ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 341–350
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
] प्रथमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम्: २७ ९ को ) जानता है, वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है । सा ० भा ० — अत्र मीमांसा। नवमाध्यायस्य चतुर्थपादे चिन्तितम्—
पक्षी वपाऽथवोरूको रलयोरविशेषितः ।
पक्षी वपा संनिधानाद् भ्रान्तिच्छेदनिषेधतः ॥१
अध्रिगुप्रैषे वचनमिदम् आम्नायते- 'वनिष्ठुमस्या मा राविष्टोरूकं मन्यमानाः’२ इति । वनिष्ठुर्वपासमीपवर्ती कश्चित्पश्वङ्गविशेषः । तं मा राविष्ट तस्य लवनं मा कुरुतेति व्यत्ययेन लकारस्य रेफः । किं कुर्वन्तः — उरूकं मन्यमानाः । वनिष्ठावुरूकबुद्धिं कुर्वन्त इत्यर्थः । अत्र - उरूकशब्देन काकविरोधी कश्चिद् उलूकनामा पक्षिविशेषोऽभिधीयते। कुतः- रलयोरविशेषात्। ‘ पर्यङ्कः, पल्यङ्कः, लोमानि, रोमाणि' इत्यादि दर्शनात् । उरूकशब्दः सादृश्यलक्षकः । ‘ पक्षिसदृशं वनिष्ठं विवेकेन मन्यमाना मा राविष्टेति वाक्यार्थः । तस्मादुरूक- शब्दः पक्षीति प्राप्ते, ब्रूमः -उरूकशब्देनात्र वपा लक्ष्यते। कुतः,-वनिष्ठुसंनिधानात्। साहित्यसंनिधानादुरूकत्वभ्रान्तिवनिष्ठौ संभवति । भ्रान्तिप्राप्तं लवनमत्र निषिध्यते। ‘उरूकं मन्यमाना वनिष्ठं मा राविष्ट' इत्युक्तत्वात्। वपालवनकाले भ्रान्त्या वनिष्ठोर्यल्लवनं तस्य निषेधे सति दृष्टार्थो लभ्यते, भ्रान्तिनिवारणस्य दृष्टत्वात्। त्वत्पक्षे वनिष्ठोर्लवनमेव नास्ति । तच्चायुक्तम्। हृदयाद्यङ्गवद्वनिष्ठोलवितव्यत्वात्। ' वनिष्ठुमग्नीध्रे षडवत्त् संपादयति’४ इत्याद्यनुष्ठानविधानात्। ततो लवननिषेधस्यासमवेतार्थत्वेनादृष्टार्थो मन्त्रपाठः प्राप्नुयात्॥ तस्माद्वपावचन उरूकशब्दः । यद्यपि वपायामप्रसिद्धस्याऽप्यरु विस्तीर्णमुको मेदो यत्रेत्यवय- वार्थद्वारा मेदस्विन्यां वपायां युक्त उरूकशब्दः । एवं सत्यनेकवपासु विकृतिष्वेकवचनान्त उरूकशब्द ऊहनीयः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये (षष्ठाध्याये ) सप्तमः खण्डः ॥ ७॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा० भा ० – अध्रिगुप्रैषं समाप्य पुरोडाशं विधातुं बहुभिः पर्यायैरुपेता काचिदा-ख्यायिकोच्यते । तत्र प्रथमं पर्यायं दर्शयति-( ) ( )( १ ) जै ० न्या० वि० ९.४.४.२२. । ( २ ) तै ०ब्रा ० ३.६.६.३ । ३ द्र ० पा० सू० ३.४ ९ ८। ४ आप० श्रौ ० ७.२६.६ ।
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
: [ २८० ऐतरेयब्राह्मणम् ६.८ द्वितीयपञ्चिकायां ( पशुपुरोडाशविधानार्थमाख्यायिका ) पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्, सोऽश्वं प्राविशत् तस्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किंपुरुषोऽभवत् ॥ १ ॥
हिन्दी—( अध्रिगु प्रैष का विधान करके पुरोडाश विधान के लिए बहुत से पर्यायो से युक्त किसी आख्यायिका को कह रहे हैं उसमें प्रथम पर्याय— ) देवाः देवताओं ने पुरुषं पशुम् आलभन्त पुरुष को ही पशुरूप बनाकर (उस पुरुष का ही यज्ञ करने लिए ) आलभन किया । तस्माद् आलब्धात् उस आलम्भित (पुरुषरूप पशु) से मेधः उत्क्रामत् मेध ( यज्ञ के योग्य हविर्भाग ) निकल कर (अन्यत्र) चला गया। सः अश्वं प्राविशत् वह (हविर्भाग) अश्व में प्रवेश कर गया । तस्मात् इसी कारण अश्वः मेध्यः अभवत् अश्व यज्ञ की हविष् के योग्य हो गया । अथ इसके बाद उदक्रान्तमेधम् एनम् निकल गये हविर्भाग वाले इस ( पुरुषरूप पशु) को अत्यार्जन्त ( देवताओं ने ) अत्यधिक तिरस्कृत कर दिया । सः किंपुरुषः अभवत् वह (तिरस्कृत पुरुषपशु) किन्नर हो गया । सा ० भा ० — पुरा कदाचिद्देवा: स्वकीये यज्ञे पुरुषं मनुष्यं पशुमालभन्त पशुं कृत्वा तेन पशुना यष्टुमुद्युक्ताः । तस्मादालब्धाद्यष्टुमुद्युक्तान्मनुष्यपशोर्मेधो मेध्यो यज्ञयोग्यो हविर्भाग उदक्रामन्मनुष्यं परित्यज़्यान्यत्रागच्छत्। गत्वा च स भागोऽश्वं प्राविशत्। यस्मादेवं तस्मादश्वो यज्ञयोग्योऽभवत्। अथ तदानीमुत्क्रान्मेधं परित्यक्तहविर्भागमेनं मनुष्यं देवा अत्यार्जन्तातिशयेन वर्जितवन्तः । तस्मिन्पशुत्वमपि नाकुर्वन्। देवैः स्वीकृत्य परित्यक्तः स मनुष्यः किंपुरुषः किन्नरावान्तरजातीयः ॥ द्वितीयं पर्यायं दर्शयति— तेऽश्वमालभन्त, सोऽश्वादालब्धादुदक्रामत्, स गां प्राविशत्, तस्माद् गौर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गौरमृगोऽभवत् ॥ २ ॥
हिन्दी—( अब द्वितीय पर्याय को कह रहे हैं - ) ते अश्वम् आलभन्त उन ( देव-ताओं ) ने अश्व का आलभन किया। सः आलब्धाद् अश्चात् वह ( यज्ञ के योग्य हविर्भाग ) आलभन किये गये अश्व से उदक्रामत् निकल कर अन्यत्र चला गया। सः गां प्राविशत् वह ( हविर्भाग) गाय में प्रविष्ट हो गया । तस्मात् इसी कारण गौः मेध्यः भवति गाय यज्ञ के (हविष् के ) योग्य हो गयी। अथ इसके बाद उत्क्रान्तमेधम् एनम् निकल गये ( हविर्भाग) वाले इस ( अश्व पशु) को अत्यार्जन्त ( देवताओं ने) तिरस्कृत कर दिया । सः गौरमृगः अभवत् वह (तिरस्कृत अश्व ) नीलगाय हो गया। सा० भा० — आलब्धादश्वान्मेधो यज्ञयोग्यभाग उत्क्रम्य गां प्राविशत्, स गौर्यज्ञ-योग्य आसीत्। तदानीमयोग्यत्वेन त्यक्त सोऽश्वो गौरमृगोऽभवद्, यस्य शृङ्गावपि
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् २८१लोमशौ भवतः ॥ तृतीयपर्यायं दर्शयति— ते गामालभन्त, स गोरालब्धादुदक्रामत्, सोऽवि प्राविशत्, तस्माद- विर्मेध्योऽ भवदथैनमुत्कान्मेघमत्यार्जन्त, स गवयोऽभवत्, तेऽविमा- लभन्त सोऽवेरालब्धादुदक्रामत्, सोऽजं प्राविशत्, तस्मादजो मेध्योऽ- भवदथैनमुत्क्रान्तमेधमत्यार्जन्त, स उष्ट्रोऽभवत् ॥ ३ ॥
हिन्दी – ( तृतीय पर्याय को कह रहे हैं - ) ते गाम् आलभन्त उन ( देवताओं ) ने गाय का आलभन किया । सः आलब्धाद् गौः वह ( यज्ञ के योग्य हविर्भाग) आलभन की गयी गाय से उदक्रामत् निकल कर अन्यत्र चला गया। सः अवि प्राविशत् वह ( हविर्भाग) भेड़ में प्रवेश कर गया । तस्मात् इसी कारण अविः मेध्यः अभवत् भेड़ यज्ञ के योग्य पशु हो गया। अथ इसके बाद उत्क्रान्तमेघम् एनम् निकल गये (हविर्भाग) वाली इस गाय (पशु ) को अत्यार्जन्त ( देवताओं) ने तिरस्कृत कर दिया । सः गवयः अभवत् वह ( तिरस्कृत गो ) बैल हो गया। ते अविम् आलभन्त ( तब) उन ( देवताओं ) ने भेड़ का आलभन किया । सः आलब्धात् अवेः वह ( हविर्भाग) आलभन की गयी उस (भेड़ ) से उद्क्रामत् निकल कर अन्यत्र चला गया । सः अजं प्राविशत् वह (हविर्भाग ) बकरे में प्रविष्ट हो गया । तस्मात् इसी कारण अजः मेध्यः अभवत् बकरा यज्ञ के योग्य हो गया । अथ उत्क्रान्त मेधम् एनम् तब निकल गये (हविर्भाग ) वाले इस (बकरे ) को अत्यार्जन्त ( देवताओं ने ) तिरस्कृत कर दिया। सः उष्ट्रः अभवत् वह (तिस्कृत बकरा ) ऊँट हो गया ।
सा ० भा ० — अजादयः प्रसिद्धाः । उष्ट्रो दीर्घग्रीवः ॥
अजं पुनरपि प्रशंसति— सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषां पशूनां प्रयुक्ततमो यदजः॥४ ॥
हिन्दी -( अज की पुन: प्रशंसा कर रहे हैं- ) सः वह (हविर्भाग ) अजे बकरे में ज्योक्तमाम् इव अत्यधिक चिरकाल तक आरमत् निवास किया । तस्मात् इसी कारण यद् अजः जो बकरा है एषः यह (बकरा ) एतेषां पशूनाम् इन ( पूर्वोक्त गवादि) पशुओं में प्रयुक्ततमः अत्यधिक प्रयुक्त हुआ । सा ० भा ० — स मेधाख्यो यज्ञयोग्यभागस्मस्मिन्नजे ज्योक्तमामिवातिशयेन चिरकाल-मेवारमत क्रीडितवांस्तस्माच्चिरकालमेव सद्भावाद्योऽयमजोऽस्ति स एष एतेषां पूर्वोक्तांनां पशूनां मध्ये प्रयुक्ततमः शिष्टैरतिशयेन प्रयुक्तः ॥ पञ्चमं पर्यायं दर्शयति— तेऽजमालभन्त, सोऽजादालब्धादुदक्रामत, स इमां प्राविशतु, तस्मा- ऐ,ब्रा.पू-१८
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
: [ २८२ ऐतरेयब्राह्मणम् ६.८ द्वितीयपञ्चिकायां दियं मेध्याऽ भवदथैनमुत्क्रान्तमेधमत्यार्जन्त, स शरभोऽभवत् ॥५ ॥
हिन्दी— ( पञ्चम पर्याय को कह रहे हैं - ) ते अजम् आलभन्त उन ( देवताओं ) ने बकरे का आलभन किया। सः आलब्धाद् अजात् वह (हविर्भाग ) आलभन किये गये . उस (बकरे ) से उदक्रामत निकलकर अन्यत्र चला गया। सः इमां प्राविशत् वह ( हविर्भाग) इस ( पृथिवी) में प्रवेश कर गया । तस्मात् इसी कारण इयं मेध्या अभवत् यह (पृथिवी ) यज्ञ के योग्य हो गयी। अथ उत्क्रान्तमेधम् एनम् तब निकल गये (हविर्भाग ) वाले इस ( बकरे) को अत्यार्जन्त (देवताओं ने) तिरस्कृत कर दिया। सः शरभः अभवत्
वह ( तिरस्कृत बकरा) शरभ (सिंह को हिंसित करने वाला पशुविशेष) हो गया।
सा० भा०-–इमां पृथिवीम् । शरभोऽष्टभिः पादैरुपेतः सिंहघाती मृगविशेषः ॥
अत्र प्रसङ्गात् कचिद्धर्मविशेषं दर्शयति— त एत उत्क्रान्तमेधा अमेध्याः पशवस्तस्मादेतेषां नाश्नीयात् ॥ ६ ॥
हिन्दी— ( अब प्रसङ्गवश किसी धर्म-विशेष को दिखला रहे हैं - ) उत्क्रान्तमेघा ते एते निकल गये (हविर्भाग ) वाले वे ये पशवः (मनुष्य, अश्व, गो, अवि और अज) पशु अमेध्याः यज्ञ के ( हविर्भाग के ) योग्य नहीं हैं। तस्मात् इसी कारण एतेषाम् इनका ( मांस ) न अश्नीयात् नहीं खाना चाहिए । सा० भा ० — मनुष्याश्वगोव्यजेभ्यो मेधस्योत्क्रमणक्रमेण निष्पन्नास्त एते किंपुरुषादयो मेधराहित्याद् यज्ञयोग्याः पशवो नाऽऽसन्। अत एतेषां पशूनां संबन्धि मांसं नाश्नीयात्। अत्र पुरोडाश विधत्ते— ( पुरोडाशविधानम्) तमस्यामन्वगच्छन्, सोऽनुगतो व्रीहिरभवत्, तद्यत्पशौ पुरोळाश- मनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्, केवलेन नः पशुनेष्टम- सदिति ॥७॥
( १ ) आदिकाले वरमेधस्य प्राचुर्यमासीत्– एतेनानुमीयते, ततस्तदनुकल्पोश्वमेधः प्रचलितः । एवं क्रमेण शरभान्तो मेध्यश्चलितः, ततो जीवहिंसने ग्लानिमनुभूय तदनुकल्पत्वं पुरोडा- शस्य मत्त्वैव ‘पिष्ट- पशुः ' प्रारब्धः, योऽनुष्ठितः सम्प्रति च प्राय: षड्विंशत्यब्दतः प्राक् काश्यामसीतीरे पेशवावंशधरेणेति। शतपथेऽप्येवम्- पुरुषो हि प्रथमः पशूनाम्'– इत्यादि ६.२.१.१८। घृतपशुः पिष्टपशुश्च म ० सं ० ५.३७। उक्तं च तथा- ' दधि मधु घृतमापो धाना भवन्त्येतद्वै पशूनां रूपम्-इति तै० सं० २.३.२.८ । ‘पशवो वै। पुरोडाश: ’ – इति च ७.१.९। इहानुपदं वक्ष्यति च 'स वा एष पशुरेवालभ्यते यत् पुरोळाश: ' -इति ( ९ खण्डे ) ।
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् २८३ हिन्दी –( अब पुरोडाश का विधान कर रहे हैं- ) अस्यां इस ( पृथिवी) में (प्रवेश किये ) तम् उस ( हविर्भाग ) को अन्वगच्छन् ( देवताओं ने ) अनुगमन किया । अनुगतः सः ( देतवओं द्वारा) अनुगमन किया जाता हुआ वह (हविर्भाग ) व्रीहिः अभवत् धान हो गया। तद् यत् तो जो पशौ अनु पशु (के आलभन के ) पश्चात् पुरोडाशं निर्वपन्ति पुरोडाश का निर्वाण करते हैं, वह नः हमारे लिए समेधेन पशुना यज्ञ योग्य ( हविर्भाग ) वाले पशु ही से इष्टम् असत् अभीष्ट होता है । इस प्रकार नः हम लोगों को ( अन्य साधन की निरपेक्षा से ) केवलेन पशुना असत् केवल- ( मेधपूर्ण) पशु ही अभीष्टं होना चाहिए । सा० भा ० — तं मेधाख्यं हविर्भागमस्यां पृथिव्यां प्रविष्टं ग्रहीतुं देवा अन्वगच्छन्। स च मेधो देवैरनुगत उत्क्रान्तुमशक्तः सन्सहसा व्रीहिरभवत्। तथा सति यदि पशौ पुरो- डाशमनुनिर्वपन्ति पश्वालम्भानन्तरमेव निर्वपेयुः, तदानीं नोऽस्माकं समेधेन यज्ञयोग्य- हविर्भागयुक्तेन पशुनेष्टसदिष्टं भवति । पुरोडाशनिर्वापर्तॄणां कोऽभिप्राय इति, सोऽभिधीयते । नोऽस्माकं केवलेन साधनान्तरनिरपेक्षेण मेघपूर्णेन पशुनेष्टमस्त्विति तदभिप्रायः॥ वेदनं प्रशंसति— समेधेन हास्य पशुनेष्टं भवति, केवलेन हास्य पशुनेष्टं भवति य एवं वेद ॥८ ॥
हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, अस्य इसका समेधेन पशुना इष्टं भवति मेध (हविर्भाग) से युक्त पशु से ( याग करना ) इष्ट होता है और अस्य इस यजन करने वाले का केवलेन पशुना इष्टं भवति अन्य साधन की निरपेक्षा से) केवल (मेध पूर्ण) पशु ही इष्ट होता है। सा० भा ० – समेधेनेत्यस्यैव वाक्यस्य व्याख्यानं केवलेनेत्यादि। तदेतत् सर्वं श्रुत्यन्तरसंगृहीतम्— ‘ पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमालभते ' ' इति ॥ अत्र मीमांसा—
उपकारी संस्कृतिर्वा पुरोडाशः पशूदितः ।
तद्धितक्या द्वयोर्देवभेदादुपकृतिर्मता ॥
देवान्तरंसंदशान्निश्चितेऽङ्गत्वेचेद्विकृततावग्नीषोमनिवर्तनम्॥२दृष्टोऽर्थः स्मृतिसंस्कृतिः । ज्योतिष्टोमाङ्गभूताग्नीषोमीयपशौ श्रूयते— ' अग्नीषोमीयस्य वपां प्रचर्याग्नीषोमीय- .( १ ) तै ० सं ० ६.३.१०.१ । ( २ ) जै ० न्या ० वि० १०.११.१ ९ -३३।
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
: [ २८४ ऐतरेयब्राह्मणम् ६.८ द्वितीयपञ्चिकायां मेकादशकपालं निर्वपति' ' इति । तत्र पशावुक्तः पुरोडाशः । स किं पशोरारादुपकारकः, उत पशुदेवतासंस्कारः इति संदेहः । तत्राग्नीषोमीयं पशुमालभेतेति पशुविधौ तद्धितो- क्त्याऽग्नीषोमदेवता यथा गुणत्वेन पशौ विधीयते तथा पशुपुरोडाशेऽपि । तथा सति विधिभेदेन विधेयदेवताभेदात् संस्कारो न युक्तः । गुणत्वं च संस्कार्यविरोधीति पूर्वोक्तम्, तस्मात् पशोरारादुपकारकः इति प्राप्ते ब्रूमः । देवताभेदवादिना तावदिदं वक्तव्यम्- पशुः पुरोडाशश्चेत्युभौ किं स्वतन्त्रौ यागौ, किं वाऽङ्गाङ्गिरूपौ। तत्रापि किमङ्ग किं वाऽङ्गीति । तत्र पशुधर्मैरुभयतः संदष्टस्य पुरोडाशस्य स्वतन्त्राङ्गित्वे तयोः पशुप्रकरणपाठबाध्य- त्वादभिमतमुपकारकत्वं न सिध्येत्। अङ्गत्वेऽपि दृष्टसंभवाददृष्टकल्पनमन्याय्यम्। भवति चात्र दृष्टं पुरोडाशवाक्यगतेन पशुदेवतायाः संस्क्रियमाणत्वात् । एवं च सति पशुवाक्ये गुणत्वेन प्रतीयमानायाः अपि देवतायाः पुरोडाशवाक्ये प्राधान्यावगमात्संस्कार्यत्वमविरुद्धम्। तस्मात्पशुदेवतासंस्कारः पुरोडाशः । एवं च सत्यग्नीषोमीयपशुविकृतौ वायव्यपशावग्नी- ोमदेवतायां निवृत्तायां तदीयपशुपुरोडाशेऽपि सा निवर्तत इति बाधः फलिष्यति॥ यद्वा, द्वादशाध्यायस्य प्रथमपदे चिन्तितम्— “पश्चर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया । अस्ति वा विध्यभावान्नो ह्यर्थतस्त्वस्तु लोकवत् ॥ '’४ अग्नीषोमीये पशौ यानि चोदकप्राप्तानि प्रयाजादीन्यङ्गान्यनुष्ठितानि, तैः पशुपुरोडाश उपकारो नास्ति । कुतः, —तदुपकारबोधकस्य विधेरभावात्। चोदकस्तु ‘ दर्शपूर्णमासवत्पशु- रनुष्ठेयः ' इत्येवंरूपत्वात्पशावेव तदुपकारं बोधयति। ननु पशुपुरोडाशस्यापीष्टिविकृति- त्वात्तत्रापि चोदकोऽस्तीति चेत् । बाढम् । अत एव भिन्नचोदकबलात्पुरोडशोपकाराय प्रयाजा- द्यङ्गांनि पृथगनुष्ठेयानीति प्राप्ते, -ब्रूमः । यद्यपि 'पश्वर्थैः पुरोडाशस्योपकारः ' इत्येतादृशं शास्त्रं नास्ति, तथाऽप्ययमुपकारोऽर्थप्राप्तो न निवारयितुं शक्यते । यथा प्रदीपस्य वेदिकार्यम्, निर्मितस्यार्थसिद्धं मांर्गप्रकाशकत्वमनिवार्यम्, तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य
पश्वर्थेरङ्गैरुपकारः केन वार्यंत। तस्मादन्यार्थैरप्यस्तूपकारः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये (षष्ठाध्याये ) अष्टमः खण्डः ॥८ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) तै० सं० ६.३.१ । ( २ ) क्रियारूपाणि च द्विविधानि उपयुज्यते' - इति लौ ० मी ० अर्थ० । ( ३ ) तै० सं ० ६.१.११.६ । ( ४ ) जै ० न्या० वि० १२.१.१-६ ।
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् २८५ अथ नवमः खण्डः सा ० भा ० — विहितं पशुपुरोडाशं प्रशस्य पश्चाद् वपादियाज्या विवक्षुरादौ तं प्रशंसति— ( पुरोडाशयागस्य प्रशंसनम् ) स वा एष पशुरेवाऽऽलभ्यते यत्पुरोळाशः ॥ १ ॥
हिन्दी–(विहित पुरोडाशदि की प्रशंसा करके अब वपादि याज्या को कहने की इच्छा से पहले उसकी प्रशंसा कर रहे हैं - ) यत् पुरोडाशः जो यह पुरोडाश है सः वै एषः वह यह ही पशुः एव आलभते (पशुशरीर की समानता के कारण ) पशु का ही
आलम्भन होता है ।
सा० भा ० — पशुशरीरसादृश्यादयं पुरोडाशोऽनुष्ठितः पश्चालम्भ एव भवति॥
तदेतत्सादृश्यं विशदयति— ( पशुपुरोडाशयोः सादृश्यकथनम् ) तस्य यानि किंशारूणि तानि रोमाणि, ये तुषाः सा त्वग्ये फलीकरणास्तदसृग्यत्पिष्टं किक्नसास्तन्मांसं यत्किञ्चित्कं सारं तदस्थि ॥२॥
हिन्दी – ( पुरोडाश और पश्वालम्भन के सदृशता का विस्तार कर रहे हैं— ) तस्य उस ( धान) के यत् किंशारुणि जो पुवाल हैं तानि रोमाणि वे (पशु के ) रोमरूप है, तुषाः जो (प्रथम कूटने से निकली ) भूसी है सा त्वक् वह (पशु का ) चर्म रूप है, ये फलीकरणाः जो फलीकरण (चावल को साफ करने के लिए कूटने से निकला हुआ शेषांश) है, तद् असृक् वह (पशु का) रक्त रूप है, यत् पिष्टम् किक्नसाः जो (पीसने से बना) आटा और कण है, तद् मांसम् वह पशु का मांस रूप है और यत्किञ्चित् सरम् जो कुछ अवशिष्ट ( धान का) कठोर भाग है तद् अस्थि वह (पशु का) अस्थिरूप है। सा० भा० – तस्य व्रीहिबीजस्य संबन्धीनि यानि किंशारूणि बसपलालादीनि तानि पशुरोमस्थानीयानि ये तुषास्तण्डुलवेष्टनरूपाः प्रथमावघातेन परित्याज्याः सा तुषसमष्टिः पशुत्वक्स्थानीया, ये फलीकरणास्तण्डुलश्चैत्यार्थेनावघातेन हेया अंशास्तत्सर्वमसृक्पशु-रक्तस्थानीयम्। यत्पिष्टं तण्डुलपेषणेन निष्पन्नं पिण्डयोग्यं रूपं ये च किक्नसाः सूक्ष्माः पिष्टावयवास्तत्सर्वं पशुमांसस्थानीयम्। यत्किञ्चित्कं सारं स्वार्थे कप्रत्ययः किञ्चिदन्यद्- व्रीहिसंबन्धिकाठिन्यरूपं सारं तत्पशोरस्थिस्थानीयम्। एवं पशुसाम्यात् पुरोडाशस्य पशुत्वम्॥ एवं सति यत्फलितं तद्दर्शयति- सर्वेषां वा एष पशूनां मेधेन यजते यः पुरोळाशेन यजते ॥ ३ ॥
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
: - [२८६ ऐतरेयब्राह्मणम् ६.९ द्वितीयपञ्चिकायां हिन्दी—यः पुरोडाशेन यजते जो पुरोडाश से यजन करता है एषः वै मानो वह सर्वेषां पशुनां मेथेन यजते सभी पशुओं के (मांसरूप हवि) से यजन करता है । सा ० भा ० — पुरोडाशयाग एव सर्वपशुसंबन्धियज्ञयोग्यहविर्यागः । सर्वपशुसंबन्धश्च ‘ पुरुषं वै देवा’ इत्यादिना प्रपञ्चितः ॥ लौकिकोक्तया प्राशस्त्यं द्रढयति— तस्मादाहुः पुरोळाशसत्रं लोक्यमिति ॥ ४ ॥
हिन्दी—( लौकिकोक्ति द्वारा प्रशंसा को दृढ़ कर रहे हैं - ) तस्माद् आहुः इस (पुरोडाशभाग के सभी यागों का सार) होने के कारण (याज्ञिक लोग) कहते हैं कि पुरोडाशसनम् पुरोडाश का अनुष्ठान लोक्यम् प्रेक्षणीय होता हैं । सा ० भा ० — यस्मात् पुरो॒ळाशयागः सर्वपशुसारभूतस्तस्मात् पुरोडाशानुष्ठानं लोक्यं प्रेक्षणीयमिति याज्ञिका आहुः । अत एव प्रैषमन्त्रे 'पुरोडाशा अलङ्कुरु' इत्येवमाम्नातम्॥१ अथ वपादीनां क्रमेण याज्या विवक्षुरादौ वपायाज्यां विधत्ते— ( वपायाज्याविधानम् ) ' युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धूरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान्' २ इति वपायै यजति ॥५ ॥
.. .हिन्दी - ( अब वपा इत्यादि की क्रमानुसार याज्या कहने के लिए पहले वपा की याज्या का विधान कर रहे हैं - ) 'अग्निः च सोम हे अग्नि और सोम सक्रतू य्वम् समान कर्म वाले तुम दोनों ने एतानि रोचनानि इन दीप्यमान ( नक्षत्रों ) को दिवि अधत्तम् द्युलोक में स्थापित किया है। अग्नीषोमौ हे अग्नि और सोम! युवम् तुम दोनों ने सिन्धून् गृभीतान् अभिशस्तेः अवद्यात् समुद्र के समान प्रौढ़ ( राजा मन्त्री इत्यादि पुरुषों अथवा यजन करने वालों ) को युद्ध में (ब्राह्मणवध इत्यादि) पापों से आक्रान्त लोगों को अमुञ्चतम् मुक्त किया है— इति वपायै यजति (इस मन्त्र का ) वपा के होम के लिए यजन ( याज्या के रूप में अनुवाचन) करता है । सा० भा० - हे सोम त्वं चाग्निश्च युवमेतावुभौ युवामेतानि सर्वैर्दृश्यमानानि रोचनानि प्रकाशरूपाणि नक्षत्रादीनि दिवि द्युलोकेऽधत्तम्। कीदृशौ युवां, सक्रतू समानकर्माणौ, हे अग्नीषोमौ युवां स्वकायत्वेन स्वीकृतान् सिन्धून् समुद्रवत्प्रौढान् राजामात्यादीन् पुरुषान् यजमानादीन् वाऽभिशस्तेः सङग्रामादिषु ब्राह्मणवधादिरूपादपवादादवद्यात्तन्निमित्तं दुरिता- च्चामुञ्चतं( ) मुक्तानकुरुतम्। एतत्पश्वादिकर्मानुष्ठानेन( ) जनापवादो दुरितं च नश्यतीत्यर्थः । १ शत०ब्रा० ४.२.५.११। २ ऋ० १.९ ३.५ ।
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् २८७ वपायै जयतीति वपाहोमार्थमृचं याज्यात्वेन पठेदित्यर्थः॥ पूर्वोत्तरपक्षाभ्यामेतां याज्यां प्रशंसति— सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुर्न दीक्षितस्याश्नीयादिति स यदग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति, सर्वाभ्य एव तद्देवताभ्यो यजमानं प्रमुञ्चति, तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीति ॥६ ॥
हिन्दी– ( पूर्वपक्ष और उत्तरपक्ष द्वारा इस याज्या की प्रशंसा कर रहे हैं— ) यः दीक्षितः भवति जो ( यजन करने वाला यज्ञ के लिए) दीक्षित होता है एष: यह ( दीक्षित हुआ व्यक्ति) सर्वाभिः देवताभिः सभी देवताओं द्वारा आलब्धः भवति ( अपनी हवि देने के लिए) स्वीकार किया गया होता है, तस्माद् आहुः इसी कारण ( कुछ पूर्वपक्षी विद्वान्) कहते हैं कि दीक्षितस्य न अश्नीयात् ( यज्ञ के लिए) दीक्षित पुरुष का भोजन न ही रा चाहिए। किन्तु सः वह ( होता) 'अग्नीषोमावमुञ्चतम्' अर्थात् (हे अग्नि और सोम) पाप से आक्रान्त ( इस यजमान) को मुक्त करो- इति यद् यजति इस (याज्या ) का जो अनुवाचन . करता है, तत् इस ( अनुवाचन) से यजमानम् यजन करने वाले (व्यक्ति) को सर्वाभ्यः देवताभ्यः एव सभी देवताओं से ही प्रमुश्चति प्रकृष्ट रूप से मुक्त करता है। तस्माद् आहुः इसी कारण ( याज्ञिक लोग) कहते हैं कि वपायां हुतायाम् वपा का होम हो जाने पर अशितव्यम् ( यजमान का ) भोजन करना चाहिए; क्योंकि तर्हि तब (वपा का होम हो जाने पर) सः यजमानः भवति ( देवताओं के अवरोध से मुक्त होकर ) वह (दीक्षित व्यक्ति) यजमान हो जाता है। सा० भा० - यः पुमान् यज्ञाथ दीक्षितो भवत्येष सर्वाभिरपि देवताभिः स्वकीय-`हविर्दानार्थमारब्धः स्वीकृतो भवति। तस्मादेतदीयस्य द्रव्यस्य देवताभिरवरुद्धत्वाद्दीक्षितस्य गृहे नाश्नीयादित्येवं पूर्वपक्षिण आहुः । तत्र होता यद्यग्नीषोमावमुञ्चतं गृभीतानित्येतं याज्याया- श्चतुर्थपादं पठेत् तदा तेन पाठेन सर्वाभ्यो देवताभ्यो यजमानं होता मोचयति। तस्मात्कारणाद् वपाहोमे निष्पन्ने सति तद्गृहे भोक्तव्यम्। तर्हि तस्मिन् वपाहोमोत्तरकाले स दीक्षितो यजमानो भवति। पूर्वं तु दीक्षित एव न तु यजमानः । इदानीं यागस्य निष्पन्नत्वादयं यजमानः । तथा सति देवतावरोधान्मुक्तस्य गृहे भोक्तुं शक्यमिति सिद्धान्तिन आहुः ॥ अथ पुरोडाशस्य याज्यां विधत्ते— ( पुरोडाशस्य याज्याविधानम्) ' आऽन्यं दिवो मातरिश्वा जभारेति " पुरोळाशस्य यजति ॥७ ॥
( १ ) ऋ० १.९ ३.६ ।
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
: [२८८ ऐतरेयब्राह्मणम् ६.९ द्वितीयपञ्चिकायां हिन्दी— ( अब पुरोडाश की याज्या को कह रहे हैं - ) ‘ आऽन्यं दिवो मातरिश्वा जभार ' अर्थात् ( अग्नि और सोम में से ) अन्य (सोम राजा ) को मातरिश्वा ( नामक वायुदेव ) ने आहरित कर लिया ’ — इति पुरोडाशस्य यजति इस ( मन्त्र) का ( होता) पुरोडाश के (होम में) याज्या करता है । द्वितीयपादमनूद्य पादद्वयस्य सहैव तात्पर्यं दर्शयति— अमश्नादन्यं परि श्येनो अद्रेरितीत इव च ह्येष इत इव च मेधः समाहृतो भवति ॥८ ॥
'हिन्दी –( उपर्युक्त याज्या मन्त्र के द्वितीय पाद को कहकर प्रथम और द्वितीय पादों का एक साथ तात्पर्य दिखला रहे हैं - ) ' अमथ्नादन्य परि श्येनो अद्रेः ' और श्येन (रूप अध्वर्यु) ने अन्य (अग्नि ) को पर्वत से ( उत्पन्न काष्ठ द्वारा ) मथित किया' इति इतः इव यह इस प्रकार है अर्थात् वह मेध मनुष्य से, अश्व से, गो से, भेड़ से और बकरे से पृथिवी में चला गया था अतः मेघः समाहृतः भवति मेध ( पुरोडाश रूप में भूमि से ) समाहृत होता है । सा ० भा ० — मातरिश्वा वायुरन्यमग्नीषोमयोरन्यतरं सोमाख्यदेवं दिवो द्युलोका- दाजभाराऽऽहृतवान्। " गायत्रीरूपं कृत्वा वायुः सोममानीतवान्, इति प्रथमपादस्यार्थः । श्येनो बलवत्पक्षी, तादृशोऽध्वर्युरन्यमुभयोर्देवयोरन्यतरमग्निमद्रे: पर्वतजन्यात् काष्ठादरणिरूपात् पर्यमथ्नात् परितो मथनं कृतवानिति द्वितीयपादार्थः । एष मेधो यज्ञयोग्यः पुरोडाशोऽपीत इव चेत इव चास्मान् मनुष्यादस्मादश्वाद् गोरवेदजाच्च भूम्याः समाहृतः । एवं सतीतस्तत आनयनसाम्यात् पुरोडाशस्येयमग्नीषोमप्रतिपादिका याज्यां योग्येत्यर्थः ॥ पुरोडाशसंबन्धिस्विष्टकृतो याज्यां विधत्ते— ( पुरोडाशस्यस्विष्टकृतो याज्याविधानम् ) ' स्वदस्व हव्या समिषो दिदीहीति " पुरोळाशस्विष्टकृतो यजति ॥९ ॥
हिन्दी – ( पुरोडाश सम्बन्धी स्विष्टकृत् की याज्या का विधान कर रहे हैं — ) 'स्वदस्व हव्या समिषो दिदीहि' अर्थात् हे स्विष्टकृद् अग्ने! हविष् को स्वादसम्पन्न बनाओ और अन्न को हमारे लिए प्रदान करो— इति पुरोडाशस्विष्टकृतः यजति (होता) इस पुरोडाश के स्विष्टकृत् ( याज्या मन्त्र) का अनुवाचन करता है । सा ० भा० — हे स्विष्टकृदग्ने हव्या हवींषि स्वदस्व स्वादूनि कुर्विषोऽन्नानि संदिदीहि सम्यक् प्रयच्छेत्येतस्य पादस्यार्थः ॥ तामेतां याज्यां प्रशंसति- ( १ ) ऋ० ३.५४.२२ ।