्ति करने पर) सत्रह हो जाती ( १ ) द्र० इतः परस्तात् ( ३.५.९ ) । ( २ ) एतास्त्रयोदशर्च्चस्तैत्तिरीयसंहितायामनुक्रमेणैवैकत्राम्नाताः ( ३.५.११ ) वस्तुतोऽत्र नैमित्ति- कसहिताः साकल्येनेह द्वाविशतिः ऋचो विहिताः ।
पृष्ठ 188
पाठ पढ़ें पाठ छिपाएँ
[ ३.६ प्रथमपञ्चिकायां • १२६: ऐतरेयब्राह्मणम् हैं । सप्तदशः वै प्रजापतिः प्रजापति सत्रह ( संख्या वाला ) होता है— द्वादशमासाः पञ्चर्तवः बारह महीने और पाँच ऋतुएँ । तावान् संवत्सरः इतना संवत्सर होता है । संवत्सरः प्रजापतिः संवत्सर प्रजापितरूप है । यः एवं वेद जो इस प्रकार (इस तथ्य को ) जानता है, वह प्रजापत्यायतनाभिः एव प्रजापति के आयतन द्वारा अभि राध्नोति ( सफलता को ) चारो ओर से प्राप्त करता है । जो त्रि प्रथमां त्रिः उत्तमाम् तीन बार प्रथम और तीन बार अन्तिम ( ऋचा ) को अन्वाह ( होता ) बाँचता है, तत्उससे यज्ञस्यैव बस • यज्ञ के ( आदि और अन्त वाली ) दोनों गाठों की स्थेम्ने स्थिरताके लिए, बलाय बल के
· लिए और विस्रंसाय यज्ञ के शिथिल न होने के लिए नह्यति बाँधता है।
सा० भा ० – पूर्ववद् व्याख्येयम्॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्य तृतीयाध्याये पञ्चमः खण्डः || ५ || ॥ इस प्रकार ऐतरेयब्राह्मण के तृतीय अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० आतिथ्येष्टिमध्ये कर्तव्यमग्मिन्थनमुक्त्वा तदिष्टिशेषं विधत्ते— ( आतिथ्येष्टौ इष्टिशेषविधानम् ) ( तत्राज्यभागयोः पुरोनुवाक्याद्वयविधानम् ) समिधाऽग्निं दुवस्यताऽऽप्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति ॥ १ ॥
हिन्दी - ( आतिथ्येष्टि में करणीय अग्नि- मन्थन को कह कर उस इष्टि के अवशिष्ट भाग का विधान कर रहे हैं— ) ‘ समिधाऽग्निं दुवस्यत' और ' आप्यायस्व समेतुं ते ' इति ये दो ऋचाएँ आज्यभागयोः आज्यभाग की पुरोनुवाक्ये दो पुरोनुवाक्या हैं। आतिथ्य- वत्यौ ( पूर्ववर्तीऋचा के द्वितीय पाद में अतिथि शब्द होने के कारण ) ये दोनों ऋचाएँ अतिथि शब्द से युक्त है अतः रूपसमृद्धे दोनों ( इष्टि के ) रूप से समृद्ध है । यद् रूपं- समृद्धम् जो रूप से समृद्ध हैं एतद्वै यज्ञस्य समृद्धम् यह यज्ञ की समृद्धि है; यत् क्रियमाणं कर्म जो किया जाता हुआ ( सोम का आतिथ्यरूप) कर्म है, इसको ऋग् अभिवदति ऋचा सभी प्रकार से कह रही है।
पृष्ठ 189
पाठ पढ़ें पाठ छिपाएँ
]:: तृतीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् १२७ सा० भा० – ‘ समिधाऽग्निम्" इति प्रथमाज्यभागस्य पुरोनुवाक्या। ‘ आप्यायस्व समेतु ते’३ इति द्वितीयस्य। प्रथममन्त्रस्य द्वितीयपादेः घृतैर्बोधयतातिथिमिति श्रूयमाणत्वादा- तिथ्यवत्यौ॥ तदेतद्राक्षिपति-: ( तत्राक्षेपकथनम्) सैषाऽऽग्नेय्यतिथिमती न सौम्याऽतिथिंमत्यस्ति यत्सौम्याऽतिथिमती स्याच्छश्वत्सा स्यात् ॥ २॥
हिन्दी –( इस पुरोनुवाक्या वाली ' समिधाऽग्नि' इत्यादि ऋचाओं के विषय में आक्षेप को दिखला रहे हैं ) सा एषा वह ( पूर्वोक्त ) यह (प्रथमा ऋचा) आग्नेयी अतिथिमती अग्नि देवताक अतिथि वाली है किन्तु ( द्वितीय ऋचा ) सौम्या न अतिथिमती अस्ति सोम देवताक है ( परञ्च) अतिथि वाली नहीं है। यत् सौम्या अतिथिमती स्यात् यदि सोम देवताक ( द्वितीय ऋचा) अतिथि शब्द वाली होती तो शश्वत् सा स्यात् वह (ऋचा) निश्चित रूप से ( सोमसम्बन्धी पुरोनुवाक्या) होती । सा ० भा० -– सौम्या त्वतिथिब्दोपेता नास्ति। आ प्यायस्वेत्यस्यामृच्यतिथिशब्दस्या- श्रवणात्। यदि सौम्याऽितिथिशब्दोपेता स्यात्तदानीं शश्वदवश्यं सा सौम्या पुरोनुवाक्या भवेत्। न त्वसावतिथिमती । तस्मादातिथ्यवत्याविति द्विवचनमयुक्तमित्यार्थः ॥ ४ आक्षेपं समाधत्ते— ( आक्षेपसमाधानम् ) तत्त्वेवैषाऽतिथिमती यदापीनवती ॥ ३ ॥
हिन्दी -(इस आक्षेप का समाधान कर रहे हैं - ) यद् आपीमवती ( यह दूसरी *ऋचा) जो. आपीन शब्द से युक्त है, तत्तु एव एषा अतः यह (ऋचा) अतिथिमती उस (अतिथि शब्द) से ही युक्त है । सा० भा ० — तुशब्द आक्षेपनिवारणार्थः । आपीनमभिवृद्धिस्तद्वाचकस्याऽऽप्यायस्वैति शब्दस्य विद्यमानत्वादियं सौम्याऽऽपीनवती। यदापीनवत्त्वमस्ति, एतदेवैतेनऽऽपीनवत्त्वे- नैवैषा सौम्याऽतिथिमती संपद्यते। आपीनवत्त्वस्यातिथ्युपलक्षकत्वात्॥... तदेवोपलक्षकत्वं विशदयति- ( १ ) ऋ० ८.४४.१ । ( ),. ( २३ ) ऋअत० एवाह१.९९चाश्वलायनः.१६। –' धाय्ये, अतिथिमन्तौ समिधाग्निं दुवस्यताप्यायस्व समेतु त इति' इति श्रौ० ४.५.३ ।
पृष्ठ 190
पाठ पढ़ें पाठ छिपाएँ
: [ १२८ ऐतरेयब्राह्मणम् ३.६ प्रथमपञ्चिकायां यदा वा अतिथिं परिवेविषत्या पीन इव वै स तर्हि भवति ॥४ ॥
हिन्दी— यदा वै अतिथिं परिवेविषति जब अथिति को पात्र में भोजन डाल कर भोजन कराता है तर्हि सः पीनः इव भवति तब वह ( अतिथि) मानों ( भोजनपूर्ति से ) वृद्धिं को प्राप्त कर लेता है। (अतः वृद्धिवाचक 'आप्यास्व' शब्द अतिथि को उपलक्षित करता है )। सा० भा० — तमतिथिं गृहस्वामी यदैव परिवेविषति परिवेषणेन पात्रे भोज्यप्रक्षे- पणेन भोजयति तर्हि तस्मिन् भोजनोत्तरकाले सोऽतिथिरापीन इवोदरपूर्त्या वृद्धिं प्राप्त इव भवत्येव। तस्माद् वृद्धिवाचक आप्यायस्वेति शब्दोऽतिथिलक्षकः । अतो द्विवचनं पुरोनु- वाक्यात्वं च युक्तम्॥ आज्यभागयोर्याज्यां विधत्ते -. ( आज्यभागयोर्याज्याद्वयविधानम् ) तर्योर्जुषाणेनैव यजति ॥ ५ ॥
हिन्दी— ( अब आज्य भाग की याज्या को कह रहे हैं - ) जुषाणा एना एव ' जुषाणा' से प्रारम्भ होने वाले दो मन्त्रों से तयोः यजति उन दोनों (याज्याभागों ) का यजन ( याज्या ) करता है । सा ० भा ० — प्रकृतावाम्नातौ ' जुषाणोऽग्निराज्यस्य वेतु ' । जुषाणः सोम आज्यस्य हविषो वे तु' इति च । तेनैव मन्त्रेण यजेत। अग्निर्वृत्राणीत्यादिके प्रकृतिगते पुरोनु- वाक्ये चोदकप्राप्ते अपोद्य यथा समिधाऽग्निमित्यादिके विहिते तद्वद्याज्यान्तरप्रसक्तिं वार- यितुं विधिः॥ प्रधानस्य हविषो याज्यानुवाक्ये विधत्ते-- इदं विष्णुर्विचक्रमे तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ ॥ ६ ॥
हिन्दी—( प्रधान हविष् की याज्या और अनुवाक्या को कह रहे हैं— ) 'इदं विष्णुर्वि चक्रमे ' और ' तदस्य प्रियमभि पाथो अश्याम्' इति वैष्णव्यौ ये दोनों विष्णु से सम्बधित (ऋचाएँ याज्या और अनुवाक्या हैं । ) । सा० भा ० — याज्यानुवाक्ये कुर्यादिति शेषः । २ तयोर्विभागं विधत्ते— त्रिपदामनूच्य चतुष्पदया यजति ॥७ ॥
( १ ) ' जुषाण: ’-इतिपदयुक्तमन्त्रद्वयेनेति भावः । तौ मन्त्रौ तै० ब्रा० ३.५.६ आम्नातौ। (२ ) आश्व० श्रौ० ४.५.३ ।