ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 371–380
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 371–380
पृष्ठ 371
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३० ९ सा याज्या ॥ २॥
हिन्दी— ( उपर्युक्त प्रश्न का उत्तर कह रहे हैं - ) याः एव एताः अन्वाह ( यह मैत्रा- वरुण ( जुषस्व सप्रथ इत्यादि ऋचाओं) का जो अनुवाचन करता है एताः पुरोनुवाक्याः ये (ऋचाएँ) ( स्वाहाकृतियों की) पुरोनुवाक्या होती है, यः प्रैषः जो प्रैष कहा गया है सः प्रैषः वही ( स्वाहाकृतियों का) प्रैष है और या याज्या जो याज्या कही गयी है, सा आज्या वही आज्या है । सा० भा० — वपासंबन्धिस्तोकार्थं प्रेषितो मैत्रावरुणो जुषस्वेत्यादयो या एवैता अन्वाह, एता एव' स्वाहाकृतीनां पुरोनुवाक्या भवन्ति। न त्वन्याः सन्ति। अनेन वपाप्रशंसा सूचिता । प्रैषसूक्ते होता यक्षदग्नि स्वाहाऽऽज्यस्येति प्रयाजान्तिमो यः प्रैष आम्नातः स एष प्रैषः । आप्रीसूक्ते येयमुत्तमा याज्यारूपेणाऽऽम्नाता सैव स्वाहाकृतिदेवतानां याज्या । तदेतत् सर्वमज्ञानप्रश्नस्योत्तरम्॥ पुनरपि तथाविधं प्रश्नान्तरमुत्थापयति— तदाहुः का देवताः स्वाहाकृतय इति ॥ ३ ॥
हिन्दी— (पुन: तद्विषयक प्रश्न उपस्थापित करते हैं— ) तदाहुः इस विषय में (कुछ ब्रह्मवादी ) प्रश्न करते हैं कि का देवताः स्वाहाकृतयः स्वाहाकृतियाँ किस देवता से सम्बन्धित होती हैं? सा० भा०--अग्निवाय्वादिवत् स्वाहाकृत्याख्या अपि प्रसिद्धाः काश्चिन सन्ति तस्मादेताः का इत्यज्ञात्वा प्रश्नः । तस्योत्तरं दर्शयति- विश्वे देवा इति ब्रूयात् ॥४ ॥
हिन्दी—( उपर्युक्त प्रश्न के उत्तर को दिखला रहे हैं— ) विश्वेदेवाः विश्वे देव (इसके देवता है)– इति ब्रूयात् यह कहना चाहिए । सा० भा०-० – प्रसिद्धा ये देवाः सन्ति ते सर्वे स्वाहाकृत्याख्या इत्यभिज्ञात उत्तरं ब्रयात्॥ तदेतदुपपादयति- तस्मात् ' स्वाहाकृतं हविरदन्तु देवाः ' इति यजन्तीति ॥५ ॥
हिन्दी- तस्मात् इसी कारण 'स्वाहाकृतं हविरदन्तु देवाः`स्वाहाकार से संस्कृत ( १ ) पूर्वस्मिन् खण्डे निहिताः षट् स्तोकानुवचनीया एवेत्यर्थः । (२ ) तै० ब्रा० ३.६.३.११ । ( ३ ) तै ० ब्रा० ३.६.४.१२ ।
पृष्ठ 372
पाठ पढ़ें पाठ छिपाएँ
: [ ३१० ऐतरेयब्राह्मणम् ७.३ द्वितीयपञ्चिकायां हवि का सभी देवता भक्षण करें - इति इस पाद से यजन्ति ( अन्तिम प्रयाज का ) यजन करते हैं। सा ० भा ० — अस्या अन्तिमप्रयाजयाज्यायाश्चतुर्थपाद एवमाम्नातः ‘स्वाहाकृतं हविरदन्तु देवाः ” इति । तस्य पादस्यायमर्थः- स्वाहाकारेण संस्कृतं हविः सर्वे देवा भक्षयन्त्विति। एवं सति स्वाहाकृतिनामकाः सर्वे देवास्तस्मात् स्वाहाकृतमित्यादिपाद- सहितेन मन्त्रेणान्तिमं प्रयाजं यजति । मन्त्रलिङ्गमेवं स्वाहाकृतिशब्देन सर्वदेवताभिधाने प्रमाणमित्यर्थः । पशोः पर्यग्निकरणात् पूर्वं प्रयाजकाले दशैव प्रयाजा इष्टा अन्तिम- प्रयाजस्त्ववस्थापितः । तदुक्तम् आपस्तम्बेन– ' दशेष्वैकादशायाऽऽज्यमवशिनष्टि' ' इति। सोऽयमवशिष्टोऽन्तिमप्रयाजो ' जुषस्व सप्रथस्तमम्' ' इत्यादिः स्तोकानुवचनादूर्ध्वं वपा- होमात् प्राग् इज्यते। अतो व्यवहितात्वादन्तिमप्रयाजविषयः पुरोनुवाक्याप्रैषयाज्याप्रश्नो युक्तः वपासमीपवर्तित्वादेव स्तोकानुवचनमन्त्राणामेतदीयपुरोनुवाक्यात्वं चोपपन्नम्। अनु- ष्ठानस्य व्यवधानेऽपि प्रैषयाज्ये तत्तदनुवाकोक्ते ' एवेति स्मर्यते ॥ अथ वपाहोमं प्रशंसितुमाख्यायिकामाह— ( वपाहोमप्रशंसितुमाख्यायिका ) देवा वै यज्ञेन श्रमेण तपसाऽऽहुतिभिः स्वर्गं लोकमजयंस्तेषां वपायामेव हुतायां स्वर्गो लोकः प्राख्यायत ते वपामेव हुत्वाऽनादृत्ये- तराणि कर्माण्यूर्ध्वाः स्वर्गं लोकमायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन् यज्ञस्य किञ्चिदेषिष्यामः प्रज्ञात्या इति तेऽभितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते विदुरियान्वाव किल पशुर्यावती वपेति ॥ ६ ॥
हिन्दी - ( अब वपा होम की प्रशंसा के लिए आख्यायिका के कह रहे हैं - ) देवाः देवताओं ने यज्ञेन श्रमेण तपसा आहुतिभिः (ज्योतिष्टोम इत्यादि) यज्ञ के द्वारा ( तीर्थाटन इत्यादि) श्रमद्वारा, (चान्द्रायण व्रत इत्यादि ) तपस्या द्वारा, और (कूष्माण्डादि ) आहुतियों द्वारा स्वर्गं लोकम् अजयन् स्वर्ग लोग को जीत लिया (प्राप्त कर लिया) । तेषाम् उन ( देवताओं ) के ( याग में ) हुतायां वपायाम् एव आहुति दिये गये वपा में ही स्वर्गः लोकः प्रख्यायत स्वर्ग लोक प्रख्यात हुआ। अतः ते वपामेव हुत्वा उन देवताओं ने वपा की ही आहुति देकर और इतराणि कर्माणि अनाहुत्य अन्य कर्मों का तिरस्कार करके ऊर्ध्वाः स्वर्गं लोकम् ऊर्ध्वमुख होकर स्वर्ग लोक को प्राप्त किया । ततः उसके ( १ ) ऋ० १०.११०.११ । ( २ ) आप० श्रौ० ७.१४.८ ।( ) ( ) ३ ऋ० १.७५.१ । ४ तै०ब्रा० ३.६.३,४ अनु ० ।
पृष्ठ 373
पाठ पढ़ें पाठ छिपाएँ
]: ३११ द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् बाद मनुष्याः ऋषयः मनुष्यगण और ऋषि लोग देवानां यज्ञवास्तु देवताओं के यज्ञ के स्थान पर ' यज्ञस्य प्रज्ञाप्त्यै किञ्चिद् एष्यामः हम लोग भी यज्ञ सम्बन्धी कुछ प्रकृष्ट का अन्वेषण करके जाने’— इति अभ्यायन् यह ( सोचकर) आये । ते अभितः परिचरन्तःज्ञान उन ( मनुष्यों और ऋषियों) ने (यज्ञ-विषयक कुछ जानकारी प्राप्त करने के लिए यज्ञ स्थल पर ) सभी ओर विचरण किया । (वहाँ उन्होंने) निरान्त्रं शयानं पशुम् एत् निकली अतड़ियो वाले ( भूमि पर) सोते हुए (पड़े हुए) पशु को पाया । इससे ते विदुः उन ( मनुष्योंहुई और ऋषियों ) ने जान लिया कि यावतीः वपा जितनी वपा होती है इयान्वेव खलु उतना ही पशु है । पशुः सा० भा० — पुरा कदाचिद्देवा ज्योतिष्टोमादियागेन तीर्थयात्रादिश्रमेण कृच्छचान्द्रा- यणादितपसा कूष्माण्डगणहोमादिगताभिराहुतिभिश्च स्वर्गं लोकं प्राप्ताः । अनन्तरं मनुष्याश्च ऋषयश्च यज्ञसंबन्धि किञ्चिदुत्तममङ्गमन्विष्य निश्चेष्याम इति विचार्य तत्प्रज्ञानाय यज्ञानां ज्ञानाय देवानां यज्ञभूमिं प्रत्यागच्छन्। आगत्य च ते मनुष्यादयस्तदन्वेषणार्थं तस्यां यज्ञभूमौ परितश्चरन्तः । निरान्त्रं निरङ्गं शयानं भूमौ पतितं पशुमेवैत् प्राप्तवन्तः । वपाया देवैरुत्कृत्य हुतत्वादयं पशुर्निरान्त्रो दृष्टः । यद्यप्यान्त्रशब्दः पुरीतद्वाची तयाऽप्यत्रं तेन वपोपलक्ष्यते। मनुष्यादयः स्वमनस्येवंविदुर्निश्चितवन्तः-: - वपा यावती विद्यत एतावानेव किल पशुरन्यथा कथं देवा वपामेव हुत्वा शिष्टान्यङ्गान्युपेक्षितवन्तः । तथा पशौ सारभूतमङ्गं वपेति॥ आख्यायिकामुखेन वपां प्रशस्य श्रुतिः स्वयमपि साक्षात् प्रशंसति— ( ऋचाद्वारा वपाप्रशंसनम् ) स एतावानेव पशुर्यावती वपा ॥७ ॥
हिन्दी –( आख्यायिका द्वारा वपा की प्रशंसा करके श्रुति= वेद द्वारा की गयी प्रशंसा को कह रहे हैं— ) यावती वपा जितनी वपा है एतावान् एव सः पशुः उतना की वह पशु ( यजनीय) होता है अर्थात् पशु का वपा वाला भाग ही हविष् के योग्य होता है, अन्य भाग नहीं ) । सा० भा०-- पशुशरीरमध्ये वपा यावती विद्यत एतावानेव मुख्यः पशुः, ' हविरदन्तु देवाः’१ इति मन्त्रे वपायाः सर्वदेवहविष्ट्वाभिधानात्। कोऽभिप्राय इत्याशङ्क्याऽऽह— अथ यदेनं तृतीयसवने श्रपयित्वा जुह्वति भूयसीभिर्न आहुतिभिरिष्ट- मसत् केवलेन नः पशुनेष्टमसदिति ॥८ ॥
हिन्दी - अथ तृतीयसवने अब तृतीयसवन में यद् एनं श्रपयित्वा जुह्वति जो इस ( १ ) ऋ० १०.११०.११ ।
पृष्ठ 374
पाठ पढ़ें पाठ छिपाएँ
: [ ३१२ ऐतरेयब्राह्मणम् ७.४ द्वितीयपञ्चिकायां (पशु की वपा को छोड़ कर अन्य भागों) को पकाकर आहुति देता है ' (इसका अभिप्राय यह है कि) भूयसीभिः आहुतिभिः बहुत सी आहुतियों से नः इष्टम् असत् हमारा ( यज्ञ ) इष्ट होवे और केवलेन पशुना ( अन्य द्रव्यों की अपेक्षा से रहित ) केवल पशु से (हमारा यज्ञ) इष्टम् असत् इष्ट होवे । सा० भा ० — अथ वपायाः पशुसारत्वे सत्येनमवशिष्टं पशुं तृतीयसवने श्रपयित्वा जुह्वतीति यदस्ति तत्र जुह्वतामयमभिप्राय: – यद्यपि वपायाग एव स्वर्गाय पर्याप्तस्तथाऽपि नोऽस्माकं भूयसीभिर्बहुलाभिराहुतिभिरष्टिमस्तु केवलेन द्रव्यान्तरनिरपेक्षेण निरवशेषेण नोऽस्मदीयेन पशुनेष्टमस्त्विति। अत्राधिकं नैव दोषायेति लौकिकन्यायेन तृतीयसवने पश्व- ङ्गहोमो न तु वपाया न्यूनत्वबुद्ध्येत्यर्थः ॥ वेदनं प्रशंसति— भूयसीभिर्हास्याऽऽहुतिभिरिष्टं भवति, केवलेन हास्य पशुनेष्टं भवति य एवं वेद ॥ ९ ॥
हिन्दी–( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है अस्य इसका ( यज्ञ ) भूयसीभिः आहुतीभिः बहुत आहुतियों से इष्टं भवति इष्ट होता है और अस्य उस (जानने वाले ) का ( यज्ञ ) केवलेन पशुना (अन्य द्रव्य की अपेक्षा न करते हुए) केवल पशु से इष्टं भवति इष्ट होता है॥। इति.श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितीयाध्याये ( सप्तमाध्याये ) तृतीयः खण्डः ॥ ३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथः चतुर्थः खण्डः सा० भा०--आज्याद्याहुतीनां प्राशस्त्यप्रसिद्धेस्तद्वद्वपाहुतिरपि प्रशस्तेति विवक्षया ताभिः सहैतामाहुतिं प्रशंसति— ( आज्याद्याहुतिभिः सह वपाहुतेः प्रशंसनम् ) सा वा एषाऽमृताहुतिरेव यद्वपाहुतिरमृताहुतिरग्न्याहुतिरमृताहुति- राज्याहुतिरमृताहुतिः सोमाहुतिरेता वा अशरीरा आहुतयो, या वै ( १ ) मूले असदिति लेटो रूपम्, तस्यैवार्थोऽयम्।
पृष्ठ 375
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३१३ काश्चाशरीरा आहुतयाऽमृतत्वमेव ताभिर्यजमानो जयतिं ॥ १ ॥
हिन्दी – ( वपा की आहुति की पुनः प्रशंसा कर रहे हैं - ) यद् वपाहुतिः जो वपा की आहुति है सा एषा अमृताहुति: वह यह अमृत की आहुति होती है। अमृताहुतिः अग्न्याहुतिः ( आतिथ्य कर्मों में आहवनीय ) अग्नि में (प्रक्षेप रूप) आहुति भी अमृत की आहुति होती है । आज्याहुति: अमृताहुतिः घृत की आहुति भी अमृत की आहुत्ति होती है । सोमाहुतिः अमृताहुतिः सोम की आहुति भी अमृत की आहुति है। एताः वै अशरीराहुतयः ये (उपर्युक्त चारो आहुतियाँ ) शरीर- रहित आहुतियाँ है। अतः याः काः च वै अशरीराहुतयः जो कुछ भी शरीर - रहित आहुतियाँ है, ताभिः उन (आहुतियों ) के द्वारा यजमानः अमृतत्वमेव जयति यजन करने वाला व्यक्ति ( चिरजीवनरूप) अमरता को ही जीत लेता (प्राप्त कर लेता) है। सा ० भा० – या वपाहुतिरस्ति सैषा स्वयममृताहुतिर्देवानाममृते यावती प्रीतिस्ता- वत्प्रीतेर्वपाहुतौ विद्यमानत्वात्। आतिथ्यकर्मसु मथितस्याग्नेराहवनीयाग्नौ प्रक्षेपरूपा येयमाहुतिः साऽप्यमृताहुतिः । अमृतत्वाख्यस्य देवत्वस्य प्राप्तिहेतुत्वात्। याऽप्यान्या काचिदाज्याहुतिः साऽप्यमृताहुतिरमृतं वा आज्यमिति श्रुतेः । याऽप्यन्या सोमाहुतिः साऽपि । ' अपाम सोमममृता अभूम' इति सोमस्यामृतत्वप्राप्तिसाधनत्वश्रवणात्। या एताश्चतस्र आहुतय स्ताः सर्वा अशरीराः शीघ्रमरणयुक्तशरीरप्राप्तिसाधनत्वाभावात्। अत एव या: काश्चिद् अशरीरा आहुतयः सन्ति ताभिर्यजमानश्चिरजीविनौ रूपममृतत्वं देवत्वमेव प्राप्नोति ॥ पुनः प्रकारान्तरेण वपां प्रशंसति— सा वा एषा रेत एव यद्वपा प्रेव वै रेतो लीयते प्रेव वपा लीयते शुक्लं वै रेतः शुक्ला वपाऽशरीरं वै रेतोऽशरीरा वपा यद्वै लोहितं यन्मांसं तच्छरीरं तस्माद् ब्रूयाद् यावदलोहितं तावत्परिवास- येति ॥ २ ॥
हिन्दी–(पुन: अन्य प्रकार से वपा की प्रशंसा कर रहे हैं— ) यद् वपा जो वपा है, सा एषा रेतः एव वह यह वीर्य है; क्योंकि रेतो वै प्रलीयते एव ( जिस प्रकार योनि में सिक्त) वीर्य निश्चित रूप से प्रकृष्ट रूप से लुप्त हो जाता है (उसी प्रकार ) वपा प्रलीयते एव ( अग्नि में होम की गयी ) वपा भी लुप्त हो ही जाती है। शुक्लं वै रेतः जिस प्रकार वीर्य सफेद वर्ण वाला होता है (उसी प्रकार) शुक्ला वपा वपा भी सफेद वर्ण वाली होती है। अशरीरं वै रेतः ( जिस प्रकार ) वीर्य शरीर- रहित होता है । (उसी प्रकार) अशरीरा वपा वपा भी शरीररहित होती है। यद् वै लोहितं यद् मांसम् जो रुधिर और जो मांस है तत् शरीरम् वह शरीर है । तस्मात् इसी कारण ब्रूयात् (याज्ञिक वपा निकालने वाले ( १ ) ऋ० ८.४८.३ । ऐ.ब्रा. पू- २०
पृष्ठ 376
पाठ पढ़ें पाठ छिपाएँ
: [ ३१४ ऐतरेयब्राह्मणम् ७.४ द्वितीयपञ्चिकायां से) कहे कि यावद् अलोहितम्जितना रुधिर से रहित (श्वेत) भाग है तावत् परिवासय उतना ( वपा वाला भाग) काट कर निकालो। सा ० भा ० —– येयं वपाऽस्ति सेयं रेत एव तत्सादृश्यात्। कथं सादृश्यमिति, तदु- च्यते—– रेतो योन्यां निषिक्तं सत्प्रलीयत एव वपाऽप्यग्नौ हुता प्रलीयत एव– इदमेकं सादृश्यं, शुक्लवर्णत्वं द्वितीयमशरीरत्वं तृतीयम्। तस्मात् प्रजोत्पादकरेतोवद्वपा प्रशस्ता। न च वपायाः शरीरमध्येऽवस्थानाच्छरीरत्वं शङ्कनीयम्। यदेव लोहितं रक्तमस्ति यच्च मांसम्। अनेन मुग्धनालादि प्रसिद्धास्त्वगस्थ्यवयवा उपलक्ष्यन्ते । अतो बालादिप्रसिद्धं रक्तमांसादिकमेव मुख्यं शरीरम्। न तु वपायां रेतसि वा बालप्रसिद्धिरस्ति। ततस्तयोरशरीरत्वम्। यस्माद् वपाशरीरयोर्विभाग उक्तस्तस्माद्याज्ञिको वपोद्धरणकर्तारं प्रत्येवं ब्रूयात्- वपायाः स्वरूपं यावद- लोहितं रक्तरहितं श्वेतं भवति तावत्सर्वं परिवासय च्छिन्धीति। तदेवं वपा प्रशस्ता॥१ तस्या अवदाने विशेषं विधत्ते— ( अवदाने विशेषविधानम्) सा पञ्चावत्ता भवति यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा ॥ ३ ॥
हिन्दी- (उस वपा के अवदान में विशेष विधान कर रहे हैं- ) सा पञ्चावत्ता भवति वह ( वपा ) पाँच अवदानों ( भागों वाली ) होती है। यद्यपि यजमानः चतुरवत्ती स्यात् यद्यपि यजन करने वाला चार अवदानों वाला होता है । अथ पञ्चावत्ता वै वपा तब भी वपा पाँच भागों वाली ही होनी चाहिए। सा ० भा ० — द्विविधा यजमानाश्चतुरवत्तिमनः पञ्चावत्तिनश्चेति । चतुर्भिरवदानैर्युक्तश्च- तुरवत्ती पञ्चभिर्युक्ताः पञ्चावत्तिनः । एवं स्थिते वपा पञ्चभिरवदानैर्युक्ता कर्त्तव्या । तत्र पञ्चावत्तिनो यजमानस्य स्वत एव पञ्चावदानानि प्राप्तानि। यस्तु चतुरवत्ती तस्यापि पञ्चावदानानि वपाया कुर्यात्। तान्येतानि पञ्चापि विभज्य दर्शयति— आज्यस्योपस्तृणाति हिरण्यशल्को वपा हिरण्यशल्क आज्य- स्योपरिष्टादभिघारयति ॥४ ॥
हिन्दी –( उन पाँचों को विभाजित करके दिखला रहे हैं - ) आज्यस्य उपस्तृणाति घृत से लेप करता है । पुन: हिरण्यशल्कः सुवर्ण का टुकड़ा वपा पुनः वपा हिरण्यशल्कः तत्पश्चात् हिरण्य का टुकड़ा रखकर उपरिष्टात् ऊपर से आज्यस्य अभिघारयति घृत से ( १ ) ‘प्रजापतिर्वा इदमेक आसीत्' – इत्यादिना वपाविधानम् तै० सं ० २.१.१.४ । द्र ० तत्रैव ६.३.५; ९.५; तै ० ब्रा ० २.८.४.४। शत० ब्रा० १३.७.१.९ । कात्या० श्रौ० २०.७.७ ।
पृष्ठ 377
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३१५अभिघार करता है अर्थात् घृत की बूँदे टपकाता है। सा० भा०--आज्यास्याऽऽज्येनेत्यर्थः । तदेतद् आपस्तम्बेन स्पष्टमुक्तम् –‘जुह्वा- मुपस्तीर्य हिरण्यशकलमवधाय कृत्स्नां वपामावदाय हिरण्यशकलमुपरिष्टात् कृत्वाऽभिधार- यत्येवं पञ्चावत्त भवति । चतुरवत्तिनोऽपि पञ्चावत्ततैव स्यात्" इति॥ हिरण्यरहितस्य प्रकारान्तरेण पञ्चावदानानि प्रश्नोत्तराभ्यां दर्शयति— ( आज्यस्य हिरण्यप्रतिनिधित्वम्) तदाहुर्यद्धिरण्यं न विद्येत कथं स्यादिति द्विराज्यस्योपस्तीर्य वपाम- वदाय द्विरुपरिष्टादभिघारयति ॥५ ॥
हिन्दी- तदाहुः इस विषय में ( कतिपय ब्रह्मवादी ) पूछते हैं कि यद् हिरण्यं न 'विद्येत यदि सुवर्ण न हो तो कथं स्यात् किस प्रकार करना चाहिए। (उत्तर ) आज्यास्य द्विः उपस्तीर्य घृत से दो बार उपस्तरण करके वपाम् अवदाय (उस परं) वपा को रखकर उपरिष्टाद् द्विः अभिघारयति ऊपर से ( घृत से ) दो बार अभिघारण करता है । आज्यस्य हिरण्यप्रतिनिधित्वमुपपादयति— अमृतं वा आज्यममृतं हिरण्यं, तंत्र स काम उपाप्तो य आज्ये, त्र स काम उपाप्तो यो हिरण्ये, तत्पञ्च संपद्यन्ते ॥६ ॥
हिन्दी — (घृत की सुवर्ण के प्रति प्रतिनिधिता को दिखला रहे हैं - ) अमृतं वै आज्यम् घी अमृत रूप है और अमृतं हिरण्यम् सुवर्ण अमृत रूप है। यः आज्ये कामः जो घृत में कामना होती है सः तत्र उपात्तः वह सभी वहाँ (हिरण्य में ) प्राप्त होती है और यः हिरण्ये कामः जो सुवर्ण में कामना होती है सः तत्र उपात्तः वह सभी वहाँ ( आज्य में) प्राप्त होती है। तत् अतः पञ्च सम्पद्यन्ते पाँच ( अवदान ) सम्पादित होते हैं । सा० भा ० — आज्यस्य स्वादुत्वेन हिरण्यस्य च दर्शनीयत्वेन प्रियत्वामृतत्वमेवं सति यत्र हिरण्यं प्रक्षिप्यते तत्राऽऽज्यप्रयुक्तो यः कामः स प्राप्तो भवति। यत्र त्वाज्यं प्रक्षिप्यते तत्र हिरण्यप्रयुक्तो यः कामः स प्राप्तो भवति। तस्मादाज्येन हिरण्येन पञ्चावदानानि संपद्यन्ते ॥ अवदानगतां पञ्चसंख्यां प्रशंसति— ( अवदानगतपञ्चसंख्याप्रशंसनम् ) पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याग्नौ देवयोन्यां जुहोत्यग्निर्वै ( १ ) आप ०श्रौ० ७.२०.९-११।
पृष्ठ 378
पाठ पढ़ें पाठ छिपाएँ
: [ ३१६ ऐतरेयब्राह्मणम् ७.५ द्वितीयपञ्चिकायां देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः संभूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति ॥७॥
हिन्दी—( अवदानगत पाँच संख्या की प्रशंसा कर रहे हैं -— ) लोमानि त्वक् मांसम् अस्थिः मज्जा लोम, त्वचा, मांस, अस्थि और मज्जा- इस प्रकार पञ्चधा विहितः पाँच प्रकार से विहित अयं पुरुषः यह पुरुष पाङ्क्तः पाँच भागों से युक्त है । यावान् एव सः पुरुषः वह पुरुष जितनी संख्या वाला है तावन्तं यजमानं संस्कृत्य उतनी ( संख्या) में यजमान को ( होता) संस्कारित करके देवयोन्याम् अग्नौ जुहोति देवताओं की योनिरूप अग्नि में आहुति देता है; क्योंकि अग्निः वै देवयोनिः अग्नि ही देवताओं की योनि (उत्पत्ति-स्थान ) है । सः वह (यजन करने वाला) देवयोन्याः अग्नेः देवताओं के उत्पत्ति स्थान अग्नि से आहुतिभ्यः सम्भूय आहुतियों द्वारा सम्यक् रूप से उत्पन्न होकर हिरण्यशरीरः सुवर्ण सदृश शरीर से सम्पन्न हुआ ऊर्ध्वः स्वर्गं लोकम् एति ऊपर गमन करने वाले स्वर्ग लोक को प्राप्त करता है । सा० भा० – पञ्चभिरवदानैः पुरुषस्य पाङ्क्तत्वं तद्योगाच्च लोमादिभिः पञ्चभि- र्निष्पादितत्वात् । तस्मात् पञ्चभिरवदानैः पुरुषो यावल्लोमादिपञ्चावयवोपेतोऽस्ति तावन्तं सर्वमपि यजमानं संस्कृत्याग्नौ देवत्वप्राप्तिकारणे हुतवान् भवति। अग्नेश्च यागद्वारा देवजन्मकारणत्वम् । एवं सति स यजमानो देवत्वकारणादग्नेः स्वेनानुष्ठिताभ्य आहुतिभ्यः समष्टिरूपेणोत्पद्य सुवर्णवर्णशरीरयुक्त ऊर्ध्वगामी स्वर्गं प्राप्नोति॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितीयाध्याये ( सप्तामाध्याये ) चतुर्थः खण्डः ॥४॥
॥ इस प्रकार ऐतरेयब्राह्माण के सप्तम अध्याय के चतुर्थ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा० भा ० — अथ प्रातरनुवाको वक्तव्यः । तदर्थमादौ प्रैषं विधत्ते— ( प्रातरनुवाकार्थं प्रैषमन्त्रः ) देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ॥ १ ॥
हिन्दी— (प्रातरनुवाक को कहने के लिए प्रारम्भ में प्रैष मन्त्र का विधान कर रहे हैं- ) ' होत: हे होता ( सुत्या के दिन) प्रातर्यावभ्यः देवेभ्यः प्रातः आने वाले देवताओं के लिए अनुब्रूहि ( अनुरूप ऋचाओं) का अनुवाचन करो — इति अध्वर्युः आह इस (प्रैष
पृष्ठ 379
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३१७ मन्त्र) को अध्वर्यु कहता है । सा० भा० – सुत्यादिने प्रातःकाले यान्ति यज्ञभूमिं गच्छन्तीति प्रातर्यावाणस्तादृशे- भ्यो देवेभ्यस्तत्प्रीत्यर्थं हे होतरनुकूला ऋचो ब्रूहि तमेतं प्रैषमन्त्रमध्वर्युः पठेत् । तं मन्त्रं व्याचष्टे- ( प्रातरनुवाकीया ऋचा ) एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति ॥ २ ॥
हिन्दी -(उस उपर्युक्त प्रैष मन्त्र का व्याख्यान कर रहे हैं — ) यदग्निः उषा अश्विनौ जो वे अग्नि, उषा और अश्विन् देव हैं, एते वा देवाः प्रातर्यावाणः ये ही देवता प्रात:काल आने वाले हैं । ते वे ( देवता) सप्तभिः सप्तभिः छन्दोभिः सात- सात छन्दों से युक्त (ऋचाओं) द्वारा आगच्छन्ति यज्ञ में आते हैं। -: सा० भा०- योऽयमग्निर्या चोष कालाभिमानिनी देवता यौं चाश्विनावेत एव देवाः प्रैषमन्त्रे प्रातर्यावाण इति विशेष्यन्ते। तत्कथमिति, तदुच्यते-त एते देवाः प्रत्येकं सप्तच्छन्दोयुक्ताभिर्ऋग्भिर्यज्ञभूमिमागच्छन्ति तस्मात् प्रातर्यावाणः । सप्तभिः सप्तभिरिति वीप्सा प्रत्येकं संख्यान्वयार्था। ताश्च ऋचः सर्वा आश्वलायनेन "आपो रेवतीः क्षयथ' इत्यादिग्रन्थेनोदाहृताः । तत्र 'उप प्रयन्तः -इत्यादिषु' च्छन्दो गायत्रम्। ' त्वमग्ने वसून्’३ इत्यादिष्वनुष्टुप्छन्दः । अबोध्यग्निः " इत्यादिषु त्रिष्टुप्छन्दः । एना वो अग्निम्' इत्यादिषू बृहती छन्दः । अग्ने वाजस्य' इत्यादिषूष्णिक्छन्दः । जनस्य गोपा' इत्यादिषु जगती छन्दः । अग्नि तं मन्ये' इत्यादिषु पङिक्तश्छन्दः । तान्येतानि सप्त च्छन्दांस्याग्नेये क्रतौ प्रातरनुवाके द्रष्टव्यानि'। प्रति ष्या सूनरी " इत्यादिषु गायत्री छन्दः । उषो भद्रेभिः ११ इत्यादिष्वनुष्टुप्। इदं श्रेष्ठम्१२ इत्यादिषु त्रिष्टुप्। प्रत्यु अदर्शि इत्यादिषु बृहती । उषस्तच्चित्रमा भर१४ इत्यादि- षूष्णिक् । एता उ त्या१" इत्यादिषु जगती। महे नो अद्य इत्यादिषु पङ्क्तिः । तान्येतान्युषस्य ( १ ) आश्व० श्रौ० ४.१३.७ । ( २ ) ऋ० १.७४.१ । (३ ) ऋ० १.४५.१। (४) ऋ० ५.१.१। (५ ) ऋ ० ७.१६.१। ( ६ ) ऋ० १.७९.४ । (७ ) ऋ० ५.११.१ । (८ ) ऋ० ५.६.१। ( ९ ) ‘ उपप्रयन्त इत्याग्नेयः क्रतुः' -इति आश्व०श्री० ४ १३.७-८1 ( १० ) ऋ ० ४.५२.१। ( ११ ) ऋ० १.४ ९.१ । ( १२ )ऋ० १.११३.१ । ( १३ ) ऋ० ७.८१.१ । ( १४)ऋ० १.९ २.१३ । ( १५ ) ऋ० १.९ २.१ । ( १६ )ऋ ० ५.६ ९.१ ।
पृष्ठ 380
पाठ पढ़ें पाठ छिपाएँ
: [ ३१८ ऐतरेयब्राह्मणम् ७.५ द्वितीयपञ्चिकायां प्रांतरनुवाके सप्त च्छन्दांसि' । एषो उषा' इत्यादिषु गायत्री । यदद्य' इत्यादिष्वनुष्टुप्। आ मात्यग्निः ' इत्यादिषु त्रिष्टुप्। इमा उ वाम्' इत्यादिषु बृहती। अश्विना वर्तिः इत्यादिषूष्णिक्। अबोध्यग्निर्म' इत्यादिषु जगती । प्रति प्रियतमम्' इत्यादिषु पङ्क्तिः । तान्येतान्यश्विने प्रातरनुवाके सप्त च्छन्दांसि' ॥ तेरेतैः सप्तभिः सप्तभिः प्रत्येकं छन्दोभिर्देवानामागमनं द्रष्टव्यम्॥ एतद्वेदनं प्रशंसति- आऽस्य देवाः प्रातर्यावाणी हवं गच्छन्ति य एवं वेद ॥ ३ ॥
हिन्दी— ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार ( इस तथ्य -को )"जानता है प्रातर्यावाणः देवाः प्रातःकाल आने वाले देवता अस्य हवम् उस (जानने
वाले) के यज्ञ को गच्छन्ति प्राप्त करते हैं।
सा० भा ० - हूयतेऽत्रेति हवो यज्ञोऽस्य वेदितुर्हवमुक्ता देवाः प्राप्नुवन्ति॥
प्रैषमन्त्रे ‘ देवेभ्योऽनुब्रूहीति' यदुक्तं तदुपपादयितुं प्रातरनुवाकस्य देवसंबन्धं विशद- यति— प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यत्युभये देवासुरा यज्ञमु- पावसन्नस्मभ्यमनुवक्ष्यत्यस्मभ्यमिति स वै देवेभ्य एवान्वब्रवीत् ॥ ४ ॥
हिन्दी –(प्रातरनुवाक के देवताओं के सम्बन्ध का विस्तार कर रहे हैं - ) प्राजापतौ वैस्वयं होतरि प्रातरनुवाकम् अनुवक्ष्यति प्रजापति के स्वयं होता होकर प्रातरनुवाक के अनुवाचन के लिए उद्यत होने पर देवासुरा उभये देवता और असुर दोनों यज्ञम् उपावसन् यज्ञ के समीप आ गये और ' अस्मभ्यम् अनुवक्ष्यति अस्मभ्यम् हमारे लिए कहेंगे, हमारे लिए कहेंगे- इति इस प्रकार (वे कहने लगे ) । तब सः वै देवेभ्यः एव अन्वब्रवीत् उस (प्रजापति ) ने देवताओं के लिए ( प्रातरनुवाक का ) अनुवाचन किया । सा ० भा० — पुरा कदाचित् कस्मिंश्चिद् यज्ञे प्रजापतिः स्वयं होता भूत्वा प्रातरनु-वाकमनुवक्तुमुद्यत स्तस्मिन्ननुवक्ष्यति देवाश्चासुराश्चास्मभ्यमस्मदर्थमेवानुवक्ष्यतीति प्रत्येक- मभिप्रेत्य तं यज्ञमुपेत्य तत्राऽऽसन्निति । अस्मभ्यमिति वीप्सा वर्गद्वयस्य प्रत्येकमन्वयार्थम्। ( १ ) अथौषस्यः । प्रति इत्युषस्यः क्रतुः -इति आश्व ० श्रौ० ४ १४.१-२ । ( ) ( ) ( ) २ ऋ० ७.७४.१ । ३ ऋ० ५.७३.१ । ४ ऋ० ५.७६.१ ।( ) ( ) ( )(४८) ऋऋ०० ५.७५.१७.७४.१॥ ६ ऋ० १.९ २.१६। ७ ऋ ० १.१५७.१ । ( ९ ) ‘ अथाश्विनः। एषो उषाः प्रति प्रियतममिति पाङ्क्तम्। इत्येतेषां छन्दसां पृथक् सूक्तानि प्रातरनुवाकः’— इति आश्व० श्रौ० ४.१५.१-२ ।