ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 381–390

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 381–390

पृष्ठ 381

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]:द्वितीयोऽध्यायः पञ्चमः खण्ड सायणाचार्यकृतभाष्योपेतम् ३१ ९ तदानीं प्रजापतिरसुरानुपेक्ष्य देवार्थमेवान्वब्रवीत् । ततः प्रातरनुवाकस्य पूर्वोक्तैरग्न्यादिभिर्देव- संबन्धः ॥ प्रातरनुवाकस्य देवोत्कर्षहेतुत्वं तदभावस्यासुरपराभवहेतुत्वं च दर्शयति— ततो वै देवा अभवन् पराऽसुराः ॥५ ॥

हिन्दी– ( अब देवताओं उत्कर्षहेतुता और असुरों की पराभवहेतुता को दिखला रहे हैं— ) ततः उस ( देवताओं के लिए प्रातरनुवाक अनुवाचन ) के बाद देवाः देवताओं ने अभवन् उत्कर्ष को प्राप्त किया और असुराः परा असुरों ने पराभव को (प्राप्त किया) ।

सा ० भा० - अभवन् भूतिमुत्कर्षं प्राप्ताः । असुरास्तु पराभवन्नपकर्षं प्राप्ताः ॥

वेदनं प्रशंसति- भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ ६ ॥

हिन्दी – (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह आत्मना भवति स्वयं उत्कर्ष को प्राप्त करता है। अस्य द्विषन् इस (जानने वाले ) से द्वेष करने वाले पाप्मा भातृव्यः पापी शत्रु परा पराभव को ( प्राप्त करते हैं ) ।

सा० भा ० — आत्माना भवति स्वयमुत्कृष्टो भवति । तदीयस्तु भ्रातृव्यः पराभवति ॥

प्रातरनुवाकशब्दस्य निर्वचनं दर्शयति— ( प्रातरनुवाकशब्दनिर्वचनम्) प्रातर्वै स तं देवेभ्योऽन्वब्रवीद् यत्प्रातरन्वब्रवीत् तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम्॥७ ॥

हिन्दी -(प्रातरनुवाक शब्द का निर्वचन कर रहे हैं — ) सः उस ( प्रजापति ) ने देवेभ्यः देवताओं के लिए प्रातः प्रातःकाल तम् उस ( अनुवाक = ऋक्समूह) का · अन्वब्रवीत् क्रम से अनुवाचन किया । तत् वही प्रातरनुवाकस्य प्रातरनुवाकत्वम् प्रातरनुवाक का प्रातरनुवाक होना है।

सा० भा ० —प्रातःकाल एव स प्रजापतिस्तमनुवाकमृक्समूहं देवार्थमनुक्रमेणाब्रवीत्।

यस्मादेवं तस्मात् प्रातरनुवाक इति नाम संपन्नम् ॥

तस्य प्रातरनुवाकस्य कालविशेषं विधत्ते— ( प्रातरनुवाकस्य कालविशेषः ) महति रात्र्या अनूच्यः, सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै, यो वै भवति, यः श्रेष्ठतामश्नुते, तस्य वाचं प्रोदितामनुप्रवदन्ति . तस्मान् महति रात्र्या अनूच्यः ॥८ ॥

पृष्ठ 382

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३२० ऐतरेयब्राह्मणम् ७.५ द्वितीयपञ्चिकायां हिन्दी—(प्रातरनुवाक के कालविशेष का विधान कर रहे हैं— ) रात्र्याः ( अग्नीषोमीय पशु के अनुष्ठान करने वाले औपवसथ्य नामक दिन की) रात्रि के महति अधिक भाग के (शेष रह जाने ) पर सर्वस्यै वाचः सम्पूर्ण वाणी और सर्वस्य ब्रह्मणः सम्पूर्ण वेद की परिगृहीत्यै प्राप्ति के लिए अनूच्यः (प्रातरनुवाक नामक अनुवाक का ) अनुवाचन करना चाहिए। यः वै भवति जो ( वेदादि का ज्ञाता) होता है और यः वै श्रेष्ठताम् अश्नुते जो (इस लोक में ) श्रेष्ठता को प्राप्त करता है, तस्य वाचम् उसकी कही गयी वाणी ( पहले कहा जाता है ) तथा प्रोदिताम् ( अन्य भृत्यादि द्वारा) कही गयी ( वाणी ) को अनुप्रपदन्ति बाद में कहते हैं । तस्मात् इसी कारण महति रात्र्याः रात्रि के अधिक भाग के अवशिष्ट होने पर अनूच्यः (प्रातरनुवाक के मन्त्रों का) अनुवाचन करना चाहिए। सा ० भा ० — रात्र्याः पूर्वस्यौपवसथ्याख्यस्य' दिनस्याग्नीषेमीयपश्वनुष्ठानयुक्तस्य या रात्रिस्तस्या रात्रेः संबन्धिनि शेषे महत्यवतिष्ठमाने सति प्रातरनुवाकाख्य ऋक्समूहो वक्तव्यः । एतदुक्तं भवति — यस्मिन् काले प्रारब्धः प्रातरनुवाकस्तमसोपघातात् पुरैव समा- पयितुं शक्यः स्यात् तदा प्रारब्धव्य इति। तथाविधमनुवचनं लौकिक्याः सर्वस्या वाचो ब्रह्मणो वेदस्य सर्वस्यापि परिग्रहाय भवति । यो वा इत्यादिना लौकिको न्याय उच्यते। लोके यः पुमान् भवत्यैश्वर्यं प्राप्नोति, यश्च विद्यावृत्तादिभिः श्रेष्ठत्वं प्राप्नोति, तस्योभयविधस्य पुरुषस्य संबन्धिनी वाच प्रोदितां प्रथमत उक्तामनु पश्चात् सर्वे भृत्याः शिष्याश्च प्रवदन्ति। तस्मात्तत्रापि राजाचार्यादिवाक्स्थानीयः प्रातरनुवाकः स्वेतरवैदिकलौकिकसर्ववाक्प्रवृत्तेः पूर्वं रात्र्याः संबन्धिनि महत्यवशिष्टे काले पाश्चात्ययामेऽनुवक्तव्यः । यद्यप्ययमुषःकालो न तु प्रात:कालस्तथाऽपि प्रातःकालसमीपवर्तित्वात् प्रातरनुवाकत्वं द्रष्टव्यम्॥ पाश्चात्ययामेऽपि कंचिद्विशेषं विधत्ते — पुरा वाचः प्रवदितोरनूच्यः ॥९ ॥

हिन्दी— वाचः प्रवदितः पुरा ( रात्रि में पक्षी इत्यादि के ) बोलने से पहले अनूच्यः (प्रातरनुवाक के मन्त्रों के ) पाठ करना चाहिए । सा० भा ० – रात्रौ निद्रां कुर्वन्तः प्राणिन उषःकाले प्रबुध्य वाचं प्रवदन्ति; तस्मात् ( १ ) उपसदामन्तिमं सुत्याहाच्च पूर्वमग्नीषोमीयाहरेवौपवसथ्यमुच्यते। तथाहि वक्ष्यत्युपरिष्टा- दिहैव— ‘ अथौपवसथ्य महा' – इत्यादि ७.५.६ । 'अग्नीषोमीयसम्बन्धिदिनमुपवसथ- शब्देनोच्यते । उपवसथसम्बन्धिकम् औपवसथ्यम्– इति कात्या० श्रौ० ८.३.६ टी ० या० दे ० । ‘तेऽस्य विश्वे देवा गृहानागच्छन्ति, तेऽस्य गृहेषूपवसन्ति, स उंपवसथा:' --''- इति ( १.१.१.७ ) ‘ उपवसथेऽग्नीषोमीयं पशुमालभते' – इति ( १.४.४.११ ), ‘उपवसथे नाश्नीयात्' – इति च ( ९.५.१.६ ) शत ०ब्रा० । तैत्तिरीयेऽप्येवमेव (ब्रा० १.५.९.७)। औपवसथ्यकर्माणि च कात्यायनीयाष्टमाध्यायादितोऽवगन्तव्यानि।

पृष्ठ 383

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

}: द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३२१ प्रवदितोः प्रवचनात् पूर्वमेवायमनुवक्तव्यः ॥ विपक्षे बाधकमाह— यद्वाचि प्रोदितायामनुब्रूयाद् अन्यस्यैवैनमुदितानुवादिनं कुर्यात् ॥ १० ॥

हिन्दी - यत् प्रोदितायां वाचि जो (निद्रा त्याग कर जागते हुए व्यक्ति की) वाणी बोलने के बाद अनुब्रूयात् अनुवाचन किया जाता है तो अन्यस्य एव दूसरे की ही उदिताम् कही गयी (वाणी ) का अनुवादिनं कुर्यात् अनुवाद करता है । सा ० भा ० — निद्रां परित्यज्य प्रबुद्धैः पुरुषैर्वाचि प्रोदितायां यदि पश्चाद् ब्रूयात् तदानीमेतं प्रातरनुवाकमुदितानुवादिनं कुर्यात्। अन्यैरुदिता या वाक् तदनुवादित्वे सति भृत्यादिशिष्यादिरूपत्वं स्यान्न तु राजाचार्यादिरूपत्वम्॥ स्वपक्षं निगमयति— तस्मान्महति रात्र्या अनूच्यः ॥११ ॥

हिन्दी- तस्मात् इति कारण महति रात्र्याः रात्रि के अधिक भाग के ( अवशिष्ट ) रहने पर ही अनुब्रूयात् (प्रातरनुवाक के मन्त्रों का) अनुवाचन करना चाहिए । अपरं विशेषं विधत्ते— पुरा शकुनिवादादनुब्रूयात् ॥ १२ ॥

हिन्दी— (प्रातरनुवाक के अन्य विशेष को कह रहे हैं - ) शकुनिवादात् पुरा पक्षियों को बोलने से पहले अनुब्रूयात् ( प्रातरनुवाक के मन्त्रों का) अनुवाचन करना चाहिए । सा ० भा० – शकुनयः पक्षिणा उष: काले प्रबुध्य वदन्ति ध्वनिं कुर्वन्ति तस्माद् वादात् पूर्वमेवानुब्रूयात्॥१ तदेतदुपपादयति— निर्ऋतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयस्तद्यत्पुरा शकुनिवादा- दनुब्रूयान्मायज्ञियां वाचं प्रोदितामनु प्रवदिष्मेति, तस्मान्महति रात्र्या अनूच्यः ॥ १३ ॥

हिन्दी— (उपर्युक्त कथन का उपपादन कर रहे हैं - ) यद्वयांसि यत् शकुनयः जो पक्षी हैं और जो पक्षि - विशेष है एतत् निर्ऋतेः मुखम् यह ( मृत्यु के राक्षसरूप देवता) निरृति का मुख है। तद् यत् शकुनिवादात् पुरा तो जो पक्षियों के बोलने के पहले · अनुब्रूयात् (प्रातरनुवाक के मन्त्रों का) अनुवाचन करता है, तो ' अयज्ञियां प्रोदितां ( १ ) ' अथैतस्या रात्रेर्विवासकाले प्राग् वयसां प्रवादात् प्रातरनुवाकायामन्त्रितः' -इत्यादि आश्व० श्री० ४.१३.१-६ ।

पृष्ठ 384

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ७.५ द्वितीयपञ्चिकायां ३२२: ऐतरेयब्राह्मणम् वाचम् अनु यज्ञ से असम्बद्ध (पक्षियों को ) वाणी से बाद मा प्रवदिष्म (प्रातरनुवाक के मन्त्रों का) हम अनुवाचन न करे – इति यही (पक्षियों के बोलने से पहले प्रातरनुवाक के मन्त्रों के अनुवाचन का अभिप्राय है ) । तस्मात् इसी कारण महति रात्र्याः अधिक रात्रि के (अवशिष्ट) रहने पर अनूच्यः (प्रातरनुवाक के मन्त्रों का) अनुवाचन करना चाहिए । सा ० भा० — निर्ऋतिः काचिद् राक्षसरूपा मृत्युदेवता ।' यानि वयांसि ये च शकुनय एतत्सर्वं मुत्युदेवताया मुखम्। अत्र वयः शब्देन पक्षिसामान्यमुच्यते शकुनिशब्देन पक्षि- विशेषः । येषां संचारादध्वनीष्टानिष्टसूचकतया मनुष्या व्यवहरन्ति ते शकुनयः । यस्मादुभयं मृत्युमुखं यद्यदि तदुभयध्वनेः पुराऽनुब्रूयात् तदानीं प्रोदितां प्रथमत उक्तामयज्ञियां यज्ञसं- बन्धरहितां वाचमनु मा प्रवदिष्म प्रातरनुवाकं पश्चादुक्तवन्तो मा भवामेति होतुरभिप्रायो भवति। अतो महति रात्रिशेषेऽवस्थिते सति शकुनिवादशङ्कानुदयात् तदानीमेवानूच्यः ॥ पक्षान्तरं विधत्ते- ( प्रातरनुवाकविषये पक्षान्तरविंधानम्) अथो खलु यदैवाध्वर्युरुपाकुर्यादथानुबूयात् ॥ १४ ॥

हिन्दी— (इस विषय में अन्य पक्ष को कर रहे हैं— ) अथो खलु अथवा यदा एव अध्वर्युः उपाकुर्यात् जब अध्वर्यु उपाकरण (प्रैषमन्त्र का पाठ ) करे अथ अनुब्रूयात् तब

अनुवाचन करना चाहिए।

सा ० भा ० — अध्वरुपाकरणं प्रैषमन्त्रपाठः । स एव प्रातरनुवाकस्य कालः ॥

तदेतदुपपादयति- यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति वाचा होताऽन्वाह वाग्घि ब्रह्म तत्र स काम उपाप्तो यो वाचि च ब्रह्मणि च ॥ १५ ॥

हिन्दी—( उपर्युक्त कथन का उपपादन कर रहे हैं - ) यदा वै अध्वर्युः उपाकरोति जब अध्वर्यु उपाकरण ( ‘प्रैष मन्त्र का पाठ ) करता है, वाचा एव उपाकरोति तब ( वैदिक) वाणी से ही उपाकरण करता है और वाचा होता अन्वाह ( वैदिक ) वाणी से ही होता अनुवाचन करता है । वाग् हि ब्रह्म वाणी ही ब्रह्म है। तत्र वहाँ यः कामः जो कामना वाचि च ब्रह्मणि च वाणी में और ब्रह्म में ( होती है ) सः उपात्तः वह प्राप्त होती है । ( १ ) द्र० मार्क ० पु० ४७,३७ । ( २ ) ' भूमौ चरन्तः कुक्कुटायः शकुनय:, नभस्येव चरन्तो गृध्रादयः पक्षिणो वयांसि' इति भट्टभास्करः । ( ३ ) प्राग् वाचं प्रवदितोः प्रातरनुवाकोपाकरणं देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति समिधमादधत्’– इति कात्या ००श्री० ९.१.१० ।

पृष्ठ 385

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ३२३ सा० भा० - अध्वरुपाकरणं प्रैषमन्त्ररूपा वैदिकवाचैव सम्पद्यते । होतुरनुवचन- मपि वैदिकवाचा भवति । यस्मादुभयविधा वाग्ब्रह्म वेदरूपं तस्मादुपकरणानन्तरभाविनाऽ- नुवचनेन लौकिकवाचि वैदिकवाचि यत्फलं भाविनं तत्प्राप्नोति। अत्र कालविशेषः शाखान्तरेऽप्याम्नातः - ' पुरा वाचः प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वाक् ताम- वरुन्धे’१ इति । उपाकरणं च आपस्तम्बेन स्पष्टीकृतम्— ' पुरां वाचः पुरा वा वयोभ्यः प्रवदितो प्रातरनुवाकमुपाकरोति प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन् वाचं यच्छ प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति' इति ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितयाध्याये ( सप्तमाध्याये) पञ्चमः खण्डः ॥५ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा० - अथ प्रातरनुवाके प्रथमामृचं विधातुमाख्यायिकामाह— ( प्रातरनुवाके प्रथमचें विधातुमाख्यायिका ) प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यति सर्वा देवता आशंसन्त मामभि प्रतिपत्स्यति मामभीति स प्रजापतिरैक्षत यद्येकां देवतामादिष्टामभि प्रतिपत्स्यामीतरामेकेन देवता उपाप्ता भविष्यन्तीति स एतामृचमपश्यदापो रेवतीरित्यापो वै सर्वा देवता, रेवत्यः स एतयर्चा प्रातरनुवाकं प्रत्यपद्यत ताः सर्वा देवताः प्रामोदन्त मामभि प्रत्यपादि मामभीति ॥ १ ॥

हिन्दी— (प्रातरनुवाक में प्रथमा ऋचा के विधान करने के लिए आख्यायिका को कह रहे हैं— ) प्रजापते वै स्वयं होतरि प्रजापति के स्वयं होता होकर प्रातरनुवाकं अनु वक्ष्यति प्रातरनुवाक का अनुवाचन करने के लिए उद्यत होने पर सर्वाः देवता आशंसन्त सभी देवतओं ने अपेक्षा किया कि मामभि प्रतिपत्स्यति मामभि मुझको अभिलाक्षित करके प्रारम्भ करेगे, मुझको अभिलक्षित करके प्रारम्भ करेगे। सः प्रजापतिः ऐक्षत तब प्रजापति ने सोचा कि यदि एकाम् आदिष्टां देवताम् अभि यदि ( मन्त्र से अभिलक्षित) एक देवता को अभिलक्षित करके प्रतिपत्स्यामि प्रारम्भ करूँगा तो इतराः अन्य ( देवता) ( १ ) तै ० सं० ६.४.३.१ । (२ ) आश्व० श्रौ० १२०३०१४,१५ ।

पृष्ठ 386

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३२४ ऐतरेयब्राह्मणम् ७.६ द्वितीयपञ्चिकायां कुपित हो जाएँगे। अतः एकेन देवताः उपाप्ताः भविष्यन्ति एक ( मन्त्र ) से सभी देवता प्राप्त हो जाएँगे — इति ऐसा ( विचार करके ) सः उस (प्रजापति) ने ( सभी देवताओं की सिद्धि के लिए ) ‘ आपो रेवती: ' एतम् ऋचम् अपश्यत् इस ऋचा का दर्शन किया क्योंकि आपः वै सर्वाः देवताः जल ही सभी देवरूप है। सः उस (प्रजापति) ने एतया ऋचा इसी ऋचा से प्रातरनुवाकं प्रतिपद्यत प्रातरनुवाक का प्रतिपादन किया । उससे मामभि प्रत्यपादि मामभि मुझ को अभिलक्षित करके (प्रजापति ने ) प्रतिपादन किया है, मुझको अभिलक्षित करके प्रतिपादन किया है— इति ताः सर्वाः देवताः प्रमोदन्ते यह (सोच कर ) सभी देवता प्रसन्न हो गये । सा० भा० — प्रजापतौ वै स्वयमेव होतृत्वं प्राप्य कस्मिंश्चिद्यज्ञे प्रातरनुवाकमनु-वक्तुमुद्युक्ते सति सर्वा अपि देवताः प्रत्येकं मामभिलक्ष्य प्रतिपत्स्यति प्रारम्भं करिष्य-. तीत्येवमाशंसन्तापेक्षां कृतवन्तः । मामभीति वीप्सा सर्वसंग्रहार्था। मद्देवत्ययैवर्चा प्रारम्भ इति सर्वासां देवतानां प्रत्येकमाशामवलोक्य स प्रजापतिः स्वमनसि विचारितवान्। स एव विचारो यदीत्यादिना स्पष्टीक्रियते। आदिष्टां केनचिन्मन्त्रेण प्रतिपादितामेकां देवतामभिलक्ष्य यद्यहं प्रतिपत्स्यामि प्रारम्भं करिष्यामि तदानीमितरा देवता कुप्येयुरिति शेषः । तस्मात् कारणान्मे मम केन प्रकारेण देवताः सर्वा अप्युपाप्ता उपक्रमे प्राप्ता भविष्यन्ति। एवं विचार्य स प्रजापतिः सर्वदेवतांसिद्ध्यर्थम् ' आपो रेवतीः क्षयथा हि वस्वः " इत्येतामृचमपश्यत्। तत्राप्शब्देन रेवतीशब्देन च सर्वा देवता उक्ता भवन्ति । आप्नुवन्तीत्यापः । रायो धनानि यासां सन्तीति रेवत्यः ।' यज्ञभूमिप्राप्तिर्धनवत्त्वं च सर्वासु देवतासु विद्यते तस्मात् सर्वदेवता-प्रतिपादिकेयमृक् । स प्रजापती रेवत्यैवोपक्रान्तवान्। तेन सर्वा देवताः प्रत्येकं मामभिलक्ष्य.

प्रारम्भः कृत इति प्रहृष्टवत्यः । वीप्सा पूर्ववत्॥

अथार्थवादेन विधिमुन्नयति— ( अर्थवादेन विधेरुन्नयनम् ) सर्वा हास्मिन् देवताः प्रातरनुवाकमनुब्रुवति प्रमोदन्ते ॥ २ ॥

हिन्दी - ( अब अर्थवाद द्वारा विधि का उन्नयन कर रहे हैं - ) अस्मिन् प्रातरनुवाकम् अनुब्रुवति ( इस ऋचा से ) इस प्रातरनुवाक का प्रारम्भ करने पर सर्वाः देवताः ह सभी देवता ही प्रमोदन्ते प्रसन्न होते हैं । सा० भा० — स एतयर्चा प्रातरनुवाकं प्रतिपद्यत इति शेषः । यः पुमानापो रेवतीरि- त्येतया प्रातरनुवाकं प्रारभतेऽस्मिन् प्रारभ्यानुब्रुवति सर्वा देवताः प्रहृष्यन्ति तस्मादनयैवर्चा प्रारभेतेति विधिरुन्नेयः ॥ ( १ ) ऋ० १०.३०.१२ । (२ ) आश्व० श्रौ० ४.१३.६,७।

पृष्ठ 387

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम्: ३२५ वेदनं प्रशंसति- सर्वाभिर्हास्य देवताभिः प्रातरनुवाकः प्रतिपन्नो भवति य एवं वेद॥ ३ ॥

हिन्दी- (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को) जानता है अस्य ह प्रातरनुवाकः इस प्रातरनुवाक सर्वाभिः देवताभिः देवताओं से प्रतिपन्नः भवति सम्पन्न होता है। सभी सा० भा० — तदेतद् आश्वलायनेनाभिहितम्— ' अन्तरेण युगधुरावुपविश्य प्रातरनुवाकमनुब्रूयान् मन्द्रेणाऽऽपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इति सूक्ते' " प्रेषितःइति॥ आपो रेवतीरित्येतामृचमाख्यायिकया प्रशंसति— ( आख्यायिकाद्वारा तदृक्प्रशंसनम् ) ते देवा अबिभयुरादातारो वै न इमं प्रातर्यज्ञमसुरा यथौयजीयांसो बलीयांस एवमिति तानब्रवीदिन्द्रो मा बिभीत त्रिषमृद्धमेभ्योऽहं प्रातर्वज्रं प्रहर्ताऽस्मीत्येतां वाव तदृचमब्रवीद् वज्रस्तेन यदपोनप्त्रीया वज्रस्तेन यत्त्रिष्टुब्वज्रस्तेन यद्वाक् तमेभ्यः प्राहरत् तेनैनानहंस्ततो वै देवा अभवत् पराऽसुराः ॥४ ॥

हिन्दी –( ' आपो रेवती:' इस ऋचा की आख्यायिका द्वारा प्रशंसा कर रहे हैं - ) (किसी समय प्रजापति के प्रातनुवाक का अनुवाचन करने पर उनके समीप आये हुए) ते देवाः वे देवता अविभयुः भयभीत हो गये कि यथा ओजीयांसः बलीयांसः जिस प्रकार ( लोक में ) ओजसम्पन्न और बलवान् शत्रु ( धन का अपहरण कर लेते हैं ) एवम् इसी प्रकार असुराः असुर लोग नः इमं प्रातर्यज्ञम् हमारे इस प्रातःयज्ञ (प्रातरनुवाक ) को आदातारः वै अपहरण कर लेने वाले होगे अर्थात् अपहृत कर लेगे। तान् इन्द्रः अब्रवीत् उन ( देवताओं ) से इन्द्र ने कहा कि मा विभीत तुम लोग भयभीत मत होवो । एभ्यः इन ( असुरों ) के लिए प्रातः प्रातः काल त्रिषमृद्धम् वज्रम् तीन प्रकार से समृद्ध वज्र को अहं प्रहर्त्ता अस्मि प्रहार करूँगा । ( तब उन्होंने) एतां तद् ऋचम् अब्रवीत् इस उस ( आपो रेवती ऋचा ) को कहा । यह ऋचा यद् अपोनप्त्रीया जो अपोनप्तृ (नामक ) देवता वाली है तेन वज्रः इस कारण वज्र है, यत् त्रिष्टुप् जो त्रिष्टुप् छन्द वाली है तेन वज्रः इस कारण भी यह वज्र है और यद् वाक् जो वाणी रूप है तेन वज्रः इस कारण भी यह वज्र है । तम् उस (तीन प्रकार से समृद्ध ऋगुरूप वज्र) को एभ्यः इन (असुरों) के लिए प्रहरत ( इन्द्र ने ) प्रहार किया और तेन एनान् अहन् उस (ऋग्रूप वज्र) से इन ( असुरों) को मार डाला । ततो वै तभी से देवाः अभवन् देवतालोग ( विजयी) हुए और ( १ ) ऋक्सर्वा ० १०.३० ।

पृष्ठ 388

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

[ ७.६ द्वितीयपञ्चिकायां ३२६: ऐतरेयब्राह्मणम् असुराः परा असुर लोग पराभूत हो गये। सा० भा०--पुरा कदाचित् प्रजापतौ प्रातरनुवाकमनुब्रुवति सति तत्समीप आगता देवा अबिभयुर्भीतिं प्राप्ताः । केनाभिप्रायेणेति, तदुच्यते— यथा लोके केचिच्छत्रव ओजसोऽतिशयेनौजसा सप्तधातुना युक्तत्वात् पुष्टशरीरा बलीयांसो महता सैन्येन युक्त-त्वादतिशयेन प्राबल्यादागत्य धनमपहरन्ति, एवमसुरा नोऽस्मदीयमिमं प्रातर्यज्ञं प्रातर-नुवाकरूपमादातारो वा आदास्यन्त्येवापहरिष्यन्त्येवेति । तदानीमिन्द्रो मा बिभीत भीतिं मा कुरुतेति तान् देवानब्रवीत्। कथं भीत्या अभाव इति, तदुच्यते— अहमिन्द्र एवैभ्योऽ- सुरेभ्योऽसुरविनाशार्थं प्रातःकाले ‘त्रिषमृद्धं' त्रिभिः प्रकारैः समृद्धं प्रबलं वज्रं ‘प्रहर्ताऽस्मि’ तेषामुपरि प्रक्षेप्स्यामि। ततो हे देवा अस्माकं भीतिर्मा भूत्। इत्युक्त्वा तत्तदानीमेतां वावाऽऽपो रेवतीरिति याऽस्ति तामृचमेवाब्रवीत्। तस्या ऋचस्त्रिप्रकारवज्रत्वं कथमिति, तदुच्यते- यद् यस्मात्कारणादपोनप्त्रीया सा ऋगपोनप्तुदेवताका । तथा च अनुक्रमणिकाकारः - यस्मिन् सूक्ते साऽस्ति तस्य सूक्तस्य देवतां ब्रूते 'प्रदेवत्रा पञ्चोना कवष ऐलूष आपमपोनप्त्रीयं वा ' इति । तेनापोनप्तृदेवताकत्वेन कारणेनायं मन्त्रों वज्रः संपन्नः । सोऽयमेकः प्रकारः। अपोनप्ता देवोऽतिक्रूरस्तत्तदीयाया ऋचे वज्रत्वं युक्तम्। यस्मादियं त्रिष्टुप्छन्दस्का तेनापि प्रकारेण वज्रत्वम्। ‘ इन्द्रियं वै वीर्यं त्रिष्टुप्' इति श्रुत्यन्तरे वीर्यरूपत्वश्रवणाद् वज्रत्वम्। सोऽयं द्वितीयः प्रकारः । यस्मादियं वाग्रूपा तेनापि प्रकारेण वज्रत्वम्। 'स वाग्वज्रो यजमानं हिन- स्तीत्यत्र' शब्दरूपाया वाचो वज्रत्वश्रवणात्। सोऽयं तृतीयः प्रकारः । तमेवं त्रिषमृद्धमृग्रूपं वज्रमेभ्योऽसुरेभ्यः प्राहरत् तेनैनानसुरानहनद्धतवान्। तत एवासुरवधाद्देवा विजयिनोऽभवन्न- सुराश्च पराभवन्। वेदनं प्रशंसति— भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥५ ॥

हिन्दी – ( इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है, वह आत्मना भवति स्वयं प्रकृष्ट होता है और द्विषन् पाप्मा भ्रातृव्यः द्वेष करने वाला ( १ ) 'स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्' - इति पा०शि ० १०४। तदाहृतश्च पा ० महाभा० १.१.१ । स च वाग्वज्रमन्त्र: ' इन्द्रशत्रुर्वर्धस्व' – इति तैत्तिरीसंहितायामसकृत् श्रुतः ( २.४.१२.१; ५.२.१ ) । ' तत्र मन्त्रगतस्वरापराधो निमि- त्तम् । तथाहि— इन्द्रस्य शातयितेन्द्रशत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेन भवितव्यम्; आयुदात्तस्त्वयं शब्दः प्रयुक्तः, स च बहुव्रीहितां द्योतयति। बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपदाद्युदात्तत्वधिानात्। सति बहुव्रीहाविन्द्रः शातयिता यस्येत्यर्थो भवति। सोऽयं मन्त्रगतः स्वरापराधः । अपराधाभावे सति उन्नतया ज्वालया यजमानस्य कार्यसिद्धिः सूचिता भवति । अपराधे त्ववनतया ज्वालया यजमानस्य कार्यसिद्ध्यभावः सूच्यते'- इति सा० भा० ।

पृष्ठ 389

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३२७

पापी शत्रु परा भवति परभूत हो जाता है।

सा० भा०-- पूर्ववद् व्याख्येयम् ॥

अस्या ऋचस्त्रिरावृत्ति विधत्ते— ( तस्या ऋच: त्रिरावृत्तिविधानम् ) तदाहुः स वै होता स्याद् य एतस्यामृचि सर्वाणि च्छन्दांसि प्रजन- येदित्येषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवत्येषा छन्दसां प्रजातिः ॥ ६ ॥

हिन्दी –( इस ऋचा की तीन बार आवृति का विधान कर रहे हैं - ) तदाहुः इस (ऋचा ) के विषय में ( ब्रह्मवादी ) कहते है कि यः जो (होता ) एतस्याम्ऋचि इस ऋचा में सर्वाणि छन्दांसि प्रजनयेत् सभी छन्दों का निष्पादन कर सके सः वै होता स्यात् वह ही प्रमुख होता ( नामक ऋत्विक्) होता है। एषा यह त्रिः अनूक्ता तीन बार अनुवाचन की गयी (ऋचा) सर्वाणि छन्दांसि भवति सभी छन्दों वाली हो जाती है क्योंकि एषा छन्दसां प्रजातिः यह (ऋचा) छन्दों का उत्पत्ति स्थान है । सा० भा ० — तत्तस्यामापो रेवतीरित्यृचि ब्रह्मवादिना एवमाहुः — यः पुमानेतस्या- मृचि सर्वाणि च्छन्दांस्युत्पादयेत् स एव मुख्यो होता स्यान्न त्वन्य इति। एतद् ब्रह्मवादिनां वचनं श्रुत्वा कश्चिदभिज्ञः सर्वच्छन्दसामुत्पादनप्रकारं ब्रूते - येयमृगनूक्ता सेयमेव त्रिः पठिता सती सर्वच्छन्दसां स्वरूपं भवति। इयं त्रिष्टुब्रूपत्वाच्चतुश्चत्वारिंशदक्षरा। तस्यां त्रिरावृत्तायां द्वात्रिंशदधिकशताक्षराणि संपद्यन्ते । तेषु जगत्यादीन्यधिकाक्षराणि गायत्र्यादीनि न्यूना- क्षराणि सर्वच्छन्दांसि संपादयितुं शक्यते। तस्मादेषा सर्वेषां छन्दसां प्रजातिरूत्पत्ति- स्थानम्। यद्येषा त्रिरावृत्तिः सूत्रकारेण नोक्ता तर्हि सर्वच्छन्दोन्तर्भावनेयमृचः प्रशंसाऽस्तु ॥ ॥ इति श्रीमत्सायणाचार्यरिवरचिते माधवीये ' वेदार्यप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितीयाध्याये ( सप्तमाध्याये ) षष्ठः खण्डः ॥६ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्ता ॥ अथ सप्तमः खण्डः सा० भा ० – अथ प्रातरनुवाकगतानामृचां काम्या विशेषा वक्तव्याः । तत्राऽऽयुरर्थं शतसंख्यां विधत्ते— ( १ ) सैषा ' आपो रेवती: वयो धात्- इति ऋ ० १०.३०.१२ ।

पृष्ठ 390

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३२८ ऐतरेयब्राह्मणम् ७.७ द्वितीयपञ्चिकायां ( कामनाविशेषेण प्रातरनुवाकस्यविधानम् ) ( तन्त्रायुष्कामस्य संख्यानिर्धारणम् ) शतमनूच्यमायुष्कामस्य, शतायुर्वै पुरुषः, शतवीर्यः शतेन्द्रिय आयु- ष्येवेनं तद् वीर्य इन्द्रिये दधाति ॥ १ ॥

हिन्दी— ( अब प्रातरनुवाकगत काम्य ऋचाविशेषों को कह रहे हैं । उनमें दीर्घायु की प्राप्ति के लिए शत संख्या का विधान कर रहे हैं - ) आयुष्कामस्य दीर्घायु प्राप्ति की कामना करने वाले ( यजमान) के लिए शतम् अन्यूचम् सौ ऋचाओं का अनुवाचन करना चाहिए क्योंकि पुरुषः पुरुष शतायुर्वै सौ वर्षों की आयु वाला शतेन्द्रियः ( पाँच ज्ञानेन्द्रियों और पाँच कर्मेन्द्रियों में प्रत्येक में दश- दश नाड़ी होने के कारण) सौ इन्द्रियों वाला और शतवीर्यः ( प्रत्येक इन्द्रिय के अलग- अलग कार्य होने के कारण) सौ वीर्य वाला है। तत् इस ( सौ ऋचाओं के अनुवाचन) से एनम् इस (यजमान) को आयुषि वीर्ये इन्द्रिये आयु, बल और इन्द्रिय में दधाति स्थापित करता है। सा० भा ० — अपमृत्युरहितमायुर्यः कामयते तस्यच शतमनूच्यम्। ऋग्विशेषास्तु सूत्रान्तरे द्रष्टव्याः । शतसंख्याका 'वत्सरा आयुर्यस्य मनुष्यस्य सोऽयं शतायुः । धर्म-सम्पादितस्यापमृत्योरभावे संवत्सरशतं वत्सरा जीवन्ति । दशसंख्याकानीन्द्रियाणि प्रत्येकं दशसु नाडीषु वर्तमानत्वात् तन्मिलित्वा शतेन्द्रियाणि भवन्ति । ततस्तद्व्यापाराणामपि शतत्वेन शतवीर्यत्वम्। तस्माच्छतानुवचनेन तत्संख्याक आयुषि वीर्य इन्द्रिये चैनं यजमानं स्थापयति ॥ अहीनरात्रादुत्तरक्रतुकामस्य संख्यान्तरं विधत्ते— ( क्रतुकामस्य संख्यानिर्धारणम् ) त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि, तावान्संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥ २ ॥

हिन्दी - ( यज्ञ की कामना वाले यजमान के लिए विधान कर रहे हैं — ) यज्ञकामस्य यज्ञ की कामना वाले के लिए त्रीणि च शतानि षष्टिः च तीन सौ पाठ अनूच्यानि (ऋचाओं का ) अनुवाचन करना चाहिए; क्योंकि त्रीणि च वै शतानि षष्टिः च तीन सौ साठ संवत्सरस्य अहानि संवत्सर के दिन होते हैं। तावान् संवत्सरः संवत्सर इतने ही ( परिमाण वाला ) होता है। संवत्सरः प्रजापतिः संवत्सर प्रजापति स्वरूप है और प्रजापतिः यज्ञः प्रजापति यज्ञस्वरूप है । सा० भा ० — षष्ट्युत्तरशतत्रयदिवसपरिमितो यः संवत्सरः कालात्मा स एव प्रजा- पतिः । संवत्सरादि कालविशेषणम्। प्रजापतिसृष्टत्वेन तदभेदोपचारः । तथा यज्ञस्यापि तेन