ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 241–250
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 241–250
पृष्ठ 241
पाठ पढ़ें पाठ छिपाएँ
]: चतुर्थोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् १७९ पूर्वोक्ताया इषोस्तीक्ष्णत्वेन सकृत् प्रयोगादेव मारितेषु शत्रुषु प्रहर्तृणामभावात्। एवं सति यदि कवचं संपाद्यते तदानीं स्वकीयाया इषोरतीक्ष्णत्वं शङ्कयेत स्वस्य च शत्रुभिः संपादिता प्रतिहिंसा शङ्कयेत, तच्चायुक्तम्। तस्मादिष्वै संशित्यै स्वकीयस्य बाणस्य सम्यक्तीक्ष्ण- त्वार्थमप्रतिशराय स्वेषु शत्रुकर्तृकप्रतिहिंसायाः शङ्कापरिहारार्थं च प्रयाजानुयाजवर्जनं युक्तम्। तथा च आश्वलायन आह— ' स्विष्टकृदादि लुप्यते प्रयाजा आज्यभागौ च' इति। स्विष्ट- कृदादिष्वन्तर्भावादनुयाजलोपो युक्त एव॥ • अत्राग्नीषोमविष्णुरूपाणां देवानां बहुत्वेनाऽऽश्रावणार्थमुत्तरस्माद्देशादाहवनीयस्य दक्षिणदेशं प्रत्यसकृदतिक्रमणं प्राप्तं तद् वारयितुमाह— ( आश्रावणविधानम्) सकृदतिक्रम्याऽऽश्रावयति यज्ञस्याभिक्रान्त्या अनपक्रमाय ॥ २ ॥
हिन्दी –( वेदि और आहवनीयाग्नि के मध्य स्थान में अनेक बार प्राप्त उलङ्घन के निवारण के लिए कह रहे हैं - ) यज्ञस्य अभिक्रान्त्यै यज्ञ की अभिक्रान्ति के लिए और अनपक्रमाय ( यज्ञ के ) अनपक्रमण के लिए सकृद् अतिक्रम्य ( होता वेदि और आहवनीयाग्नि के मध्य) एक बार अतिक्रमण करके आश्रावयति ( मन्त्रों को खड़े होकर) सुनाताहै। सा० भा ० - वेद्याहवनीययोर्मध्ये सकृदेवातिक्रम्य दक्षिणादिश्यवस्थितो बहुषु यागेषु प्रत्येकमाश्रावणं कुर्यात्। एवं सत्युपसद्यज्ञस्य सर्वत आक्रमणं भवति स्थैर्यं भवति। अन्यथा पुनः पुनरुत्तरस्यां दिशि गमने लब्धावसरः सन्यज्ञोऽप्यपक्रामेत्। तस्मात् सकृदेवातिक्रमणं युक्तम्। तदाहाऽऽपस्तम्बः— 'धौवादष्टौ जुह्वां गृह्णाति चतुर उपभृति घृतवति शंब्दे जुहूपभृता- वादाय दक्षिण सकृदतिक्रान्त उपांशुयाजवत् प्रचरति इति॥ अथ समन्त्रकं सोमाप्यायनं विधातुं प्रस्तौति- ( सोमस्याप्यायनविधानम् ) तदाहुः क्रूरमिव वा एतत् सोमस्य राज्ञोऽन्ते चरन्ति यदस्य घृतेनान्ते चरन्ति घृतेन हि वज्रेणेन्द्रो वृत्रमहन् ॥ ३ ॥
हिन्दी-( मन्त्र के साथ सोमाप्यायन का विधान करने के लिए प्रस्तावना कर रहे हैं— ) तदाहुः इस विषय में ब्रह्मवादी इस प्रकार कहते हैं—– यद् सोमस्य राज्ञः अन्ते ( १ ) आश्व० श्रौ० ४.८.८ । ( २ ) अभिक्रान्त्यै अभिक्रमणाय भवति अनभिक्रान्तश्च नातिदूरं गतः। प्रयाजानुयाजानामननुष्ठाने। सकृदभिक्रमणे चोपसद्याग: चोपसद्यागः शीघ्रमनुष्ठितो भवतीत्यर्थः – इति गोविन्दस्वामी (३ ) आप ० श्र० ११.३.९ -१० ।
पृष्ठ 242
पाठ पढ़ें पाठ छिपाएँ
[ ४.९ प्रथमपञ्चिकायां १८०: ऐतरेयब्राह्मणम् जो सोमराजा के समीप घृतेन घृत से चरन्ति ( तानूनप्त्र संज्ञक कर्म को ) सम्पादित करते है, एतद् अस्य अन्ते क्रूरमिव यह इस ( सोम) के समीप क्रूरता करने के समान होता हैं; क्योंकि घृतेन हि वज्रेण घृतरूप वज्र से इन्द्रः वृ॒त्रम् अहन् इन्द्र ने वृत्र को मारा था । सा० भा० — तत्तत्र ब्रह्मवादिन एवमाहुः – सोमस्य राज्ञोऽन्ते समीपे घृतेन द्रव्येण तानूनप्त्रसंज्ञकं कर्म चरन्त्यनुतिष्ठन्तीति यदस्ति तदेतत् सोमस्य राज्ञः समीपे क्रूरमिव वै, उग्रमेव कर्म चरन्ति। हि यस्मात् कारणाद् घृतरूपेण वज्रेणेन्द्रो वृत्रं हतवान्, तस्माद् घृतकर्म क्रूरम्। तच्छाखान्तरे विस्पष्टमाम्नातम्— 'घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण चरन्ति' ' इति॥ तस्य क्रूरकर्मणः परिहाराय विधत्ते- ·( तानूनप्त्रस्य क्रूरकर्मनिवारणम् ) दद्यदंशुरंशुष्टे देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाऽऽप्याययास्मान् सखीन् । सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्ति यदेवास्य ' तत्क्रूरमिवान्ते चरन्ति तदेवास्यैतेनाऽऽप्याययन्त्यथो एनं वर्धयन्त्येव ॥४ ॥
हिन्दी -( तानून के क्रूर कर्म के परिहार के लिए विधान कर रहे हैं - ) देव सोम हे सोम देव! एकधनविदः केवल ( सोमरूप) धन को जानने वाले ते अंशुः अंशुः तुम्हारे ` अवयव आप्यायताम् वृद्धि को प्राप्त होवें । तुभ्यम् इन्द्रः आप्यायताम् तुम्हारे लिए इन्द्र वृद्धि को प्राप्त करें और इन्द्राय त्वम् आप्यायस्व इन्द्र के लिए तुम वृद्धि को प्राप्त करो। अस्मान् सखीन् मित्र के समान हम लोगों को संन्या मेधया आप्यायय क्षेम और मेधा के द्वारा वृद्धि को प्राप्त कराओ । देव सोम हे सोम देवता! ते स्वस्ति तुम्हारे कल्याण को प्राप्त करुँ — इति राजानम् आप्याययन्ति इस ( मन्त्र ) से ( सोम) राजा को जल से प्रोक्षण करते हैं। यदेव अस्य अन्ते क्रूरमिव चरन्ति ( इस प्रकार ) जो इस सोम के समीप कूरता के समान आचरण करते हैं अस्य इस ( सोम) के प्रति तदेव उस ( कूरता) को ही एतेन इस (जल से प्रोक्षण) के द्वारा आप्याययन्ति शान्त करते हैं और एनं वर्धयन्ति एव इस सोम को बढ़ाते भी हैं । सा० भा ० — यद्यस्मात्कारणात् सोमस्य राज्ञः समीपे घृतसाधनकं तानूनप्त्रं कर्म क्रूरं तत् तस्मात्कारणात् क्रौर्यपरिहारायांशुरंशुरिति मन्त्रेण' सोमं राजामनमाप्याययेयुः। जलेन ( १ ) तै० सं ० ६.२.२.४ । ( २ ) तैत्तिरीयसंहतायामप्येष मन्त्रः श्रूयते ( १.२.११.१ ), परं तत्र इमे पाठा इतो विभिन्नाः— ' अंशुं शुष्टे ', ' प्यायय सखीन्', ' सुत्या मशीय' – इति। ' आशिषमेवैतामाशास्ते' – इति च तद् ब्राह्मणम् (तै ० सं० ६.२.२ ) । वाजसनेयिनाच ' सुत्या मशीय——— इत्येव ।
पृष्ठ 243
पाठ पढ़ें पाठ छिपाएँ
] चतुर्थोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम्: प्रोक्षणमाप्यायनम्। एवं सति यत्क्रूरमाचरितं तत्सर्वमेतेन प्रोक्षणेनाऽऽप्याययन्ति शमयन्ति१८१। अपि चैनं सोमं वर्धयन्त्येव । मन्त्रस्यायमर्थ: - हे सोम देव, इन्द्राग्र तत्त्वदीयोंऽशुस्त्वदवयव आप्यायता वर्धताम्। कीदृशायेन्द्राय? एकधनविदे। सोमरूपं यदेकं धनं तद्वेति विन्दते वेत्येकधनवित्। तस्मा एकधनविदे। तुभ्यं तदर्थमिन्द्रो वर्धतामिन्द्रार्थं च त्वं वर्धस्वां सखीनस्मान् सन्या क्षेमेण मेधया यज्ञप्रतिपादकग्रन्थधारणाशक्त्या चाऽऽप्यायय वर्धय। हे सोम देव ते स्वस्ति क्षेमोऽस्तु । यस्यां क्रियायां सोमः सूयतेऽभिषूयते सा सुत्या । उदुत्तमा समाप्तिविषर्यर्ग्यस्यां सुत्यायां सेयमुदृक्तां सुत्यामुदृचमशीय प्राप्नुयां विघ्नमन्तरेण समाप्तिपर्यन्तमनुतिष्ठेयमिति । श्रौत इतिशब्दो मन्त्रसमाप्त्यर्थः ॥ समन्त्रकं निह्नवं विधत्ते-. ( सोमस्य निह्नवविधानम् ) द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा तद्यद् 'एष्टा राय एष्टा वामानि प्रेषे भगाय । ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या' इति प्रस्तरे निहुवते द्यावापृथिवीभ्यामेव तं नमस्कुर्वन्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव ॥ ५ ॥
हिन्दी -( मन्त्र के सहित निह्नव का विधान कर रहें हैं - ) यत् सोमः राजा जो सोम राजा हैं एषः द्यावापृथिव्योः गर्भः वै द्यु और पृथिवी के गर्भ स्वरूप हैं। तद् यद् तो जो ‘एष्टा राय: ' इति प्रस्तरे निह्नुवते इस मन्त्र से प्रस्तर (कुश के दो बण्डलों ) को निह्नव करते हैं ( = वेदि के दक्षिण किनारे पर रख देते हैं ) । इस प्रकार द्यावापृथिवी- भ्यामेव द्यावापृथिवी के लिए ही नमस्कुर्वन्ति नमस्कार करते हैं अथ और एनं वर्धयन्ति एव ये दोनों ( सोम ) को बढ़ाते है। मन्त्रार्थ- एष्टः हे प्रस्तर अथवा सोम! इषे अन्न के लिए और भगाय भाग्य के लिए राय धनों को और वामानि अन्य कामनाओं को (प्रदान करो ) । ऋतवादिभ्यः सत्यवादी देवताओं अथवा ऋत्विक् और यजन करने वाले के लिए ऋतम् सत्य ( कहता हूँ) । नमः दिवे नमः पृथिव्यै द्युलोक और पृथिवी लोक के लिए नमस्कार है । सा० भा०– यः सोमो राजा, एष द्यावापृथिव्योरेव गर्भः । यद्यस्मादेवं तत्तस्माद् गर्भरक्षार्थं प्रस्तर एतन्नामके दर्भमुष्टौ निह्नवते संप्रणयन्ति नमस्कारोपचारं कुर्युरित्यर्थः । तदेतद्द्यावापृथिवीभ्यामित्यादिना स्पष्टी क्रियते । अपि चैने द्यावापृथिव्यौ वर्धयन्त्येव। उत्साह- युक्ते कुर्वन्त्येव । निह्नवप्रकार आपस्तम्बेन दर्शित: - ' अथ निह्नवते— दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान् पाणिनुत्तानाम् कृत्वा सव्यान्नीच एष्टा रायः प्रेषे भगायेति' ' इति । अस्मादभ्युदयमिच्छतीत्येष्टा प्रस्तरः सोमो वा। देहीति पदमध्याहर्तव्यम्। हे एष्टः, इषे अन्नार्थं ( ): ( ) १ वा ० सं ० ५.७ १। २ आप०श्रौ० ११.१.१२।
पृष्ठ 244
पाठ पढ़ें पाठ छिपाएँ
[ ४.९ प्रथमपञ्चिकायां १८२: ऐतरेयंब्राह्मणम् भगाय सौभाग्यार्थं च रायो धनानि प्रदेहि। यद्वा, एष्टेति। प्रथमान्तं तदानीं प्रददात्वित्यध्याहारः । किञ्च, एष्टा वामान्यन्यानपि कामान् प्रददातु ऋतवादिभ्यः सत्यवादिभ्यो देवेभ्य ऋत्विग्यजमानेभ्यो वा। ऋतं सत्यं वदामीति शेषः । तदेव सत्यवचनं स्पष्टवचनं स्पष्टमुच्यते। दिवे द्युलोकदेवतायै नमोऽस्तु। पृथिव्यै भूलोकदेवतायै नमोऽस्त्विति । श्रौत इतिशब्दो मन्त्रसमाप्त्यर्थः । वर्धयन्त्येवेत्यभ्यासोऽध्यायसमाप्त्यर्थः ॥ अत्र मीमांसा— दशमाध्यायस्य सप्तमे पादे चिन्तितम्—
उपसत्सु निषिद्धेभ्यः शिष्टं सर्व समाचरेत् ।
यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात् ॥
स्त्रौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया ।
अपूर्वार्थत्वतो वाऽन्त्योऽनुवादः प्रतिषेधगीः ॥
ज्योतिष्टोमे विहितासूपसत्सु पठ्यते— ' अप्रयाजास्ता अननुयाजा: ’ ” इति । तत्र निषिद्धान् प्रयाजानुयाजान् वर्जयित्वाऽवशिष्टं चोकदप्राप्तमङ्गजातं सर्वमाचरणीयमिति प्राप्ते, ब्रूमः प्रकृतौ विहित एव स्रौवाघारः पुनरिह विधीयते। स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे । अन्यथा पुनर्विधानवैयर्थ्यात्। ननु पुनर्विधानं प्रतिप्रसवार्थमत एव श्रुतिरत्र स्रौवाघारमभावशङ्कानिराकरणपूर्वकं विदधाति— ' नान्यामाहुतिं पुरस्ताज्जुहुयाद्यन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात् स्रुवेणाऽऽघारमाघारयति इति। अयमर्थः – स्रौवाघारः सर्वत्र यज्ञस्य मुखं तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ स्रौवाघारमहुत्वा तस्य स्थाने कांचिदन्यामाहुति जुहुयात् तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात्। तस्मात् स्त्रौवाघार आदौ कर्तव्य इति नैतद्युक्तम्। चोदकप्राप्तस्याऽऽघारस्याकस्मादभावशङ्काया अयुक्तत्वात्। तस्मात् परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः । यदि परिसंख्या साऽपि परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः । यदि परिसंख्या साऽपि त्रिदोषेत्युच्यते तर्हि गृहमेधीयवदपूर्वं कर्मास्तु। प्रयाजादिनिषेधो नित्यानुवादः । सर्वथा यावदुक्तमत्रानुष्ठेयम्’ “ । ( १ ) वा० सं ० ५.७२। तै ० सं० १.२.११.२। ( २ ) जै० न्या ० वि० १०.७.१४.४३,४६ । ( ३ ) कात्या० श्रौ ० ६.१०.२२, २३। ( ४ ) स्रुवेणाघारमाघारयति यज्ञस्य प्रज्ञात्यै - इति तै० सं ० ६.२.३.३ । ( ५ ) जै ० न्या० वि० १०.७.९.२४-३३ । ( ६ ) उपसदिष्टेरङ्गभूतानि तानूनप्त्रादीनि कर्माणि शत० ब्राह्मणे २४ अध्याये विहितानि; तै० सं० १.२.११; ६.२.२-६; तथा कल्पसूत्रेषु च; आश्व० श्रौ० ४.५.३८ । आप० श्रौ० ११.१.१-१२ । कात्या० श्रौ० ८.१.२४ । तत्रैव च वृत्तौ 'अथ सौकर्याय उपसदः प्रयोग उच्यते’ — इत्यादिना उपसदिष्टि प्रयोगः समन्ताद् वर्णितः । अथातिथ्येष्टौ प्रकृतिवत्
पृष्ठ 245
पाठ पढ़ें पाठ छिपाएँ
]: १८३चतुर्थोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्य चतुर्थाध्याये नवमः खण्डः ॥९ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय के नवम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये 'वेदार्थप्रकाश' -नामभाष्ये ऐतरेयब्राह्मणस्य प्रथमपञ्चिकायाः चतुर्थोऽध्यायः ॥ ४॥
॥ इस प्रकार ऐतरेयब्राह्मण के चतुर्थ अध्याय की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ‘ कुशमयः प्रस्तंरो भवति । उपसदिष्टौ तु आश्ववालः प्रस्तरः (तै० सं० ६.२.१; कात्या० श्रौ० ८.१.१३ ) । आश्ववालाः काषाख्या दर्शविशेषा: ' - इति तत्रोक्तं साथणेनेति ।
पृष्ठ 246
पाठ पढ़ें पाठ छिपाएँ
अथ प्रथमपञ्चिकायाम् पञ्चमोऽध्यायः अथ प्रथमः खण्डः
सायणभाष्यम्— अभिष्टवोपसत्तानूनमप्वाप्यायननिह्नवा: ।
कथिता घर्मसंभारा व्रतोपायनमेव च ॥१ ॥
( सोमक्रयार्थाख्यायिकाकथनम्) सोमो वै राजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमय- मस्मान् सोमो राजाऽऽगच्छेदिति सा वागब्रवीत् स्त्रीकामा वै गन्धर्वा मयैव स्त्रिया भूतया पणध्वमिति नेति देवा अब्रुवन् कथं वयं त्वदृते स्यामेति साऽब्रवीत् क्रीणीतैव यर्हि वाव वो मयाऽथों भविता तर्ह्येव वोऽहं पुनरागन्ताऽस्मीति तथेति तया महानग्न्या भूतया सोमं राजा नमक्रीणन् ॥ १ ॥
हिन्दी –( सोमक्रय इत्यादि का विवेचन किया जा रहा है। उस विषय में सोमक्रय को कहने के लिए आख्यायिका को कह रहे हैं - ) सोमो वै राजा राजा सोम गन्धर्वेषु आसीत् गन्धर्वों ( के संरक्षण) में थे । तम् उस ( सोम) को देवाश्च ऋषयश्च ( मित्र इत्यादि) देवताओं और ( वसिष्ठ इत्यादि) ऋषियों ने कथमयं सोमः राजा किस प्रकार ये राजा सोम अस्मान् आगच्छेद् इति हमारे पास आवें (प्राप्त होवे ) – अभ्यध्यायन् विचार किया । तब सा वाग् अब्रवीत् उस ( गन्धर्वों के स्वभाव की जानने वाली ) वाणी ने कहा कि स्त्रीकामाः वै गन्धर्वाः गन्धर्व स्त्री की कामना करने वाले होते हैं अतः स्त्रियाभूतया मया एव पणध्वम् स्त्रीरूप को प्राप्त मेरे द्वारा ( मुझे गन्धर्वों को मूल्य के रूप में देकर सोम को ) खरीद लो। तब ते देवाः अब्रुवन् उन देवताओं ने कहा कि न इति नहीं (ऐसा नहीं होगा) क्योंकि त्वदृते तुम्हारे बिना कथं वयं स्याम कैसे हम लोग रहेंगे ( अर्थात् तुम्हारे बिना हम लोग नहीं रह सकते) । पुनः सा अब्रवीत् उस (वाणी) ने कहा कि क्रीणीता एव ( मुझे मूल्यरूप में) बेच दो। यर्हि वाव जब भी मया अर्थो भविता तुम लोगों को मेरी आवश्यकता होगी तर्हि एव उसी समय ही वः अहं पुनरागन्ता अस्मि तुम्हारे पास मैं पुनः आजाऊँगी। तथा इति (देवताओं ने) वैसा ही किया। तया एव महानग्न्या भूतया उसी अत्यन्त नग्नभूत (अर्थात् कुमारी रूप वाणी) के बदले में सोमं
पृष्ठ 247
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् १८५ राजानम् अक्रीणन् सोम राजा को खरीद लिया । सा ० भा ० – स्वानभ्राजेत्यादिनामधारिणो गन्धर्वा द्युलोके सोमस्य रक्षकाः । तच्च शाखान्तरे मन्त्रव्याख्यानब्राह्मणे श्रूयते- 'स्वानभ्राजेत्याह। एतेषाममुष्मिँलोके सोममरक्षन् ” इति । अथवा विश्वावसुप्रभृतयः सोमस्यापहन्तारो गन्धर्वाः । तदपि तत्रैव श्रुतम्—‘तं सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्रो रात्री: परिमुषितोऽसत्' इति । तेषु गन्धर्वेषु यः सोम आसीत्तं सोमं मित्रादयो देवा वसिष्ठादिऋषयश्च केन प्रकारेण सोमोऽस्मान् प्राप्नुयादिति विचारितवन्तः । तदानीं गन्धर्वहृदयाभिज्ञा वाग्देवी देवानब्रवीत्। गन्धर्वाः सर्वेऽपि स्त्रीलम्पटा, अहं च स्त्री भूत्वा तिष्ठाम्यथो मया पणध्वं सोममूल्यत्वेन मां गन्धर्वाणामग्रे कुरुतेति। ततो देवा अनङ्गीकृत्य त्वदृते त्वां वाचं विना वयं कथं स्याम मन्त्ररूपवाग्राहित्ये सति कर्मणामप्रवृत्तेः केन प्रकारेण वयं जीवामेति वाचमब्रुवन् । ततो वाग्देवानब्रवीत्। संदेहं मा कुरुतावश्यं मया मूल्येन क्रीणीत यदैव मया युष्माकं प्रयोजनं भविष्यति तदैवाहं पुनरपि युष्मान् प्राप्स्यामीति । ततो देवा अङ्गीकृत्य तया वाचा सोममक्रीणन् । कीदृश्या महानग्न्या। महती चासौ नग्नी च महानग्नी तया। रूपसंपत्तिविवक्षया महत्त्वमुच्यते। बाल्यविवक्षया नग्नत्वम्। भूतया तदानीमेव कुमारीरूपेण निष्पन्नया । तदेतच्छाखान्तरे स्पष्टमाम्नातम् –'ते देवा अब्रुवन् स्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति। ते वाचं स्त्रियमेकहायनीं कृत्वा तया निष्क्रीणन्' ३ इति॥ इदानीं सोमक्रयं विधत्ते- ( सोमक्रयविधानम्) तामनुकृतिमस्कन्नां वत्सतरीमाजन्ति सोमक्रयणी तया सोमं राजानं क्रीणन्ति ॥२ ॥
हिन्दी— ( अब सोम के क्रय का विधान कर रहे हैं— ) ताम् अनुकृतिम् उस स्त्रीरूप वाणी के अनुकरण के रूप में अस्कन्नां वत्सरीम् अप्राप्त यौवन वाली बछिया को सोमक्रयणीम् सोम खरीदने का साधन आजन्ति बनाते हैं। तया उस (बछिया ) के बदले सोमं राजानं क्रीणन्ति सोमं राजा को (विक्रेता से ) खरीदते हैं । सा० भा०-– तामनृकृतिं तां स्त्रीरूपां वाचमनुक्रियमाणां निष्पन्नां तत्सदृशीमित्यर्थः । अस्कन्नां वीर्यस्कदनरहितामप्राप्तयौवनां वत्सतरीमतिशयेन बालां सोमक्रयसाधनभूतां कांचिद्गामाजन्ति संपादयेयुरित्यर्थः । तया तादृश्या गवा सोमं राजानं क्रीणन्ति क्रीणीयुः । तां गां मूल्यरूपेण दत्त्वा सोमं स्वीकुर्युः ॥ मूल्यत्वेन सोमविक्रयणे दत्ता या गौस्तस्याः पुनर्मूल्यान्तरदानेन स्वीकरणं विधत्ते— ( १ ) तै० सं० ६.१.१०.५ । स्वानभ्राज' - इति मन्त्रस्तु तैत्तिरीयसंहिताम्नातः ( १.२.७ )। ( २ ) तै ० सं० ६.१.६.५। ( ३ ) तै ० सं ० ६.१.६.५ ।
पृष्ठ 248
पाठ पढ़ें पाठ छिपाएँ
: [ १८६ ऐतरेयब्राह्मणम् ५.१ प्रथमपञ्चिकायां तां पुनर्निष्क्रीणीयात् पुनर्हि सां तानागच्छत् ॥ ३ ॥
हिन्दी- ( मूल्य देकर उस बछिया को पुनः वापस ले लेने का विधान कर रहे हैं— ) ताम् उस ( सोम के मूल्य के रूप में दी गयी बछिया ) को पुनः निष्क्रिणीयात् पुनः (उसका मूल्य देकर सोम-विक्रेता से ) खरीद लेना चाहिए क्योंकि सा वह ( आख्यायिका में प्रोक्त वाणी) तान् उन ( देवताओं)) के पास पुनः हि आगच्छंत् पुनः वापस आ गयी थी। सा० भा ० — यस्मादियं वाग्गन्धर्वेभ्यो निष्क्रम्य पुनस्तान् देवान् प्राप्नोत् तस्मात्सोम- क्रयण्याः पुनरादानं युक्तम्। वाचो वृत्तान्तः शाखान्तरे स्पष्टमाम्नातः — ‘सा रोहिद् रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्याऽऽतिष्ठत्तद्रोहितो जन्म तें देवा अब्रुवन्नयं युष्मदक्रमीन्नास्मादुपावतेंते विह्वयामहा इति ब्रह्मगन्धर्वा अवदन्नगायन् देवाः सा देवान् गायन्नुपावर्तत तस्माद् गायन्तं स्त्रियः कामयन्ते ’ ” इति॥ मन्त्राणां मन्द्रध्वनिं विधत्ते— ( मन्त्राणां मन्द्रध्वनिविधानम्) तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साऽग्नावेव प्रणीयमाने पुनरागच्छति ॥४ ॥
हिन्दी–( मन्त्रों की मन्द्रध्वनि का विधान कर रहे हैं — ) तस्मात् इसी ( सोमक्रय के बाद वाणी के गन्धर्वों के पास रहने के ) कारण उपांशु वाचा चरितव्यम् ( मन्त्र को ) उपांशु वाणी से बोलना चाहिए क्योंकि सोमे राजनि क्रीते सोम राजा के खरीद लिये जाने पर तर्हि तब गन्धर्वेषु हि वाग् भवति वाणी गन्धर्वों ( के संरक्षण ) में होती है । सा वह (वाणी ) अग्नौ एव प्रणीयमाने अग्नि का प्रणयन हो जाने पर पुनः आगच्छति पुन: वापस हो जाती है। सा० भा० — सोमक्रयादूर्ध्वकाले मूल्यरूपा वाग्देवी गन्धर्वेषु तिष्ठति पुनरप्यग्नौ प्रणीयमाने देवानागच्छति । यस्मादेवं तस्मात् सोमक्रयादूर्ध्वमग्निप्रणयनात् प्राग्वाचोपांशु चरितव्यम्। यथा परैर्ध्वनिर्न श्रूयते तथा मन्त्रपाठादिकं कर्तव्यमित्यर्थः ॥ अत्र मीमांसा। द्वादशाध्यायस्य चतुर्थपादे चिन्तितम् -. क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमी यतः । ' कार्यैक्यामानतेर्लाभाद्दशोक्तेश्च समुच्चयः ॥ “ अजया क्रीणति, हिरण्येन क्रीणति, वाससा क्रीणाति" -इत्यादीनि बहूनि सोमक्रय-साधनानि द्रव्याण्यम्नातानि। तेषां कार्यैक्याद्विकल्पः - इति चेन्मैवम्। बहुभिर्द्रव्यैर्विक्रेतुरा-( १ ) तै ० सं० ६.१.६.५, ६। ( २ ) जै० न्या० वि० १२.४.७.४। ( ३ ) तै० सं० ६.१.६-१० ।
पृष्ठ 249
पाठ पढ़ें पाठ छिपाएँ
] १८७ पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम्: नतेः सौलभ्याद् ‘ दशभि: क्रीणाति' इति संख्योक्तेश्च' समुच्चयः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मण- भाष्यस्यं पञ्चमोऽध्याये प्रथमः खण्डः ||१|| ॥ इस प्रकार ऐतरेयब्राह्मण के पञ्चम अध्याय के प्रथम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा०-- सोमक्रयमभिधायाग्निप्रणयनीया ऋचो विधातुमादौ प्रैषमन्त्रं विधत्ते— ( अग्निप्रणयनीयर्चा प्रैषमन्त्रः ) अग्नये प्रणीयमानायानुब्रूहीत्याहाध्वर्युः ॥ १ ॥
हिन्दी - ( सोमक्रय का कथन करके अब अग्निप्रयणीय ऋचाओं के कहने के लिए पहले प्रैष मन्त्र को कह रहे हैं - ) (हे होता) प्रणीयमानाय अग्नेः (उत्तरवेदि पर) लायी जाती हुई अग्नि के लिए अनुब्रूहि अनुकूल ( मन्त्र) को पढ़ो — ' इत्यध्वर्युः आह इस (प्रैष मन्त्र) को अध्वर्यु कहता है । सा० भा ० — प्राचीनवंशगत आहवनीयेऽवस्थितस्याग्नेः सौमिक्यामुत्तरवेद्य नयनं यदस्ति तदेतदत्राग्निप्रणयनं' तत्कुर्वन्नध्वर्युरग्नये प्रणीयमानायानुब्रूहीति प्रैषमन्त्रं होतार-मुद्दिश्य पठेत् ॥ तत्र होत्राऽनुवक्तव्यास्वष्टास्वृक्षु प्रथमामृचं विधत्ते— ( १ ) तथाहि 'एकहायन्या (सोमक्रयण्या) क्रीणाति' 'अजया क्रीणाति':'हिरण्येन क्रीणाति' तै० सं० ६.१.६-१० । द्र ० आप० श्र० १०.२५.१५ । तै ० सं० ६.१.१० सा० भा०, आप० श्रौ० १०.२६.७। सर्वत्र चाद्या सोमक्रयणी ( आरुण्यादिलक्षणा एकहायनी गौः ) ग्राह्येति । ( २ ) उक्तम् ( २.१७ ) अग्निप्रणयनम् - इति ( ३.१.७ )' 'पश्चर्थं ह्यग्निप्रणयनम्, तस्य च श्वःसुत्यानिमित्तम्’ — इति ( १२.४.१३ ) ' सदोहविर्धानान्याग्नीध्रीयाग्नीषोमप्रणयन- वसंतीवरीग्रहणानि पश्वर्थानि भवन्ति, सुत्यार्थान्येके ' – इति ( १.२.४.१५ ) इत्या- द्याश्वलायनीयसूत्राणि पर्यालोच्यानि । ' अत्र प्रवर्ग्यमुद्वास्य पशुबन्धवदग्निं प्रणयति'– इत्यादि आप० श्रौ० ११.५.९। ( ३ ) तथाहि कल्पसूत्रम्— पश्चाद् दार्शपौर्णमासिकाया वेदेरुपविश्य प्रेषितोऽग्निप्रणयनीयाः प्रतिपद्यते' – इति आश्व० श्रौ० २.१७.२ ।
पृष्ठ 250
पाठ पढ़ें पाठ छिपाएँ
: · [१८८ ऐतरेयब्राह्मणम् ५.२ प्रथमपञ्चिकायां ( होत्रा पठितव्या अष्टर्च: ) ( तत्र ब्राह्मणयजमानाय प्रथमर्चा ) 'प्र देवं देव्या धिया भरता जातवेदसम्। हव्या नो वक्षदानुषगिति १ गायत्रीं ब्राह्मणस्यानुब्रूयात् ॥ २ ॥
हिन्दी–( उस अग्निप्रणयन में होता द्वारा पठनीय आठ ऋचाओं में ब्राह्मण यजमान के लिए प्रथम ऋचा को कह रहे हैं - ) 'प्र देवं देव्या' इति गायत्रीम् इस गायत्री (ऋचा ) का ब्राह्मणस्य ( यजन करने वाले ) ब्राह्मण के लिए अनुब्रूयात् ( होता ) अनुवाचन करें । मन्त्रार्थ— हे ऋत्विक्! देवं जातवेदसम् जतवेदस् देव को देव्या धिया उस ( जातवेदस्) को प्रसन्न करने वाली भावना से युक्त बुद्धि द्वारा प्रभरत (उत्तरवेदि के प्रति) प्रकृष्ट रूप से ले आओ । ( यह जातवेदस्) नः हव्याः हमारे हविषों को आनुषक् वक्षत् उत्तरवेदि पर अनुषक्त होकर (देवताओं तक ) ले जावे । सा० भा० — हे ऋत्विजो जातवेदसं देवं देव्या तद्रूपप्रकाशिकया तद्भावनायुक्तया धिया प्रभरत प्रकर्षेणोत्तरवेदिं प्रति हरत नयत । अयं च जातवेदा आनुषगुत्तरवेद्यामनुषक्तः सन्नो हव्या, अस्मदीयानि हवींषि वक्षद्देवान् प्रति वहतु। इत्यृगेषा गायत्रीछन्दस्का तां ब्राह्मणस्य यजमानस्य होताऽनुब्रूयात्॥ तदेतत्प्रशंसति— गायत्रो वै ब्राह्मणस्तेजो वै ब्रह्मवर्चसं गायत्री तेजसैवैनं तद्ब्रह्म- वर्चसेन समर्धयति ॥३ ॥
हिन्दी- ( पूर्वोक्त ऋचा के गायत्री छन्द की प्रशंसा कर रहे हैं - ) गायत्री वै ब्राह्मणः गायत्री ब्राह्मण से सम्बधित है तथा गायत्री वै तेजः ब्रह्मवर्चसम् गायत्री तेज और ब्रह्मणर्चस् है। इस प्रकार एनम् इस (यजन करने वाले ब्राह्मण) को तेजसा ब्रह्म- वर्चसेन तेज और ब्रह्मवर्चस से तद् इस (ऋचा के पाठ ) से समर्धयति समृद्ध करता है । सा० भा०--ब्राह्मणस्य प्रजापतिमुखजन्यत्वसाम्येन गायत्रीसम्बन्धः । तेजो वा इत्या-दिकं पूर्ववद् व्याख्येयम्॥ क्षत्रियस्य यजमानस्य योगेऽन्यामृचं विधत्ते— ( क्षत्रिययजमानाय प्रथमर्चा ) 'इमं महे विदथ्याय शूषमिति' ' त्रिष्टुभ राजन्यस्यानुब्रूयात् ॥४ ॥
·हिन्दी - ( क्षत्रिय यजमान के लिए प्रथम ऋचा का विधान कर रहे हैं - ) 'इमं महे विदध्याय शूषम्' इति त्रिष्टुभः यह त्रिष्टुप् छन्दस्क ऋचा राजन्यस्य अनुब्रूयात् क्षत्रिय ( १) ऋ० १०.१७६.२। (२ ) ऋ० ३.५४.१ ।