ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 211–220
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः चतुर्थः खण्डः ]: समाम्नातम्—‘सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगतीसायणाचार्यकृतभाष्योपेतम्छन्दसां पशव्यतमा १४९ ' अतस्तदीयपाठेन पशून् संपादयति॥ इति। सूक्तगतास्वृक्षु सर्वासु विद्यमानमर्थमुपजीव्य सूक्तं प्रशंसति— याभिरमुमावतं याभिरमुमावतमित्येतावतो तुस्तानेवास्मिस्तद्दधाति तैरेवैनं तत्समर्धयतिहात्राश्विनौ॥ १६ ॥कामान् ददृश- हिन्दी- याभिः अमुम् आवतम् 'जिन (रक्षाओं) के द्वारा इसकी सुरक्षा किया' और
याभिः एनम् आवतम् जिन (रक्षाओं) के द्वारा इसकी सुरक्षा किया- इति इस प्रकार (इस सूक्त की भी ऋचाओं में कहा गया है) एतावतः कामान् ह उतनी ही कामनाओं को अत्र इस कर्म में अश्विनौ ददृशतुः अश्विन् देव प्रदान करें । तत् इस ( सूक्त के पाठ) से तान् एव अस्मिन् दधाति उन ( कमनाओं ) को (होता ) इस (प्रवर्ग्य) में प्रतिष्ठापित करता है और तैः एव एनं समर्धयति उन्हीं (मन्त्रों) से ही इस (प्रवर्ग्य) को समृद्ध करता है। सा ० भा० — अस्य सूक्तस्य प्रथमायामृचि द्वितीयार्धमेवाम्नातम्— ' याभिर्भरे कार- मंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विनाऽऽगतम्' इति। तस्यायमर्थः - हे अश्विनौ युवा- मंशाय तन्नाम्नः पुरुषस्योपकाराय भरे युद्धे कारं विजयं कृत्वा याभिरूतिभिः पालनैरंश- नामकं तं पुरुषं जिन्वथः प्रीणयथस्ताभिरू षु तादृशीभिरेवोतिभिः पालनैरागतमिह कर्मणि समागच्छतमिति। द्वितीयस्यामृचि द्वितीयार्द्धमेवमाम्नातम्— ' याभिर्धियोऽवथः कर्मन्निष्ठये ताभिरू षु ऊतिभिराश्विनाऽऽगतम्' इति । तस्यायमर्थः - हे अश्विनाविष्टयेऽभीष्टसिद्ध्यर्थं कर्मण्यनुष्ठीयमाने लौकिके वैदिके वा सर्वस्मिन् कर्मणि याभिरूतिभिर्धियः प्राणिनां बुद्धीर- वथो रक्षथस्ताभिरेवोतिभिरागच्छतमिति। एवं सर्वास्वप्यृक्ष्वर्थोऽनुसंधेयः । तमर्थं सर्वं सामान्य- वाचिना सर्वनामशब्देन परामृश्य श्रुतिर्याभिरित्येकेन वाक्येन संगृह्णाति याभिरूतिभिरमुमी- दृशमावतं युवां रक्षितवन्ताविति। सर्वेषामृगर्थानां संग्राहिकां वीप्सामभिप्रेत्य याभिरमुमावत- मिति द्विः पठ्यते । तास्वृक्षु यावन्तः कामाः श्रूयन्ते तावन्तः कामा इह कर्मण्यश्विनौ ददृशतुः कटाक्षेणानुगृहीतवन्तौ । तत्सूक्तपाठेन तानेव सर्वान् कामानस्मिन् प्रवर्ग्यं यजमाने वा संपाद- यति ते च कामाः समृद्धाः संपद्यन्ते। अन्यां काञ्चिदृचं विधत्ते- ' अरूरुचद् उषसः पृश्निरप्रिय' इति रुचितवती; रुचमेवास्मि- स्तद्दधाति' ॥ १७ ॥
हिन्दी–( अन्य किसी ऋचा का विधान कर रहे हैं - ) ' अरूरुचद् उषसः पृश्निरग्रिय ' इति रुचितवती यह (ऋचा ) रुचित शब्द से सम्पन्न है। तत् इस (ऋचा के पाठ ) से ( १ ) ऋ० ९.८३.३ ।
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
: [ १५० ऐतरेयब्राह्मणम् ४.४ प्रथमपञ्चिकायां अस्मिन् रुचमेव दधाति इस (प्रवर्ग्य) में कान्ति को प्रतिष्ठापित करता है । सा० भा ० — अस्यामृच्यरूरुचदिति श्रुतत्वाद् रुचितमभीष्टं कान्तिर्वाऽस्यामस्तीत्यसौ रुचितवती सा पठनीया। तस्था: पूर्वोक्तसूक्ते' स्थानविशेष आश्वलायनेन दर्शित: — ‘ प्रागुत्त-माया' अरूरुचदुषसः पृश्निरग्रिय इत्यावपेतोत्तरेणार्धर्चेन पत्नीमीक्षेत' ' इति। तन्मन्त्रपाठेन यजमाने कान्तिं संपादयति॥ सूक्तस्यान्तिमयर्चाऽभिष्टवे पूर्वभागस्य समापनं विधत्ते- ' द्युभिरक्तुभिः परि पातमस्मानित्युत्तमया परिदधाति ॥ १८ ॥
हिन्दी - ( सूक्त की अन्तिम ऋचां से कर्म के समापन का विधान कर रहे हैं— ) ' द्युभिंरक्तुभिः परि पातमस्मान्' इति उत्तमया परिदधाति इस अन्तिम (ऋचा ) से (कर्म का ) समापन करता है । तस्या ऋचोऽवशिष्टं पादत्रयमनूद्य कृत्स्नं मन्त्रतात्पर्यं दर्शयति- ' अरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौरित्येतैरेवैनं तत्कामैः समर्धयति ॥ १ ९ ॥ हिन्दी – ( ' द्युभिरक्तुभि: ' इस ऋचा के अन्तिम तीन पादों को दिखला कर सम्पूर्ण ऋचा के तात्पर्य को दिखला रहे हैं - ) हे अश्विनौ! द्युमिः कान्ति से अथवा द्युलोकगत भोगों से अक्तुभिः (घृत तैल इत्यादि) रञ्जन साधनों से, अरिष्टेभिः हिंसा परिहारों से और सौभगेभिः शोभन भाग्यो से अस्मान् परिपातम् हम लोगों की सभी ओर से पालन ( अथवा रक्षा) करो तत्पश्चात् मित्रः वरुणः अदितिः सिन्धुः पृथिवी उत द्यौः मित्र, वरुण, अदिति, समुद्र, पृथिवीं और द्यु इत्यादि देवगण ममहन्ताम् मेरी स्तुति के अनुरूप होवे। तत् इस (ऋचा के पाठ ) से ( होता) एतैः एव कामैः इन्हीं कामनाओं के साथ एनं समर्धयति इस ( प्रवर्ग्य ) को समृद्ध करता है।. सा० भा ० -– तस्या ऋचोऽयमर्थः - हे अश्विनौ द्युभिर्दीप्तिभिर्द्युलोकोचितभोगैर्वाऽ- क्तुभिरञ्जनसाधनद्रव्यैराज्यतैलादिभिररिष्टेभिहिंसापरिहारैः सौभगेभिः सर्वभोगसंपत्तिलक्षणैः सौभाग्यैश्चास्मान् पातं रक्षतम्। तत्तथा सत्यनन्तरं नोऽस्मान् मित्रावरुणादितिसमुद्रपृथिवीद्यु- देवताः सर्वा अपि ममहन्तामतिशयेन पूजयन्त्विति । तन्मन्त्रपाठेनैनं यजमानमेतैरेव कामैर्द्यु- भिरक्तुभिरित्यादिशब्दोक्तैः फलैः समृद्धं करोति। ( १ ) ‘ तस्या: ’ अरूरुचदित्येतस्या:, ' पूर्वोक्तसूक्ते ' ईळेद्यावेति सूक्ते (ऋ ० १.११२ ) । ( २ ) ‘ उत्तमायाः ’ पञ्चविंशतितमायाः अन्तिमायाः 'प्राक्' पूर्वम्; चतुर्विंशतितमाया ऊर्ध्वमिति यावत् । ‘ द्युभिरक्तुभिः ’ — इत्येषैव ऋक् ईळेद्यावेतिसूक्तस्यान्त्या । ( ३ ) आश्व ० श्रौ० ४.६.३ ।
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
चतुर्थोऽध्यायः पञ्चमः खण्डः ] सायणाचार्यकृतभाष्योपेतम्: १५१ अभिष्टवस्य' पूर्वभागमुपसंहरति— ( अभिष्टवस्य पूर्वभागसमाप्तिकथनम्) इति नु पूर्वं पटलम् ॥ २० ॥
हिन्दी- (स्तुति के पूर्वभाग के उपसंहार को कह रहे हैं— ) इति ( से ) पूर्वभाग की समाप्ति होती है । प्रकार ब्रह्मजज्ञानम् से लेकर पृथिवी उत तक स्तुति नु पूर्वपटलम् इस विमर्श- ( १ ) यहाँ स्तुति के पूर्वभाग और उत्तरभाग की कल्पना पूर्वभाग में कुल मिलाकर १०७ ऋचाओं का पाठ की गयी है । इस भाग के विभाजनका कारण यह है प्रत्येक भाग केहोताप्रथमकरताऔर हैअन्तिम। स्तुतिऋचाके पूर्वकीऔरआवृतिउत्तर की जाती है । सा ० भा ० — ब्रह्मजज्ञानमित्यारभ्य पृथिवी उत द्यौरित्यन्तेनोक्तप्रकारेणाभिष्टवस्य पूर्वो भागो वर्णितः?। अत्र भागद्वयकल्पनमेकैकस्मिन् भागे प्रथमोत्तमयोर्ऋचोरावृत्त्यर्थम् । अत एवोक्तम् -
आद्यान्त्यात्रित्वसिद्ध्यर्थं पटलद्वितयं कृतम् ।
अन्यथाऽभिष्टवस्यैक्यात् त्रित्वं तत्रैव वै भवेत् ॥३
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण-- भाष्यस्य चतुर्थाध्याये चतुर्थः खण्डः ॥४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के चतुर्थ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पञ्चमः खण्ड सा० भा ० -~-~~-पटलान्तरं प्रतिजानीते— ( १ ) अभिष्टवनं नाम धर्मस्य संस्कारोऽभिधानरूपः । एतच्च ' धर्ममभिष्टुहि' इति सम्प्रेषादवगतम्। तत्र यत् क्रियान्तरमीक्षमाणादि तदानुषङ्गिकम्, तदपि वचनात् कर्तव्यमेव' -इति आश्वलायन- वृत्तौ नारायणः । एतदभिष्टवनं च अध्वर्युप्रेषितेन होत्रा ऋगावानं यथास्यात्तथा कर्तव्यं भवति ( आश्व० श्रौ० ४.६.१- ३ )। 'ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत्' – इति च तत्रैव ऋगावानलक्षणम् ( ४.६.२ ) । (२ ) आश्वलायनोऽप्याह— 'इति नु पूर्वं पटलम्' – इति ४.६.३ । ( ३ ) ऋक्प्राति० ४.७; ६.४ ।
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
[ ४.५ प्रथमपञ्चिकायां १५२: ऐतरेयब्राह्मणम् ( अभिष्टवस्योत्तरपटलारम्भविधानम् ) अथोत्तरम्' ॥ १ ॥
हिन्दी— अथोत्तरम् अब ( प्रवर्ग्य के पूर्वभाग के कथन के बाद ) उत्तरभाग ( के मन्त्र-समूहों) को (कहा जा रहा है ) । सा० भा ० — पटलमुच्यत इति शेषः । पटलशब्दः समूहवाची । ' समूहः पटलं न ना ' इत्यभिधानकारैरुक्तत्वात् । उत्तरभागस्थो मन्त्रसमूहः कथ्यते इत्यर्थः । तत्रैकविंशतिसंख्याका ऋचस्तत्तत्प्रतीकग्रहणेन विधत्ते— ( तत्राभिष्टवस्य पुनरेकविंशत्यृचां विधानम् ) ' उप ह्वये सुदुधां धेनुमेतां' ' हिं कृण्वती वसुपत्नी वसूनाम्' ' अभि त्वा देव सवितः ' ' समी वत्सं न मातृभिः ' ' सं वत्स इव मातृभिः ' ‘ यस्ते स्तनः शशयो यो मयोभू: ' ' गौरमीमेदनु वत्सं मिषन्तं' ' नमसेदुप सीदत' ' संजानाना उपसीदन्नभिज्ञ, ' ' आ दशभिर्विवस्वतः ' ' दुहन्ति सप्तैकां' ' समिद्धो अग्निरश्विना' ' समिद्धो अग्निर्वृषणा रतिर्दिवः ' 'तदु प्रयक्षतममस्य कर्म' ' आत्मन्वन्नभो दुह्यते घृतं पय' ' उत्तिष्ठ ब्रह्मणस्पते' ' अधुक्षत्पिप्युषीमिषम्' ' उप द्रव पयसा गोधुगोषमा' ' आ सुते सिञ्चत श्रियम्' ' आ नूनमश्विनोर्ऋषि: ' ' समु त्ये महतीरपः ' इत्येकविंशतिरभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ २ ॥
हिन्दी-( उत्तरभाग में विहित इक्कीस ऋचाओं के प्रतीकों को कह रहे हैं - ) 'उप ह्वये सुदुधां धेनुमेताम्' 'हिं कृण्वती वसुपत्नी वसूनाम् ', ' अभि त्वा देव सवितः', ' समी वत्सं न मातृभिः ’, ‘ सं वत्स इव मातृभि: ', ' यस्ते स्तनः शशयो यो मयोभूः ’, ‘ गौरमीमेदनु वत्सं मिषन्तं', ‘ नमसेदुप सीदत' ' संजानाना उपसीदन्नभिज्ञः ', ' आ दशभिर्विवस्वतः ’, ' दुहन्ति सप्तैकां ' ‘ समिद्धो अग्निरश्विना', ' समिद्धो अग्निर्वृषणा रतिर्दिवः ', 'तदु प्रयक्षतम- मस्य कर्म’, ‘ आत्मन्वन्नभो दुह्यते द्युतं पय', ' उत्तिष्ठ ब्रह्मणस्पते', ' अधुक्षत्पिप्युषीमिषम्', ‘ उप द्रव पयसा गोधुगोषमा ’, ‘ आ सुते सिञ्चत श्रियम्', ' आ नूनमश्विनोर्ऋषि: ', और ' समु त्ये महतीरप: ' इति एकविंशति ये इक्कीस अभिरूपाः प्रवर्ग्य के अनुरूप (ऋचाएँ ) हैं। यद् यज्ञे अभिरूपम् जो ये (ऋचाएँ ) यज्ञ के अनुरूप है तत् उन (ऋचाओं के पाठ) से समृद्धम् ( यज्ञ) समृद्ध होता है । ( १ ) आश्वलायनोऽप्येवमेवाह ' अथोत्तरम्' – इति। अत्रापि ऋगावानं प्रयोजनीयम्; अपि च ‘ अनभिहिङ्कृत्य' ( ४.७.३ ) इत्यधिकम्। (२ ) अमरकोष ३.३.२०१।
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
.: ]:चतुर्थोऽध्यायः पञ्चमः खण्ड सायणाचार्यकृतभाष्योपेतम् १५३ सा ० भा ० — विहितास्वृक्षु, 'उप ह्वये' ' इति प्रथमा । 'हिं कृण्वति ' इति द्वितीया । ‘ अभि त्वा'? इति तृतीयाः ' समीवत्सम्' ' इति चतुर्थी। ' संवत्स इव " इति पञ्चमी। 'यस्ते स्तन' ' इति षष्ठी। 'गौरमीमेद्" इति सप्तमी । 'नमसेत् ' इत्यष्टमी। ' संजानानाः ” इति नवमी । आ दशभिः ९° इति दशमी । 'दुहन्त सप्तैकाम्' ११ इत्येकादशी । ' समिद्धो अग्नि- रश्विना’१२ इति द्वादशी । ‘ समिद्धो अग्निर्वृषणारतिर्दिव' १३ इति त्रयोदशी । एतदुभयं शाखा- न्तरगतम् आश्वलायनेन पठितम्। ' तदु प्रयक्षतम् १४ इति चतुर्दशी । ‘ आत्मन्वन्निति’१५ पञ्चदशी । उत्तिष्ठेति षोडशी। तस्या विनियोगम् आश्वलायन आह— “ उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते’’१७ इति। अधुक्षदिति " सप्तदशी । तद्विनियोगमाह — दुग्धायाम- धुक्षदिति। उपद्रवेत्यष्टादशी१९ । तद्विनियोगं चाऽऽह – आह्रियमाण उपद्रवेति । सेयं शाखा-न्तरगतत्वा आश्वलायनेन पठिता । ' आ सुते' २१ इत्येकोनविंशी । आ नूनमिति विंशी । अनयोर्व्यत्ययेन प्रयोगमाह- " आसिच्यमान आनूनमश्विनोर्ऋषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज’’२३ इति। ‘ समु त्ये २४ इत्येकविंशी। तद्विनियोगं चाऽऽह– “ आसिक्तयोः समु त्ये’’२५ इति सेयमृचामेकविंशतिधर्म हो धेनोर्दोहनस्यानुरूपा । तास्वृक्षु दोहनोचितानां दृश्य- मानत्वात्॥ अथ षण्णामृचां प्रतीकानि क्रमेणाऽऽदाय तद्विनियोगं दर्शयति--- ( षड्भिर्मन्त्रैः षण्णां कर्मणां विधानम् ) 'उदुष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठति, ' प्रैतु ब्रह्मणस्पतिरि- त्यनुप्रैति, ' गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते, 'नाके सुपर्णमुपयत्पतन्तमित्युपविशति' २७ ' तप्तो वां घर्मो न क्षतिः स्वहोता' ' उभा पिबतमश्विनेति पूर्वाह्णे यजति ॥ ३ ॥
हिन्दी – ( अब छः ऋचाओं के प्रतीक को क्रम से देकर इनके विनियोग को दिखला रहे हैं— ) ‘उदुष्य देवः सविता हिरण्यया' इति अनूत्तिष्ठति इस (ऋचा ) से ( होता सभी ( २ ) ऋ० १.१६४.२७ । (३ ) ऋ० १.२४.३ । ( १ ) ऋ० १.१६४.२६ । (४) ऋ० ९.१०४.२ । (५ ) ऋ ० ९.१०५.२ । (६ ) ऋ० १.१६४.४९ । ( ९ ) ऋ० १.७२.५ ।(७) ऋ० १.१६४.२८। ( ८ ) ॠ० ९.११.६ । ( १० )ऋ०.८.७२.८। ( ११ ) ऋ० ८.७२.७/ (१२ )मयर्व० ७.७७.२.१। ( १४ ) ऋ० १.६२.६। ऋ० ९.७४.४।( १३ ) आश्व ० श्रौ० ४.७.४ ( १७ ) आश्वा० श्रौ० ४.७.४। ( १८ ) ऋ० ८.७२.१६ ।(१६ )ऋ ० १.४०.१। ( २० ) आश्व० श्री० ४.७.४। ( २१) ऋ० ८.७२.१३ ।( १ ९ ) अथर्व० ७.७७.६ । ( २३ ) आश्व० श्रौ० ४.७.४। ( २४ ) ऋ ० ८.७.२२ ।( २२ )ऋ० ८.९.७ । ( २६) ऋ० ९.८३.४। (२७) ऋ० १०.१२३.६।( २५ ) आश्व० श्रौ० ४.७.४१ ऐ.ब्रा. पू- १०
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
: [ १५४ ऐतरेयब्राह्मणम् ४.५ प्रथमपञ्चिकायां पुरोहितों के ) पीछे खड़ा होता है। 'प्रैतु ब्राह्मणस्पते' इति अनुप्रैति इस (ऋचा का पाठ करते हुए ) आगे को बढ़ता है । 'गन्धर्व इत्था पदमस्य रक्षति' इति खरम् अवेक्षते इस (ऋचा ) से खर को देखता है । 'नाके सुपर्णमुपयत्पन्तम्' इति उपविशति इस (ऋचा ) से बैठ जाता है । इसके बाद ‘तप्तो वां घर्मो न क्षतिः स्वहोता' और ' उभा पिबतमश्विना' इति पूर्वाह्णे यजति इनसे पूर्वाह्न में यजन करता ( याज्या रूप में पढ़ता) है । सा० भा०-- महावीरमादायोत्तिष्ठत्स्वन्येषु ' होतोदुष्य देवः ' इत्यनेन मन्त्रेण तान- नूत्तिष्ठेत् । तेषु गच्छत्सु 'प्रैतु ब्रह्मणस्पतिः ' इति मन्त्रेणानुगच्छेत् । ‘खर: ’ प्रवृञ्जनस्थानम् । तप्तो वामित्येषा” शाखान्तरगत्वात् सूत्रकारेण पठिता। ' उभा पिबतमिति स्वशाखागता ताभ्यामुभाभ्यां पूर्वाह्णे यजति । तदुभयं याज्यारूपेण पाठेन पठेत्। प्रवर्ग्यस्य कालद्वयेऽ- प्यनुष्ठेयत्वात् पूर्वाह्न इति विशेष्यते ॥ विनियोगसहितं मन्त्रान्तरं विधत्ते— ( अनुवषट्कारमन्त्रः ) अग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनम् ॥ ४ ॥
हिन्दी—( विनियोग के सहित अन्य ऋचा का विधान कर रहे हैं - ) 'अग्ने वीहि’ इति अनुवषट्करोति इस (ऋचा ) से अनुवषट् करता है । स्विष्टकृद् भाजनम् (वह अनुवषट्कार) स्विष्टकृत् स्थानीय होता है।. सा० भा०--पूर्वोक्तयोर्याज्ययोः पाठान्ते वौषडिति यदुच्चारणं सोऽयं प्रथमो वषट्- कारः । तत ऊर्ध्वमग्ने वीहीत्युच्चार्य वौषडिति यत्पठनं सोऽयमनुवषट्कारः । एतं मन्त्रं होता पठेत्। हे अग्ने वीहि खाद भक्षयेत्यर्थः । घर्मस्य यजेत्यध्वर्युणा प्रेषितो होता पूर्वोक्तं याज्याद्वयं सवषट्कारं यदा पठति तदानीमध्वर्युरश्विना घर्म पातमिति मन्त्रेण जुहोति । पुनरप्यग्ने वीहीति होत्रा पठिते सत्यध्वर्युः स्वाहेन्द्रावडिति जुहोति। तदेतत् सर्वम् आपस्तम्ब आह— ‘ आश्राव्य प्रत्याश्राविते संप्रेष्यति धर्मस्य यजेत्यश्विनः घर्मं पातमिति वषट्कृते जुहोति। स्वाहेन्द्रावडित्यनुवषट्कृते ' इति। यदेतदनुवषट्कारे यजनं तदेतत्स्विष्टकृद्भाजनं स्विष्टकृत्स्थानीयमित्यर्थः ॥ यथा पूर्वाह्णे याज्यापाठस्तथाऽपराह्नकालानुष्ठानेऽपि विधत्ते- यदुस्त्रियास्वाहुतं घृतं पयोऽस्य पिबतमश्विनेत्यपराह्ने यजत्यग्ने वीही- ( १ ) · तथैव सूत्रकारस्य विधानात् (आश्व ० श्रौ० ४.७.४ )। ( ) ( ) ( ) २ ऋ० ६.७१.४ । ३ ऋ० १.४०.३ । ४ अथर्व० ७.७७.५ ।(५ ) आश्व० श्रौ० ४.७.४ । ( ६ ) ऋ० १.४६.१५।( ) । ( ) ८ आप० श्रौ० १५.१०.११ ७ ऋ० १०.१२३.६ ।
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् १५५ त्यनुवषट्करोति स्विष्टकृद्भाजनम् ॥ ५ ॥
हिन्दी — (जिस प्रकार पूर्व में याज्यां का पाठ होता है उसी प्रकार अपराह्नकाल में भी विधान कर रहे हैं— ) ' यदुनिया स्वाहुतं घृतं पयः ' और ' अस्य पिबतमश्विना इति अपराह्णे यजति इन दो मन्त्रों से अपराह्न में यजन करता (याज्यपाठ करता ) है । ' अग्नि वीहि' इति अनुवषट्करोति इस मन्त्र से अनुवषट् करता है; जो स्विष्टकृद्भाजनम् स्विष्टकृत् के स्थान वाला होता है। सा० भा०--‘यदुस्त्रियास्वाहुतम्' इत्येषा शाखान्तरगतत्वाद् आश्वलायनेन पठिता '। अस्य पिबतमिति स्वशाखागता। अन्यत् सर्वं पूर्ववत्। अत्र मुख्यस्विष्टकृद्रहितत्वात्तल्लोपमाशङ्क्य परिहरति— त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यन्ति सोमस्य धर्मस्य वाजिन- स्येति स यदनुवषट्करोत्यग्नेरेव स्विष्टकृतोऽनन्तरित्यै॥ ६ ॥
हिन्दी – ( यहाँ मुख्य वषट्कार की रहितता के कारण उसके लोप की आशङ्का का परिहार कर रहे हैं— ) सोमस्य धर्मस्य वाजिनस्य सोमरस, धर्म (प्रवर्ग्य हवि) और मट्ठा, इस प्रकार त्रयाणां हविषाम् तीनों हविषों के स्विष्टकृतेन स्विष्टकृत से समवद्यन्ति अवदान करते हैं। सः यद् अनुवषट्करोति वह (होता) जो बाद में वषट्कार करता है, वह स्विष्ट्कृतः अग्नेः अनन्तरित्यै स्विष्टकृत् अग्नि के लोप के निवारण के लिए होता है। सा ० भा० – सोमो बल्लीरसः । घर्मः प्रवर्ग्यहविः । वाजिनमामिक्षानुनिष्पादि नीरम् । एतेषां स्विष्टकृदर्थमवदानं न कुर्युः । न चैतावता तल्लोपः । स होताऽनुवषट्करोतीति यदस्ति
तदेतत्स्वष्ट॑कृ॒न्नामकस्याग्नेरनन्तरित्यै। अन्तरायो लोपस्तत्रिवृत्त्यर्थं भवति ॥
अथ ब्रह्मणः शाखान्तरप्रसिद्धेन मन्त्रेण जपं विधत्ते- ( प्रवर्ग्यस्य ब्रह्माद्वारा जपमन्त्रः ) 'विश्वा आशा दक्षिणासादिति' ब्रह्मा जपति ॥७॥
हिन्दी -( अब ब्रह्मा द्वारा किये गये जप का विधान कर रहे हैं - ) 'विश्वा आशा
दक्षिणासात्' इति ब्रह्मा जपेत् इस मन्त्र का ब्रह्मा जप करता है ।
सा० भा० — इयमृगाश्वलायनेन पठिता॥३
प्रासङ्गिकं ब्रह्मजपं विधाय होमादूर्ध्वं होत्रा पठनीया ऋचः सप्त विधत्ते-( १ ) आश्व० श्रौ० ४.७.४ । (२ ) ऋ० ८.५.१४ | ( ३ ) आश्वश्रौ० ४.७.४ । तु० अथर्व० ७.७३.३ ।
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
: [ १५६ ऐतरेयब्राह्मणम् ४.५ प्रथमपञ्चिकायां ( होमादूर्ध्वं होत्रा पठनीया सप्तर्च: ) ' स्वाहाकृतः शुचिर्देवेषु घर्मः ' ' समुद्रादूर्मिमुदिर्यति वेनो' ' द्रप्सः समुद्रमभि यज्जिगाति' । ' सखे सखायमभ्याववृत्स्व', 'ऊर्ध्व ऊ षु ण ऊतय ', ' ऊर्ध्वो नः पाह्यंहसः ', 'तं घेमित्था नमस्विन, इत्य- भिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥८ ॥
हिन्दी— (प्रासङ्गिक ब्रह्मजप का विधान करके होम के बाद होता द्वारा पठनीय सात ऋचाओं का विधान कर रहे हैं — ) 'स्वाहाकृतः शुचिर्देवेषु धर्मः ', ' समुद्रादूर्मिमुदिर्यति वेनो’, ‘द्रप्सः समुद्रमभि यज्जिगाति', ' सखे सखायमभ्याववृत्स्व', ' ऊर्ध्व ऊ षु ण ऊतय', ‘ ऊर्ध्वो नः पाह्यंहसः ’ और ‘ तं घेमित्था नमस्विन', इति अभिरूपः ये ( सात ऋचाएँ प्रवर्ग्य के ) अनुरूप है। यद् यज्ञे अभिरूपम् जो यज्ञ के अनुरूप है, तत् इन (ऋचाओं के पाठ) से समृद्धम् ( यज्ञ ) समृद्ध होता है। सा ० भा ० — स्वाहाकृत इत्येषा प्रथमा। सा च शाखान्तरगतत्वाद् आश्वलायनेन पठिता। ' ‘ समुद्रादूर्मिमिति ' द्वितीया । 'द्रप्सः समुद्रमिति' तृतीया। सखे सखायमिति चतुर्थी। ' ऊर्ध्व ऊ षु णः " इति पञ्चमी। 'ऊर्ध्वो नः पाहीति' षष्ठी । ' तं घेमित्थेति' सप्तमी। घर्म प्रकाशकत्वादेता ‘ अभिरूपाः ' ॥ होतुरेकयर्चा प्रवर्ग्यहविः शेषभक्षणप्रतीक्षां विधत्ते— ( होत्रा प्रवर्ग्यहविःशेषभक्षणाकाङ्क्षा ) पावकशोचे तव हि क्षयं परीति भक्षमाकाङ्क्षते ॥९ ॥
हिन्दी –(एक ऋचा द्वारा होता के प्रवर्ग्य के अवशिष्ट हवि के भक्षण की प्रतीक्षा का विधान कर रहे हैं— ) 'पावकशोचे तव हि क्षयं परि' इति भक्षम् आकाङ्क्षते इस ( ऋचा) से ( होता प्रवर्ग्य के अवशिष्ट हवि के ) भक्षण करने की इच्छा करता है । सा ० भा ० — समन्त्रकं भक्षणं विधत्ते- ( होत्रा समन्त्रकं हविःशेषभक्षणम् ) हृतं हविर्मधु हविरिन्द्रतमेऽग्नावश्याम ते देव घर्म । मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति धर्मस्य भक्षयति ॥ १० ॥
((१ )) आश्व ० श्रौ० ४.७.४ । तु ०( अथर्व) ० ७.७३.३ । ( ) २ ऋ० १.१२३.२ । ३ ऋ० १०.१२३.८। ४ ऋ० ४.१.३ ।( ) ( ) (७) ऋ० ८.६ ९.१७। ५ ऋ० १.३६.१३ । ६ ऋ० १.३६.१४।
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
]:चतुर्थोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् १५७ हिन्दी—( मन्त्र के साथ अवशिष्ट हवि के भक्षण का विधान कर रहे हैं ) हे देव धर्म हे प्रवर्ग्य देव! इन्द्रतमे अग्नौ अतिशय ऐवर्श्य- सम्पन्न अग्नि में हविः हुतम् (प्रवर्ग्य नामक ) हविष होम कर दी गयी है। मधुमतः मधुरता सम्पन्न, पितुमतः अन्न के साधन-भूत और वाजवतः गतिमान् (स्वर्ग प्राप्ति के साधन भूत) ते तुम्हारे मधु हविः ( अवशिष्ट) मधुर हवि को अश्याम हम लोग भक्षण करें। ते नमः अस्तु तुम्हें नमस्कार है मा मा हिंसीः हमारी हिंसा मत करों, इति धर्मस्य भक्षयति इस ( मन्त्र ) से (अवशिष्ट) घर्म को (होता) भक्षण करता है । सा ० भा ० – अतिशयेनायमैश्वर्यवानिन्द्रतमस्तादृशेऽग्नौ प्रवर्ग्याख्यं हविर्हुतं तच्च मधु माधुर्योपेतं हे धर्म प्रवर्ग्य देवरूप देव ते त्वदीयं हविः शेषमश्याम भक्षयेम । कीदृशस्य ते मधुमतो माधुर्योपेतस्य पितुमतोऽन्नवतोऽन्नसाधनस्य वाजवतो गतिमतः स्वर्गप्राप्ति- साधनस्य । अङ्गिरस्वतः, अङ्गिरोभिर्महर्षिभिरनुष्ठानकाले भक्षितत्वेन तद्युक्तस्य । ईदृशाय ते तुभ्यं नमोऽस्तु । मां भक्षयन्तं मा हिंसीरित्यनेन मन्त्रेण धर्मस्य शेषं भक्षयेत्। अयं मन्त्रोऽन्येषा-मपि भक्षयितॄणां साधारणोऽत एव तैत्तिरीयैरप्याम्नातः॥१ अथ होतुर्मन्त्रद्वयं विधत्ते- ( पात्राणां संसादने होतुर्मन्त्रद्वयम्) ' श्येनां न योनिं सदनं धिया कृतम्' ' आ यस्मिन् सप्त वासवा' इति संसाद्यमानायान्वाह ॥ ११ ॥*
हिन्दी–( भक्षण के बाद हविपात्र को नीचे रखने का विधान कर रहे हैं - ) ' श्येनो न योनिं सदनं धिया कृतम्' और ' आ यस्मिन् सप्त वासवाः ' इति संसाद्यमानाय अन्वाह इन दो मन्त्रों को (भक्षण किये गये प्रवर्ग्यपात्र को ) नीचे रखने के लिए पढ़ता है । सा० भा ० - ' श्येनो न योनिमिति' पूर्वा । 'आ यस्मिन् सप्तेत्यपरा । सेयं शाखान्तर- गत्वाद् आश्वलायनेन पठिता ।' यदा प्रवर्ग्यपात्राणि संसाद्यन्ते तदा होता मन्त्रद्वयमिदमनु- ब्रूयात्॥ बहुषु दिनेषु पूर्वाह्णापराह्णयोः प्रवर्ग्याख्यं कर्मानुष्ठीयते तत्रोत्तमदिनेऽपराह्णकालीने प्रव- र्ग्याख्ये कांचिदृचमधिकां विधत्ते— ( उत्तमदिने पराह्णकाले समधिकर्क्पाठविधानम् ) हविर्हविष्मो महि सद्म दैव्यमिति यदहरुत्सादयिष्यन्तो भवन्ति ॥ १२ ॥
हिन्दी- (जिस दिन प्रवर्ग्य पात्र को उठाना चाहे उस अन्तिम दिन अपराह्न काल में ( १ ) तै ० आ ० ४.१०.११ । तत्रैव पञ्चमप्रपाठके एतन्मन्त्रस्य व्याख्यानमपि सार्थवादम् ( ८. ) ( ) ( ) ४०-४५ । २ ऋ० ९.७१.६ । ३ आश्व० श्रौ० ४.७.४ ।
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
: [ १५८ ऐतरेयब्राह्मणम् ४.५ प्रथमपञ्चिकायां किसी ऋचा के अधिक पाठ करने का विधान कर रहे हैं— ) यद् अहः उत्सादयिष्यन्तः भवन्ति जिस दिन प्रवर्ग्य का समापन करने की इच्छा हैहो उस दिन 'हविर्हविष्मो महि सद्म दैव्यम्' इस (ऋचा का पाठ ) करना चाहिए। सा ० भा ० — यदहर्यस्मिन्नहन्युत्सादयिष्यन्तः प्रवर्ग्यमुद्वासयितुमुद्युक्ता भवन्ति तस्मिन्न- हनि ‘ हविर्हविष्म’ ' इत्येतामृचमधिकामुपोत्तमरूपामावपेत॥ अथ कयाचिदृचाऽभिष्टवस्य समाप्तिं विधत्ते— ( अभिष्टवस्य समापनविधानम्) ' सूयवसाद् भगवती हि भूया' २ इत्युत्तमया परिदधाति ॥ १३ ॥
हिन्दी -( अब किसी ऋचा द्वारा अभिष्टव की समाप्ति का विधान कर रहे हैं - ) ' सूयवसाद् भगवती हि भूया' इत्युत्तमया परिदधाति इस अन्तिम (ऋचा ) से कर्म समापन करता है। सा ० भा० — अन्तिमात् प्राचीनेषु प्रवर्येषु पूर्वोक्तामधिकामप्रक्षिप्यैवानया परिदध्यात्। अन्तिमे तु तां प्रक्षिप्य पश्चादनया परिदध्यात्। तदाह आश्वलायनः -' सूयवसाद्भगवती हि भूया' इति परिदध्यादुत्तमे प्रागुत्तनाया हविर्हविष्मो महि सद्म दैव्यमित्यावपेत' ' इति॥ अथ पूर्वोक्तस्य प्रवर्ग्यकर्मणः प्रशंसार्थं मिथुनव्यापाराकारेण रूपकं दर्शयति– ( देवमिथुनरूपेण प्रवर्ग्यप्रशंसनम् ) तदेतद् देवमिथुनं यद्धर्मः स यो धर्मस्तच्छिश्नं यौ शफौ तौ शफौ योपयमनी ते श्रोणिकपाले यत्पयस्तदरेतस्तदिदमग्नौ देवयोन्यां प्रजनने रेतः सिच्यतेऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः संभवति ॥ १४ ॥
हिन्दी - ( अब पूर्वोक्त प्रवर्ग्य कर्म की प्रशंसा के लिए मिथुनव्यापार से रूपक को दिखला रहे हैं— ) यद् धर्मः जो धर्म है तद् एतद् देवमिथुनं वह यह देवों का जोड़ा है। सः यः घर्मः वह जो घर्म ( महावीर नामक प्रवर्ग्य का पात्र विशेष ) है तत् शिश्नम् वह शिश्नरूप है। यौ शफौ जो दोनों शफ ( गर्म धर्म को उठाने के लिए गूलर की बनी सड़सी, ( ) ) हैं तौ शफौ वे जननेन्द्रिय के पार्श्व भाग वाले दो शफ है। यः उपयमनी जो (नीचे आधार के लिए गूलर की बनी दव) हैं, ते श्रोणिकपाले वे श्रोणी की दो उपयमनीअस्थियाँ है। यत्पयः जो (महावीर में विद्यमान तप्त घृत में डाला जाने वाला ( ),वह वीर्य है देवों की योनि । तद्( इदंउत्पत्तिरेतः स्थानवह यहअग्निघृत) मिश्रितमें सिच्यतेदूध रूप) वीर्य देवयोन्यांदूधप्रजननेहै तद्अग्नौरेतः सिञ्चित किया जाता है । अग्निर्वै ( १ ) ऋ० ९.८३.५ । ( २ ) ऋ० १.१६४.४० । (३ ) आश्व ० श्रौ० ४.७.४,५ ।