ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 231–240

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 231–240

पृष्ठ 231

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] १६ ९ चतुर्थोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम्: उन ( देवताओं ) ने तनूः ( स्त्री पुत्रादि) शरीरों को राज्ञः वरुणस्य गृहे राजा वरुण संन्यदधत रख दिया।. के घर सा० भा०-—स्वकार्यहानिनिमित्तदुःखपरिहारोपायदर्शननिमित्तहर्षद्योतनार्थो शब्दः । अस्माकमत्यन्तं प्रिया याः पुत्रकलत्रादिरूपास्तन्वः सन्ति, 'ता:' सर्वा अस्य वरुणस्यहन्त- राज्ञो गृहे संनिदधामहै बन्दीरूपेण स्थापयामः । तथा सति नोऽस्माकं मध्ये यः कोऽप्येत- दतिक्रामादुल्लङ्घयेत्, उल्लङ्घ्य चाऽऽलुलोभयिषात् स्वपुत्रकलत्रादीनेव लोभयितुमिच्छेत्, गुप्तमनुष्यर्मुखेनाऽऽनेतुमिच्छेन्नोऽस्माकं मध्ये स तादृशः पुरुषस्ताभिरेव.न. संगच्छातै पुत्रकलत्रादिभिर्न संगच्छताम्। इत्येतं समयं सर्वेऽप्यङ्गीकृत्य वरुणगृहे स्वपुत्रादिशरीराणि स्थापितवन्तः । परस्पराविरोधे सति वयमेवासुराणामिदं लोकत्रयं साधयाम इति विचार्येमं समयं कृतवन्तः । सोऽयं शाखान्तरे स्पष्टमाम्नायते— 'तेऽमन्यन्तासुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्य: स निर्ऋच्छाद्यो न प्रथमोऽन्योन्यस्मै द्रुह्यात्” इति ॥ इदानीं निवर्चनं दर्शयति— ( तानूनप्त्रशब्दनिर्वचनम् ) ते यद्वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनप्त्रमभवत् तत्तांनू- नप्त्रस्य तानूनप्त्रत्वम् ॥६ ॥

हिन्दी— ( अब ‘ तनूनप्त्र' के निर्वचन को दिखला रहे हैं - ) ते उन ( देवताओं ) ने वरुणस्य राज्ञः गृहे राजा वरुण के घर में यत् तनूः सन्यदधत जो ( स्त्री पुत्रादि ) शरीरों को रखा तत् तानूनप्त्रम् अभवत् वह तानूनपत्र (नामक कर्म) हुआ। तत् तानूनप्त्रस्य तानूनप्त्रत्वम् वही तानूनप्त्र की तानूनप्त्रता ( तानूनप्त्र होना) हैं। सा० भा० – यस्माद् वरुणगृहे पुत्रादितनूरवस्थाप्ये परस्परसंख्यायाऽऽज्यस्पर्शनं शपथ-रूपं कृतवन्त इति शेषः । तस्मादिदमाज्यस्पर्शनाख्यं तानूनप्त्रं कर्माभवत्। इदं च कर्माऽऽ-पस्तम्बेन विस्ष्टमभिहितम्— ' आतिथ्यायां धौवात्स्रुचिं चमसे वा तानूनप्त्रं समवद्यति। चतुरवत्तं पञ्चावत्तं वा पतये त्वा गृह्णामीत्येतैः प्रतिमन्त्रमनाधृष्टमसीति यजमानसप्तदशा ऋत्विज- ( १ ) तै ० सं ० ६.२.२.१ । ( २ ) अध्वर्युप्रभृतिषोडशर्तिर्त्वजो यजमानश्च मियो द्रोहशून्या भवन्त एकमत्या यज्ञकार्ये सम्पादयितुं घृतस्पर्शनपूर्वकं समन्त्रं यत् शपथकरणं तदेव 'तानूनप्वं' कर्म; परस्परेर्षाद्वेषादिशून्या एव वयं यथाविधियागकार्यसम्पादनाय यतिष्याम इत्याकारः स्वीकार इति । एवं तनूः न याति इत्यस्मिन्नर्थे तानूनप्त्रशब्दो वर्तते । तत् तानूनप्त्रं शरीररक्षणमित्यर्थः । ( ३ ) ' अध्वर्यु· प्रतिप्रस्थातारं नेष्टारमुन्नेतारमित्यध्वर्यून् । ब्रह्माणं ब्राह्मणाच्छंसिनमाग्नीध्रं पोतारमिति ब्रह्मण: 1 ऐ.ब्रा. पू- ११

पृष्ठ 232

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ४.७ प्रथमपञ्चिकायां १७०: ऐतरेयब्राह्मणम् स्तानूनप्वं समवमृशन्त्यनु मे दीक्षामिति यजमान' इति । तनूनां पुत्रादिशरीराणां नप्त्रं न तपत? ( पतन) मतिशयितं निमित्तीकृत्य क्रियमाणत्वादस्य कर्मणस्तानूनप्त्रं नाम संपन्नम्॥ प्रसङ्गाल्लोकव्यवहारे कचिद्धर्मं दर्शयति— तस्मादाहुर्न सतानूनप्त्रिणे द्रोग्धव्यमिति ॥७ ॥

हिन्दी— ( प्रसङ्गवश लोक- व्यवहार में किसी धर्म को दिखला रहे हैं— ) तस्माद् आहुः इसी कारण ( वेदज्ञ लोग) कहते है कि सतानूनाप्त्रिणे सतानूनप्त्री ( शपथ करने वाले ) से न द्रोग्धव्यम् द्रोह नहीं करना चाहिए । सा० भा ० — यस्माद्देवाः परस्परद्रोहपरिहाराय शपथं कृतवन्तस्तस्माद् ब्रह्मवादिन एवमाहुः । सतानुनप्त्रिणे सह शपथकारिणे न द्रोग्धव्यम्। इतिशब्दस्तदुक्तिसमाप्त्यर्थः । देवसंबन्धिशपथविशेषवाचिना तानूनप्त्रशब्देन शपथमात्रमुपलक्ष्यते । बहुभिः सह क्रियामाणं तानूनप्त्रं यस्यास्ति सोऽयं सतानूनप्त्री॥ प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति— तस्माद्विदमसुरा नान्वाभवन्ति ॥८ ॥

हिन्दी - तस्मात् इसी कारण असुराः असुरलोग इदम् इस (लोकत्रय) को न अन्वाभवन्ति नहीं प्राप्त कर पाते हैं । सा० भा० — तस्मादु तस्मादेव कारणाद्देवानां परस्परसख्यरूपादसुरा इदं लोकत्रयं नान्वाभवन्ति नैव समन्तात् प्राप्नुवन्ति। यद्यप्येतत् तानूनप्त्रं कर्मोपसद्भ्यः पूर्वमनुष्ठेयं' तथाऽप्युपसत्प्रयुक्तविजयप्रसङ्गेन बुद्धिस्थत्वादत्राभिहितम्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशेः ऐतरेयब्राह्मण- भाष्यस्य चतुर्थाध्याये सप्तमः खण्डः || ७|| होतारं मैत्रावरुणमच्छावाकं ग्रावस्तुतमिति होतॄन् । उद्गातारं प्रस्तोतारं प्रतिहर्तारं सुब्रह्मण्यमित्युद्गातॄन् । सदस्यं सप्तदशं कौषीतकिनः समामनन्ति ॥ ' ( १ ) आप० श्रौ ० ११.१.१-३ । इति आप० श्रौ० १०.१.९ -१० । ( २ ) अत एव कात्यायनेन 'इडान्तं भवति' इति ( ८.१.१८ ) आतिथ्यं समाप्य, ध्रौवग्रहणं च विधाय, शपथग्रहणं तानूनप्त्रं प्रोच्य, निह्नवादि सुब्रह्मण्याह्नानं च व्यवस्थाप्य सूत्रितम् - ‘ प्रवर्ग्योपसदावतः ’ - इति ( ८.२.१५ )। 'अतः सुब्रह्मण्याह्वानादूर्ध्वं प्रवर्ग्योपसदौ भवतः । पूर्वं प्रवर्ग्यः तत उपसदिति। उपसदिति वक्ष्यमाणाया इष्टेः संज्ञा' -इति च तट्टीका । तथैवापस्तम्बोऽप्याह ( १०.३१.१५, १६; ११.१.१.- १४; २.१-१२ )।

पृष्ठ 233

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: १७१ चतुर्थोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा० भा०-- अथाऽऽतिथ्यकर्मण्यास्तीर्णस्यैव बर्हिष उपसत्स्वनुवृत्तिं विधत्ते— शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः समानबर्हिषी भवतः समानं हि शिरोग्रीवम् ॥१ ॥

हिन्दी– ( अब आतिथ्य कर्म में बिछाये गये कुश की उपसत् में अनुवृत्ति का विधान कर रहे हैं — ) यद् आतिथ्यम् जो आतिथ्य (नामक कर्म ) है एतद् यज्ञस्य शिरः यह यज्ञ का शिर - स्थानीय है और उपसदः ग्रीवा उपसद ग्रीवा - स्थानीय है । समानबर्हिषि एक ही कुश पर दोनों का सम्पादन करना चाहिए क्योंकि समानं हि शिरो ग्रीवम् शिर और ग्रीवा समान होते हैं । सा० भा० - अथाऽऽतिथ्यकर्मणो यज्ञशिरोरूपत्वादुपसदां च ग्रीवारूपत्वात्तयोरवय- वयोर्मध्ये लोके विच्छेदादर्शनादत्राप्यविच्छेदायाऽऽतिथ्योपसत्कर्मणी 'समानबर्हिषी' एक- बर्हिषा युक्ते कर्तव्ये । आतिथ्यकर्मण्यास्तीर्णं बर्हिर्नाग्नौ प्रहृतम्। इडान्तत्वेन तत्र कर्मसमाप- नात्। तच्चाऽऽपस्तम्बेनोक्तम्— 'इडान्ता संतिष्ठते, धारयन्ति ध्रौवमाज्यम् ' इति । शाखान्तरे च बर्हिषोऽनुवृत्तिराम्नाता— ' यदातिथ्यायां बर्हिस्तदुपसदां तदग्नीषोमीयस्य' इति॥ अथोफ्सत्सु द्रव्यदेवताविधानार्थं प्रस्तौति— ( उपसत्सु द्रव्यदेवताविधानप्रस्तावनम् ) इषु वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीकमासीत् सोमः शल्यो विष्णुस्तेजनं वरुणः पर्णानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयन् ॥२ ॥

हिन्दी— ( अब उपसद् में द्रव्यदेवता के अभिधान के लिए प्रस्तावित कर रहे हैं— ) यद् उपसदः जो ( अग्न्यादि) उपसद देवता हैं एतां देवाः इषु समस्कुर्वत उनको देवताओं ने बाण बनाया । तस्या अग्निः अनीकम् उस (बाण का) अग्नि मुख तथा सोमः शल्यः सोम शल्य ( लोहे वाला भाग ), विष्णुः तेजनम् विष्णु नोक और वरुणः पर्णानि वरुण पर्ण (बाण के मूल के पंख) आसीत् थे। ताम् उस (बाण) को आज्यघन्वानः ( १ ) आप० श्र० १०.३१.१५,१६ ।

पृष्ठ 234

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ४.८ प्रथमपञ्चिकायां १७२: ऐतरेयब्राह्मणम् आज्यरूपी धनुष वाले देवताओं ने व्यसृजन् छोड़ा। तया उस (बाण के छोड़ने ) से पुरः भिन्दन्तः ( असुरों के ) दुर्ग को विनष्ट करके (देवता लोग) आयन् आये। सा० भा ० — यदुपसदो या उपसद्देवता अग्न्यादिकाः सन्ति, एतामग्न्यादिरूपामिषुं वै बाणमेव देवाः समस्कुर्वत संस्कृतवन्तः, अग्न्यादीन् बाणावयवरूपेण संयोजितवन्त इत्यर्थः । योऽयमग्निः सोऽयं तस्या इषोरनीकं मुखमासीत्। पत्रयुक्ताद् बाणमूलादूर्ध्ववर्ती भागो मुखं तस्योपरि वर्तमानो लोहविशेष: शल्यं तस्य लोहस्य तीक्ष्णमग्रं तेजनम्। पर्णानि बाणमूले स्थापितानि पक्षिणां पत्राणि शल्यादिरूपेणाग्निसोमविष्णुवरुणा योजिताः । वरुणोऽत्र प्रशंसार्थमेवापादीयते न तु देवतात्वेन तदीययोर्याज्यानुवाक्ययोरनंभिधास्यमानत्वात् । अत एव शाखान्तरे वरुणं परित्यज्याग्न्यादय आम्नायन्ते–'त इषुं समस्कृर्वताग्निमनीकं सोमं शल्यं विष्णुं तेजनम्' ' इति। तामेतामिषुं देवा आज्यधन्वानः सन्तो विसृष्टवन्तः । तया विसृष्टयेष्वा तेषामसुराणां पुरो भिन्दन्तो विदारयन्त आयन्नागच्छन्॥ इदानीं द्रव्यदेवतां विधत्ते— ( द्रव्यदेवताविधानम् ) तस्मादेता आज्यहविषो भवन्ति ॥ ३ ॥

हिन्दी —( अब द्रव्यदेवता का विधान कर रहे हैं — ) तस्मात् उस ( अग्नि के बाणरूप और आज्य के धनुष रूप होने ) के कारण आज्यहविषः भवन्ति (उपसद में अग्न्यादि देवताओं के लिए ) आज्य का हविष् होती है । सा ० भा ० — यस्मादग्न्यादयो बाणरूपाः, आज्यं च धनुःस्वरूपम्, तस्मादाज्यहविष्का एता अग्न्यादिदेवता उपसत्सु भवेयुः ॥ उपसदङ्गभूतं व्रतोपायनं विधत्ते— ( उपसदङ्गभूतव्रतोपायनविधानम् ) चतुरोऽग्रे स्तनान् व्रतमुपैत्युपसत्सु चतुः संधिर्हीषुरनीकं शल्यस्तेजनं पर्णानि॥४ ॥

हिन्दी— ( उपसद् के अङ्गभूत व्रतोपायन का विधान कर रहे हैं— ) उपसत्सु उपसदों ( के सम्पादन) में अग्रे प्रथम दिन (सायंकाल) चतुरः स्तनाम् (गाय के ) चार स्तनों ( के दूध) का व्रतम् उपेति व्रत (दुग्धपान ) करता है; क्योंकि अनीकं शल्यः तेजनं पर्णानि मुख, शल्य, तेजन और पंख चतुः सन्धिः हि इषुः इन चार सन्धियों वाला बाण होता है । सा० भा०– 'उपसत्सु' अनुष्ठीयमानासु, ' अग्रे' प्रथमदिने सायंकाले 'चतुरः स्तनान् व्रतमुपैति' व्रतशब्देनात्र पयःपानमुच्यते– गोश्चतुर्षु स्तनेषु यावत्पयस्तावत् पूर्वोक्तस्य बाण- ( १ ) तै० सं० ६.२.३.१ ।

पृष्ठ 235

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] १७३ चतुर्थोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम्: स्य चतुःसंधित्वादनीकाद्यवयवचतुष्टयोपेतत्वात् स्तनानां चतुःसंख्या युक्ता ॥ अनेवैव प्रकारेण द्वितीयोपसद्दिने प्रातः सायंकालयोस्तृतीयदिनस्य प्रातःकाले स्तनसंख्या विधत्ते— चैकैकन्यूनाः त्रीन् स्तनान् व्रतमुपैत्युपसत्सु त्रिषन्यिर्हीषुरनीकशल्यस्तेजनं, द्वौ स्तनौ व्रतमुपैत्युपसत्सु द्विषन्धिर्हिषुः शल्यश्च ह्येव तेजनं चैकं स्तनं ..व्रतमुपैत्युपसत्स्वेका ह्येवेषुरित्याख्यायत एकया वीर्यं क्रियते ॥५ ॥

हिन्दी— ( यजमान उपसत् के द्वितीय दिन) त्रीन् स्तनान् ( गाय के ) तीन स्तनों (के दूध) को व्रतम् उपैति व्रत करता है; क्योंकि उपसत्सु उपसदों में इषुः बाण अनीकं शल्यः तेजनम् मुख, शल्य और तेजन त्रिसन्धिः हि तीन सन्धियों वाला होता है । (उपसत् के तृतीय दिन) द्वौ स्तनौ व्रतम् (गाय के दो स्तनों ( के दूध) का व्रत है; क्योंकि उपसत्सु उपसदों में इषुः बाण शल्यः च एव तेजनं हि शल्य और तेज़न द्विषन्धिः दो सन्धियों वाला होता है । (उपसत् के चतुर्थ दिन) एकं स्तनं व्रतम् उपैति एक स्तन वाले ( दूध का ) व्रत करता है; क्योंकि उपसत्सु उपसदों में एका एव इषुः एक ही बापा होता है - इत्याख्यायते ऐसा कहा गया-हैहै और एकया वीर्यं क्रियते एक ही (बाण ) द्वारा पराक्रम किया जाता है । सा० भा०--एतासां स्तनसंख्यानामुक्ताः कालविशेषा आपस्तम्बेनोदाहृता: - ‘ चतुरः सायं दुह्यात्त्रीन् प्रातद्वौ सायमेकमुत्तमः ’ ” इति॥ यथोक्तं संख्याविशेषं प्रशंसति— परोवरीयांसो वा इमे लोका अर्वागंहीयांसः परस्तादर्वाचीरुपसद उपैत्येषामेव लोकनामभिजित्यै ॥ ६ ॥.

हिन्दी – ( यथोक्त संख्या-विशेष की प्रशंसा कर रहे हैं - ) इमे लोकाः ये ( पृथिवी, अन्तरिक्ष और द्यु आदि ) लोक परोवरीयांसः ऊपर अत्यधिक विस्तृत है और अर्वाग् अंहीयांसः नीचे के ( लोक) अत्यन्त सङ्कुचित हैं। एषामेव लोकानां अभिजित्यै इन्हीं लोकों के विजय के लिए उपसदः उपसद परस्ताद् अर्वाचीः क्रमशः न्यून होते हुए सम्पादित होता है । सा० भा० — इमे पृथिव्यन्तरिक्षघुसप्तलोकाः परोवरीयांसः परस्तादूर्ध्वभागे निव-सन्तोऽत्यन्तं विस्तृताः । अर्वागधोभागेऽहीयांसोऽतिशयेनाणुवत्सङ्कुचिताः । सत्यलोकादणुर्छु- ( १ ) आप० श्रौ० ११.४.१० । ( २ ) पौराणिकमतेनैमौ लेखौ सायणस्य; वस्तुतस्त्रय एव लोकाः, द्युलोकनामसूर्यमण्डलात् पृथिव्या अतिक्षुद्रत्वे च श्रुतेस्तात्पर्यमितिदिक्।

पृष्ठ 236

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ४.८ प्रथमपञ्चिकायां १७४: ऐतरेयब्राह्मणम् लोकस्तस्मादप्यणुरन्तरिक्षलोकस्तमादप्यणुर्भूलोकः । एवं सत्युपसदोऽपि परस्तादूर्ध्वलोक-स्थानीयात् प्रथमदिनादारभ्य तत्तद्दिनान्तरदिनेषु स्तनसंख्याहासेनार्वाचीरुपैत्यनुतिष्ठतीति यदस्ति तेषामेव लोकानामभिजयाय भवति॥ अथ पूर्वाह्वापराह्णयोर्व्यवस्थिताः सामिधेनीर्विधत्ते— ( पूर्वाह्णापराह्णयोः सामधेनीविधानम् ) ' उपसद्याय मीळ्हुषे ' ' ' इमां मे अग्ने समिधमिमामुपसदं वनेः ' इति, तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति ॥७॥

हिन्दी— पूर्वाह्न और अपराह्न में व्यवस्थित उपसद कर्म में सामिधेनी का विधान कर रहे हैं— ) ‘उपसद्याय मीळ्हुषे ' और ' इमां मे अग्ने समिधमिमामुपसदं वने' इति तिस्रः तिस्रः सामिधेन्यः ये तीन - तीन सामिधेनियाँ (क्रमश: पूर्वाह्न और अपराह्न में पढ़ी जाती है जो) रूपसमृद्धा अपने रूप से समृद्ध ( पूर्ण) हैं । यद् रूपसमृद्धम् जो यह रूप से समृद्ध हैं, एतद्वै यज्ञस्य समृद्धम् यह ही यज्ञ की समृद्धि है यत् क्रियमाणं कर्म जो किया जाता हुआ कर्म है, इसको ऋग् अभिवदति ऋचा कहती है । सा० भा ० — उपसद्यायेत्याद्या आम्नातास्तिस्र' ऋचः पूर्वाह्न सामिधेन्यः । ' इमां मे अग्ने' इत्यादिका आम्नातास्तिस्र ऋचोऽपराह्ने सामिधेन्यः । मन्त्रान्तरशङ्काव्यदासेन वैशब्दार्थः कृत्स्नार्थपाठः ‘उपसद्यायोपसदं वनेः ' इत्युपशब्दयोगेन रूपसमृद्धिः*॥ याज्यानुवाक्या विधत्ते— ...... ( याज्यानुवाक्यानां विधानम् ) जघ्निवतीर्याज्यानुवाक्याः कुर्यात् ॥ ८॥

..हिन्दी - ( याज्या और अनुवाक्या का विधान कर रहे हैं - ) जघ्निवती: याज्यानु- वाक्या कुर्यात् हन्' धातु से युक्त ऋचा की याज्या और अनुयाक्या करना चाहिए। सा० भा० — हन्तिधात्वर्थयुक्ता जघ्निवतीः ॥ तथाविधा ऋच उदाहरति— ( १ ) ‘ ळ्हकारतामेति स एवं चास्य ढकारः सन्नूष्मणा संप्रयुक्त: ' -इति ऋक् प्राति० १.५२। (२) ऋ० ७.१५.१-३ । ( ३ ) ऋ० २.६.१-३ । ( ४ ) ' इमं मे अग्ने समिधम्' -– इति प्रतीकवानस्त्यपरोऽपि मन्त्रः (ऋ० १०.७०.१ ) परम् ‘उपसदं वनेः’ — इत्यंशस्य उपसद्रूपसमृद्धिहेतुभूतस्य तत्राश्रवणान्नात्र तस्य ग्रहणप्र- सक्तिरिति भावः ।

पृष्ठ 237

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]:चतुर्थोऽध्यायः अष्टमः खण्ड सायणाचार्यकृतभाष्योपैतम् १७५ ' अग्निर्वृत्राणि जङ्घनद्' ' य उग्र इव शर्यहा' 'त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्वि चक्रमे त्रीणि पदा वि चक्रमे 'इत्येताः ॥९ ॥

हिन्दी – ( हन् धातु से युक्त ऋचाओं को उदाहरित कर रहे हैं - ) ' अग्निर्वृत्राणि जङ्घनद्’ ( यह पुरोनुवाक्या ), ' य उग्र इव शर्यहा' ( यह याज्या ), ‘ त्वं सोमासि सत्पति: ’ ( यह पुरोनुवाक्या), ‘ गायस्फानो अमी वह' ( यह याज्या) 'इदं विष्णुर्वि चक्रमे' ( यह .अनुवाक्या ) ‘त्रीणिपदा वि चक्रमे' ( यह याज्या) इति एता: ये (ऋचाएँ) हैं । सा० भा०– ' अग्निर्वृत्राणीति' १ पुरोनुवाक्या । य उग्र इवेति ' ' याज्या । त्वं सोमेति' पुरोनुवाक्या । ‘ गयस्फानः ’” इति याज्या। 'इदं विष्णुरिति " पुरोनुवाक्या। ‘त्रीणि पदेति’६ याज्या । एताश्चाग्न्यादिदेवानां क्रमेण द्रष्टव्याः ॥ याः पूर्वाह्णे पुरोनुवाक्या उक्तास्तासामपराह्णे याज्यात्वं तथा तत्रत्यानां याज्यानामपराह्णे पुरोनुवाक्यात्वं च विधत्ते- विपर्यस्ताभिरपराह्णे यजति ॥ १० ॥

हिन्दी - विपर्यस्ताभिः अपराह्णे यजति अपराह्न में (उन ऋचाओं के ) विपर्यय द्वारा ( अर्थात् पुरोनुवाक्या को याज्या के स्थान पर और याज्या ऋचाओं को पुरोनुवाक्या के स्थान पर ) करके यजन = पाठ करता है । सा० भा० — यथोक्तयाज्यानुबाक्यायुक्ताया उपसदः प्रशंसति- घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन् यदुपसदः ॥ ११ ॥

हिन्दी – ( इस- याज्यानुवाक्या से युक्त उपसद की प्रशंसा कर रहे हैं.. ) यद् उपसद्ः जो उपसद् है उसके एताभिः इन (ऋचाओं) के द्वारा पुरः भिन्दन्तः ( असुरों के ) दुर्गों के भेदन करते हुए और घ्नन्तः वै देवाः ( असुरों को ) हिंसित करते हुए देवता लोग आयन् आगमन किये। सा० भा० — या उक्तमन्त्रोपेता उपसदः सन्ति, एताभिर्देवा असुराणां तिस्रः पुरो विदारयन्तोऽसुरांश्च हिसन्त आगताः ॥ उदाहृतासु याज्यानुवाक्यासु सर्वासु यदेकविधं छन्दो दृश्यते न तु विलक्षणं तदन्वयव्यतिरेकाभ्यां विशदयति- सच्छन्दसः कर्तव्या न विच्छन्दसः ॥ १२ ॥

( ) ( ) ( ) १ ऋ० ६.१६.३४ । २ ऋ० ६.१६.३ ९१ ३ ऋ० १.९ १.५।( ) ( ) ( ) *४ ऋ० १.९ १.१२। ५ ऋ० १.२२.१७। ६ ऋ० १.२२.१८ ।

पृष्ठ 238

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ १७६ ऐतरेयब्राह्मणम् ४.८ प्रथमपञ्चिकायां हिन्दी— ( उपर्युक्त याज्या और अनुवाक्या की सभी ऋचाओं के समान छन्द में होने · की अन्वय और व्यतिरेक के द्वारा प्रशंसा कर रहे हैं. ) सच्छन्दसः कर्तव्याः (उपर्युक्त ) समान छन्दस्क (ऋचाओं) से याज्या और अनुवाक्या करना चाहिए, विच्छन्दसः न विषम

छन्दस्क ऋचाओं की नहीं।

सा० भा० — समानं छन्दो यासां ताः सच्छन्दसः । विलक्षणं छन्दो यासां ता विच्छन्दसः॥

वैलक्षण्ये बाधमाह— यद्विच्छन्दसः कुर्याद् ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोः ॥१३ ॥

हिन्दी— ( विच्छन्द वाली ऋचाओं से याज्या और अनुवाक्या करने में बाधा को दिखला रहे हैं — ) यद् विच्छन्दसः कुर्यात् यदि विषम छन्दस्कं ऋचाओं से याज्या और अनुवाक्या करे तो ग्रीवासु (उपसदस्थानीय) ग्रीवा में गण्डं दध्यात् गण्डमाला ( नामक रोग ) उत्पन्न करें । तत् इस ( विषम छन्दस्क याज्यानुवाक्या करने) से ग्लावः जनितः ईश्वरः (होता) गण्डमाला उत्पन्न करने में समर्थ हो जाता है । सा ० भा ० — विलक्षाणच्छन्दसामनुष्ठाने ग्रीवास्थानीयासूपसत्सु गण्डमालाख्यरोग-स्थानीयं दोषं दध्याद् उत्पादयेत्। तथा सति होता यजमानस्य ग्लानिविशेषाञ्जनितोरुत्पादयि-तुमीश्वरः 'समर्थो भवेत्॥ अस्वपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति— तस्मात् सच्छन्दस एव कर्तव्या न विच्छन्दसः ॥ १४ ॥

हिन्दी - तस्मात् इसी कारण सच्छन्दसः एवं कर्त्तव्याः समान छन्दस्क (याज्या और अनुवाक्या को ) करना चाहिए, न विच्छन्दसः विषम छन्द वाला नहीं । उपसदामाज्यहविष्कत्वं प्रशंसति— ( आज्यहविष्कत्वेनोपसदां प्रशंसनम् ) तदु ह स्माऽऽहोपाविर्जानश्रुतेय उपसदां किल वै तद्द्ब्राह्मणे यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव .रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्याहितं तस्माद्ध स्म तदाह ॥ १५ ॥

हिन्दी—(उपसदों में आज्य की हविष होने की प्रशंसा कर रहे हैं— ) तदु उपसदाम् उन उपसदों के विषय में तद् ब्राह्मणे तत्सम्बन्धी ब्राह्मण में जानश्रुतेयः उपाविः आह जनश्रुति के पुत्र उपावि (नामक ऋषि) ने कहा है- यस्मात् इसलिए अश्लीलस्यह स्म श्रोत्रियस्य मुखम् कुरूप श्रोत्रिय का मुख तृप्तम् इव तृप्ति से युक्त और रेभती इव.

पृष्ठ 239

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] १७७ चतुर्थोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम्ः ( वेदशास्त्र के पाठ से युक्त होने के कारण) प्रशंसनीय के समान व्येव ज्ञायते विशेष रूप से मालू होता है। इसी प्रकार आज्यहविषः उपसदः आज्य की हविष् वाला ग्रीवासु मुखम् अध्याहितम् ग्रीवा में मुख पर आश्रित होती है! तस्माद् ह इसी उपसदकारण तदाह (ऋषि ने इस प्रकार कहा है ।.. सा० भा० - तदु ह तस्मिन्नेवोक्तार्थे कश्चिद्वृत्तान्त उच्यत इति शेषः । उपाविर्नामकः कश्चिदृषिः स तु जानश्रुतेयः, जनश्रुतायाः स्त्रिया अपत्यं स घुमानुपसदां किल वै, उपसन्नामकानां कर्मणामेव विधायके ब्राह्मणे तद्वाक्यमाह स्म । किमाहेति तदुच्यते – यस्मात्कारणादश्लीलस्यापि कुरूपस्य श्रोत्रियस्य वेदशास्त्रविदो मुखं तृप्तमिव दैन्यहीनतया. तृप्तियुक्तमेव रेभतीव वेदशास्त्रपाठोपेतत्वाच्छंसन्निव व्येव ज्ञायते विशेषेणावश्यं प्रतीयते – इत्येतदृषेर्वचनम्। तस्य वचनस्याभिप्राय उच्यते - ग्रीवास्थानीया उपसद आज्यहविष्का अत एव शोभमानाः । लोकेऽपि शोभमानासु ग्रीवासु, अध्याहितमाश्रितं मुखं श्रोत्रियसंबन्धितृप्त्याद्युपेतं दृश्यते। तस्मात् कारणाच्छोभनग्रीवाहितमुखसाम्यमाज्यहविष्कत्वमित्यभिप्रेत्य स ऋषिस्तद्वाक्यमाह' । अथा मीमांसा। चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम् –

‘ यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् ।

साधारण्यविधिर्वाऽऽद्यस्तदीयस्योपसंहृतेः ॥

बर्हिःश्रुत्यैकताभानान्नातिदेशस्य लक्षणा ।

आतिथ्ययोपसद्भिश्च बर्हिरेतत्प्रयुज्यते ॥

ज्योतिष्टोमे श्रूयते – यदांतिध्यायां बर्हिस्तदुपसदां तदग्नीषोमीयस्य चेति । क्रीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या। तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः । औपवसंध्ये दिनेऽनुष्ठेयः सोऽग्नीषोमीयः । तत्र आतिथ्येष्टौ विहितं यद्बर्हिस्तद्यदि तस्या. इष्टेराच्छिद्योपसत्सु विधीयेत तदानीमातिथ्याविधानमनर्थकं स्यात्। यदि तत्रोपयुक्तमितरत्र विधीयते विनियुक्तविनियोगरूपो विरोधः स्यात्। तस्मादातिथ्या- बर्हिषो ये धर्मा आश्ववालत्वादयस्ते धर्मा उपसत्सूपसंह्रियन्त इत्यतिदेशपरं वाक्यमिति प्राप्ते ब्रूमः — बर्हिः शब्दस्य धर्मातिदेशपरत्वे लक्षणा प्रसज्येत। श्रुत्या तु बर्हिष आतिथ्योप-सदग्नीषोमीयेष्वेकत्वं प्रतिभात्यतः साधारण्यमत्र विधेयम्। आतिथ्यार्थं यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थं किंतूपसदर्थमग्नीषोमीयार्थं चोपादेयमिति विधिवाक्यस्यार्थः । तस्मादातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः। द्वादशाध्यायस्य प्रथमपादे चिन्तितम्- ( १ ) वक्त्रनुक्तौ तु सर्वत्र स्वयं महिदासैतरेय एव वक्तेत्याह —इति षड्गुरुशिष्यः । (२ ) जै ० न्या० वि० ४.२.१४.२ ९ -३० । ( ३ ). जै० न्या ० वि० १२.१.१ ९.४२-४३ ।

पृष्ठ 240

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ४.९ प्रथमपञ्चिकायां १७८: ऐतरेयब्राह्मणम्

आतिथ्यादिगते बर्हिष्युक्षणादि पृथङ्न वा ।

आद्योऽतन्त्रप्रसङ्गत्वान्न प्रसङ्गानिवारणात् ॥३

“यदातिथ्यायां बर्हिस्तदुपसद तदग्नीषोमीयस्येति श्रुतं तत्र बर्हिस्त्रयाणां साधारणमिति चतुर्थे निरूपितम् । तस्मिन् साधारणे बर्हिषि प्रोक्षणादिसंस्काराः प्रतिकर्म पृथगनुष्ठेयाः । कुतः? तन्त्रप्रसङ्गयोरत्रासंभवात्। न तावत्तन्त्रमस्ति, दर्शगतयागत्रयवदेककालीनत्वाभावात्। नापि प्रसङ्गः, एकस्य तन्त्रमध्येऽन्ययोरपठितत्वाद् इति प्राप्ते बूमः – बर्हिष एकत्वात्स-कृत्प्रोक्षणादिभिः संस्कारे पुनः प्रोक्षणाद्यपेक्षा नास्ति । ते च प्रोक्षणादयः प्राथम्यादातिथ्यायां कार्याः । तत उपसत्स्वग्नीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते ” ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मण- भाष्यस्य चतुर्थाध्याये अष्टमः खण्डः || ८ || ॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ नवमः खण्डः सा० भा ० — अथोपसत्सु प्रयाजाननुयाजांश्च निषेधति— ( उपनिसत्सु प्रयाजानुयाजानां निषेधः ) देववर्म वा एतद्यत्प्रयाजाश्चानुयाजाश्चाप्रयाजमननुयाजं भव संशित्या अप्रतिशराय ॥ १ ॥

हिन्दी— ( अब उपसदों में प्रयाजों और अनुयाजों का निषेध कर रहे हैं— ) यत् प्रयाजाश्च अनुयाजाश्च जो प्रयाज और अनुयाज हैं एतद् देववर्म वै ये देवताओं के कवचरूप है अतः इष्वै संशित्यै ( अपने) बाण की सम्यग्रूपेण तीक्ष्णता के लिए और अप्रतिशराय ( अपने पर किये गये ) बाणप्रहार की शङ्का के परिहार के लिए अप्रयाजम् अननुयाजं भवति (उपसद) प्रयाज और अनुयाज से रहित किया जाता है । सा ० भा ० — ये प्रयाजा ये चानुयाजाः सन्ति तदुभयं देवानां वर्म वै कवचस्थानीयम्। अत एव शाखान्तरे समामनन्ति— 'यत्प्रयाजा अनूयाजा इज्यन्ते, वर्मै वा एतद्यज्ञाय क्रियते, वर्म यजमानाय भ्रातृव्याभिभूत्यै' ' इति । एवं सत्युपसदाख्यं कर्म प्रयाजानुयाजरहितं कर्तव्यं कवचस्यानुपयुक्तत्वात्। परकीयप्रहाराद् रक्षार्थं हि कवचं संपाद्यते । नात्र परप्रहारः संभवति । ( १ ) जै० न्या० वि० ४.२.१४.३० । (२ ) तै ० सं० २.६.१.५।