ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 331–340
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् २६ ९ प्रजापशुसंपत्तिकामस्य बहुदेवत्यः पशुराम्नायते—' यः कामयेत प्रथेयं पशुभिः प्र प्रजया जायेयेति स एतामविवशामादित्येभ्यः कामायाऽऽलभेत ” इति। वशा वन्ध्या, कामाय कामुकेभ्य इत्यर्थः । अत्र चोदकप्राप्तो मेधपतय इत्येक, नान्तः शब्द आदित्यानां बहुत्वाद् बहुवचनान्त्वेनोहनीयः । यथा मेधपतिभ्यामिति द्विवचनान्त ऊह्यते। यथा वा प्रास्मा इत्येकवचनान्त ऊह्यते तद्वदिति चेत्। मैवम्। प्रकृतावग्नीषोमयोर्गणैकत्वमेकवच- नान्तो ब्रूते। आदित्यानामपि गणैकत्वं समानमित्यनूहः । तस्मादविकृत एकवचनान्त इतरेण सह प्रकृताविवात्रापि विकल्प्यते॥ तत्रैवान्यच्चिन्तितम्—
" कृष्णग्रीवादिकेऽनूह ऊहो वा नास्य पूर्ववत् ।
देवत्वं न गणस्यात ऊहो बह्वभिधित्सया ” ॥२
यूपैकादशिन्याम् अग्न्यादिदेवताकाः पंशव आम्नाताः —प्रैवाऽऽग्नेयेन 'वापयति । मिथुनं सारस्वत्या करोति । रेतः सौम्येन दधाति। प्रजनयति पौष्णेन'" इत्यादिना। ते च स्वनामभिरन्यत्राऽऽम्नाताः – ' आग्नेयः कृष्णग्रीवः । सारस्वती मेषी । बभ्रुः सौम्यः । पौष्णः श्यामः१५’“ इत्यादिना । तत्रास्यैकवचनान्तस्य मेधपतिशब्दस्याऽऽदित्येष्विव नोह इति चेत्। मैवम्, वैषम्यात्। आदित्यगणस्य तत्रदेवत्वम्, इह त्वेकैकस्य पृथग्देवत्वम्। अतो बहून्देवा-नभिधातुं बहुवचनान्तत्वमूहनीयम्॥ तत्रैवान्यच्चिन्तितम्—
द्विपश्वोश्चक्षुराहो न वोहः पशुभेदतः ।
तेजोमात्रस्य सूर्यादावेकीभावादनूहनम् ॥
अग्नीषोमीयपशावध्रिगुप्रैषे पशुसंबन्धिचक्षुरदीनां सूर्यादिसंसर्ग आम्नायते— ' सूर्य चक्षुर्गमयतात् वातं प्राणमन्ववसृजतात्? दिशः श्रोत्रम्' इत्यादि। ' मैत्रं’७ श्वेतमालभेत, वारुणं कृष्णमिति— विहितयोर्द्वयोः पश्वोर्मन्त्रगताश्चक्षुरादिशब्दा द्विवचनान्तत्वेनोहनीयाः । ( ) ( )(३१ ) अग्निष्टोमेतै ० सं ० २.१.२.३स्तोमायनसंज्ञा। विकल्पत आग्नेय२ जै- सारस्वत-० न्या० विसौम्य० ९- पौष्ण३ १४-४३- बार्हस्पस्तयवैश्वदेव-। ऐन्द्र- मारुतैन्द्राग्न - सावित्र- वारुणाः सवनीया पशवो भवन्ति। तेषामेकादशानां नियोजनार्थमेक एव यूपः ' प्रतिपशु एकैको वा यूपो भवति । एकादशानां वर्ग एकादशिनी, तस्याम्; तस्मिन् पक्षे इति यावत् ( कात्या० श्रौ० ८.८.६.२६ ) एषा तु यूपैकादशिनी शतपथे ( ३.८.५ ) ‘प्रजापतिर्वै प्रजाः ससृजान: ' –इत्याख्यानपूर्विका विहिताः तथा तै ० सहितायां च ‘प्रजापतिः प्रजा असृजत ' — इत्यादिना ( ६.६.५ )।( ) ( )४ तै ० सं० ६.६.५.१। ५ वा० सं० २ ९.४८ ।( ६ ) जै० न्या ० वि० ९.३.१०.२७, २८। ( ७ ) तै० ब्रा ० ३.६.६.२ । (८) तै० सं० २.१.९.२ ।
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
: [ २७० ऐतरेयब्राह्मणम् ६.६ द्वितीयपञ्चिकायां कुतः — पशुभेदेन चक्षुरादीनां भेदादिति चेत् । मैवम्। न खल्वत्रेन्द्रियाधिष्ठानं शरीरगतगोलकं चक्षुःशब्देन विवक्षितम्। तद्विवक्षायामेकस्मिन्नपि पश गोलकभेदादेकवचनान्तचक्षुः- शब्दस्यानन्वयप्रसङ्गाद्, गोलकस्य सूर्यादिप्राप्त्यसंभवाच्च। यत्तु रूपदर्शनादिसामर्थ्यलक्ष तेजोमात्रम्, तदत्र चक्षुरादिशब्दैर्विवक्षितम्। तच्च पश्वनेकत्वेऽपि ततो निर्गत्य सूर्यादावेकी- भूतत्वात् समुद्रप्रविष्टनदीवन्न भेदेनावतिष्ठते । तस्मान्नास्त्यूहः ॥ तत्रैवान्यच्चिन्तितम्-— एकधेत्यविकारः स्यादभ्यासो वा सहत्वतः । आद्यो मैवं प्राकृतस्य सकृत्त्वस्योचितत्वतः ॥ ' तस्मिन्नेवाध्रिगुप्रैषे श्रूयते— ' एकधाऽस्य त्वचमाच्छ्यतात्' ' इति। छिन्धीत्यर्थः । तत्र द्वयोः पश्वोरेकधेत्यस्य शब्दस्य नास्ति विकारः । कुतः? तस्य शब्दस्येह सहत्ववाचि- त्वात्; – ‘एकधा गाः पाययति ' इत्यत्र योगप्रद्ये प्रयोगदर्शनात्। पश्वनेकत्वेऽपि त्वगुत्पाटन- स्यैककालीनत्वं बहुपुरुषकर्तृकत्वं च घटत इति प्राप्ते, ब्रूमः – प्रकृतावेकस्मिन्पशौ यौगपद्यलक्षणोऽर्थे न संभवति ततः सकृत्त्वं तस्य शब्दस्यार्थः - त्वगियमवयवशो बहु- कृत्वो न च्छेत्तव्या किंतु सर्वाऽपि सकृदेकप्रयत्नेनेत्युक्त भवति । यत्प्रकृतौ सकृत्त्वं तदेव विकृतावुचितम्। ततः प्रतिपशु सकृत्त्वमभिधातुम् ' एकधा' इत्ययं मन्त्रोऽभ्यसितव्यः ॥ 1 तत्रैवान्यच्चिन्तितम्—
सादृश्यमुत साकल्यं श्येनाद्युक्तौ विवक्षितम् ।
प्रसिद्धसंनिधेराद्यस्तत्सत्त्वादखिलोद्धृतिः ३ ॥
अध्रिगुप्रैषे वचनमेतदाम्नायते— 'श्येनमस्य वक्षः कृणुतात्' इति । तत्र - यथा “ अमी पिष्टपिण्डाः सिहाः क्रियन्ताम्' इत्युक्ते प्रसिद्धसिंहसंनिधानात्पिष्टपिण्डेषु सिहसादृश्यं कर्त- व्यतया प्रतीययते, तथैव अस्य पशोर्वक्षः श्येनं कृणुतात् इत्यत्र श्येनसादृश्यं वक्षसि कर्तव्यतया प्रतीयते । ततो वक्षः उद्धृत्य कर्तनाद्युपायेन पक्षचरणचश्र्वादिकं संपाद्य श्येन- संस्थानं कर्तव्यमिति प्राप्ते, ब्रूमः -वंक्षसि श्येनसादृश्यं स्वत एव पूर्वमस्ति । ततो यथा ‘ तन्न नश्यति तथा साकल्येनोद्धरणीयम्' इति विवक्षया श्येनशब्दः प्रयुज्यते । तथा सति हविरविकलं भवति। अंसादिष्वनेनैव न्यायेन साकल्यविवक्षया तत्तद्रूपकोक्तिर्द्रष्टव्या। ' एत-देवाभिप्रेत्य श्रूयते— ‘ गात्रं गात्रमस्यानूनं कृणुतात् " इति । तत्रैवान्यच्चिन्तितम्— ( १ ) जै० न्या० वि० ९.३.११२ ९ -३१ । (२ ) तै ०ब्रा० ३.६.६.२ । ( ३ ) जै० न्या० वि० ९.४.६.२५-२७। ( ४ ) तै ०ब्रा० ३.६.६.२ । ( ५ ) तथा च अंशो कच्छपौ, दोषणी शलाके, कवषौ करवोरपत्रे इत्यादि (तै ० ब्रा ० ३.६.६ ) । ( ६ ) तै०ब्रा० ३.६.६.३ ।
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
• ]: प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् २७१
प्रशसेत्यसिरर्थः स्यात्स्तुतिर्वा छेदनादसिः ।
स्तुतिः कार्त्त्याय बाह्वोः स्यात्स्वधितिश्छेदसाधानम् ॥१
अध्रिगुप्रैषे वाक्यान्तरमाम्नातम्— ' प्रशसा बाहू' ' इति। ' शसु हिंसायाम्' इत्यस्मा- द्धातोः सोपसर्गादुत्पन्नस्य सकारान्तप्रातिपदिकस्य तृतीयैकवचनान्तस्य ' प्रशंसा' इति रूपं भवति । तच्चासेर्वाचकम् तदेतत्केनचिद्ब्राह्मणवाक्येनानूद्यते– “दश 'प्रयाजानिष्ट्वाऽऽह शासमाहरेति । असिवै शास इत्याचक्षते "३ इति। सोऽयमसिर्बाह्वोश्छेदनहेतुः । तस्माद् दृष्टार्थलाभादसिः ‘प्रशसा’ इत्यस्य पदस्यार्थ इति चेत्। मैवम्। 'शंसु स्तुतौ' इत्यस्मा- द्धातोरयमुत्पन्नः । ‘प्रशसौ’ इत्यस्य द्वितीयाद्विवचनान्तस्य शब्दस्य च्छान्दस औकारलोप आकारदेशे च कृते 'प्रशसा ' इति भवित ।' बाह्वोः प्रशस्तत्वं नाम कार्त्स्यम्। 'प्रशसा बाहू कृणुतात्' इत्युक्ते नि: शेषेणोद्धर्तत्यौ बाहू । इत्येतादृशो दृष्टार्थो लभ्यते । नात्र च्छेदनसाधन- त्वमसेः संभवति स्वधितेस्तत्साधानत्वेन विहितत्वात् । तस्मात् स्तुतिरेवास्य शब्दस्यार्थः । तथा सति बाहुवृद्धौ बहुवचनान्तत्वेन प्रशसा' इति पदमूहनीयम्। ' तत्रैवान्यच्चिन्तितम्- षड्विंशातिर्वङ्क्रयोऽस्येत्यनूहः स्यादुतोह्यते । ऊहेऽपिषड्विंशतेरुताभ्यासःवचनान्यत्वमस्येत्यावर्त्यतेऽथसमस्तोक्तिर्भवेदुतवा ॥। अनूहोऽकरणत्वेन दृष्टलाभात्तदूहनम् ॥
संख्यायाश्च पशोर्युक्तेर्वङ्क्रीणां मुख्यतावशात् ।
अमी पक्षा युज्यतेऽन्त्यस्ता अनुष्ठ्येति शेषतः ॥
अध्रिगुप्रैषे वाक्यमिदमाम्नायते— 'षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्च्यावयतात्७ इति । अयमर्थः – ‘ वङ्क्रयो वक्राणि पाश्र्वस्थीनि। तान्यस्य पशोः षड्विंशतिसंख्याकानि, एकैकस्मिन् पार्श्वे त्रयोदशानामवस्थितत्वात्। ताश्च वङ्क्रीनुष्ठ्यानुष्ठायानुक्रमेण गणयि- त्वेति यावत्। उच्च्यावयतादुद्धरताद्' इति । सोऽयं मन्त्रो वङ्क्रीणामुद्धरणे करंणतया न विनियुक्तः । किं तु संज्ञपनात् प्राक्पशौ नीयमाने होत्रा प्रयुज्यते । ततोऽसमवेतार्थत्वाद- ( १ ) जै ० न्या० वि० ९.४.५.२३-२४ । ( २ ) तै०ब्रा० ३.६.६२ । ( ३ ) शत ०ब्रा० ३.८.१.४ । ( ५ ) ' सुपां सुलुक्' – इति पा० सू० ७.१.३ ९ । प्रशासावित्यत्र द्वितीया द्विवचनस्य छान्दस आत्वे प्रशसेति भवति' – इत्येवं वक्तव्यम्॥ (५ ) बहुषु पशुषु संज्ञप्तेषु 'प्रशसा बाहू'- इति निगद एव 'प्रशसान् बाहून्' – इति पठित- व्यमिति भावः । ( ६ ) जै० न्या ० वि० ९.४.१.१ - १६। (७) तै०ब्रा० ३.६.६.३ ।
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
: [ २७२ ऐतरेयब्राह्मणम् ६.७ द्वितीयपञ्चिकायां नूहः — इत्याद्यः पक्षः । अकरणत्वेऽपि नादृष्टार्थत्वम्, वक्ष्यमाणार्थस्मारकत्वेन दृष्टार्थ- लाभात्। तस्मात्प्रकृतौ समवेतार्थतया विकृतावूहः । तदाऽपि चत्वारः पक्षाः । तत्र संख्या मुख्यत्वेन प्रकाश्यते । तेन द्वयोः पश्वोर्द्विगुणितां षड्विंशतिसंख्यां प्रकाशयितुं द्विवचनान्त- · तया षड्विंशतिशब्द ऊहनीयः-इत्याद्यः पक्षः । पशोश्चोदितत्वेन मुख्यत्वात्तद्वाचकं षष्ठ्य-`न्तम् ‘ अस्य' इति पदं पश्वनुसारेणाऽऽवर्तनीयमिति द्वितीयः पक्षः । युक्तिर्योगः । षड्विंशति- संख्यायाश्च पशुना सह संबन्धात्तस्य मुख्यत्वात् प्रतिपशुं विभक्तसंख्यां प्रकाशयितुं षड्विंशतिपदस्याभ्यासः – इति तृतीयः पक्षः । अत्र सर्वत्र मुख्यानुसारेण पदान्तराण्यूह- नीयानि। संख्येयानां वङ्क्रीणां मुख्यत्वात् तासामियत्ता समस्य वक्तव्या। ततो ' द्वापञ्चा- शदनयोर्वङ्क्रयः । अष्टसप्ततिरेषां वङ्क्रय इत्येवं यथायोगमूहनीयमिति– चतुर्थः पक्षः । अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात्। ता अनुष्ठ्येत्ययं वाक्यशेषः । स च व्याख्यातः ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये ( षष्ठाध्याये ) षष्ठः खण्डः ॥६॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के षष्ठ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा० भा०-– यद्यप्यध्रिगुप्रैषमन्त्रो न समाप्तस्तथाऽप्यनन्तरभागे बहुवक्तव्यसद्भावात् खण्डान्तरं कृतम्। दशमं भागमनूद्य व्याचष्टे— ( शाखान्तरीयस्याधिनुप्रैषस्योत्तरार्द्धस्य व्याख्यानम् ) अस्ना रक्षः संसृजतादित्याह तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्नस्ना महायज्ञात् स यदस्ना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन यज्ञान्निरवदयते ॥ १ ॥
हिन्दी - (षष्ठ खण्ड में प्रोक्त मन्त्र के दशम भाग को कह कर उसका व्याख्यान कर रहे हैं - ) ' अस्ना रक्षः संसृजतात् रुधिर से राक्षसों को संयोजित करो - इत्याह इस ( मन्त्र ) का ( होता) अनुवाचन करता है। वास्तव में देवाः देवताओं ने फलीकरणैः तुषैः ( धान की ) भूसी और थोड़े से चावलों के द्वारा रक्षांसि राक्षसों को हविर्यज्ञेभ्यः ( १ ) षड्विंशतिरस्य वङ्क्य:' — इत्येष एव निगदः । द्विपशुस्थले 'द्विपञ्चाशदनयोर्वङ् क्रयः’— इति पठनीयः । एवं त्रिपशुस्थले ' अष्टसप्ततिरेषां वङ्क्रयः’ —–इति ।
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् २७३ (दर्शपूर्णमास इत्यादि) हविषु वाले यज्ञों से निरभजन् अलग कर दिया और महायज्ञाद् अस्ना रुधिर के द्वारा ( ज्योतिष्टोमादि ) महायज्ञों से ( अलग कर दिया), तो यद् अस्ना रक्षः संसृजतात् जो रुधिर से राक्षसों को वियोजित कर दो' इति सः आह यह वह (होता) कहता है तत् इस कथन से ( वह होता ) रक्षांसि एव राक्षसों को ही स्वेन भागधेयेन उनके अपने भाग को देकर यज्ञात् निरस्यति यज्ञ से अलग कर देता है । सा ० भा ० — अस्नाऽसृजा रुधिरेण रक्षः संसृजतान्मांसाभिलाषव्यावृत्त्यर्थं राक्षसान् रक्तेनैव संयोजयत । एनं मन्त्रभागं होता ब्रूयात्। किमर्थमेतदिति? तदुच्यते- पुरा देवास्तु- षैर्द्रौहिगतैर्हेयांशैः फलीकरणैस्तण्डुललेशैश्च दर्शपूर्णमासादिहविर्यज्ञेषु समागतानि रक्षांसि तोषयित्वा तेभ्यो यज्ञेम्यो निरभजन् हविर्भागरहितान्यकुर्वन् । महायज्ञे ज्योतिष्टोमादिके समा-गतानि रक्षांसि पशुरक्तेन तोषयित्वा तस्माद्यज्ञात्रिरभजन् निःसारितवन्तः । हविर्यज्ञेभ्यो निःसारणं शाखान्तरे दर्शपूर्णमासप्रकरणे मन्त्रव्याख्याने समाम्नातम्– 'रक्षसां भागोऽ- सीत्याह तुषैरेव रक्षांसि निरवदयते' इति । तदेतदापस्तम्बेनोक्तम्— ' मध्यमे पुरोडाश-कपाले तुषानोप्य रक्षसां भागोऽसीत्यधस्तात् कृष्णाजिनस्योपवपति' ' इति । महायज्ञान्निः-सरणमग्नषोमीयपशुप्रकरणे तैत्तिरीयैराम्नातम्— ' रक्षसां भागोऽसीति स्थविमतो बहि-रङ्त्वाऽपास्यत्यस्यैव रक्षांसि निरवदयतः " इति। स्थविमतः स्थौल्ययुक्ते बर्हिर्मूलभाग इत्यर्थः । एतदपि सूत्रकारेण स्पष्टीकृतम्- 'बर्हिषोऽग्र सव्येन पाणिनाऽऽदत्ते' तं मध्यं यत आर्च्छति तदुभयतो लोहितेनाङ्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्य'" इति। एवं सति यद्यस्ना रक्ष इति भागं पठेत् तदानीं रक्षांसि स्वकीयभागेन युक्तानि कृत्वा महायज्ञान्निरवदयते निःसारयति॥ अथास्नेत्येतस्य मन्त्रभागस्य पाठं पूर्वपक्षत्वेनाऽक्षिपति— तदाहुर्न यज्ञे रक्षसां कीर्तयेत् कानि रक्षांस्कृतेरक्षा वै यज्ञ इति॥ २ ॥
हिन्दी –(मन्त्र में ' आस्ना रक्ष:' इस मन्त्र भाग के पाठ के विषय में पूर्वपक्ष के रूप में आक्षेप कर रहे हैं— ) तदाहुः इस विषय में (कुछ ब्रह्मवादी ) कहते हैं कि यज्ञे रथसाम् यज्ञ में राक्षसों का न कीर्तयेत् नाम नहीं लेना चाहिए क्योंकि ऋते रक्षा यज्ञः वै राक्षसों से रहितं ही यज्ञ होता है । सा० भा ० — तत्तत्र मन्त्रभागे चोद्यवादिन आहुः । कथमिति, उच्यते – यज्ञे प्रवर्तमाने सति कानिचिदपि रक्षांसि न कीर्तयेत्। जातिविशेषानपेक्ष्य बहुवचननिर्देशः । राक्षसा वान्तर-जातीनां मध्ये राक्षसमसुरं पिशाचं वा न कंचिदपि कीर्तयेत् । जातिविशेषाः श्रुत्यन्तरे सैन्यद्वयोपन्यासे श्रूयन्ते — ‘देवा मनुष्याः पितरस्तेऽन्यत आसन्नसुरा रक्षांसिपिशाचास्तेऽ- ( १ ) तै ० सं ० १.१.५.२ । ( २ ) तै०ब्रा० ३.२.५.११। ( ३ ) आप०श्रौ० १.२०.९। (४ ) तै ० सं ० ६.३.९.२ । (५ ) आप ० श्री० ७.१८.१३,१४।
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
: [ २७४ ऐतरेयब्राह्मणम् ६.७ द्वितीयपञ्चिकायां न्यत: ’" इति। अकीर्तने हेतुमृतेरक्षा इतिपदेनोपन्यस्यति । तदेतत् समस्तमेकमेव पदम्। ऋतशब्दो वर्जनवाची । वर्जितं रक्षो यस्मिन् यज्ञे सोऽयमृतेरक्षाः । यज्ञे हि हविर्भागत्वाद्देवा एव नामग्रहणमर्हन्ति न तु रक्षःप्रभृतयः । तस्मादेतं मन्त्रभागं न कीर्तयेत्— इत्याक्षेप- वादिनामभिप्रायः ॥ समाधत्ते— तदु वा आहुः कीर्तयेदेव ॥ ३ ॥
हिन्दी— (उपर्युक्त पूर्वपक्ष का समाधान कर रहे हैं- ) तदु वै आहुः इस विषय में ( सम्प्रदायविद् समाधान को ) कहते हैं कि कीर्तयेत् एव (आस्ना रक्ष: ' इस मन्त्र भाग का ) अनुवाचन करना ही चाहिए।
सा० भा०--तदु वै तस्मिन्नेवास्ना रक्ष इति मन्त्रभागे संप्रदायविदः समाधानमाहुः ।
यद्यपि तत्र रक्षोनामास्ति तथाऽपि तं भागं कीर्तयेदेव ॥
तत्रोपपत्तिमाह— यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते त्वेवैनमिति ॥ ४ ॥
हिन्दी–( उपर्युक्त समाधान के विषय में उपपत्ति को कह रहे हैं-- ) यः वै भागिनः जो जिस भाग का भागीदार है, उसको भागाद् नुदने (यदि उसके ) भाग से अलग कर देता है तो सः एनं चयते वह ( विनष्टभाग) इसको नष्ट कर देता है। यदि वा एनं न चवते यदि इसको विनष्ट नहीं करता तो अथ पुत्रम् अथ पौत्रम् चवते इस (यजमान ) के पुत्र और पौत्र को नष्ट करता है। सा ० भा ० — यः पुमान् भागिनं भागाईं सन्तमन्यं पुरुषं तदीयाद्भागान्नुदते नाशय- त्येनं विनाशयितारं स नष्टभागः संश्चयते वैनं च्यावयत्येव। यदि वा यदा कदाचिद् विनाशयितुः प्राबल्ये सति तदानीमेनं न चयते न च्यावयति। अथापि कालान्तरे तदीयं पुत्रं पितृद्वेषेण विनाशयति तदाऽप्यशक्तौ पौत्रं वा विनाशयति। किं बहुना भागभ्रष्टो मनसि द्वेषं गृहीत्वा स्वविरोधिनमेनं भ्रंशयितारं यदा कदाचित्केनापि द्वारेण चयते त्वेव विनाश-यत्येवेत्यनेनाभिप्रायेण मन्त्रभागं कीर्तयेदेवेत्यभिज्ञैरुक्तम्। यद्यपि रक्षसां हविर्भागो नास्ति तथाऽपि यज्ञे तुषकणादिदेवानर्हभागोऽस्त्येव, तस्मात् कीर्तनपक्ष एव युक्तः ॥ तत्रैतस्य मन्त्रभागस्य कीर्तने कञ्चिद्विशेषं विधत्ते— स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एतद्वाचो यदुपांशु तिर इवैतद् यद् रक्षांसि ॥ ५ ॥
( १ ) तै० सं० २.४.१.१ ।
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
]: ' प्रथमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् २७५ हिन्दी— (इस मन्त्रभाग के अनुवाचन में कुछ विशेष विधान कर रहे हैं - ) यदि सः कीर्तयेत् यदि वह अनुवाचन करे तो उपांशु कीर्तयेत् उपांशु अनुवाचन करे। यद् उपांशुः जो उपांशु ( वाचन ) है एतद् वाचः तिरः इव यह वाणी का तिरोहित रूप है और यद् रक्षांसि जो राक्षस हैं एतत् तिरः इव ये भी छिपे ही रहने वाले हैं । सा ० भा० — स याज्ञिको यज्ञे रक्षसां नामधेयं द्वेषपरिहाराय यदि कीर्तयेत् तदाऽ- प्युपांशु परैर्यथा न श्रूयेत तथा कीर्तयेत् । वाचः संबन्धि यदुपांशुकीर्तनमेतत्तिर इव तिरो- हितमिव भवति । यथा कुड्यादिव्यवहितं स्तम्भादिकं चक्षुषा न दृश्यते तथैवोपांशुकथितं न श्रूयते। रक्षांसीति यदस्त्येतदपि तिर इव चोरवद्यज्ञे रक्षसां गूढचारित्वात्। तस्मात् तदीयकीर्तनस्योपांशुत्वं युक्तम् ॥ विपक्षे बाधं दर्शयति— अथ यदुच्चैः कीर्तयेदीश्वरो हास्य वाचो रक्षोभाषो जनितोः ॥ ६ ॥
हिन्दी —( विपक्ष में बाधा को दिखला रहे हैं- ) अथ यदि उच्चै कीर्तयेत् अब यदि ऊँची ध्वनि से उच्चारण करता है तो अस्य वाचः उसकी वाणी रक्षोभावः जनितोः ईश्वरः राक्षस भाषा को उत्पन्न करने में समर्थ हो जाती है । सा० भा०- अथोपांशुवैलक्षण्येन यद्युच्चैः कीर्तयेदस्य कीर्तयितुः संबन्धिनीर्वाचो रक्षोभाषो जनितोर्जनयितुमयमीश्वरो भवति। रक्षोभिर्भाष्यत इति रक्षोभाष्, इत्यस्य स्त्री-लिङ्गस्य द्वितीयाबहुवचनं रक्षोभाष इति । तदेतद्वाच इत्यस्य विशेषणम् । अस्योच्चैः कीर्तयितुर्या वाचः सन्ति ताः सर्वा रक्षः प्रोक्तवाग्रूपेणोत्पादयितुमयं संकीर्तयिता समर्थो भवतीति॥ कोऽयं समर्थ इत्याशङ्क्य तं विशेषाकारेण दर्शयति— योऽयं राक्षसीं वाचं वदति सः ॥७ ॥
हिन्दी— यः अयं राक्षसीं वाचं वदति जो वह राक्षसों की भाषा बोलता है सः वह (राक्षसों की भाषा को उत्पन्न करने वाला होता है ) । सा० भा ० — लोके यः पुमान् रक्षसां वाचं परभर्त्सनरूपामुच्चध्वनित्वेन भीतिकरी वाचं ब्रूते स पुमांस्तामप्युच्चैः कीर्तयन् रक्षसां वागुत्पादको भवति ॥ काऽसौ राक्षसी वागित्याशङ्क्याऽऽह— यां वै दृप्तो वदति, यामुन्मत्तः सा वै राक्षसी वाक् ॥८ ॥
हिन्दी – ( राक्षसी वाणी को बतला रहे हैं - ) दृप्तः वै यां वदति (लोक में ) अभिमान ( तिरस्कार ) से सम्पन्न होकर और याम् उन्मत्तः बुद्धि रहितता से रहित होकर जिस (वाणि ) को व्यक्ति बोलता है, सा वै राक्षसी वाक् वही राक्षसी वाणी कहलाती है।
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
: [ २७६ ऐतरेयब्राह्मणम् ६.७ द्वितीयपञ्चिकायां सा० भा ० — धनविद्यादिना दृप्तो दर्प प्राप्तः परतिरस्कारहेतुं यां वाचं वदत्युन्मत्तश्च बुद्धिराहित्यात् पूर्वापरसंबन्धरहितां यां वाचं वदति सेयमुभयविधाऽपि राक्षसी वाक्॥ एतद्वेदनं प्रशंसति— नाऽऽत्मना दृप्यति नास्य प्रजायां दृप्त आजायते य एवं वेद ॥ ९ ॥
हिन्दी— ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह न आत्मना दृप्यति स्वयं अभिमान नहीं करता और अस्य प्रजायां न दृप्तः आ जायते उसकी ( पुत्रादि ) सन्तान में (कोई) अभिमानी नहीं पैदा होता है । सा० भा ० — वेदिता स्वयमपि दर्पं नाऽऽप्नोति तदा स्वीयायां प्रजायां कश्चिदपि दृप्तो नोत्पद्यते॥ एकादशं भागमनूद्य व्याचष्टे-.. वनिष्ठुमस्य मा राविष्टोरूकं मन्यमाना नेत् वस्तोके तनये रविता वच्छमितार इति ये चैव देवानां शमितारो ये च मनुष्याणां तेभ्य एवैनं तत् परिददाति ॥ १० ॥
हिन्दी–(मन्त्र के एकादश भाग को कह कर उसका व्याख्यान कर रहे हैं - ) 'हे शमिताओं अस्य इस ( पशु ) के वनिष्ठम् वनिष्ठु (वपा के समीप वाले उलूक के आकार वाले मांस खण्ड ) को उरूकं मन्यमाना उलूक (पक्षी ) समझते हुए मा राविष्ट मत काटो जिससे वः तुम ( शमिताओं ) के तोके तनये पुत्र और पौत्र में रविता न इत् रोने वाले न होवे, इति इस प्रकार तत् इस (पाठ) से ये देवानाम् जो देवताओं में और ये मनुष्याणाम् जो मनुष्यों में शमितारः (पशु का ) हनन करने वाले होते हैं, तेभ्यः उन ( शमिताओं) के लिए एनम् इस ( मांसखण्ड ) को परिददाति समर्पित करता है । स० भा ० — हे शमितारो दैव्या मानुष्याश्च वनिष्ठं वपायाः समीपवर्तिनं मांसखण्ड-मस्य पशोः संबन्धिनमुरूकमुलूकाख्यं पक्षिसदृशं मन्यमाना विशेषाकारेण विजानन्तो मा राविष्ट मैव लवनं कुरुत । उलूकसदृशो वनिष्ठुर्यथा वर्तते तथैवोद्धरत, न तु मध्यतश्छिन्नं कुरुतेत्यर्थः । एवं कुर्वतां वो युष्माकं संबन्धिनि तोके पुत्रे तनये तदीयापत्ये च रविता शब्दयिता नेन्नैव रवद्भूयात्। यथाशास्त्रं छेदने क्रियमाणे भवतां गृहे पुत्रपौत्रादिकं निमित्ती- कृत्य रोदिता न भविष्यतीत्यर्थः । तद्भागपाठेन देवानां मध्ये ये शमितारः सन्ति मनुष्याणां च मध्ये ये सन्ति तेभ्य एव सर्वेभ्य एनं वनिष्ठं परिददात्यवैकल्याय समर्पयति॥ द्वादशं भागमनूद्य व्याचष्टे- अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमधिगा३ उ इति त्रिब्रूयाद- पापेति चाध्रिगुर्वै देवानां शमिताऽपापो निग्रभीता शमितृभ्यश्चैवैनं
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
:: ]: प्रथमोऽध्यायः सप्तम खण्ड सायणाचार्यकृतभाष्योपेतम् २७७ तन्निग्रभीतृभ्यश्च संप्रयच्छति ॥ ११ ॥
हिन्दी— (मन्त्र के द्वादश भाग को कह कर उसका व्याख्यान कर रहे हैं— ) अध्रिगो हे अध्रिगु! शमीध्वम् ( विशसन इत्यादि के द्वारा पशु का) संस्कार करो, सुशमि शमीध्वम् सुष्ठु प्रकार से ( शास्त्रानुसार ) संज्ञपन करो। अध्रिगा हे अध्रिग! शमीध्वम् संज्ञपन करो, इति त्रिः ब्रूयात् यह तीन बार कहना चाहिए तथा अपाप इति 'पाप से रहित' (इस शब्द को भी तीन बार कहना चाहिए) । अध्रिगुः वै देवानां शमिता देवताओं के बीच संज्ञपन करने वाला अध्रिगु होता है और अपापः नियभीता ( ध्यान इत्यादि द्वारा निग्रह करने वाला है अतः ) वह अपाप होता है। तत् इस पाठ से शमितृभ्यः च निग्रभीतृभ्यः च समिताओं और निग्रहीताओं के लिए एनम् इस पशु को सम्प्रयच्छति संज्ञपन के लिए प्रदान करता है । सा ० भा० — हे अध्रिगो, एतन्नामकदेवेषु शमितृषु मुख्यदेवा यूयं सर्वे शमीध्वं विशसनादिना पशुं संस्कुरुध्वम्। पुनरपि विशेषाकारेणोच्यते सुशमि सुष्ठु शमनं शास्त्रीयं विशसनं यथा भवति तथा शमीध्वं शमयत संज्ञपयत। अध्रिगादौ प्लुतिर्दूरादाह्वानार्था । ओकारस्य प्लुतिवेलायामाकार उकारश्चेति वर्णद्वयं संपद्यते। तथाविधा यूयमितरैः सह यूयं सुशमीध्वं सर्वथा शमयत न तूपचरितं शमनं कुरुत। क्रूरकर्मेति कृत्वा तदुपेक्षणं मा भूदिति पुनः पुनर्वचनम्। अध्रिगो शमीध्वमित्यादिकं वाक्यत्रयसमुदायं त्रिवारमावर्तयेत् । अपापेत्यपि तत्संबन्धिनं त्रिवारमावर्तयेत् । तदेतद् आश्वलायन आह— ' अध्रिग्वादि त्रिरुक्त्वा'३ इति। अध्रिगो अपापदेवः (? ) । सोऽयमपापवाची शाखान्तरे पठ्यते— ' अध्रिगुश्चापापश्चोभौ देवानां शमितारौ' इति। अत्र तु तदवान्तरविशेषोऽभिधीयते । देवानां मध्ये यः शमिता हन्ता सोऽध्रिगुर्यश्च ध्यानादिना निप्रभीता निग्रहस्य कर्ता सोऽयमपापः। तद्भागपाठेनाध्रिगुप्रभृति- भ्यः शमितृभ्यश्चापापप्रभृतिभ्यो निग्रहीतृभ्यश्चैनं पशुं संज्ञपनाय प्रयच्छति ॥ अध्रिगुमन्त्रपाठानन्तरं जप विधत्ते— ( अध्रिगुमन्त्रपाठान्तरं जपविधानम् ) शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद् दुष्कृतमन्यत्र तदित्या- हाग्निर्वै देवानां होताऽऽसीत्, स एनं वाचा व्यशाद्, वाचा वा एनं होता विशास्ति तद्यदर्वाग्यत्परः कृन्तन्ति यदुल्बणं यद्विथुरं क्रियते ( १ ) 'एचो० ' पा० सू० ८.२.१०७। ( २ ) क्रूरकर्मत्वेवं विहितम्– 'संज्ञपयन्ति अध्वर्युः '-इति० आप ०श्रौ० ७.१६.५.६ । 'मायुः शब्दः, तमकुर्वन्तमित्यर्थः-इति च तट्टीका। तच्छब्दरोधाय मुखे धानादीन् प्रवेशयति निग्रभिता। तदुक्तं कात्यायनेन - ' संगृह्य मुखं तमयन्त्यवाश्यमानम्' – इति ६.५.१८ । ( ३ ) आश्व ० श्रौ० ३.३.४ । ( ४ ) तै० ब्रा० ३.६.६.४/
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
: [ २७८ ऐतरेयब्राह्मणम् ६.७ द्वितीयपञ्चिकायां शमितृभ्यश्चैवैनत् तन्निप्रभीतृभ्यश्च समनुदिशति स्वस्त्येव होतो- न्मुच्यते, सर्वायुः सर्वायुत्वाय ॥ १२ ॥
हिन्दी— ( अध्रिगु मन्त्र के पाठान्तर जप का विधान कर रहे हैं— ) ( होता कहता है कि) शमितारः हे शमिताओ! यद् अत्र जो इस (पशु के संज्ञपन कर्म) में सुकृतं कृणवथ सुकृत करते हो तद् अस्मासु वह हम लोगों के प्रति रहे और यद् दुष्कृतं तद् अन्यत्र जो दुष्कृत्य करते हो वह अन्यत्र चला जाय, ( होता इस मन्त्र का जप करके दक्षिण की ओर घूम जाता है । अब इस मन्त्र के अर्थ को बतला रहे हैं - ) (जब देवताओं ने यजन किया उस समय ) अग्निः वै देवानां होता आसीत् अग्नि ही देवताओं का होता था । सः एव एनं वाचा व्यशात् उस ( अग्नि) ने ही इस (पशु) को ( अध्रिगु प्रैष वाली ) वाणी से अलग किया था। अतः होता वाचा वै एनं विशास्ति होता वाणी द्वारा इस (पशु) का विच्छेदन करता है । तद् तो यद् अर्वाक् यत् परः कृतन्तन्ति जो उसके आगे का भाग और जो पीछे का भाग काटते हैं; उनमें यद् उल्बजं यद् विथुरं क्रियते जो अतिरिक्त और जो न्यून कार्य किया जाता है, तत् इस ( पाठ ) से एनत् शभितृभ्यः च निग्रभीतृभ्यः च इस समिताओं के लिए और निग्रहीताओं के लिए समनुदिशति सम्यक् रूप से निर्देश करता है । ( इस मन्त्र के जप से) होता स्वस्त्या एव उन्मुच्यते होता कल्याण द्वारा (पाप से अपने को ) मुक्त कर देता है और सर्वायुः सम्पूर्ण आयु को (प्राप्त करता है ) । (इस प्रकार यह) सर्वायुत्वाय ( यजन करने वाले व्यक्ति के ) सम्पूर्ण आयु की प्राप्ति के लिए • भी होता है । सा० भा ० — हे शमितारो यदत्र पशुविशसनकर्मणि यत्सुकृतं कृणवथास्मासु तत् । यददुष्कृतमन्यत्र तदिति जपित्वा दक्षिणावृदावर्तन इति । एतन्मन्त्रार्थमग्निर्वा - इत्यादिनो- च्यते। यदा देवा यज्ञं कुर्वन्ति तदानीं तेषां मध्येऽग्निरेव होताभूत्। स एनं पशुं वाचाऽध्रिगु- ग्रैषरूपया व्यशाद विशसनं कृतवान् । अध्रिगुप्रैष आरभध्वं शमीध्वमित्यादिप्रेरणवाचकानां पदानां बहूनां विद्यमानत्वादस्त्येव होतुर्वाचिकं विशसनम्। तथा सति पशोरर्वाग्भागे यत्कृ-न्तन्ति यच्च परः परभाग उत्तमाङ्गे कृन्तन्ति तस्मिन्नुभयस्मिन्नपि च्छेदने यदुल्बणं शास्त्रार्था-दतिरिक्तं क्रियते यच्च विथुरं न्यूनं क्रियते, तत्सर्वमेनत् पशुशमितृभ्यो निग्रभीतृभ्यश्च समनुदिशति, तेन मन्त्रजपेन सम्यक् कथयतीति वाचा होता स्वस्त्येव क्षेमेणैव पापान् मुच्यते सर्वायुमृत्युरहितश्च भवति यजमानस्याप्यपमृत्युराहित्याय॥ एतद्वेदनं प्रशंसति— सर्वमायुरेति य एवं वेद ॥ १३ ॥
हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस रहस्य ( १ ) द्र० अध्रिगुशब्दनिर्वचनम्, तत्प्रैषमन्त्रव्याख्यानादिकञ्च निरु० ५.११ ।