ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 351–360
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 351–360
पृष्ठ 351
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् २८ ९ हरिरेवास्मा एतत्स्वदयतीषमूर्जमात्मन्धत्ते ॥ १० ॥
हिन्दी — (उपर्युक्त याज्या की प्रशंसा कर रहे हैं - ) एतत् इस (याज्या के अनुवाचन ) से अस्मै इस ( यजन कर्ता अथवा कर्म की सिद्धि) के लिए हविः एव स्वदयति हविष् को ही स्वादिष्ट बनाता है तथा इषम् ऊर्जम् ( ओदन इत्यादि ) अन्न और ( दुग्धादि) रस को आत्मन् धत्ते अपने में प्रतिष्ठित करता है। सा० भा ००.- एतेन याज्यापाठेनास्मै कर्मसिद्ध्यर्थं यजमानार्थं वा हविरेव स्वादू-करोति य इषमोदनमूर्जं क्षीरादिरसं चाऽऽत्मन् धत्ते होता स्वात्मानि संपादयति॥ पुरोडाशीस्विष्टकृद्यागादूर्ध्व पशुपुरोडाशसंबन्धीळोपाह्वानं विधत्ते- ( पशुपुरोडाशसम्बन्धीडोपाह्वानम् ) इळामुपह्वयते पशवो वा इळा, पशूनेव तदुपह्वयते पशून् यजमाने दधाति ॥ ११ ॥
हिन्दी – ( पुरोडाश सम्बन्धी स्विष्टकृत याग के बाद पशु पुरोडाश विषयक आह्वान का विधान कर रहे हैं— ) इडाम् उपह्वयते ( तब होता ) इडा का आह्वान करता है। पशवः इड़ा पशु ही इडा रूप हैं । तदु इस ( इडा के आह्वान ) से पशून् एव उपह्वयते पशुओं का ही आह्वान करता है और यजमाने पशून् दधाति यजन करने वाले (पुरुष ) में पशुओं को ही प्रतिष्ठापित करता है । सा० भा०-— इळोपहूता सह दिवेत्यादिना' सूत्रगतेन, उपहूतं रथन्तरं सह पृथिव्ये-त्यादिना' शाखान्तराम्नातेन मन्त्रेण वेळाख्यां देवतामुपह्वयते । गौर्वा अस्यै शरीरमिति श्रुत्यन्तरादिष्टदेवतायाः पशुरूपत्वम् । तत्तेनोपह्वानेन पशूनेवाऽऽह्वयति । यजमाने च पशुन् सम्पादयति ॥ ४ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये (षष्ठाध्याये ) नवमः खण्डः ॥९ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के नवम खण्ड की ''शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ ( ) ( ) १ आश्व०श्री ० १.७.७। २ तै०ब्रा० ३.५.८.१ ।( ३ ) द्र० शत०ब्रा० १.८.१.२४ । ( ४ ) व्याख्यातं चैतदिडाह्वानं तै ० सं ० २.६.७ । शतपथेऽप्येवमेव १.८.१.११ ।
पृष्ठ 352
पाठ पढ़ें पाठ छिपाएँ
: [ २ ९ ० ऐतरेयब्राह्मणम् ६.१० द्वितीयपञ्चिकायां अथ दशमः खण्डः सा० भा ० — अथ हृदयाद्यङ्गरूपस्य प्रधानहविषोऽवदानकाले किचित्सूक्तं विधातुं प्रैषमन्त्रं विधत्ते— ( हृदयाद्यङ्गावदानसूक्तविधौ प्रैषमन्त्रः ) मनोतायै हविषोऽवदीयमानस्यानुबूहीत्याहाध्वर्युः ॥ १ ॥
हिन्दी—( अब हृदयााद्यङ्गरूप प्रधान हविष् के अवदान के समय किसी सूक्त का विधान करने के लिए प्रैष मन्त्र का विधान कर रहे हैं - ) 'हविषः अवदीयमानस्य मनोतायै अनुब्रूहि (हे होता! ) हविष् का अवदान किये जाते हुए मनोता ( नामक देवता) के लिए ( अनुरूप मन्त्र का) अनुवाचन करो- इति अध्वर्युः आह इस प्रकार अध्वर्यु (प्रैष मन्त्र को) कहता है। सा० भा० — देवानां मनांस्योतानि दृढं प्रविष्टानि यस्यां देवतायां सा मनोता । तदर्थं हृदयाद्येकादशाङ्गरूपं हविरवदीयते ॥ तस्य हविषोऽनुकूला ऋचोऽनुब्रूहीत्यध्वर्युः प्रैषमन्त्रं पठन् सूक्त' विधत्ते— ( हविषोऽनुरूपं सूक्तनिर्देशनम्) ' त्वं ह्यग्ने प्रथमो मनोतेति' सूक्तमन्वाह ॥ २ ॥
हिन्दी - (उस हविष् के अनुरूप ऋचाओं के अनुवाचन के लिए सूक्त का विधान कर रहे हैं— ) ‘ त्वं ह्यग्ने प्रथमो मनोता. ( हे अग्नि! ) तु प्रथम मनोता (विचारों को बुलाने वाले ) हो ' – इति सूक्तम् अन्वाह इस सूक्त का ( मैत्रावरुणं) अनुवाचन करता है ।. सा ० भा० — त्वं ह्यग्न इत्यादिकं त्रयोदशर्चं सूक्तं तन्मैत्रावरुणो ब्रूयात्। तदाह बौधायनः —‘ यदा जानाति मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति तदा मैत्रावरुणो मनोतामन्वाह ‘त्वं ह्यग्ने प्रथमः ' इति॥ अत्र वैयधिकरण्यलक्षणं चोद्यमवतारयति– तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयोरेव मनीतायै हवि- षोऽवदीयमानस्यान्वाहेति ॥ ३ ॥
हिन्दी –( इस सूक्त के अनुवाचन के विषय में शङ्का की अवतारणा कर रहे हैं- ) तदाहुः यत् इस विषय में (कुछ ब्रह्मवादी ) कहते हैं कि अन्यदेवत्यः उत् पशुः भवति जब पशु अन्य देवता से सम्बन्धित होता है तो कस्मात् किस कारण से हविषः ( १ ) मनोतासूक्तमिदम्। तदाहाश्वलायन: 1- ' मनोतायै' इत्यादि ३.६.१ । तै ०ब्रा० ३.६.१० ( ) एतदेव सूक्तम्। २ ऋ० ६.१.१-१३ ।
पृष्ठ 353
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम् २ ९ १ अवदीयमानस्य मनोतायै हविष का अवदान किये जाते हुए मनोता के लिए आग्नेयीः अग्नि देवता वाली (ऋचाओं ) का अन्वाह अनुवाचन करता है । सा ० भा ० – अत्र हरिवग्नीषोमदेवत्यं सूक्तगता ऋच: केवलाग्निदेवताकाः । तत्र यस्मात्कारणात् पशुरन्यदेवत्य उत देवतान्तरयुक्त खलु भवति तस्मात्कारणाद्वैयधिकरण्य- मिदं तच्चायुक्तमिति ब्रह्मवादिनश्चोद्यमाहुः ॥ तस्य समाधानं दर्शयति- तिस्रो वै देवानां मनोतास्तासु हि तेषां मनांस्योतानि, वाग्वै देवानां मनोता तस्यां हि तेषां मनांस्योतानि, गौर्वै देवानां मनोता तस्यां हि तेषां मनांस्योतान्यग्निर्वै देवानां मनोता तस्मिन् हि तेषां मनांस्योतान्यग्निः सर्वा मनोता अग्नौ मनोताः संगच्छन्ते, तस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाह ॥४ ॥
हिन्दी - (उसका समाधान दे रहे हैं-- ) देवानाम् तिस्रः मनोताः देवताओं में (वाक्, गौ और अग्नि ये ) तीन मनोता देवता हैं; क्योंकि तासु उन ( तीन मनोता देवतओं) में तेषाम् उन ( देवताओं ) के मनांसि ओतानि मन ओतप्रोत हैं । वाग् वै देवानां मनोता वाणी ही देवताओं का मनोता देवता हैं, क्योंकि तस्यां हि तेषां मनांसि ओतानि उस (वाणी ) में ही उन ( देवताओं ) के मन ओत- प्रोत हैं, गौः वै देवानां मनोता गाय ही देवताओं का मनोता है; क्योंकि तस्यां हि तेषां मनांसि ओतानि उसमें ही देवताओं का मन ओत-प्रोत है और अग्निः वै देवानां मनोता अग्नि ही देवताओं का मनोता है; क्योंकि तस्मिन् हि तेषां मनांसि ओतानि उस ( अग्नि) में ही उन ( देवताओं) के मन ओत-प्रोत है। अग्नौ मनोताः सङ्गच्छन्ते अग्नि में सभी मनोता सङ्गत रहते हैं। तस्मात् इसी कारण हविषः अवदीयमानस्य मनोतायै हविष् का अवदान किये जाते हुए मनोता के लिए आग्नेयीः एव अन्वाह अग्नि देवता वाली (ऋचाओं) का अन्वाह अनुवाचन करता है । सा ० भा ० – वाग्गौरग्निरित्येतासु देवतासु देवमनः समासक्तत्वात्तिस्रोऽपि देवता . मनोतेत्युच्यन्ते। ताश्च तिस्रः सर्वा मनोता अग्निस्वरूपा एवाग्नौ तासां संगतत्वात्। संगतिश्च
तदीयहविषोऽग्न्याधारकत्वात्। तस्मादग्नेर्मुख्यत्वादग्निदेवताका ऋचोऽनुब्रूयात्॥
अथ हृदयाद्यङ्गरूपस्य प्रधानहविषो याज्यां विधत्ते- ( हृदयाद्यङ्गस्य प्रधानहविषो याज्याविधानम् ) ' अग्नीषोमा हविषः प्रस्थितस्येति'' हविषो यजति ॥५ ॥
हिन्दी –( अब हृदयाद्यङ्गरूप प्रधान हविष् की याज्या का विधान कर रहे हैं— ) ( १ ) ऋ० १.१३.७।
पृष्ठ 354
पाठ पढ़ें पाठ छिपाएँ
: [ २ ९ २ ऐतरेयब्राह्मणम् ६.१० द्वितीयपञ्चिकायां ‘ अग्नीषोमा हविष: प्रस्थितस्य' अर्थात् हे अग्नि और सोम! उपस्थित हवि को ग्रहण करो’— इति हविषः यजति इस (हृदयाद्यङ्गरूप प्रधान ) हविष् की ( याज्या का ) अनुवाचन
करता है।
सा० भा ० — अग्नीषोमेत्यादिकां याज्यां पठेदित्यर्थः ॥
अस्या याज्याया हविरानुकूल्यं दर्शयति- हविष इति रूपसमृद्धा प्रस्थितस्येति रूपसमृद्धा ॥६ ॥
हिन्दी— ( इस याज्या की हविष से अनुरूपता को दिखला रहे हैं— ) ( यह हृदयादि हविष् वेदि पर उपस्थित है ) यहाँ हविषः इति रूपसमृद्धा हविषः ' यह पद होने से ( याज्या ) रूप से समृद्ध है और प्रस्थितस्य इति प्रस्थितस्य इस शब्द से भी ( याज्या ) रूप से समृद्ध है । सा० भा० – इदं हृदयादिक हविः प्रस्थितं वेद्यामासादितं याज्यायां हविषः प्रस्थि- तस्येति पदद्वयं श्रुतं तस्मादियमनुकूला ॥ वेदनं प्रशंसति— सर्वाभिर्हास्य समृद्धिभिः समृद्धं हव्यं देवानप्येति य एवं वेद ॥ ७ ॥
हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को ) जानता है अस्य इस ( यजन करने वाले ) की सर्वाभिः समृद्धिभिः सभी समृद्धियों से समृद्धं हव्यम् समृद्ध हविष् देवान् अप्येति देवताओं तक जाती है । सा० भा० —· हविषो यथाशास्त्रमवदानपाकविशेषः परस्परं हृदयादीनामसंकीर्णत्व- मित्यादयो याः समृद्धयोऽपेक्षितास्ताभिः संपूर्ण भूत्वा तद्धविर्देवान् प्राप्नोति ॥ अथा वनस्पतियागं विधत्ते— ( वनस्पतियागविधानम्) वनस्पतिं यजति, प्राणो वै वनस्पतिः ॥८ ॥
हिन्दी – ( अब वनस्पतियाग का विधान कर रहे हैं - ) वनस्पतिं यजति वनस्पति ( देवता ) का यजन करता है क्योंकि प्राणः वै वनस्पतिः वनस्पति (जीवन होने के कारण ) प्राण है। सा० भा० – वनस्पतिर्वृक्षस्तथाविधशरीरयुक्तां देवतां यजेत्। तत्प्रकार आपस्त-म्बेन दर्शितः — ‘जुह्वामुपस्तीर्य सकृत्पृषदाज्यस्योपहृत्य द्विरभिघार्य वनस्पतयेऽनुब्रूहि वन- स्पतये प्रेष्येति संप्रैषौ वषट्कृते जुहोति' ' इति। अत्र वनस्पतेर्वृक्षशरीस्य जीवाविष्टत्वात् ( १ ) आप० श्रौ० ७.२५.१५।
पृष्ठ 355
पाठ पढ़ें पाठ छिपाएँ
] २ ९ ३ प्रथमोऽध्यायः दशमः खण्डः सायणाचार्यकृतभाष्योपेतम्: प्राणरूपत्वम् ॥१ यष्टुर्वेदनं प्रशंसति— जीवं हास्य हव्यं देवानप्येति यत्रैव विद्वान् वनस्पतिं यजति ॥९ ॥
हिन्दी- ( यजन करने वाले के इस ज्ञान की प्रशंसा कर रहे हैं - ) यत्र एवं विद्वान् जिस ( याग ) में इस प्रकार जानने वाला वनस्पतिं यजति वनस्पति ( देवता) का यजन करता हैं, अस्य इस ( यजन करने वाले ) का जीवं हव्यम् प्राणयुक्त हविष् देवान् अप्येति देवताओं तक पहुँचती है । सा ० भा ०| -– विदुषो यष्टुर्हविरेवं प्राणोपेतं चेतनं भूत्वा तद्धविर्देवानाप्नोति॥ अथ स्विष्टकृद्यागं विधत्ते- ( स्विष्टकृद्यागविधानम्) स्विष्टकृतं यजति, प्रतिष्ठा वै स्विष्टकृत्, प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति ॥ १० ॥
हिन्दी – (अब स्विष्टकृत् याग का विधान कर रहे हैं- ) स्विष्टकृतं यजति स्विष्टकृत याग का यजन करता है; क्योंकि स्विष्टकृत् वै प्रतिष्ठा स्विष्टकृत् प्रतिष्ठारूप है। तत् इस ( यजन ) से यज्ञम् यज्ञ को अन्ततः अन्त में प्रतिष्ठायामेव प्रतिष्ठापयति प्रतिष्ठा में ही प्रतिष्ठापित करता है । सा० भा०-—-वैकल्यपरिहारेण स्विष्टकृत्त्वापादनात् स्विष्टकृतः प्रतिष्ठात्वम् । तद्या- गानुष्ठानेनेमं यज्ञमन्ततः समाप्त्यवतरे प्रतिष्ठायां स्थापयति॥ इळोपह्वानं विधत्ते— इळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून् यजमाने दधाति, दधाति ॥ ११ ॥
हिन्दी– ( अब इडा के आह्वान का विधान कर रहे हैं - ) इडाम् उपह्वयते (होता) इडा को आहूत करता है क्योंकि पशवः वै इडा पशु ही इडारूप हैं। तत् इस ( आह्वान) पशून् एव उपह्वयते पशुओं का ही आह्वान करता है और यजमाने पशून् दधाति और यजमान में पशुओं को प्रतिष्ठापित करता है । सा० भा ० – पूर्ववद् व्याख्येयम् । पुरोडाशेडा पूर्वखण्डेऽभिहितेह तु पश्विडेति विशेषः । ( १ ) यास्कस्याभिमतविरुद्धं व्याख्यानम्। तेन युक्तम्- यज्ञसंयोगाद् राजा स्तुतिं लभेत । राज- संयोगाद् युद्धोपकरणानि । तेषां रथः प्रथमगामी भवति इति। आत्मैवैषां रथो भवत्यात्माश्व आत्मायुधमात्मेषवः — इत्यादि च निरु० ९.११, ७.४ ।
पृष्ठ 356
पाठ पढ़ें पाठ छिपाएँ
: [२ ९४ ऐतरेयब्राह्मणम् ६.१० द्वितीयपञ्चिकायांअत्र सर्वत्र यद्यच्चोदकतः प्राप्तं तस्य सर्वस्य विधिमनूद्य प्रशंसा कृतेति द्रष्टव्यम्। दधातीतिपदाभ्यासोऽध्याय समाप्त्यर्थः॥ अथ मीमांसा— दशमाध्यायस्य चतुर्थपादे चिन्तिम्—
मनोतामन्त्र ऊहोऽस्ति वायव्ये नास्ति वाऽस्त्यसौ।
आग्नेय्येवेति वचनं प्रकृतौ सार्थकं यतः ॥।
अग्नीषोमावग्निनैव लक्ष्येतां वचनं विना।
अनर्थका तत्र वाक्याद् विकृतावूहवारणम्॥१
‘ त्वं ह्यग्ने प्रथमो मनोता' ' इत्ययं मनोतामन्त्रोऽग्नीषोमीयपशौपठितः । वायव्य-पशावप्ययं चोदकप्राप्तः । तत्र-'त्वं हि वायो प्रथमः ' इत्येवमूहोऽस्ति । यत्तु वचनं— यद्यप्यन्नदेवत्यः पशुरग्नेय्येव मनोता कार्येति। तत्प्रकृतौ पठितं तत्रैव वचनं सार्थकम्। द्विदेवत्यपशावेकवचनमन्त्रस्य प्रकरणपठितस्याप्ययोग्यत्वशङ्कया पुनर्विधानार्थत्वात् ॥४ मैवम् ‘ छत्रिणो गच्छन्ति' इत्यादिवन्मन्त्रगतस्याग्निशब्दस्याग्नीषोमलक्षकत्वेना- योग्यत्वशङ्काया अनुदयात्। अतः प्रकृतावनर्थकं तद्वाक्यं विकृतावूहनिवारणेन चरितार्थं भवति। तस्माद्-ऊहो नास्ति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः प्रथमाध्याये (षष्ठाध्याये ) दशमः खण्डः ॥ ॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय के दशम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥
॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' -नामभाष्ये ' ऐतरेयब्राह्मणस्य द्वितीयपञ्चिकायाः प्रथमोध्यायः ॥ १ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के षष्ठ अध्याय की 'शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) जै० न्या० १०.४.२२.४२। ( २ ) ऋ० ६.१.१ ( ३ ) तै ०ब्रा ० ३.६.१० । ( ४ ) अत एवाहाश्वलायन: - तत्र प्रैषै करत एवाग्नीषोमावेवमित्यैतरेयिणः । अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च । तथा दृष्टत्वात्। प्रकृत्या गाणगारिः । उत्पन्नानां स्मृत आम्नायेऽनर्थभेदे निरथों विकारः - इति श्रौ० ३.६.३ - ७ सूत्र ।
पृष्ठ 357
पाठ पढ़ें पाठ छिपाएँ
अथ द्वितीयपञ्चिकायाम् द्वितीयोऽध्यायः [ अथ सप्तमोऽध्यायः ] प्रथमः खण्डः सायणभाष्यम्– यूपोऽथ यूपाञ्जनमाप्रियश्च पर्यग्न्युपप्रैषमथाध्रिगुश्च । पशौ पुरोडाशविधिर्मनोता वनस्पतिस्विष्टकृदिडास्तुतिश्च वक्तव्यौ तत्र पर्यग्निकरणस्तुत्यर्थामाख्यायिकामाह– अथ सप्तमाध्याये पशुप्रैषप्रातरनुवाकौ ॥१ ॥
( पर्यग्निकरणस्तोतुमाख्यायिका ) देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्, यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपं प्रति पुरस्तादुपायंस्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरं पर्यास्यन्त यज्ञस्य चाऽऽत्मनश्च गुप्त्यै, ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठस्ता असुरा अनपधृष्यैवापाद्रवंस्तेऽग्निनैव पुरस्ताद् असुररक्षांस्यपाघ्न- ताग्निना पश्चात् ॥ १ ॥
हिन्दी – ( सप्तम अध्याय में पशुप्रैष और प्रातरनुवाक का कथन करना है । उनमें पर्यग्निकरण की स्तुति के लिए आख्यायिका को कह रहे हैं — ) देवाः वै यज्ञम् अतन्वत ( पहले कभी ) देवताओं ने यज्ञ का विस्तार किया। तन्वानान् तान् ( यज्ञ का ) विस्तार करने वाले उन ( देवताओं ) की ओर असुराः अभ्यायन् असुर लोग आ गये । एषां यज्ञवेशसम् करिष्यामः इन ( देवताओं) के यज्ञ में हम लोग बाधा उपस्थित करेगें- इति इस प्रकार कहते हुए पशौ आप्रीते पशु के (प्रयाजों द्वारा ) तर्पित होने पर और पर्यग्नेः पुरः इव पर्यग्निकरण से पहले पुरस्तात् पूर्व दिशा की ओर से यूपं प्रति यूप के प्रति तान् उपायन् उन ( देवताओं ) के समीप आगमन किये। ते देवाः प्रतिबुध्य उन देवताओं ने (उन राक्षसों के आगमन को ) जान कर यज्ञस्य च आत्मनः च गुप्त्यै यज्ञ की और अपनी सुरक्षा के लिए अग्निमयीः पुरःस्त्रिपुरं पर्यासन्त (पशु के चारो ओर) अग्निमय तीन प्राकारों को बना दिया। एषाम् इन ( देवताओं) के ताः इमाः अग्निमय्यः पुरः उस इस अग्निमय प्राकार दीप्यमानाः भ्राजमानाः जलते हुए और प्रकाशित होते हुए अतिष्ठन् (पशु के चारो ओर) स्थित हो गये। ताः असुराः वे असुर अनपघृष्य एव (उस अग्निमय प्राकारों
पृष्ठ 358
पाठ पढ़ें पाठ छिपाएँ
[ ७.१ द्वितीयपञ्चिकायां २ ९ ६: ऐतरेयब्राह्मणम् का) उलङ्घन करके अपाद्रवन् भाग गये । ते उन ( देवताओं ) ने अग्निना एव (प्राकाररूप) अग्निं के द्वारा ही पुरस्तात् पूर्व दिशा की ओर से और अग्निना (प्राकार रूप) अग्नि द्वारा पश्चात् पश्चिमदिशा से असुररक्षांसि असुर राक्षसों को अपाघ्नत मार डाला । सा० भा ० — पुरा कदाचिद्देवा यज्ञमतन्वत विस्तारितवन्तः। यद्यपि पूर्वमीमांसा- कर्तुभिर्नवमाध्याये देवानामशरीरत्वात् कर्माधिकारो नास्तीत्युक्तं' तथाऽपि प्रशंसार्थत्वेन स्वार्थतात्पर्याभावाद् अविरोधः । यद्वोत्तरमीमांसाकर्तृभिः शरीरमङ्गीकृत्य विद्याधिकारोप- पादनाद् इतरेषां' शरीरराहित्यमृत्विगादिवत् कर्मकाले प्रत्यक्षशरीरं नास्तीति तदभिप्रायम्। कर्माधिकारनिराकरणस्य कर्मसाध्यस्य स्वर्गस्य प्राप्तत्वात् तत्प्रयोजनाभावाभिप्रायम्। जगदनु- ग्रहार्थं तु तेषां शरीरिणमस्त्येवाधिकार इत्यभिप्रेत्य यज्ञमतन्वतेत्यत्रोच्यते। तान् देवान् यज्ञविस्तारिणोऽभिलक्ष्यासुरा आगच्छन्। केनाभिप्रायेणेति, तदुच्यते — एषां देवानां यज्ञ- वेशसं यज्ञविधातं करिष्याम इति तदभिप्रायः । कदा कुत्र समागता, इति तदुच्यते— पशावाप्रीते प्रयाजैरतर्पिते सति पर्यग्नेः पुर इव पर्यग्निकरणात् पूर्वस्मिन् काले यूपं प्रति पुरस्तान् पूर्वदेशे तान् देवानसुरा उपागच्छन्। ते देवास्तदागमनं निश्चित्याग्निमयोः पुरोऽ- ग्निप्राकारास्त्रिपुरं वेष्टत्रयं यथा भवति तथा पर्यास्यन्त पशोः पुरतः प्रक्षिप्तवन्तः । तच्च प्रक्षेपणं यज्ञस्य देवानां स्वरूपस्य च रक्षणाय भवति। एषां देवानां संबन्धिन्यस्ताः पुरः पशो: परितो ज्वलन्त्योऽन्धकारं निवर्त्य तं देशं प्रकाशयन्त्योऽतिष्ठन्। ता अग्निमयीः पुरोऽनप- धृष्यैव तिरस्कारमकृत्वैवापाद्रवन्नपगताः । तत्र देवास्तेन च प्राकाररूपेणाग्निना पूर्वस्यां दिश्यसुरान्.रक्षांसि च हतवन्तः पश्चादप्यग्निनैव हतवन्तः ॥ अथ पर्यग्निकरणं विधत्ते— ( पर्यग्निकरणविंधानम्) तथैवैतद्यजमाना यत्पर्यग्निं कुर्वन्त्यग्निमयीरेव तत्पुरस्त्रिपुरं पर्यस्यन्ते यज्ञस्य चाऽऽत्मनश्च गुप्त्यै, तस्मात् पर्यग्निं कुर्वन्ति, तस्मात् पर्यग्न- येऽन्वाह ॥ २ ॥
हिन्दी—( अब पर्यग्निकरण का विधान कर रहे हैं - ) तथा एव उसी प्रकार ही ( १ ) जै० न्या० वि० ९.१.४.६ - १०; अधि० १५.४२-४४; अधि० १३, ६.७.३२ । ( २ ) तथाप्याह शबरस्वामी — ' असद्वृत्तान्तान्वाख्यानं वेदस्य प्रसज्येत' –इति जै० सू० १.२.१० ( ) भाष्ये। ३ जै ० न्या ० वि० १.३.९.२६-३३। ( ४ ) ‘ इतरेषाम्’ नैरुक्तानाम् । तथाहि—'अपि वा कर्मपृथक्त्वाद् यथा होताध्वर्युर्ब्रह्मोद्गातेत्य- प्येकस्य सतः ’ – इति निरुं ० ७.२.१ । तत्रैव तत उत्तरम्- ‘ अथाकारचिन्तनं देवता- नाम्’ · –इत्युपक्रम्य ‘ अपुरुषविधाः स्युः’— इत्यादिना (७.७.२-३ ) यास्केन इन्द्रादीनां विग्रहाद्यभाव एव सिद्धान्तितः ।
पृष्ठ 359
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् २ ९ ७ एतद्यजमानाः ये यजन करने वाले लोग यत्पर्यग्निं कुर्वन्ति जो पर्यग्नि करते हैं, तत् इस ( पर्यग्निकरण) से यज्ञस्य च आत्मनः च गुप्त्यै यज्ञ की और अपनी सुरक्षा के लिए अग्निमयीः एव पुरः अग्निमय प्राकार को त्रिपुरं पर्यस्यन्ते तीन बार पर्यग्नि करते हैं। तस्मात् इसी कारण पर्यग्निं कुर्वन्ति पर्यग्नि करते हैं। तस्मात् इसी लिए पर्यग्नये अन्वाह पर्यग्नि के लिए अनुवाचन करते हैं। सा० भा०---यथा देवैरग्निप्राकाराः कृतास्तथैवैतद्यतमानानां पर्यग्निकरणम् । अतो यद्येतत्कुर्युस्तदानीमग्निप्राकारवेष्टनं पशोः परितः प्रक्षिपन्ति। तच्च यज्ञस्य चाऽऽत्मनश्च रक्षणाय भवति। तस्मादवश्यं पर्यग्निकरणमपेक्षितं तदर्थमनुवचनं चापेक्षितम्। तत्र पर्यग्नि-करणम् आपस्तम्बो विस्पष्टयति- ' आहवनीयादुल्मुकमादायाऽऽग्नीघ्रः परि वाजपति कवि: ’ र इति त्रिः प्रदक्षिणं पर्यग्निं करोति पशुम्' इति। अनुवचनं पूर्वमेवाग्निर्होता नः ' इत्यादिना दर्शितम्॥ ` पर्यग्निकरणादूर्ध्वं पशोः शामित्रदेशं प्रत्यानयनं विधत्ते— ( पशो: शामित्रदेशं प्रत्यायनम्) तं वा एतं पशुमानीतं सन्तं पर्यग्निकृतमुदञ्चं नयन्ति ॥३ ॥
हिन्दी — ( पर्यग्निकरण के बाद पशु को शामित्र स्थान में लाने का विधान कर रहे हैं — ) आनीतं सन्तम् ( प्रयाजों से ) सन्तुष्ट हुए और पर्याग्निकृतम् पर्यग्नि किये गये तं
वै एतं पशुम् उस इस पशु को उदञ्चं नयन्ति उत्तर की ओर मुख करके ले जाते हैं।
सा ० भा० — प्रयाजैस्तोषितं पर्यग्निकरणेन रक्षितां पशुमुदङ्मुखं कृत्वा नयेयुः ॥
नीयमानस्य पशोः पुरतो नेतव्यं विधत्ते-. ( नीयमानस्य पशोः पुरतः उल्मुकानयनम्). तस्योल्मुकं पुरस्ताद्धरन्ति ॥४ ॥
हिन्दी - (ले जाते हुए पशु के आगे - आगे जलती हुई उल्का को ले जाने का विधान कर रहे हैं— ) तस्य पुरस्तात् उस (ले जाये जाते हुए पशु) के आगे- आगे उल्मुकं नयन्ति उल्मुक (जलती लकड़ी ) को ले जाते हैं । सा० भा० — तदेतदुभयम् आपस्तम्बेन स्पष्टीकृतम्—'आहवनीयादुल्मुकमादा-याऽऽग्नीध्रः पूर्वः प्रतिपद्यते शमिता पशुं नयति उरोरन्तरिक्षेत्यन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति इति ॥ ( ) ( ) १ ऋ० ४.१५.३ । २ आप० श्री० ७.१५.२ ।( ) ( ) ३ ऋ० ४.१४.१ । ४ आप० श्रौ० ७.१५.८-१० । ऐ.ब्रा. पू-१ ९
पृष्ठ 360
पाठ पढ़ें पाठ छिपाएँ
: [ २९ ८ ऐतरेयब्राह्मणम् ७.१ द्वितीयपञ्चिकायां पशो: पुरतो वह्निनयनं प्रशंसति- ( वह्निनयनप्रशंसनम् ) यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोत्योतिः स्वर्ग लोकमेष्यतीति तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति ॥५ ॥
हिन्दी—( पशु के आगे - आगे ले जायी जाती हुई अग्नि की प्रशंसा कर रहे हैं- ) यत् पशुः जो यह ( ले जाया जाता हुआ ) पशु है, एषः निदानेन यजमानः वै वह सूक्ष्म दृष्टि से निरूपित होने के कारण यजमान ही होता है। अनेन ज्योतिषा इस (पशु आगे ले जाये जाने वाली ) ज्योति से यजमानः पुरोज्योतिः यजमान पुरोवर्ती ज्योति से युक्त हुआ स्वर्गं लोकम् एष्यति स्वर्गलोक को प्राप्त करेगा। इस प्रकार तेन ज्योतिषा उस ज्योति द्वारा यजमानः (प्रकाशित ) यजमान पुरोज्योतिः पुरोज्योति से युक्त होकर स्वर्गं लोकम् एति स्वर्गलोक को जाता है । सा० भा० - य: पशुरस्त्येष निदानेन सूक्ष्मदृष्टिनिरूपणेन यजमान एव भवति । पशुना स्वात्मनो निष्क्रीतत्वात् पशोर्यजमानत्वम् । पशोः पुरतो नीयमानज्योतिषा यजमानः पुरोवर्तिदीपयुक्तो भूत्वा स्वर्गं लोकं प्रयास्यति यथा राजामात्यादिः पर्यटने रात्रौ पुरोवर्ति- दीपयुक्तो गच्छति तद्वदित्यभिप्रेत्योल्मुकं पुरस्तान्नयन्ति । तदभिप्रायानुसारेणैव यजमानोऽपि तथा स्वर्गं लोकं प्राप्नोति। तदेतदग्नेः पुरतो नयनं शाखान्तरेऽप्याम्नातम्—'यर्हि पशुमाना- प्रीतमुदञ्च पशुं नयन्ति तर्हि तस्य पशुश्रपणमाहरेत्तेनैवैनं भागिनं करोति ' ' इति॥ शामित्रदेशं नीतस्य पशोर्हननस्थले बर्हिष्प्रक्षेपं विधत्ते- ( हननस्थले बर्हिष्प्रक्षेपणम्) तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति ॥ ६ ॥
हिन्दी– ( शामित्र- स्थल पर लाये गये पशु के हननस्थल पर कुश के प्रक्षेप का विधान कर रहे हैं— ) यत्र जहाँ तम् उस (पशु ) को निहनिष्यन्तः भवन्ति मारा जाएगा तद् उसको अध्वर्युः अध्वर्यु अधस्ताद् बर्हि उपास्यति नीचे ( भूमि पर ) कुश को प्रक्षिप्त करता है। सा ० भा ० — तं पशुं यस्मिन् देशे हनिष्याम इत्येवं मन्यन्ते तस्मिन् देशेऽध्वर्युर्भूमौ बर्हिः प्रक्षिपेत्। तदेनच्छाखान्तरे समन्त्रकमाम्नातम्— ' पृथिव्याः संपृचः पाहीति बर्हि-रूपास्यत्यस्कन्दायास्यकन्नं हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति' इति। ( १ ) तै० सं ० ३.१.३.२ । ( २ ) तै० सं० ६.३.८.२ । ' पृथिव्याः' इति मन्त्रस्तु तै ० सं ० १.३.८.२ ।