ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 201–210
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 201–210
पृष्ठ 201
पाठ पढ़ें पाठ छिपाएँ
]:: १३ ९ चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् सा ० भा ० — अस्य मन्त्रस्य चतुर्थपादे बृहस्पतिर्देवतेति श्रूयमाणत्वाद् बृहस्पतेश्च ब्राह्मणस्वामित्वादियमृग्ब्राह्मणस्पत्या॥ चतुर्थीमृचं विधत्ते- 'अभि त्यं देवं संवितारमोण्योरिति सावित्री प्राणो वै सविता प्राणमेवास्मिंस्तद्दधाति ॥४ ॥
हिन्दी –(चतुर्थी ऋचा- ) ' अभित्यं देव सवितारमोण्यो: ' इति सावित्री इस सविता देवता वाली (ऋचा) से (होता स्तुति करता है ) । प्राणः वै सविता प्राण ही सवितारूप है तत् इस (ऋचा के पाठ से ) अस्मिन् इस (प्रवर्ग्य) में प्राणमेव दधाति प्राण को ही प्रतिष्ठित करता है । सा० भा ० – सवितारमिति श्रुतत्वादियंमृक्सावित्री। पठनीयेति शेषः । प्राणस्य देहेन्द्रियप्रेरकत्वात्। तत्तेन मन्त्रेणास्मिन् प्रवर्ये प्राणमेव संपादयति। ता एताश्चतस्त्र ऋच: शाखान्तरगता आश्वलायनेन पठिता द्रष्टव्याः१ ॥ पञ्चमीमृचं विधत्ते— "सं सीदस्व महाँ असीत्येवैनं समसादयन् ॥ ५ ॥
हिन्दी— ( पञ्चमी ऋचा— ) ' सं सीदस्व महाँ असि' इति इस मन्त्र से एनम् इस (प्रवर्ग्यसंज्ञक महावीर ) को समसादयन् (खर नामक संतापन स्थान पर) स्थापित करना चाहिए। सा ० भा ० – अनेन' मन्त्रेणैनं प्रवर्ग्याख्यं महावीरं खरशब्दाभिधेये संतापनस्थाने समसादयन् स्थापयेयुरित्यर्थः ॥ षष्ठीमृचं विधत्ते— 'अञ्जन्ति यं प्रथयन्तो न विप्रा' इत्यज्यमानायाभिरूपा यद्यज्ञेऽ- भिरूपं तत्समृद्धम् ॥६ ॥
हिन्दी—(षष्ठी ऋचा ) ' अञ्जन्ति यं प्रथयन्तो न विप्रा' इति यह (ऋचा ) अज्यमानाय अभिरूपा ( महावीर नामक पात्र में ) घी लगाने के लिए अनुरूप है। यद् यज्ञे अनुरूपम् जो यज्ञ ( कर्म ) के अनुरूप है तत्समृद्धम् वही ( यज्ञ की ) समृद्धि है । सा ० भा ० — अस्मिन् मन्त्रे' अञ्जन्तीति पदस्य श्रुतत्वादाज्येनाज्यमानाय महावीरा-( ) ( )( ३ १ ) आश्वसं सीदस्व० श्री० महाँ४.६.३.१-४असीति संसाद्यमाने -२इतिऋकल्प०:१.३६.९(आश्व० श्री० ४.६.३ ) । (४ ) ऋ० ५.४३.७।
पृष्ठ 202
पाठ पढ़ें पाठ छिपाएँ
: [ १४० ऐतरेयब्राह्मणम् ४.२ प्रथमपञ्चिकायां ख्याय पात्राय येयमृगभिरूपा भवति' । सप्तमीमारभ्य द्वादशपर्यन्ताः षड्ऋचो विधत्ते- ' पतङ्गमक्तमसुरस्य मायया' ' यो नः सनुत्यो अभिदासदग्ने' ' भवा नो अग्ने सुमना उपेताविति द्वे द्वे अभिरूपे यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥७ ॥
हिन्दी-( सप्तमी से लेकर द्वादशी तक छः ऋचाओं का विधान कर रहे हैं - ) ‘ पतङ्गमक्तमसुरस्य मायया’ ये दो ऋचाएँ 'यो नः सनुत्यो अभिदासदग्ने' ये दो ऋचाएँ और ‘ भवा नो अग्ने सुमना उपेतौ ’ ये दो ऋचाएँ अभिरूपे ( यज्ञ के ) अनुरूप है। यद् यज्ञे अभिरूपम् जो ये यज्ञ के अनुरूप है, तत् समृद्धम् उससे ( यज्ञ ) समृद्ध होता है। सा ० भा ० — पतङ्गमिति संहितायामाम्नातयोर्द्वयोः प्रतीके ' । ' यो नः सनुत्य ' इति द्वयोः प्रतीके । ‘ भवा नो अग्ने' इति द्वयोः । तासां सर्वासामभिष्ट्यमानार्थप्रतिपादक- त्वादभिरूपत्वम्। तच्चात्रैतास्वृक्षु बुद्धिमता योजनीयम्॥ त्रयोदशीमारभ्य सप्तदशीपर्यन्ताः पञ्चचें विधत्ते- 'कृणुष्व पाजः प्रसितिं न पृथिवीमिति' पञ्च' राक्षोघ्न्यो रक्षसा- मपहत्यै ॥८ ॥
हिन्दी – ( त्रयोदशी से लेकर सप्तदशी तक पाँच ऋचाओं का विधान कर रहे हैं— ) ' कृणुष्व पाजः प्रसृतिं न पृथिवीम्' इति पञ्च रक्षोघ्न्यः ये पाँच (ऋचाएँ) राक्षसों का विनाश करने वाली हैं। रक्षसाम् अपहत्यै अतः राक्षसों को मारने के लिए (होता इनका पाठ करता है ) । सा ० भा ० – अष्टादशीमारभ्यैकविंश्यन्ताश्चतस्त्र ऋचो विधत्ते— परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिषद्यमानमिति चतस्र एकपातिन्यः ॥ ९ ॥
हिन्दी -( अष्टादशी से लेकर एकविंशी तक चार ऋचाओं का विधान कर रहे हैं— ) ‘ परि त्वा गिर्वणो गिरः', ' अधि द्वयोरदधा उक्थ्यं वचः', ' शुक्रं ते अन्यद्यजतं ’ ‘ ' (ऋचाएँ ) अन्यत् और अपश्य गोपामनिषद्यमानम् इति चतस्रः एकपातिन्यः ये चार तेएकपातिनी (एक- एक ऋचा के प्रतीक ) हैं | ( १ ) 'अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने ' –इति कल्पः ४.६.३ ( )......:' - २ पतङ्ग उपेताविति वृचा इति कल्पः ४.६.३ ॥( ) ( ) ३ ऋ० १०.१७७.१,२ । ४ ऋ ० ६.५.४,५( ) ( ) ५ ऋ० ३.१८.१,२। ६ ऋ० ४.४.१-५॥ (
पृष्ठ 203
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् १४१ सा० भा०--एकस्य मन्त्रस्य पातः प्रतीकमेकपातः सोऽयं यास्वृक्षु ता एकपातिन्यः ।१ ‘परित्वा गिर्वणः’२ इति यत्प्रतीकं तत्संहितायां क्रमेणाऽऽम्नातानां चतसृणां प्रतीकमित्या- शङ्क्येत चतस्र इति ब्राह्मणेऽभिधानात्, एवम् 'अधि द्वयोः ३ 'शक्रं ते' ' ' अपश्यं गोपाम्" इति त्रिषु प्रतीकेषु शङ्कोदियात्, तदव्यावृत्त्यर्थमेकपातिन्य इत्युच्यते। एकैकस्या ऋच: प्रतीकान्येतानि मिलित्वा चतस्र इति तात्पर्यार्थः ॥ संख्यान्तरभ्रमव्युदासायोक्तमन्त्रगता संख्यां प्रशंसति— ता एकविंशतिर्भवन्ति ॥ १० ॥
हिन्दी- ( इन ऋचाओं की संख्या को कह रहे हैं - ) ताः वे (उपर्युक्त ऋचाएँ) एकविंशतिः भवन्ति (संख्या में) इक्कीस है तां संख्यां प्रशंसति- एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्त- मिममात्मानमेकविशं संस्कुरुते ॥ ११ ॥
हिन्दी—(इस इक्कीस संख्या की प्रशंसा कर रहे हैं - ) दश हस्त्या अङ्गुलयः दश हाथ की अङ्गुलियाँ दश पाद्याः दश पैर की ( अङ्गलियाँ ) और आत्मा एकविशंति और इक्कीसवीं आत्मा इस प्रकार एकविंशः अयं पुरुषः यह पुरुष इक्कीस संख्या वाला है। तम् इमम् एकविंशम् आत्मानम् उस इस इक्कीसवीं आत्मा को संस्कुरुते (ऋचाओं की इक्कीस संख्या से ) संस्कारित किया जाता है । सा० भा० - अयं पुरुषो मनुष्यदेहो जीवनोपेतः, एकविंशतिसंख्यानामवयवानां समूहरूपत्वादेकविंश इत्युच्यते। दश हस्त्या इत्यादिना तदेव स्पष्टी क्रियते । आत्मशब्देन
मध्यदेहो जीवात्मा वाऽभिधीयते। संख्यासामन्यात्तैर्मन्त्रैरात्मानमेव संस्करोति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्य चतुर्थाध्याये द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) 'एकैकस्मिन् प्रतीके एकैकोपाया इत्यर्थः ' इति गोविन्दस्वामी। ( ) ( ) २ ऋ० १.१०.१२। ३ ऋ ० १. ८३.३ ।( ) ( ).,४ ऋ० ६.५८.११ ५ ऋ ० १.१५४ ३१ १०. १७७.३ ।
पृष्ठ 204
पाठ पढ़ें पाठ छिपाएँ
: [ १४२ ऐतरेयब्राह्मणम् ४.३ प्रथमपञ्चिकायां अथ तृतीयः खण्डः सा० भा ० — अथैकसूक्तगताः काश्चिदृचो विधत्ते— ( अभिष्टवस्य त्रयोदशर्चां विधानम् ) स्रक्वे द्रप्सस्य धमतः समस्वरनिति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति ॥ १ ॥
हिन्दी—( एक सूक्तगत नौ ऋचाओं का विधान कर रहे हैं - ) ' स्रक्वे द्रप्सस्य धमतः समस्वरन्' इति नव पावमान्यः इस पवमान देवता वाले ( सूक्त में ) नौ ऋचाएँ है । नव एव प्राणाः प्राण भी नौ ही होते हैं। तत् उस (ऋचाओं के वाचन ) से ( होता ) अस्मिन् इस (प्रवर्ग्य के अभिमानित पुरुष) में प्राणान् एव दधाति प्राणों को ही प्रतिष्ठापित करता है। सा ० भा ० — अस्मिन्' स्रक्वे द्रप्सस्येति' सूक्ते ' पवमानदेवताका ऋचो नवसंख्या- काः । अतः संख्यासाम्यात्तत्पाठेनास्मिन् प्रवर्ग्याभिमानिनि पुरुषे नवच्छिद्रवर्तिनः प्राणानव- स्थापयति ॥.. एतन्मन्त्रगतस्य वेनशब्दस्य नाभिपरत्वमभिप्रेत्य प्रशंसति- वेनोऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चोऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वं प्राणं वास्मिं- •स्तद्दधाति ॥ २ ॥
·हिन्दी–(उपर्युक्त ऋचा में प्रयुक्त वेन शब्द की प्रशंसा कर रहे हैं— ) ( उपर्युक्त मन्त्र के पाठ में होता अयं शब्द का उच्चारण करते हुए नाभि की ओर सङ्केत करता है कि ) वेनः यह वेन है। अस्माद् ऊर्ध्वा इस ( वेन = नाभि ) से ऊपर अन्ये प्राणाः अन्य ( अर्थात् नेत्रादि इन्द्रियों में विद्यमान ) प्राण और अवाञ्चः अन्ये नीचे की ओर ( अर्थात् उपस्थादि इन्द्रियों में विद्यमान प्राण ) वेनन्ति विचरण करते हैं । तस्माद् उसी (प्राण के देन = विचरण क्रिया) के कारण वेनः प्राणः वै वेन ( नाभि) प्राणस्वरूप है । तस्मात् इसलिए नाभेः अयं सन् नाभि में यह ( विचरण करने से नाभिः ( वेन) नाभि कहलाता है। तद् नाभेः नाभित्वम् यही नाभि का नाभित्व ( नाभि होना) है । तत् उस (पाठ ) से ( होता) अस्मिन् इस (प्रवर्ग्य ) में प्राणं दधाति प्राण को प्रतिष्ठापित करता है । सा ० भा ० — शरीरमध्येऽवस्थितं नाभिं हस्तेनाभिनीय प्रदर्शयन्नयं अन्ये प्राणाश्चक्षुरादयः केचित्प्राण-तस्य नाभेर्वेनत्वं कथमिति चेदुच्यते। अस्मान्नाभेरूर्ध्वा वै वेन इत्युच्यते । ( १ ) ऋ० ९.७३ ।
पृष्ठ 205
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् १४३ विशेषा वेनन्ति चरन्ति। तथा नाभेरवाञ्चोऽपानवाय्वादयः केचिद्वेनन्ति चरन्ति। तस्माद्वे- नन्त्यस्मादवधिभूतान्नाभेरिति व्युत्पत्त्या वेनशब्दवाच्यो नाभिः । नाभिंशब्दवाच्यत्वं कथमिति चेत्तदुच्यते। अयं नाभिः प्राणाधारत्वेन स्वयं प्राणरूपः सन्नितरानूर्ध्ववर्तिनोऽधोवर्तिनश्च प्राणा- नुद्दिश्य प्रत्येकं नाभेर्नाभैषीरित्येवं वदन्निव मर्दायारूपत्वेनावस्थितस्तस्मादयं देहमध्यवर्ती नाभिर्भवति। नैव भीति कुर्वित्यभिप्रेत्य मर्यादात्वेनावस्थानमेव नाभेर्नाभिशब्दप्रवृत्तिनिमित्तम्
।
तस्मादयं वेन इति मन्त्रपाठेन प्राणमेवास्मिन् प्रवर्ये स्थापयति॥
अथैकामृचं विधत्ते— ' अयं वेनश्चोदयत्पृश्निगर्भा ' इति ॥ ३ ॥
हिन्दी— ‘ अयं वेनश्चोदयत्पृश्निगर्भा' इति इस ऋचा का वाचन करता है । अथैकत्र समाम्नातमृग्द्वयमन्यत्र समाम्नातामेकामृचं विधाय सह प्रशंसति- ' पवित्रं ते विततं ब्रह्मणस्पते' ' तपोष्पवित्रं विततं दिवस्पदे ' ' ' विय- त्पवित्रं धिषणा अतन्वतेति' पूतवन्तः प्राणास्त इंमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥४ ॥
हिन्दी— ‘ पवित्रं ते विततं ब्रह्मणस्पते', ' तपोष्पवित्रं विततं दिवस्पदे' और ‘वियत्पवित्रं धिषणा अतन्वत' इति पूतवन्तः प्राणाः ये (ऋचाएँ पवित्र शब्द का प्रयोग होने के कारण ) पवित्र करने वाली प्राणस्थानीय हैं। इमे ये ( प्रत्येक ऋचाएँ) अवाञ्चः ( यज्ञ पुरुष के ) अधोभाग में स्थित रेतस्य मूत्र्यः पुरीष्या इति क्रमशः वीर्य, मूत्र और पुरीष के लिए हैं॥ तत् इन (ऋचाओं के पाठ से ) एतस्मिन् इस प्रवर्ग्य में एतान् एव दधाति इन (प्राणों ) को ही प्रतिष्ठापित करता है । सा० भा० — अत्र वियत्पवित्रमित्येषा शाखान्तरगता सूत्रकारेण पठिता । त्रिष्वप्येतेषु मन्त्रेषु शुद्धिवाचिनः पवित्रशब्दस्य विद्यमानत्वाद् एते पूतवन्तः । यज्ञपुरुषस्य प्राणस्थानीया: पूर्वमुदाहृता मन्त्रविशेषा यज्ञपुरुषस्य नाभेरूर्ध्वभाविप्राणस्थानीयाः पवित्रं ते विततमित्या- द्यास्त्रयो मन्त्रा ये सन्ति त इमे नाभेरवाञ्चोऽधोदेशप्राणस्थानीयास्तेषु रेतसे हित एकः प्राणो*, मूत्राय हितोऽपरः प्राणस्तयोरुभयोर्गोलकद्वारस्यैकत्वेऽपि स्वरूपेणेन्द्रियभेदात् पृथङ्निर्देश । द्वारान्तरसंचारी पुरीषाय हितस्तृतीयः प्राण इत्युक्तानेतानेव त्रीन् प्राणान् मन्त्रत्रयपाठेनास्मिन् प्रवर्गे स्थापयति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्य चतुर्थाध्याये तृतीयः खण्डः ॥३ ॥
( ) ( ). १ ऋ० १०. १२३.१ २ ऋ० ९.८३ १,२ ।(३ ) आश्व ०श्री ० ४.६.३ । (४ ) (रेतस्य:) 'तस्मै हितम्' - इति पा० सू० ५.१.५।
पृष्ठ 206
पाठ पढ़ें पाठ छिपाएँ
: [ १४४ ऐतरेयब्राह्मणम् ४.४ प्रथमपञ्चिकायां ॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा ० - अथ सूक्तविशेषा विधातव्याः । तत्रैकोनविंशत्यृचं सूक्तं विधत्ते— ( अभिष्टवस्य षट्सप्तत्यृचां विधानम् ) ' गणानां त्वा गणपतिं हवामहे " इति ब्राह्मणस्पत्यं ब्रह्म वै बृह- स्पतिर्ब्रह्मणैवैनं तद्भिषज्यति ॥ १ ॥
हिन्दी–( सूक्त विशेषों का विधान करने के लिए सर्वप्रथम उन्नीस ऋचाओं वाले सूक्त का विधान कर रहे( हैं -) ); 'गणानां त्वा गणपतिं हवामहे' इति ब्राह्मणस्पत्यं- यह बृहस्पति देवता वाला सूक्त है क्योंकि ब्रह्म वै बृहस्पतिः ब्रह्म ही बृहस्पति-स्वरूपर है। तत् इस ( सूक्त के ऋचाओं के पाठ) से ब्रह्मणा एव ब्रह्म के द्वारा ही एनम् इस (प्रवर्ग्य) की भिषज्यति (होता) चिकित्सा करता है । सा० भा० – तस्मिन् सूक्ते प्रथमाया ऋचस्तृतीयपादे 'ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत’ इति श्रूयमाणत्वादिदं सूक्तं ब्रह्मणस्पतिदेवताकम् । ब्रह्म वा इत्यादिकं पूर्ववद् व्याख्येयम्। तृचात्मकं सूक्तान्तरं विधत्ते- प्रथश्च यस्य सप्रथश्च नामेति धर्मतन्वः सतनुमेवैनं तत्सरूपं करोति ॥ २ ॥
हिन्दी – ( तृचात्मक अन्य सूक्त का विधान कर रहे हैं — ) 'प्रथश्च यस्य सप्रथश्च नाम' इति धर्मतन्वः यह तृच घर्म की तनु ( प्रवर्ग्य- पात्र) है। तत् इस (तृच के पाठ ) से एनम् इस (प्रवर्ग्य) को सतनुमेव सरूपम् करोति शरीर- सम्पन्न शोभनरूप वाला करता है । सा ० भा ० – अस्मिन् सूक्ते ' पठिताः प्रथश्चेत्यादयस्तिस्र ऋचो घर्मतन्वः प्रवर्ग्यस्य शरीरस्थानीयास्तन्मन्त्रपाठेनैवं प्रवर्ग्यं सतनुं शरीरोपेतं करोति । सतनुमित्यस्यैव व्याख्यानं सरूपमिति। यद्वा तस्मिञ्शरीरे शोभनरूपसहितं प्रवर्ग्यं करोति॥ अस्मिन् सूक्ते प्रथमाद्वितीययोर्ऋचोर्यौ चतुर्थौ पादौ तावनूद्य प्रशंसति- रथन्तरमाजभारा वसिष्ठः । भरद्वाजो बृहदाचक्रे अग्नेरिति बृहद्रथ- न्तरवन्तमेवैनं तत्करोति ॥३॥।
हिन्दी- ( इस सूक्त की प्रथम और द्वितीय ऋचा के चतुर्थ पाद को कहकर उसकी व्याख्या कर रहे हैं— ) ( प्रथम ऋचा के चतुर्थ पाद ) ' रथन्तरमाजभारा वसिष्ठः ' और( ) ( ) १ ऋ० २.२३। २ ऋ० १०.१८१३
पृष्ठ 207
पाठ पढ़ें पाठ छिपाएँ
] चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ( ‘: द्वितीय ऋचा के चतुर्थपाद भरद्वाजौ बृहदाचक्रे १४५ ' ( और बृहत् शब्द से युक्त अग्नेः इति ये दोनों पाद क्रमशः रथन्तर ) ( ) ( ) करोति रथन्तर ( नामक सामहैं ।) तत्औरइनकेबृहत् पाठ( नामकसे सामएनम्) सेइसयुक्तप्रवर्ग्यकरता कोहै । बृहद्रथन्तरं सा ० भा ० – सामद्वयवाचिरथन्तरशब्दबृहच्छब्दयोरत्र सामद्वयोपेतं करोति।१ श्रूयमाणत्वात् तत्पाठेन प्रवर्ग्यं तृचान्तरं सूक्तात्मकं विधत्ते- ' अपश्यं त्वा मनसा चेकितानमिति' प्रजावान् प्राजापत्यः मेवास्मिंस्तद्दधाति ॥४ ॥ प्रजा- हिन्दी – ( तृचात्मक अन्य सूक्त का विधान कर रहे हैं - ) ' अपश्यं त्वा मनसा
चेकितानम्' इति प्रजावान् प्राजापत्यः यह (तृच ) प्रजापति के पुत्र प्रजावान् ( द्वारा दृष्ट है ) । तत् इस (तृच के पाठ ) से ( होता ) अस्मिन् इस (प्रवर्ग्य) में प्रजामेव दधाति प्रजा को ही प्रतिष्ठापित करता है। सा ० भा०– एतत्सूक्तगतानां तिसृणामृचां पृथग्विनियोगम् आश्वलायन आह— ‘ अपश्यं त्वेत्येतस्याऽऽद्ययश यजमानमीक्षते द्वितीयया पत्नी तृतीययाऽऽत्मानम्' इति। अस्य च सूक्तस्य ऋषिः प्रजावांनित्येतन्नामकः। स च प्रजापतेः पुत्रः । तदीयपाठेन प्रजां संपादयति ॥ सूक्तान्तरे नवसंख्या ऋचो विधत्ते— का राधद्धोत्राऽऽश्विना वामिति नव विच्छन्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विच्छन्दसो भवन्ति ॥ ५ ॥
हिन्दी - ( द्वादश ऋचाओं वाले अन्य सूक्त की नौ ऋचाओं के पाठ का विधान कर रहे हैं— ) (इस सूक्त की ) नौ ऋचाएँ 'का राधद्धोत्राऽश्विना वाम्' इति नव विच्छन्दसः विविध प्रकार के छन्दों वाली नौ ऋचाएँ हैं । तद् एतत् वे ये (नौ ऋचाएँ) यज्ञस्य अन्तस्त्यम् यज्ञ का उदर स्थानीय है (जिस प्रकार लोक में किसी का) अन्तस्त्यम् उदर विक्षुद्रमिव अणीयः इव च स्थवीयः इव च छोटे अथवा बड़े होते हैं तस्मात् इसलिए एता: विच्छन्दसः भवन्ति ये उदर स्थानीय ऋचाएँ (छोटी - बड़ी ) विविध छन्दों वाली हैं । सा० भा० –'का राधद्' इत्यस्मिन् सूक्ते १४ विद्यमान ऋचो नवसंख्याकाः । ताश्च ( १ ) तच्च सामद्वयं सामगानामारण्यके २.१.२१; १.१.२७। तयोयोंन्यृचौ तु छ०आ० ३.१.५.१,२ । तयोर्विधायकवचनानि च ता०ब्रा० ७.६.६,५ । (२ ) ऋ० १०.१८३.१-३ । ( ३ ) आश्व० श्री० ४.६.३ । (४ ) ऋ० १.१२०
पृष्ठ 208
पाठ पढ़ें पाठ छिपाएँ
[ ४.४ प्रथमपञ्चिकायां १४६: ऐतरेयब्राह्मणम् विविधेन च्छन्दसा युक्ताः । तच्च विविधत्वम् अनुक्रमणिकायाम् उक्तम् ' आद्या गायत्री द्वितीया ककुप्तृतीयाचतुर्थ्यं काविराण्नष्टरूप्यौ पञ्चमी तनुशिरा' ' षष्ठ्यक्षरैरुष्णिग्' विष्टार- बृहतो कृतिर्विराट् तिस्रो गायत्र्यः ४ इति। यद्यप्येतद् द्वादशर्च सूक्तं तथाऽपि नवैवर्चोऽ- त्रापेक्षिता इति नवेत्युक्तम्। तदेतत्सूक्तं प्रवर्ग्याख्यस्य यज्ञस्यान्तस्त्यमुदरगतावयवस्वरूपम्। लोकेऽप्यन्तस्त्यं शरीरमध्यस्थावयवजातम् । विक्षुद्रमिव वै विविधत्वेन तारतम्येन स्वल्पमेव भवति। तद्यथा — किञ्चिन्मांसनाड्यादिकमणीय इव च, अत्यन्तं सूक्ष्ममेव भवति । अन्यच्च मांसनाड्यादिकं स्थवीय इव च, अत्यन्तं स्थूलमेव भवति । यस्मादुदरगतमवयवजातमीदृशं तस्मात्तत्स्थानीया एता ऋचो विच्छन्दसो भवन्ति ॥ उत्तमलोकप्राप्तिहेतुत्वेन ता ऋचः प्रशंसति— एताभिर्हाश्विनोः कक्षीवान्प्रियं धामोपागच्छत् स परमं लोकमजयत् ॥ ६ ॥
हिन्दी – ( उत्तम लोक की प्राप्ति के कारणभूत इन ऋचाओं की प्रशंसा कर रहे हैं— ) एताभिः इन (ऋचाओं द्वारा) कक्षीवान् कक्षीवान् नामक ऋषि ने अश्विनोः प्रियं धाम उपागच्छत् अश्विन् देवों के प्रिय स्थान को प्राप्त कर लिया और सः परमं लोकम् अजयत् इन्होंने परम लोक को जीत लिया ( प्राप्त किया ) । सा ० भा ० — कक्षीवानित्येतन्नामकः कश्चिदृषिः । स च 'का राधद्' इत्येताभिर्ऋग्भिर्जयं कृत्वा अश्विनोर्यत्प्रियं धाम स्थानं तत् प्राप्नोत्। ततस्ताभ्यामनुगृहीतस्ततोऽप्युत्तमं लोकं जितवान्॥ एतद्वेदनं प्रशंसति- उपाश्विनोः प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद ॥७ ॥
हिन्दी- यः एवं वेद जो इस प्रकार ( इस तथ्य को ) जानता है, वह अश्विनोः प्रियं धाम गच्छति अश्विनों के प्रिय स्थान को जाता है और परमं लोकं जयति और परम लोक को प्राप्त कर लेता है। सा० भा० – पञ्चचं सूक्तान्तरं विधत्ते-.. ( १ ) ‘ प्रथमं छन्दस्त्रिपदा गायत्री' – इति ( १.६ ) । ' मध्यमश्चेत् ककुप्' – इति ( ३.२ ) नवकयोर्मध्ये जागतः काविराट्' - इति ( ४.५ ), 'नव वैराजत्रयोदशैर्नष्टरूपी ' इति — ( ४.६ ), ‘ एकादशिनोः परः षट्कस्तनुशिरा' -– इति ( ३.३ ) च कात्यायनीयऋक्सर्वा- नुक्रमण्यां परिभाषा खण्डे द्रष्टव्यः । ( २ ) षष्ठी- ऋक् यद्यपि पादसङ्ख्ययोष्णिक् न भवति, तथाप्यक्षरसङ्ख्ययोष्णिगित्यर्थः ।
( ३ ) ' अष्टिनोर्मध्ये दशकौ विष्टारबृहती' – इति ( ४.७ ) च, ऋक्संर्वा० ।
( ४ ) दशम्याद्यास्तिस्रो गायत्र्यः; परं नेह विनियोज्याः ॥
पृष्ठ 209
पाठ पढ़ें पाठ छिपाएँ
]: १४७ चतुर्थोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् · ‘ आभात्यग्निरुषसामनीकमिति ' सूक्तम्' ॥८ ॥
हिन्दी— ( पाँच ऋचाओं वाले अन्य सूक्त का विधान कर रहे हैं— ) ‘ आभात्यग्नि- रुषसामनीकम्' इति सूक्तम् इस सूक्त से (होता स्तुति करता है ) । सा ० भा ० – अभिष्टवार्थं पठेदिति सर्वत्र द्रष्टव्यम्॥ प्रथमाया ऋचश्चतुर्थपादं पठित्वा तन्मुखेन सूक्तं प्रशंसति -- पीपिवांसमश्विना धर्ममच्छेत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धम्॥९ ॥
हिन्दी -( इस सूक्त की प्रथम ऋचा के चतुर्थ पांद का पाठ करके उसके द्वारा सूक्त की प्रशंसा कर रहे हैं— ) ('प्रथम ऋचा के चतुर्थपाद ) 'पीपिवांसमश्विना घर्ममच्छ' इति अभिरूपम् यह (घर्म शब्द का प्रयोग होने के कारण घर्म के ) अनुरूप हैं। यद् यज्ञे अभिरूपम् जो यह ( सूक्त ) यज्ञ के अनुरूप है, तत् उसके (पाठ से ) समृद्धम् ( यज्ञ की ) समृद्धि होती है। सा० भा ० - हे अश्विनौ पीपिवांसमभिप्रवृद्ध घर्ममच्छ प्रवर्ग्रमभिलक्ष्येत्येवमस्मिन् पादेऽवगम्यते । एतत्सूक्तं प्रवर्ग्यस्यानुरूपम्॥ सूक्तगतं छन्दः प्रशंसति— तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यं वास्मिंस्तद्दधाति ॥ १० ॥
हिन्दी –( सूक्तगत छन्द की प्रशंसा कर रहे हैं- ) तदु त्रैष्टुभम् वह सूक्त त्रिष्टुप् छन्द वाला है । त्रिष्टुप् वीर्यम् त्रिष्टुप् शक्तिरूप है । तत् इस ( सूक्त के पाठ ) से अस्मिन् इस
( ब ) में वीर्यमेव दधाति शक्ति को प्रतिष्ठापित करता है।
सा० भा० - तदु तच्च सूक्तम्॥
अष्टर्चं सूक्तान्तरं विधत्ते— ' प्रावाणेव तदिदर्थं जरेथे' इति सूक्तमक्षी इव कर्णाविव नासे- वेत्यङ्गसमाख्याऽयमेवास्मिंस्तदिन्द्रियाणि दधाति ॥ ११ ॥.
हिन्दी -( अब आठ ऋचाओं वाले अन्य सूक्त का विधान कर रहे हैं - ) 'प्रावाणेव तदिदर्थं जरेथे' इति सूक्तम् यह सूक्त अक्षी इव कर्णौ इव नासा इव नेत्र, कानों और नासिका के समान अङ्गसमाख्या अङ्गों का कथन करने वाला है। तद् इस ( सूक्त के पाठ ) से अस्मिन् इस ( प्रवर्ग्य ) में अयम् इन्द्रियाणि दधाति यह (होता) इन्द्रियसामर्थ्य को स्थापित करता है । सा० भा०- तस्य सूक्तस्य पञ्चम्यामृचि द्वितीयपाद एवमाम्नात:- ' अक्षी इव ( १ ) ऋ० ५.७६.१-५/ (२) ऋ० २.३ ९.१-८
पृष्ठ 210
पाठ पढ़ें पाठ छिपाएँ
[ ४.४ प्रथमपञ्चिकायां १४८: ऐतरेयब्राह्मणम् चक्षुषा यातमर्वाक्' इति। षष्ठ्यामृच्युत्तरार्धमेवामाम्नातम्-'नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ' इति एवं च सत्यङ्गसमाख्याऽयमेवाक्षिकर्णनासादिरूपाण्यङ्गानि पुनः पुनः कथयन्नेव तस्मिन् घर्म इन्द्रियाणि स्थापयति । सूक्तगतं छन्दः प्रशंसति— तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधाति ॥१२ ॥
हिन्दी—( सूक्तगत छन्द की प्रशंसा कर रहे हैं - ) तदु त्रैष्टुभम् वह सूक्त त्रिष्टुप् छन्द वाला है । वीर्यं वै त्रिष्टुप् त्रिष्टुप् छन्द शक्तिरूप है । तद् उस ( सूक्त के पाठ ) से अस्मिन् इस ( प्रवर्ग्य ) में वीर्यमेव दधाति शक्ति को ही प्रतिष्ठापित करता है। पञ्चविंशत्यृचं सूक्तान्तरं विधत्ते— ' ईळे द्यावापृथिवी पूर्वचित्तये' इति सूक्तम्' ॥ १३ ॥
हिन्दी— ( पचीस ऋचाओं वाले अन्य सूक्त का विधान कर रहे हैं— ) ‘ईळे द्यावा-पृथिवी पूर्वचित्तये ' इति सूक्तम् इस सूक्त से ( होता स्तुति करता है ) । प्रथमाया ऋचो द्वितीयपादमुदाहृत्य तद्द्वारा सूक्तं प्रशंसति— अग्नि घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ १४ ॥
हिन्दी – ( सूक्त की प्रथम ऋचा के द्वितीय पाद के द्वारा सूक्त की प्रशंसा कर रहे हैं— ) ‘ अग्निं घर्मं सुरुचं यामन्त्रिष्टये ' इति अभिरूपम् यह ( प्रथम ऋचा के द्वितीय पाद में धर्म सुरुचं का प्रयोग होने से धर्म के ) अनुरूप है। यद् यज्ञे अभिरूपम् जो ( यह ) यज्ञ के अनुरूप है, तत्समृद्धम् वह ( यज्ञ की) समृद्धि हैं । सा० भा ० — अग्निमित्यादिके द्वितीयपादे सुरुचं घर्ममिति शोभनदीप्तियुक्तः प्रवर्ग्यः पठितस्तस्मादिदं सूक्तमनुरूपम्॥ तत्सूक्तगतं छन्दः प्रशंसति- तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति ॥१५ ॥
हिन्दी – ( सूक्तगत छन्द की प्रशंसा कर रहे हैं - ) तदु जागतम् वह ( सूक्त ) जगती छन्द वाला है। जागताः वै पशवः पशु भी जगती छन्द से सम्बन्धित होते हैं । तत् इस ( सूक्त के पाठ ) से अस्मिन् इस ( प्रवर्ग्य) में पशून् एव दधाति पशुओं को ही प्रतिष्ठापित करता है। सा ० भा० — पुरा कदाचित्सोममाहर्तुं द्युलोके गता जगती तमाहर्तुमशक्ता सती पशून् दीक्षां चाऽऽहृतवती तस्मात् पशवो जागता । एतच्च कद्रुश्चेत्यनुवाके तैत्तिरीयैः ( १ ) ऋ० १.११२.१-२५। ( २ ) तै ० सं० ६.१.६.२।