ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 311–320
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभ्राष्योपेतम् २४ ९लभते वार्त्रघ्न एवास्य स तस्माद्वाऽऽश्यम्” इति। अत्र मीमांसा – प्रथमाध्याये चतुर्थपादे चिन्तितम्—
“यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः ।
सामानाधिकरण्येन स्यादेकस्यान्यनामता॥
गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते ।
अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः ॥
. अर्थभेदादनामत्वं गुणश्चेत्प्रह्नियेत सः। ' ' यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ ३ इदमाम्नायते — ‘ यजमानः प्रस्तरः' इति। तत्र यजमानस्य प्रस्तरशब्दो नामधेयं यागेनेत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः । तत्रापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य समार्थ्याभावात् गुणत्वं नास्ति । प्रस्तरकार्ये स्रुग्धारणादौ यज-मानस्य शक्तत्वाद् यजमानरूपो गुणो विधीयते। एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भविष्यति । न चात्र पूर्वन्यायेन स्तुतिः संभवति। अष्टाकपालद्वादशकपालयोरिवांशांशित्वाभावात्। ' वायुर्वै क्षेपिष्ठा देवता, ऊर्जोऽ- वरुध्यै'३ इतिवत्स्तुतिरिति चेत्। न, क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कस्याप्रतीतेः । तस्मान्ना-मगुणयोरन्यतरत्वमिति प्राप्ते ब्रूमः -- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्न नामधेयत्वं युक्तम्। गुणपक्षेऽग्नौ प्रहरणस्य प्रस्तरविषयत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात्। तस्मात् विधेयः प्रस्तरो यजमानशब्देन स्तूयते। यथा 'सिंहो देवदत्तः ' इत्यत्र सिंह' न शौर्यादिनोपेतो देवदत्तः सिंह इत्याख्यायते तथा यजमानगुणेन यागसाधनत्वेन युक्त प्रस्तरो यजमानशब्देन स्तूयते । एवं ' यजमानो वै यूपो यजमानः प्रस्तराः ' इत्यादिषु द्रष्टव्यम्॥ चतुर्थाध्यायस्य द्वितीयपादे' चिन्तितम् -
स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्क्रियाम् ।
प्रयोजयेन्न वाऽऽद्योऽस्तु विशिष्टस्य विधानतः ॥
आद्यस्य यूपखण्डस्य स्वरौ तस्य विशेषणे ।
विहिते लाघवं तस्मादनुनिष्पन्न एवं सः ॥ ५
( ) ( ) १ तै ० सं ० ६.१.१६.६। २ जै० न्या ० वि० १.४.१३.२३ । ( ३ ) तै० सं० २.१.१.१। ( ४ ) तेषाच सूत्राणां द्विर्व्याख्यानमुक्तं शबरस्वामिना। तदाह च तन्त्ररत्नाकरः – व्याख्याना- नन्तरं तु विस्तरोक्तस्य संक्षेपमात्रार्थं कृतं भाष्यकारेण' – इति । ( ५ ) जै० न्या० वि० ४.२.१.१-७। ऐ.ब्रा. पू-१६
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
: [ २५० ऐतरेयब्राह्मणम् ६.४ द्वितीयपञ्चिकायां अग्नीषोमीयपशौ श्रूयते— ‘ यूपस्य स्वरं करोति' इति। तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरूरषि च्छेदनं प्रयोजयति। कुतः करोतीत्यनेन विशिष्टविधिप्रतीतेः । करोतिधातोर्भावना मुख्योऽर्थः । तत्र यूपशब्दोपलक्षितः खदिरादिवृक्षः करणं छेदनादिरिति-कर्तव्यता, ‘छिन्नेन वृक्षेण स्वरुरुत्पादनीय' इति विशिष्टविधिः। ' उत्पन्नस्य स्वरोर्विनियोग एवामाम्नातः — ‘स्वरुणा पशुमनक्ति' ' इति। तस्मात्स्वरुश्छेदनस्य प्रयोजक इति प्राप्ते ब्रूमः I छिद्यमाजस्य यूपस्य यः प्रथमः पतितः शकलः स स्वरुरिति स्वरुत्वनाममात्रविधौर्लाघ-वात् यूपवत् वरुर्न च्छेदनस्य प्रयोजक:, किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ” इति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये · द्वितीयपञ्चिकायाः प्रथमाध्याये ( षष्ठाध्याये ) तृतीयः खण्ड: ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० – अग्नीषोमीयं पशुं विधाय तत्रैकादश प्रयाजान् विधत्ते— ( अग्नीषोमीयपशोः प्रयाजानां विधानम् ) आप्रीभिराप्रीणाति ॥१ ॥
हिन्दी - ( अग्नीषोमीय पशु का विधान करके अब ग्यारह प्रयाजाओं का विधान कर रह हैं— ) आप्रीभिः आप्रीणाति आप्री संज्ञक मन्त्रों द्वारा ( होता) प्रसन्न करता है । सा ० भा ० — तेषां प्रयाजादीनां याज्याः प्रीतिहेतुत्वादाप्रीशब्देनोच्यन्ते । एतच्च शाखा- न्तरे श्रुतम्— ' आप्रीभिराप्नुवन्, तदाप्रीणामाप्रीत्वम्' इति । ताभिराप्रीसंज्ञकाभिः प्रयाजादि- ( १ ) शत ० ब्रा० ३.७.१.२४ । कात्या० श्रौ ० १.७.१७। ( २ ) तै ० सं ० ५ ५.७.१ । ' स्वरूमन्तर्धाय स्वधितिना पशुं समनक्ति घृतेनाक्तौ पशुं त्रायेथा- मिति शिरसि । न वा स्वधितिना स्वरूणैव' इति आप० श्रौ० ७.१४.११-१२। ( ३ ) अत एवोक्तं यास्केन—‘ अथात आप्रियः । आप्रियः कस्मात्? आप्नोतेः प्रीणातेर्वा ‘आप्रीभि- राप्रीणाति ’ – इति च ब्राह्मणम्-इति निरु० ८.२.१ । इत आरभ्य अध्यायान्तं यावदाप्रीविचाराः । द्र ० — ‘ यज्ञो वै प्रजापतिः आप्रीरपश्यत्, ताभिर्वै मुखत आत्मानमाप्रीणीत; यदेता आप्रियो भवन्ति’ - इत्यादि तै० सं० ४.७.८.३ । ' अथाप्रीभिश्चरन्ति यो दीक्षते तस्य रिरिचान इव आत्मा भवति; तमेताभिराप्रीभिराप्याययन्ति; तदाप्याययन्ति, तस्मादाप्रियो नाम। तस्मादाप्रीभिश्चरन्ति । ते वा एते एकादशप्रयाजा भवन्ति'- इत्यादि च शत० ब्रा० ३.८.१; पुनरश्वमेधप्रकरणे 'तम् (पशूम्) एताभिराप्रीभिराप्रीणात्' इत्याद्यपि ११.८.३.५ ।
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् २५१भिराप्रीणाति देवताः, सर्वत्र प्रीणयेत् तत्प्रीत्यर्थं याज्या पठेदित्यर्थः ॥ ताः प्रशंसति— तेजो वै ब्रह्मवर्चसमाप्रियस्तेजसैवैनं तद् ब्रह्मवर्चसेन समर्धयति ॥२ ॥
हिन्दी -(उन आप्री - संज्ञक मन्त्रों की प्रशंसा कर रहे हैं - ) आप्रियः आत्री मन्त्र तेजः ( आज्यद्रव्य के कारण ) तेज स्वरूप और ब्रह्मवर्चसम् ( शास्त्रीप संस्कार का साधन होने से ) ब्रह्मवर्चस् स्वरूप है । तत् इस ( आनी = याज्या के पाठ) से एनम् इस ( यजन करने वाले ) को तेजसा तेज से और ब्रह्मवर्चसेन ब्रह्मवर्चस् से समर्धयति ( होता) समृद्ध करता है। सा० भा ० – आज्यद्रव्यकत्वात् तेजस्त्वं शास्त्रीयसंस्कारसाधनत्वाद् ब्रह्मवर्चसत्वम्। तेन याज्यापाठेन यजमानस्य तदुभयं समृद्धं भवति॥ प्रथमं प्रयाजं विधत्ते— समिधो यजति ॥ ३ ॥
हिन्दी - ( प्रथम प्रयाज का विधान कर रहे हैं— ) समिधः यजति समिध नामक याग को करता है । विमर्श— ( १ ) समित् नामक देवता होने के कारण यह याग समिध कहलाता है अथवा समित् नामक एक याग विशेष है । सा० भा०-– समिन्नामकदेवतात्वद्यागोऽपि समिध इत्यनेन शब्देनोच्यते। समिन्नामक- यागं कुर्यादित्यर्थः । यद्वा हौत्रप्रकरणत्वात् समिद्देवताविषयां याज्यां पठेदित्यर्थः । तत्प्रकारं बौधायन आह— ‘ यदा जानाति समिद्भ्यः प्रेष्येति तन्मैत्रावरुणः प्रेष्यति होता यक्षदग्नि समिधा सुषमिधा समिद्धमित्यथ होता यजति समिद्धो अद्य मनुषो दुरोणे तावेवमेव व्यति- षङ्गमुत्तरेण मैत्रावरुणः प्रेष्यति, उत्तरेणोत्तरेण होता यजति' इति। अस्यायमर्थः – समिद्भ्यः प्रेष्येति मन्त्रेणाध्वर्युर्मैत्रावरुणं प्रेष्यति तदानीमयं मैत्रावरुणः प्रैषसूक्तेन ‘होता.यक्षदग्निं समिधा’ ' इत्यनेन प्रथममन्त्रेण होतारं प्रेष्यति होताऽप्यात्रीसूक्ते ' ' समिद्धो अद्य' इत्येता प्रथमयाज्यां पठति। एवमुत्तरत्राध्वर्युर्मैत्रावरुणहोतारौ परस्परसंनिद्धौ स्वस्वमन्त्रयागं कुर्याता- मिति तत्र प्रथमा याज्येति॥ अथ समिद्देवतां प्रशंसति— ( १ ) तै ०ब्रा० ३.६.२। ( २ ) ' समिद्धो अद्य ' इत्येकादशर्च नवमं (ऋ ० १.१८८ ) सूक्तमांगस्त्यम्। पशावगस्त्यानामेकादशप्रयाजरूपमिदमाप्रीसूक्तम्। ( ३ ) ऋ० १.१८८.१।
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
: [ २५२ ऐतरेयब्राह्मणम् ६.४ द्वितीयपञ्चिकायां प्राणा वै समिधः, प्राणा हीदं सर्वं समिन्धते यदिदं किञ्च, प्राणानेव तत्प्रीणाति, प्राणान् यजमाने दधाति ॥४ ॥
हिन्दी– ( समित् नामक देवता की प्रशंसा कर रहे हैं - ) प्राणाः वै समिधः प्राण ही ( सम्यक्प्रकार से प्रकाशन का हेतु होने के कारण) समिध है क्योकि यद् इदं किञ्च यह जो कुछ भी (प्राणिसमूह ) है इदं सर्वम् इन सभी को समिन्धते सम्यक् रूप से प्रकाशित करते है । अत: तत् इस ( आज्या के पाठ ) से प्राणान् एव प्रीणाति प्राणों को ही ( होता) प्रसन्न करता है और यजमाने यजन करने वाले व्यक्ति में (प्राणों को प्रतिष्ठापित करता है) । सा ० भा ० — ‘ समिध: ': समिन्धनस्य सम्यक् प्रकाशहेतवः प्रथमप्रयाज़देवताः। प्राणस्वरूपदेवताया एकत्वेऽपि समिध इति बहुवचनं पूजार्थम्। जगति 'यत्किञ्चिदिदं ’ शरीरजातमस्ति तत्सर्वं प्राणाः ' समन्धिते' प्रकाशयन्ति; अतस्तेषां समिद्रूपत्वम् तत्तेन याज्यापाठेन प्राणानेव तोषयति तद्यजमानेऽपि प्राणान् संपादयति । अत्र प्रयाजानां क्रमेण समिधः, तनूनपात्, नराशंसः, इळ:, दुर:, उषासानक्ता, दैव्याहोतारा, तिस्रो देव्यः, त्वष्टा, वनस्पतिः, स्वाहाकृतयः,' इत्येता देवताः । वशिष्ठशुनकात्रिवत्र्यश्व॑राजन्यानां नराशंसो द्वितीयः । अन्येषां तनूनपाद्वितीयः ॥ तद्देवताविषयां द्वितीयां याज्यां विधत्ते— तनूनपातं यजति प्राणो वै तनूनपात्स हि तन्वः पाति प्राणमेव तत्प्रीणाति, प्राणं यजमाने दधाति ॥५ ॥
हिन्दी— (उस देवता से सम्बंन्धित द्वितीय याज्या को कह रहे हैं— ) तनूनपातं यजति ( आप्रीसूक्तगत) तनूनपात का यजन करता है । प्राणः वै तनूनपात् प्राण ही ( शरीर का पोषण करने के कारण) तनूनपात् है; क्योंकि सः हि तन्वः पाति वह (प्राण) शरीर की रक्षा करता है। तत् इसके पाठ से प्राणमेव प्रीणाति प्राण को ही (होता) प्रसन्न करता है और यजमाने प्राणं दधाति यजमान में प्राण को प्रतिष्ठित करता है । सा० भा०--- अत्राध्वर्युप्रैषकारमापस्तम्ब आह— 'समिद्भ्यः प्रेष्येति प्रथमं संप्रेष्यति। प्रेष्य प्रैष्येतीतरान्' ' इति। अतोऽस्माद् द्वितीयपर्याये प्रेष्येति मन्त्रेणाध्वर्युर्मैत्रावरुणं प्रेष्यति । स च मैत्रावरुण: प्रैषसूक्तगतेन ‘ होता यक्षत्तनूनपातम्' इत्यनेन द्वितीयमन्त्रेण होतारं प्रेष्यति । स तु होताऽऽप्रीसूक्तगतां तनूनपादित्येतां द्वितीयां याज्यां पठेत्। तनूं शरीरं न पातयतीति तनूनपात्। शरीरे वसति प्राणे न पतति किंतु प्राणः शरीराणि चालयति अतस्तनूनपाद्देवस्य प्राणरूपत्वम्॥ ( १ ) आप० श्रौ० ७.१४.७ ।
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
: ]: प्रथमोऽध्यायः चतुर्थः खण्ड सायणाचार्यकृतभाष्योपेतम् २५३ द्वितीयप्रयाजयाज्यान्तरं विधत्ते— नराशंसं यजति; प्रजा वै नरो, वाक्शंसः, प्रजां चैव तद्वाचं च प्रीणाति, प्रजां च वाच च यजमाने दधाति ॥ ६॥
हिन्दी - (द्वितीय प्रयाज के लिए अन्य याज्या का विधान कर रहे हैं - ) नराशंसं यजति आप्रीसूक्तगत नराशंस का यजन करता है; क्योंकि प्रजा वै नरः प्रजा ही नर है और वाक् शंसः वाणी शंस है। तत् इससे प्रजां च वाचं च प्रीणाति प्रजा और वाणी:: को प्रसन्न करता है तथा प्रजां च वाचं च यजमाने दधाति यजमान में प्रजा और वाणी को प्रतिष्ठापित करता है । सा० भा०१- अध्वर्युप्रेषितो मैत्रावरुणो होता यक्षन्नराशंसमिति मन्त्रेण होतारं प्रेष्यति - होता नराशंसस्येति याज्या पठेत् । नरान् मनुष्याञ्शंसति वाचा स्तौतीति नराशंसः । तथा सति प्रजाया नरशब्दवाच्यत्वाद् वाचश्च शंसनहेतुत्वादुभयप्रीतिर्यजमानेऽपि तदुभयसंपत्तिः । अनयोरुभयोर्मन्त्रयोरधिकारिभेदेन व्यवस्थामापस्तम्ब आह- ' नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् तनूनपादितरेषां गोत्राणाम्' इति ॥ तृतीयां प्रयाजयाज्यां विधत्ते— इको यजत्यन्नं वा इकोऽन्नमेव तत्प्रीणात्यन्नं यजमाने दधाति ॥७ ॥
हिन्दी - ( तृतीय प्रयाज की याज्या का विधान कर रहे हैं - ) इळ: यजति इळा का यजन करता है क्योंकि इडः अन्नं वै इडा ही अन्न है । तत् इससे अन्नमे व प्रीणाति अन्न को ही प्रसन्न करता है और अन्नं यजमाने दधाति यजमान में अन्न को प्रतिष्ठापित करता है। सा ० भा ० - "होता यक्षत्' ' अग्निमीळे " ईळित इति प्रेषितो होता. ' आजुह्वान '"
इत्येतां याज्यां पठेत्। इष्यत इति व्युत्पत्त्याऽन्नमिट्शब्दवाच्यम्॥
चतुर्थी विधत्ते— बर्हिर्यजति, पशवो वै बर्हिः, पशूनेव तत्प्रीणाति, पशून् यजमाने दधाति ॥८ ॥
हिन्दी— ( चतुर्थी याज्या का विधान कर रहे हैं- ) बर्हिः यजति कुश का यजन करता है क्योंकि पशवः वै बर्हिः पशु ही ( पोषण का हेतु होने से ) बर्हि हैं। तत् इससे पशून् एव प्रीणाति पशुओं को ही प्रसन्न करता है और यजमाने पशून् दधाति यजमान ( ) ( ) ( ) १ ऋ० १.१३.३ । २ आप० श्रौ० इष्टिहौत्रकल्पः ४.११.१६ ।( ३ ) ऋ०. १.१३ ९.१० । (४ ) ऋ० १.१.१। (५ ) ऋ० १०.११०.३ ।
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
: [२५४ ऐतरेयब्राह्मणम् ६.४ द्वितीयपञ्चिकायां में पशुओं को धारण कराता है । सा० भा ० — ' होता यक्षद् बर्हिः सुष्टरीम्' इति मन्त्रेण प्रेषितो होता ‘प्राचीनं बर्हिः’१ इत्येतां याज्यां पठेत्। बृंहणस्य पोषणस्य हेतुर्बर्हिः, पशवश्च क्षीरादिदानेन तादृशत्वाद् बर्हिः स्वरूपाः ॥ अथ पञ्चमीं विधत्ते— दुरो यजति, वृष्टिर्वै दुरो वृष्टिमेव तत्प्रीणाति, वृष्टिमन्नाद्यं यजमाने दधाति ॥ ९ ॥
हिन्दी— ( अब पञ्चमी याज्या का विधान कर रहे हैं - ) दुरः यजति दुर (द्वार देवता) का यजन करता है। वृष्टिः वै दुरः (जीवन का द्वार होने के कारण ) वृष्टि ही द्वार है। तत् इससे वृष्टिमेव पृणाति वृष्टि को ही प्रसन्न करता है और वृष्टिम् अन्नाद्यं यजमाने दधाति यजमान में वृष्टि और अन्नाद्य को प्रतिष्ठापित करता है । सा ० भा० — होता यक्षर ऋष्वा इत्यादिना मन्त्रेण प्रेषितो ' व्यचस्वतीरुर्विया ' ’
इत्येतां याज्यां पठेत्। दुरो द्वारदेवतां वृष्टिश्च जीवनद्वारा ॥
षष्ठीं विधत्ते— उषासानक्ता यजति, अहोरात्रे वा उषासानक्ताऽहोरात्रे एवं तत्प्रीणा- त्यहोरात्रयोर्यजमानं दधाति ॥ १० ॥
हिन्दी— ( षष्ठी याज्या का विधान कर रहे हैं - ) उषासनक्ता यजति उषा और रात्रि का यजन करता है; क्योंकि अहोरात्रे वै उषासानक्ता दिन और रात्रि ही उषासानक्ता है। तत् इससे अहोरात्रे एव प्रीणाति दिन और रात्रि को ही प्रसन्न करता है तथा अहोरात्रयोः यजमानं दधाति दिन और रात्रि में यजमान को प्रतिष्ठित करता है। सा० भा ० — होता यक्षदुषासानक्तेति मन्त्रेण प्रेषित ' आं सूष्वयन्ती' इत्यादिका याज्यां पठेत्। उषः शब्दस्य नक्तशब्दस्य चाहोरात्रविषयत्वं लोकप्रसिद्धम् ॥ सप्तमीं विधत्ते- दैव्या होतारा यजति, प्राणापानौ वै दैव्या होतारा, प्राणापानावेव तत्प्रीणाति, प्राणापानौ यजमाने दधाति ॥ ११ ॥
हिन्दी— ( सप्तमी ऋचा का विधान कर रहे हैं- ) दैव्या होतारा यजति दिव्य होताओं का यजन करता है; क्योंकि प्राणपानौ वै दैव्या होतारा प्राण और अपान ही दिव्य होता होते हैं । तत् इससे प्राणापानौ एव प्रीणाति प्राण और अपान को ही प्रसन्न ( ) ( ) ( ) १ ऋ० १०.११०.४ । २ ऋ० १०.११०.५ ३ ऋ० १०.१ १०.६
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् २५५करता है तथा प्राणपानौ यजमाने दधाति यजमान में प्राण औरआर अपान को प्रतिष्ठापितकरता है। सा ० भा ० - होता यक्षद्दैव्या होतारेति मन्त्रेण प्रेषितो ' दैव्या होतारा प्रथमा'' इति याज्यां पठेत्॥ अष्टमी विधत्ते- तिस्रो देवीर्यजति, प्राणो वा अपानो व्यानस्तिस्रो देव्यस्ता एव तत्प्रीणाति ता यजमाने दधाति ॥ १२ ॥
हिन्दी— ( अष्टमी याज्या का विधान कर रहे हैं - ) तिस्रः देवीः यजति तीन देवियों का यजन करता है क्योंकि प्राणः अपानः व्यानः वै प्राण, अपान और व्यान ही तिस्रः देव्यः तीन देवियाँ है । तत् उससे ताः एव उन (प्राण, अपान और व्यानं ) को प्रीणाति प्रसन्न करता है तथा ताः यजमाने दधाति उन्हें यजमान में प्रतिष्ठापित करता है । सा० भा० - होता यक्षत्तिस्त्र इत्यादिमन्त्रेण प्रेषित 'आ नो यज्ञम्' इति याज्यां पठेत्। इळा सरस्वती भारतीतिशब्दैरभिधेया देव्यो यथा तिस्र एवं प्राणापानव्याना अपि संख्या- साम्यात् तिस्रो देव्यः ॥ नवमीं विधत्ते— त्वष्टारं यजति, वाग्वै त्वष्टा वाग्धीदं सर्वं ताष्टीव वाचमेव तत्प्रीणाति वाचं यजमाने दधाति ॥ १३ ॥
हिन्दी–(नवमी याज्या का विधान कर रहे हैं - ) त्वष्टारं यजति त्वष्टा का यजन करता है; क्योंकि वाग् वै त्वष्टा वाणी ही त्वष्टा है और ताष्टीव वाग् हि इदं सर्वम् त्वष्टा सम्बन्धी ( काट -छाट की ध्वनि रूप) वाणी ही यह सब कुछ है। तत् इससे वाचमेव प्रीणाति वाणी को ही प्रसन्न करता है और वाचं यजमाने दधाति यजमान में वाणी को धारण कराता है । सा० भा० – होता यक्षत्त्वष्टारमिति मन्त्रेण प्रेषितो होता ' य इमे द्यावापृथिवी' ' इति याज्यां पठेत्। तक्षू त्वक्षू तनूकरणं इत्यत्र त्वक्षीत्यादिधातोरुत्पन्नः शब्दस्त्वष्टारं देवतामाचष्टे । वाचश्च तक्षणहेतुत्वात्त्वष्टृत्वं तदेव वाग्घीत्यनेन स्पष्टीक्रियते। यस्मादिदं सर्वं जगवाक् ताष्टीव तक्षतीव यथा तक्षणेन काष्ठं प्रौढमपि सूक्ष्मं भवति । एवं महान्तोऽपि पर्वतादयोऽल्पेनैव
शब्देन गृह्यन्ते । तदेतज्जगत्तष्टमिव भवति॥
. ( ) दशमीं विधत्ते— ( ) १ ऋ० १०.११०.५-७ २ ऋ० १०.११०.८ (३ ) ऋ ० १०.११०. ९
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
: [ २५६ ऐतरेयब्राह्मणम् ६.४ द्वितीयपञ्चिकायां • वनस्पतिं यजति, प्राणो वै वनस्पतिः, प्राणमेव तत्प्रीणाति प्राणं जमाने दधाति ॥१४ ॥
हिन्दी— (दशमी याज्या को कह रहे हैं — ) वनस्पतिम् यजति वनस्पति का यजन करता है; क्योंकि प्राणो वै वनस्पतिः प्राण ही वनस्पति है अतः तत् इससे प्राणव प्रीणति प्राण को ही प्रसन्न करता है और प्राणं यजमाने दधाति यजमान में प्राण को धारण कराता है ।
सा० भा० — होता यक्षद्वनस्पतिमियादिमन्त्रेण 'उपावसृजद् ” इति याज्यां पठेत्।
वनस्पतिजन्यफलानां प्राणावस्थितिहेतुत्वाद्वनस्पतेः प्राणत्वम्॥
एकादशीं विधत्ते— ........स्वाहाकृतीर्यजति, प्रतिष्ठा वै स्वाहाकृतयः प्रतिष्ठायामेव तद्य- ज्ञमन्ततः प्रतिष्ठपयति ॥ १५ ॥५
हिन्दी – ( एकादशी याज्या को कह रहे हैं - ) स्वाहाकृतीः यजति स्वाहाकृतियों का यजन करता है क्योंकि प्रतिष्ठाः वै स्वाहाकृतयः स्वाहकृतियाँ प्रतिष्ठा है । तत्इससे अन्ततः (कर्म के ) अन्त में यज्ञम् यज्ञ को प्रतिष्ठायामेव प्रतिष्ठापयति प्रतिष्ठा में ही प्रतिष्ठापित करता है । सा० भा० – होता यक्षदग्नि स्वाहेति मंत्रेण प्रेषितः 'सद्यो जातः’२ इति याज्यां पठेत्। स्वाहाकृतीनामाहुतिसमाप्तिहेतुत्वात्प्रतिष्ठात्वं तन्मन्त्रपाठेनैनं यज्ञमन्ततः समाप्त्यवसरे प्रतिष्ठायामेव वैकल्यराहित्यरूपायां 'प्रतिष्ठापयति'३॥ दशतो बहुविधानामाप्रीसूक्तानामाम्नातत्वाद् विकल्पः स्याद् इत्याशङ्क्याधिकारिभेदेन व्यवस्थां विधत्ते- ताभिर्यथऋष्याप्रीणीयाद्यद्यथॠष्याप्रीणाति, - यजमानमेव तद्बन्धु-: ( १ ) ऋ० १०.११०.१० ( २ ) ऋ० १०.११०.११ । ( ३ ) तै ० ब्रा० ३.२ अनुवाके 'होता यक्षदिग्नम्' -– इत्यादयः एकादशप्रयाज़विषया द्वादश मैत्रावरुण प्रैषमन्त्राः, तृतीये ‘ समिद्धो अद्य मनुष: '- इत्याद्या: द्वादश होतुर्याज्याश्च एतद्। ब्राह्मणविधिक्रमत एव श्रुताः । माध्यन्दिन्यां च तथा आप्रियः २१.१२-२२, प्रयाजप्रैष- मन्त्राश्च २१.२ ९ -४० द्रष्टव्याः । ' तान्येकादशाप्रीसूक्तानि -इत्यादि नैरुक्तम्, दुर्गाचार्यकृतं तद्व्याख्यानं चेहालोच्यम् ( ८.३.७ ) । ( ४ ) द्र ० -‘ एकादश प्रयाजा सर्वेषाम्' -- इति आश्व० श्री० ३.२.१-८ । अत्र यथऋषिपक्षे भगवता शौनकेनैषः श्लोक उक्तः—
‘ कण्वाङ्गिरोऽगस्त्यशुनका विश्वामित्रोऽत्रिरेव च ।
वसिष्ठः कश्यपो वाध्रयश्वो जमदग्निरथोत्तमः ॥
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
]: २५७ प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ताया नोत्सृजति ॥ १६ ॥
हिन्दी- ( दश से भी अधिक आनी सूक्तों का वेद में कथन होने के कारण विकल्प होता है कि किस आप्री सूक्त से यजन करना चाहिए । इसकी व्यवस्था कर रहे हैं - ) ताभिः यथऋष्याप्रीणीयाति जो ऋषियों का क्रम से यजन करता है उससे यजमानमेव
यजमान को ही तद्बन्धुताया (ऋषियों ) को बन्धुता से न उत्सृजति दूर नहीं करता है।
सा ० भा० -' नोत्सृजति' न निःसारयति॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये ( षष्ठाध्याये ) चतुर्थः खण्डः ॥४ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के चतुर्थ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — आप्रियो विधाय पर्यग्निकरणा ऋचो विधातुमादौ प्रैषमन्त्रं विधत्ते— ( पर्यग्निकरणच विधानम्) ( तत्र प्रैषमन्त्रः ) पर्यग्नये क्रियमाणायानुबूहीत्याहाध्वर्युः ॥ १ ॥
हिन्दी—( पर्यग्निकरण की ऋचाओं का विधान करने के लिए प्रारम्भ में प्रैषमन्त्र का विधान कर रहे हैं - ) हे होता! क्रियमाणाय पर्यग्नये अनुब्रूहि किये जाते हुए पर्यग्नि-करण (के अनुरूप ऋचाओं) का अनुवाचन करो - इति अध्वर्युः आह यह अध्वर्यु (प्रैष मन्त्र) कहता है। सा० भा ० — पर्यग्निकरणस्य स्वरूपम् आपस्तम्बो दर्शयति— ' आहवनीयादु- ल्मुकमादायाऽऽग्नीध्रः परि वाजपतिः ' इति त्रिः प्रदक्षिणं पर्यग्निकरोति पशुम्' इति। एवं परितः क्रियमाणायाग्नये योग्या ऋचो हे मैत्रावरुण त्वमनुब्रूहि। अनेनैव मन्त्रेणाध्वर्युः प्रेषयेत्॥ तदेवम्— तत्र दशानां सूक्तानां प्रथमं कण्वानाम् ऋ ० १-१३ । द्वितीयं तवर्जिता- नामङ्गिरसाम् ऋ ० १.१४२ । तृतीयमगस्त्यानाम् ऋ० १. १८८। चतुर्थ शुनकाम् ऋ० २.३ । पञ्चम विश्वामित्राणाम् ऋ ० ३.४। षष्ठमत्रीणाम् ऋ ० ५.५ । सप्तमं वसिष्ठानाम् ७.२ । अष्टमं कश्यपानाम् ऋ० ९.५ । नवमं वाथ्र्यश्वानाम् ऋ ० १०.७.। शुनक- वाथ्र्यश्ववर्जितानां भृगूणां दशमम् ऋ ० २.११० ।( ) ( ) १ ऋ० ४.१५.३ । २ आश्व० श्रौ० ७.१५.२ ।
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
: [२५८ ऐतरेयब्राह्मणम् ६.५ द्वितीयपञ्चिकायां मैत्रावरुणेनानुवक्तव्यास्तिस्त्र ऋचो विधत्ते- ( मैत्रावरुणेन पठनीया तिस्रो ऋचः ) ' अग्निर्होता नो अध्वरे' ' इति तृचमाग्नेयं गायत्रमन्वाह पर्यग्नि- क्रियमाणे स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति ॥ २ ॥
हिन्दी— ( मैत्रावरुण द्वारा अनुवचनीय तीन ऋचाओं का विधान कर रहे हैं— ) ‘ अग्निहोंता नो अध्वरे' इति आग्नेयं गायत्रम् इस अग्नि देवता वाले गायत्री छन्दस्क तीन (ऋचाओं ) का पर्यग्निक्रियमाणे पर्यग्निकरण करते समय (मैत्रावरुण नामक ऋत्विक् ) अनुवाचन करता है। तत् इस ( अनुवाचन से) एनम् इसको स्वया एव देवतया (उसके ) अपने ही देवता और स्वेन छन्दसा अपने ही छन्द से समर्धयति समृद्ध करता है। सा ० भा ० — पशोः परितोऽग्निरित्यस्मिन्नर्थे पर्यग्नीत्युच्यते। तस्मिन् क्रियमाणे तृचं मैत्रावरुणोऽनुब्रूयात्। तदाहाऽऽश्वलायनः -– 'प्रेषितो मैत्रावरुणोऽग्निहोंता न इति तृचं पर्यग्नयेऽन्वाह' ' इति । तृचस्याऽऽदावग्निरित्युक्तत्वादाग्नेयत्वं छन्दश्च तृचस्य गायत्रं परितः क्रियमाणोऽग्निरेव मन्त्रप्रतिपाद्योऽपि । स एवातः स्वयैव देवतयेत्युच्यते । अग्निगायत्र्यो- र्मुखजन्यत्वसाम्याच्छन्दसः स्वत्वम् । नोऽस्माकमध्वरे यज्ञेऽयमग्निर्होता यज्ञनिष्पादक इति तस्य पादस्यार्थः ॥ द्वितीयं पादमनूद्य व्याचष्टे— वाजी सन्परिणीयत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति॥ ३ ॥
हिन्दी— ( प्रथम ऋचा के द्वितीय पाद को कह कर उसका व्याख्यान कर रहे हैं— ) ' वाजी सन् परिणीयते अर्थात् ( वह अग्नि ) अन्नसम्पन्न अथवा गतिसम्पन हुआ चारो ओर घुमाया जाता है ' इति इसके द्वारा वाजिनम् इव सन्त हि एनम् अन्न-सम्पन्न हुए के समान इस (अग्नि ) को परिणयन्ति चारो ओर घुमाते हैं । सा० भा ० — अयमग्निर्वाज्यन्नप्रदानेनान्नवान् गतिमान् वा तादृशः सन्नृत्विग्भिः पशोः परितो नीयते । तत्पादपाठेनैनमग्निं वाजिनमेव सन्तमृत्विजः परितो नयन्ति ॥ द्वितीयस्या ऋचः पूर्वार्धमनूद्य तात्पर्यं दर्शयति— परित्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेति एष हि रथीरिवाध्वरं परियाति॥ ४ ॥
( १ ) ऋ० ४.१५.१-३ । (२ ) आश्व०श्री० ३.२.९। (३ ) ऋ० ४.१५.२ ।