ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 391–400
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
:: ]: द्वितीयोऽध्यायः सप्तम खण्ड सायणाचार्यकृतभाष्योपेतम् ३२ ९ सृष्टत्वात् तद् रूपत्वम्। एवं सति षष्ट्युत्तरशतत्रयसंख्यायाः संवत्सरप्रजापतिद्वारा यज्ञ- सम्बन्धादुत्तरक्रतुप्राप्तिहेतुत्वं भवति॥ होतुर्वेदनं प्रशंसति— उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह ॥ ३ ॥
हिन्दी– ( होता के इस ज्ञान की प्रशंसा कर रहे हैं — ) यस्य जिस ( यजमान ) का एवं विद्वान् इस प्रकार जानने वाला (होता) त्रीणि च शतानि षष्टिं च तीन सौ साठ (ऋचाओं) का अन्वाह अनुवाचन करता है एनम् उप इस ( यजमान ) के प्रति यज्ञः नमति यज्ञ झुक जाता है। अथ प्रजां पशूंश्च कामयमानस्य पूर्वसंख्याया द्विगुणां संख्यां विधत्ते— ( प्रजापशुकामस्य संख्यानिर्धारणम् ) सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य, सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रास्तावान्संवत्सरः, संवत्सरः प्रजापतिर्य प्रजायमानं विश्वं रूपमिदमनु प्रजायते, प्रजापतिमेव तत्प्रजायमानं प्रजया पशुभिरनु प्रजायते प्रजात्यै ॥४ ॥
हिन्दी— ( अब प्रजा और पशुओं की कामना वाले यजमान के लिए उपर्युक्त संख्या के द्विगुणित संख्या का विधान कर रहे हैं- ) प्रजापशुकामस्य प्रजा और पशुओं की कामना वाले ( यजमान ) के लिए सप्त च शतानि विंशतिः च सात सौ बीस अनूच्यानि (ऋचाओं का) अनुवाचन करना चाहिए; क्योंकि सप्त च शतानि विंशतिः च सात सौ बीस संवत्सरस्य अहो रात्राः संवत्सर के दिन और रात मिलाकर होते हैं। तावान् संवत्सरः संवत्सर इतने ही ( परिमाण) वाला होता है। संवत्सरः प्रजापतिः संवत्सर प्रजपतिरूप है। यः जो (प्रजनन करने वाला पुरुष ) इदं प्रजायमानं विश्वं रूपम् इस उत्पन्न होने वाले सम्पूर्ण रूप को प्रजायते उत्पन्न करता है तत् उस (प्रजनन करने वाले के रूप में) प्रजायमानं प्रजापतिम् उत्पन्न होते हुए प्रजापति को प्रजया पशुभिः प्रजा और पशु रूप से प्रजायते उत्पन्न करता है। प्रजात्यै (यह सात से बीस संख्या प्रजा और पशुओं के ) उत्पादन के लिए ही होती है। सा० भा10-० - संवत्सरगतानामह्नां रात्रीणां च पृथग्गणनायां मिलित्वा विंशत्यधिक-सप्तशतसंख्या संवत्सरे संपद्यते। संवत्सरस्य च प्रजापतित्वमुक्तम्। एतावता विंशत्युत्तर-सप्तशतसंख्यायाः प्रजापतिसम्बन्धो दर्शितः यं प्रजायमानमित्यादिना काम्यमानानां प्रजानां पशूनां च प्रजापतिसम्बन्धः प्रदर्श्यते । लोके कस्मिंश्चिद् गृहे प्रजायमानं यं पुरुषमनु विश्वरूपमिदमोषधिवनस्पत्यादिस्थावरं भ्रातृभगिनिगोमहिष्यादिकं जङ्गमं च सर्वं प्रजायते ऐ.ब्रा. पू- २१
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
: [ ३३० ऐतरेयब्राह्मणम् ७.७ द्वितीयपञ्चिकायां तत्तद्गृहे प्रजायमानं प्रजापतिमेवानु प्रजापशुरूपेण तज्जीवनार्थं सस्यादिनिष्पत्ति गोमहि- ष्यादिसंपत्ति च स धनिकः प्रभूतां करोति। तस्य पुत्रस्य भ्रातृभगिन्यादयोऽपि पुनर्जायन्ते। तत्र च स्थावरजङ्गमरूपाणां प्रजानां पालनहेतुत्वादयं जायमानः पुत्र एव च प्रजापतिः । अतः प्रजा- पतिद्वारा प्रजापशुसंबन्धोऽपि भवतीति । तस्मादियं संख्या यजमानस्य प्र॒जात्यै प्रजापशू- त्पदनाय संपद्यते॥ वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥५ ॥
हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह प्रजया पशुभिः प्रजा और पशुओं द्वारा प्रजायते वृद्धि को प्राप्त करता है । अथ दुर्ब्राह्मणत्वपरिहारकामस्य संख्यान्तररं विधत्ते— ( दुर्ब्राह्मणत्वपरिहारकामनया संख्यानिर्धारणम् ) अष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेताष्टाक्षरा वै गायत्री गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत गायत्र्यैवास्य तत्पाप्मानं शमलमपहन्ति ॥ ६ ॥
हिन्दी – (दुर्ब्राह्मणत्व के परिहार की कामना वाले के लिए अन्य संख्या का विधान कर रहे हैं— ) अब्राह्मणोक्तस्य ( स्मृतियों में) प्रोक्त अब्राह्मणत्व के लिए अष्टौ शतानि आठ सौ (ऋचाओं ) का अनूच्यानि अनुवाचन करना चाहिए । यः वा दुरुक्तोक्तः अथवा जो दुरुक्तोक्त ( लोकापवाद से दूषित) अथवा शमलगृहीतः मलिन रूप से ( समाज में) स्वीकृत है, वह यजेत् यदि यजन करे ( तो आठ सौ ऋचाओं का अनुवाचन • करे)। अष्टाक्षरा वै गायत्री गायत्री छन्द आठ अक्षरों वाली होती है । गायत्र्या वै गायत्री के द्वारा ही देवाः देवताओं ने पाप्मानं शमलंम् अपाघ्नत पाप और कलुषितता को विनष्ट किया। अतः तत् उस ( अनुवाचन ) से गायत्र्या एव गायत्री द्वारा ही अस्य इस ( यजमान) के पाप्मानं शमलं पाप और मलिनता को अपहन्ति दूर करते हैं । सा ० भा ० — अब्राह्मणत्वेन स्मृतिषु योऽभिहितः सोऽयमब्राह्मणोक्तो राजसेवाधिकारी । स्मृतिवाक्यं चात्र पूर्वमेवोदाहृतम्। तादृशस्याष्टौ शतान्यनुब्रूयात् । अथवा यो वा दुरुक्तोक्तो दुरुक्तेनापवादेन जनैर्व्यवहृतः स शमलगृहीतो मलिनेन लोकविरुद्धेन स्वीकृतस्तादृशो यदा यजेत तदाऽप्यष्टौ शतान्यनुब्रूयात्। गायत्र्या अष्टाक्षरत्वात् तया च मलिनस्य पापस्य देवैर्विनाशितत्वात्। अष्टसंख्यामनुतिष्ठन्गायत्र्यैव मलिनं पापं विनाशयति ॥ वेदनं प्रशंसति— अप पाप्मानं हते य एवं वेद ॥७ ॥
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३३१ हिन्दी—- ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह पाप्मानम् अप हते (अपने ) पाप को विनष्ट कर देता है। स० भा०- अपहन्तीत्यर्थः । संख्यान्तरं विधत्ते— ( स्वर्गकामनया संख्यानिर्धारणम्) सहस्रमनूच्यं स्वर्गकामस्य सहस्राश्वीने वा इतः स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै संपत्त्यै संगत्यै ॥८ ॥
हिन्दी –( स्वर्ग की कामना वाले यजमान के लिए अनुवचनीय ऋक् संख्या विधान कर रहे हैं - ) स्वर्गकामस्य स्वर्ग की कामना करने वाले यजमान के लिए सहस्रम् अनूच्यम् हजार (ऋचाओं ) का अनुवाचन करना चाहिए; क्योंकि इतः सहस्राश्वीने वै स्वर्गो लोकः इस ( भूलोक ) से स्वर्ग लोक सहस्राश्वीन (एक हजार दिन में अंश्व के जाने की दूरी के बराबर ऊपर स्थित) है। इस प्रकार स्वर्गस्य लोकस्य स्वर्गलोक की समष्ट्यै सम्पत्यै सङ्गत्यै प्राप्ति के लिए, ( अपेक्षित भोग्य वस्तु की) सम्पत्ति के लिए और ( स्वर्गनिवासी इन्द्रादि देवों से ) सङ्गति के लिए (यह अनुवाचन होता है ) । सा० भा० – प्रबलोऽश्व एकेनाह्ना यावन्ति योजनानि गच्छति तावद्योजनपरिमितो देशो आश्वीनः । स च सहस्रसंख्यया गुणितः सहस्राश्वीनः । ‘ अश्वस्यैकाहगमः ’ ” इति पाणिनीयसूत्रादाश्वीनशब्दनिष्पत्तिः । इतो भूलोकादारभ्य सहस्राश्वीन ऊर्ध्वदेशे स्वर्गों लोको वर्तते । अतः सहस्रसंख्या स्वर्गस्य लोकस्य समष्ट्यै प्राप्त्यै भवति। प्राप्तस्य संपत्त्यै स्वापेक्षितसर्वभोग्यवस्तुसंपादनाय भवति। संपन्नस्य च संगत्यै महतामिन्द्रादिदेवानां प्रीतिपूर्वकसंबन्धाय भवित॥ सर्वकामसिद्ध्यर्थमियत्तापरिच्छेदराहित्यसंख्या विधत्ते— ( सर्वकामसिद्ध्यर्थमपरिमितसंख्यानिर्धारणम् ) अपरिमितमनूच्यमपरिमितो वै प्रजापतिः प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन् सर्वे कामा अवरुध्यन्ते स यदपरिमितमन्वाह ( १) पा० सू० ५.२.१ ९ । ( २ ) 'एकाहेन गम्यत इत्येकाहगमः अश्वीनोऽध्वा' - इति सि० कौ ० । त्रिष्वाश्वीनं यदश्वेन दिने- नैकेन गम्यते— इति अमरकोश २.८.४७। ( ३ ) ' सम्पत्तिः गमनं, सङ्गतिः संयोगः सामान्यविशेषभावेन सामानाधिकरण्यम् – इति गोविन्द- स्वामी। ' सम्पत्तिः तत्र समृद्धिः सङ्गतिः तेन नित्यसंयोगः कदाचिदप्यप्रच्युतिः ' इति भट्टभास्करः ।
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
: [ ३३२ ऐतरेयब्राह्मणम् ७.७ द्वितीयपञ्चिकायां सर्वेषां कामानामवरुद्ध्यै ॥९ ॥
हिन्दी—( सभी कामनाओं की सिद्धि के लिए अपरिमित संख्या में ऋचाओं के अनुवाचन का विधान कर रहे हैं — ) अथवा अपरिमितम् अनूच्यम् अपरिमित (ऋचाओं का) अनुवाचन करना चाहिए; क्योंकि अपरिमितः वै प्रजापतिः प्रजापति अपरिमित है। यत् प्रातरनुवाकः जो प्रातरनुवाक है, एतत् प्रजापतेः उक्थं वै यह प्रजापति का ही उक्थ (प्रिय शस्त्र ) है । तस्मिन् सर्वे कामाः अवरुन्धन्ते अतः उसमें सभी कामनाएँ समाहित होती हैं । सः यद् अपरिमितम् अन्वाह वह ( होता) जो अपरिमित (ऋचाओं) का अनुवाचन करता है, वह सर्वेषां कामानाम् अरुन्ध्यै सभी कामनाओं की सिद्धि के लिए (होता है) । सा० भा ० — शतं सहस्रमित्यादिसंख्यापरिमाणं परित्यज्य मध्यरात्रादूर्ध्वमुपक्रम्य सूर्योदयात् प्राचीनकाले यावतीरनुवक्तुं शक्तिरस्ति तावतीरनुब्रूयात्। जगत्कारणभूतः प्रजा- पतिश्चापरिमितः । न ह्येतावदस्य स्वरूपमिति प्रजापतिः परिमातुं शक्यते। यः प्रातरनुवा- कोऽस्ति तदेतत्तादृशस्य प्रजापतेरुक्थं प्रियं शस्त्रम्। अतःतस्मिन् प्रातरनुवाके सर्वे कामा अन्तर्भवन्ति। एवं सति स होता यद्यपरिमितमनुब्रूयात् तदानीं तदनुवचनं सर्वकामप्राप्त्यै भवति ॥ वेदनं प्रशंसति— सर्वान् कामानवरुन्धे य एवं वेद ॥ १० ॥
हिन्दी- (इस ज्ञान की प्रशंसा कर रहे है- ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वान् कामान् अवरुन्धे सभी कामनाओं को प्राप्त करता है । बहुफलहेतुत्वादपरिमितपक्षमादरेण निगमयति— तस्मादपरिमितमेवानूच्यम्' ॥ ११ ॥
हिन्दी - ( बहुत फलों का हेतु होने के कारण अपरिमित संख्या में ऋचा के अनुवाचन के पक्ष का सादर निगमन कर रहे हैं - ) तस्मात् इसी कारण अपरिमितमेव अनूवाच्यम् अपरिमित (ऋचाओं) का अनुवाचन करना चाहिए । प्रातरनुवाकगतास्वृक्षु च्छन्दोविशेषान् विधत्ते— ( प्रातरनुवाकगतास्वृक्षु छन्दोविशेषविधानम् ) सप्ताऽऽग्नेयानि च्छन्दांस्यन्वाह सप्त वै देवलोकाः ॥१२ ॥
हिन्दी—(प्रातरनुवाक के प्रथम भाग में ऋचाओं में छन्द विशेष का विधान कर रहे ( १ ) तदुक्तमाश्वलायनेन —' शतप्रभृत्यपरिमित: ' - इति ४.१५.३ ।
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३३३ हैं— ) आग्नेयानि सप्त छन्दांसि (प्रातरनुवाक के प्रथम भाग में ) अग्नि से सम्बन्धित सात छन्दों वाली (ऋचाओं ) का अन्वाह (होता ) अनुवाचन करता है; क्योंकि सप्त वै देवलोकाः देवताओं के सात ही लोक है । सा ० भा ० – प्रातरनुवाके त्रयो भागाः। तत्र प्रथमो भाग आग्नेयः । तस्मिंश्च गायत्र्य- नुष्टुपत्रिष्टुब् बृहत्युष्णिग्जगती पङ्क्तिरिति सप्तभिश्छन्दोभिर्युक्ता ऋचोऽनुब्रूयात् । देवानां
संबन्धिनो बहुलोकयुक्ता लोकविशेषाः सप्त । तस्माच्छन्दसां सप्तसंख्या प्रशस्ता ॥
वेदनं प्रशंसति- सर्वेषु देवलोकेषु राघ्नोति य एवं वेद ॥ १३ ॥
ि हिन्दी—(इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता
है वह सर्वेषु देवलोकेषु सभी देवलोकों में राध्नोति समृद्ध होता है ।
सा ० भा ० -– भूलोकादयः सत्यलोकान्ताः सप्त वै देवलोका द्रष्टव्याः ॥
प्रातरनुवाकस्य द्वितीयभागे छन्दांसि विधत्ते— सप्तोषस्यानि च्छन्दांस्यन्वाह, सप्त वै ग्राम्याः पशवः ॥ १४ ॥
हिन्दी -( प्रातरनुवाक के द्वितीत भाग में छन्द का विधान कर रहे हैं — ) उषस्यानि सप्त छन्दांसि (प्रातरनुवाक के द्वितीय भाग के देवता) उषा देवता वाली सात छन्दों वाली ( ऋचाओं) का अन्वाह अनुवाचन करता है; क्योंकि सप्त वै ग्राम्याः पशवः ग्राम्य पशु सात ( संख्या वाले ) होते हैं। सा ० भा ० — यथा प्रथमभागस्याग्निर्देवता तथा द्वितीयभागस्योषा देवता। तस्मादुषः प्रतिपादिकास्वृक्षु पूर्ववद् गायत्र्यादीनि सप्त च्छन्दांसि द्रष्टव्यानि । ग्रामे भवा ग्राम्याः पशवः, ते च सप्त । तथा च बौधायनः - 'सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी च' इति॥ आपस्तम्बमतानुसारिणस्त्वेवं वर्णयन्ति— “ अजाविकं गवाश्वं च गर्दभोष्ट्रं नरस्तथा ।
सप्त वै ग्राम्यपशवो गीयन्ते कविसत्तमैः ॥ "" इति।
तस्मादत्र सप्तसंख्या युक्ता॥
वेदनं प्रशंसति— अव ग्राम्यान् पशून् रुन्धे य एवं वेद ॥ १५ ॥
हिन्दी—(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता ( १ ) द्र० मार्क ० ४५.२ ९ ।
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
: [३३४ ऐतरेयब्राह्मणम् ७.७ द्वितीयपञ्चिकायां है वह ग्राम्यान् पशून् अवरुन्धे ग्राम्य पशुओं को प्राप्त करता है । तृतीयभागे च्छन्दांसि विधत्ते— सप्ताऽऽश्चिनानि च्छन्दांस्यन्वाह, सप्तधा वै वाग्, अवदत् तावद् वै वागवदत् सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै ॥ १६ ॥
हिन्दी—(प्रातरनुवाक के तृतीय भाग के छन्दों का विधान कर रहे हैं— ) आश्विनानि सप्त छन्दांसि ( प्रतास्नुवाक के तृतीय भाग के देवता ) अश्विन्देवों से सम्बन्धित सात छन्दों वाली (ऋचा ) का अन्वाह अनुवाचन करता है। सप्तधा वै वाग् अवदत् ( लोक में षड्ज, ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत और निषाद् नामक ) सात प्रकार की वाणी बोली जाती है । तावद् वै वाग् अवदत् उतनी ही ( वैदिक ) वाणी भी बोली जाती है । इस प्रकार सर्वस्य वाचः सभी (लौकिक) वाणी और सर्वस्य ब्रह्मणः सभी ( वैदिक ) वाणी के परिगृहीत्यै परिग्रह के लिए ( यह होता है ) । सा० भा ० — तृतीयभागस्याश्विनौ देवता तत्संबन्धिनीः सप्त च्छन्दोयुक्ता ऋचोऽ- नुब्रूयात् । लोके गानरूपा या वागस्ति सा सप्तधाऽवदत् षड्जऋषभादिस्वरोपेता' प्रवृत्ता ।' तावदेव वैदिकवागप्यवदत् साम्नि क्रुष्टप्रथमद्वितीयादीनां सप्तस्वराणामधीयमानत्वात्ं। अ- तोऽत्र सप्तसंख्या लौकिक्याः सर्वस्या वाचो वेदस्य च सर्वस्य परिग्रहाय भवति। त्रिष्वप्येष्वाग्नेयौषस्याश्विनभागेषु च्छन्दांस्यस्भाभिः पूर्वमेवोदाहृत्य प्रदर्शितानि ॥ भागत्रये देवतात्रयं विधत्ते- तिस्रो देवता अन्वाह, त्रयो वा इमे त्रिवृतो लोका एषामेव लोका- नामभिजित्यै ॥ १७ ॥
हिन्दी— (तीनों भागों के देवतात्रय का विधान कर रहे हैं— ) तिस्रः देवता अन्वाह (प्रातरनुवाक में होता) तीन देवताओं का अनुवाचन करता है; क्योंकि त्रयः वै इमे त्रिवृतः लोकाः ( भूः, अन्तरिक्ष और द्यौ ) ये तीन प्रकार के तीन ही लोक हैं । एषामेव लोकानाम् अभिजित्यै इन्ही तीनों लोकों के विजय (प्राप्ति के लिए) (यह प्रातरनुवाक होता है)। ( १ ) षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव निषादः सप्तमः स्वरः ॥ ना० शि० १.२.५ । ( २ ) प्रथमश्च द्वितीयश्च तृतीयश्च चतुर्थकः । मन्द्रः क्रुष्टो ह्यतिस्वार एतान् कुर्वन्ति सामगाः । इति वा० शि० १.१.१२ । ( ३ ) ‘ सप्तविधविभक्तिसम्बन्धेन षड्जादिसप्तस्वरसम्बन्धेन वा'–इति भट्टमास्करः । ‘ मन्द्रादिषु त्रिषु स्थानेषु सप्त यमाः क्रुष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रातिस्वार्याः –इति तै ० प्राति० २३.१३ । ' सप्तस्वरा ये यमास्ते' –इति ऋक्प्राति० १३.४४ ।
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३३५ सा ० भा० – अग्निरुषाऽश्विनाविति देवतात्रयम्। यथा गुणत्रयमेलनरूपा रज्जुस्त्रि- वृदेवमेते पृथिव्यन्तरिक्षद्युलोकाः परस्परमिलितास्त्रिवृतः । यद्वा, एकैकस्मिंल्लोके सत्त्व-रजस्तमोगुणभेदेनास्योत्तममध्यमाधमरूपत्वात् प्रत्येकं त्रिवृत्तम्। अतो देवतान्त्रिसंख्या लोकत्रय-जयाय भवति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितीयाध्याये ( सप्तमाध्याये ) सप्तमः खण्डः ॥ ७॥
॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा ० भा ० — अथ तस्य प्रातरनुवाकस्यानुवचनप्रकारविशेषं निर्णेतु प्रश्नमवतारयति— ( प्रातरनुवाकस्यानुवचनप्रकारविशेषः ) तदाहुः कथमनूच्यः प्रातरनुवाक इति ॥ १ ॥
हिन्दी – ( उस प्रातरनुवाक के अनुवाचन के प्रकार विशेष का निर्णय करने के लिए प्रश्न की अवतारणा कर रहे हैं — ) तदाहुः इस (प्रातरनुवाक के अनुवचन के प्रकार) के विषय में ( कुछ ब्रह्मवादी ) पूछते हैं कि प्रातरनुवाकः कथम् अनूच्यः प्रातरनुवाक किस प्रकार पढ़ना चाहिए? सा० भा ० — किम्, एकैकस्मिन् भागे गायत्र्यादीनि च्छन्दांस्यनुक्रमेणैवानुवक्तव्यानि, आहोस्विद् अन्यथा' इत्येकः संशयः । अनुक्रमपक्षेऽपि किं पादे पादेऽवसानं कृत्वाऽनुवचनी-यम, आहोस्वित् तत्तदर्थेऽवसानं कृत्वा' इति द्वितीयः संशयः॥ तत्र प्रश्नोतरमाह— यथाछन्दसमनूच्यः प्रातरनुवाकः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजापतिर्यो यजते तद् यजमानाय हितम् ॥ २ ॥
हिन्दी —(उपर्युक्त प्रश्न का उत्तर कह रहे हैं- ) यथा छन्दसम् छन्द के अनुसार प्रातरनुवाकः अनूच्यः प्रातरनुवाक का अनुवाचन करना चाहिए। यत् छन्दांसि जो छन्द हैं एतानि वै प्रजापतेः अङ्गानि ये प्रजापति के अङ्ग हैं। यः यजते जो यजन करता है एषः उ वै प्रजापतिः यह प्रजापति ही है। तत् इस (अनुवाचन) से यजमानाय हितम् ( यजमान के अङ्ग के ) हित के लिए यजते यजन करता है । सा० भा ० — अनुक्रमेणावस्थितानि गायत्र्यादीनि च्छन्दांस्यनतिक्रम्येति यथाछन्दसं
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
: [ ३३६ ऐतरेयब्राह्मणम् ७.८ द्वितीयपञ्चिकायां छन्दः क्रमेणैवायमनुवचनीयः, छन्दसां प्रजापतिसृष्टत्वेन तदवयवत्वात्। यजमानस्य च प्रजापतिपदप्राप्तियोग्यत्वेन प्रजापतिरूपत्वात् तदङ्गरूपच्छन्दसां क्रमेणानुवचनं
यजमानायावयवविपर्यासराहित्येन हितं भवति । तस्माच्छन्दः – क्रमेणैवानुवक्तव्यम्॥
द्वितीयविचारे पूर्वपक्षमाह— पच्छोऽनूच्यः प्रातरनुवाकश्चतुष्पादा वै पशवः पशूनामवरुद्ध्यै ॥३ ॥
हिन्दी—( द्वितीय विचार में पूर्व पक्ष को कह रहे हैं — ) पशूनाम् अवरुद्ध्यै पशुओं की प्राप्ति के लिए पच्छो अनूच्यः प्रत्येक पाद पर अवसान करते हुए अनुवाचन
करना चाहिए; क्योंकि चतुष्पादाः वै पशवः पशु चार पाद वाले होते है ।
सा ० भा ० — पच्छ एकैकस्मिन् पादेऽवसायेत्यर्थः ॥
सिद्धान्तमाह— अर्धर्चश एवानूच्यो यथैवैनमेतदन्वाह, प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो, यजमानमेव तद्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, तस्मादर्धर्चश एवानूच्यः ॥४ ॥
हिन्दी— ( अब सिद्धान्त पक्ष को कह रहे हैं - ) अर्धर्चशः एव अनूच्यः आधी- आधी ऋचा पर अवसान करते हुए ही (प्रातरनुवाक का) अनुवाचन करना चाहिए। यथा वै एनम् जिस प्रकार इस (ऋचा ) को (गुरुमुखोच्चारणपूर्वक पढ़ता है उसी प्रकार) प्रतिष्ठायै एव प्रतिष्ठा के लिए ही एतत् इस (ऋचा ) का अन्वाह अनुवाचन करता है; क्योंकि द्विप्रतिष्ठः वै पुरुषः पुरुष दो प्रतिष्ठा (पादों ) वाला और चतुष्पादाः पशवः पशु चार पैरों वाला होता है। तत् इस ( अर्धर्च के पाठ) से द्विप्रतिष्ठं यजमानम् दो पाद वाले यजमान को चतुष्पात्सु पशुषु चार पाद वाले पशुओं में प्रतिष्ठापयति प्रतिष्ठापित कर्ता है। तस्मात् इसी कारण अर्धर्चशः एव अनूच्यः आधी ऋचा पर अवसान करके ही (प्रातनुवाक का) अनुवाचन करना चाहिए । सा ० भा ० — अर्धर्चश एकैकस्मिन्नृचोऽधेंऽवसायावसाय प्रातरनुवाकोऽनूच्यः । एवकारः पूर्वपक्षव्यावृत्यर्थः । यथैवेत्यादिनाऽर्धर्चश इत्येतदेव स्पष्टीक्रियते । एनमर्थं यथैव येनैव प्रकारेणैतदन्वध्ययनकालीनं गुरूच्चारणमनु यथाऽध्ययनकाले प्रत्यर्धमवसायाऽऽह पठति तथैव प्रातरनुवाकानुष्ठानकालेऽपि। न त्वत्र ऋगन्ते प्रणवप्रक्षेपादिवत् किचिन्नूतनं कर्त्तव्यमस्ति । तदेतदर्धर्चशोऽनुवचनं प्रतिष्ठाया एव यजमानस्य प्रतिष्ठार्थमेव भवति । तत्कथमिति, तदेवोच्यते— यथा, एकस्याऋचो द्वे अर्धर्चे एवं पुरुषो द्विप्रतिष्ठः प्रतितिष्ठति स्थैर्येणावस्थितो भवति, आभ्यां पादाभ्यामिति प्रतिष्ठे द्वे पादौ प्रतिष्ठे यस्यासौ द्विप्रतिष्ठः । पशूनां चत्वारः पादाः। तथा सति पादचतुष्टयोपेतास्वृक्षु द्वाभ्यामर्धाभ्यामवसानयुक्ताभ्यामनुवचने कृते सति द्विप्रतिष्ठं द्विपादं यजमानं चतुष्पात्सु पशुषु प्रतिष्ठापयति । तस्मादर्धर्चश एवानुवचनं युक्तम्॥
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
:: ]: द्वितीयोऽध्यायः अष्टम खण्ड सायणाचार्यकृतभाष्योपेतम् ३३७ तत्र प्रातरनुवाकक्रममाक्षिप्य समाधत्ते— ( प्रातरनुवाकस्य क्रमसमाधानम्) तदाहुर्यद्व्यूह्ळः प्रातरनुवाकः कथमव्यूह्ळो भवतीति यदेवास्य बृहती मध्यान्नैतीति ब्रूयात्तेनेति ॥५ ॥
हिन्दी–( अब प्रातरनुवाक के क्रम पर आक्षेप करके उसका समाधान कर रहे हैं— ) ( आक्षेप ) तदाहुः इस विषय में (कुछ ब्रह्मवादी ) पूछते हैं कि यत् प्रातरनुवाकः व्यूढः जो प्रातरनुवाक व्यूढ (गायत्री, उष्णिक् इत्यादि छन्द चार- चार अक्षरो से बढ़ने वाला) है, वह कथम् अव्यूढः भवति किस प्रकार (क्रम का विपर्यय करके अव्यूढ होता है । ( समाधान— ) ' अस्य मध्यात् इस (प्रातरनुवाक ) के मध्य से बृहती न एति बृहती (छन्द) चला न जाय- इति यद् ब्रूयात् यह जो कहा गया है, तेन इति उससे (अव्यूढ होता है ) । सा ० भा ० — छन्दसां योऽयमनुक्रमः सोऽयम् अनुक्रमणिकाकारेण दर्शित: - ‘ अथ च्छन्दांसि, गायत्र्युष्णिनुष्टुब्बृहतीपङिक्तत्रिष्टुब्जगत्यतिजगतीशक्वर्यतीशक्वर्यष्ट्यत्यष्टीधृत्यति- धृतयश्चतुर्विंशत्यक्षरादीनि चतुरुत्तराणि इति। चतुर्विंशत्यक्षरोपेतां गायत्रीमारभ्योत्तरोत्तरं छन्दश्चतुर्भिश्चतुर्भिरक्षरैरधिकमित्यर्थः । तमेतं छन्दसां क्रमं विपर्ययस्य प्रातरनुवाके क्रमान्तर- मूहितं गायत्र्यनुष्टुपत्रिष्टुब्बृहत्युष्णिग्जगती पङ्क्तिरिति । सोऽयं क्रमोऽस्माभिराश्वलायनोक्त- क्रमेण पूर्वमेवोदाहृताः । तस्मात् प्रातरनुवाकोक्तक्रभस्य विपर्ययेणोहनादयं व्यूढः संपन्नः । सोऽयमनुचितः । तस्मात् कथमव्यूहळो भवतीति प्रश्न आक्षेपे वा यदेवेत्यादिकमुत्तरं यस्मादेव कारणाच्छन्दःक्रमेऽनुष्ठानक्रमे वाऽस्य प्रातरनुवाकस्य मध्यात् बृहतीछन्दो नैति नापगच्छ- तीत्युत्तरमभिज्ञो ब्रूयात् तेन कारणेनायमव्यूहळः संपन्न इत्यवगन्तव्यम्॥ अथ प्रातरनुवाकं प्रशंसति— ( प्रातरनुवाकप्रशंसनम् ) आहुतिभागा वा अन्या देवता अन्याः स्तोमभागाश्छन्दोभागास्ता या अग्नावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणात्यथ यत्स्तुवन्ति च शंसन्ति च तेन स्तोमभागाश्छन्दोभागाः ॥ ६ ॥
हिन्दी –( अब प्रातरनुवाक की प्रशंसा कर रहे हैं- ) अन्याः देवताः आहुतिभागाः कुछ देवता आहुति के भागी होते हैं, अन्याः स्तोमभागाः कुछ स्तोम ( सामगान ) के और छन्दोभागाः (कुछ गायत्री इत्यादि) छन्दों के भागी होते हैं। ताः या आहुतयः अग्नौ हूयन्ते वे जो आहुतियाँ अग्नि में होम की जाती हैं, ताभिः उन ( आहुतियों) से ( १ ) ऋक्सर्वा ० परि० ३.१ ३।
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
: [३३८ ऐतरेयब्राह्मणम् ७.८ द्वितीयपञ्चिकायां आहुतिभागाः प्रीणाति आहुति के भागी देवता प्रसन्न होते हैं । अथ इसके बाद यत् स्तुवन्ति च शंसन्ति च जो (स्तोम वाले साम के द्वारा उद्गाता ) स्तुति करते हैं और जो (होता ऋचाओं का ) शंसन करते हैं तेन उस (स्तुति और शंसन) से क्रमशः स्तोमभागाः छन्दोभागाः स्तोम के भागी और छन्दों के भागी देवता (प्रसन्न होते हैं ) । सा० भा० — अन्याः काश्चिद्देवता अग्नौ हूयमानामाहुतिं भजन्त इत्यपरा: काश्चिद्देवताः साम्न आवृत्तिप्रकारभेदेन निष्पन्नत्रिवृत् पञ्चदशादिस्तोमं भजन्ते। अपराः काश्चिद्देवता ऋग्गतगायत्र्यादि च्छन्दो भजन्ते। एवं सति ता विधिवाक्येषु प्रसिद्धा आहुतयो याः सन्ति ताभिराहुतिभागानां देवतानां प्रीतिः । उद्गातारः स्तोमयुक्तैः सामभि: स्तुवन्तीति यत् तेन स्तोमभागानां प्रीतिः । होतारश्छन्दोयुक्ताभिर्ऋग्भिः शंसन्तीति यत्तेन च्छन्दोभागानां प्रीतिः ॥ वेदनं प्रशंसति— उभयो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद ॥ ६ ॥
हिन्दी- ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को ) जानता है। अस्य इस (ज्ञाता ) के उभयो एताः देवताः ( आहुतिभागी और स्तोमभागी) दोनों प्रकार के ये देवता प्रीताः अभीष्टाः भवन्ति प्रसन्न और अभीष्ट देने वाले होते हैं । सा० भा ० - आहुतिभागा एको राशिः स्तोमभागाश्छन्दोभागाश्च द्वितीयो राशि:। एता उभयविधा अपि देवता वेदनेन प्रीताः सत्यो वेदितुरभीष्टप्रदा भवन्ति। शंसनेन च्छन्दो- भागानां प्रीत्यभिधानात् प्रातरनुवाकस्य प्रशंसा संपन्ना ॥ विभिन्ने प्रीतिनिमित्ते दृष्टान्तमभिप्रेत्य सोमं पशुं प्रशंसति- ( सोमपासोमपदेवतानां परिगणनम्) त्रयस्त्रिंशद्वै देवाः सोमपास्त्रयस्त्रिंशदसोमपा, अष्टौ वसव ' एकादश रुद्रा' द्वादशाऽऽदित्याः * प्रजापतिश्च वषट्कारश्च,' एते देवाः सोमपाः ( ) ' ' – ( ) १ सामब्राह्मणस्य तिसृभ्यो हिङ्करोति इत्याद्यध्यायद्वयं ता० ब्रा० द्रष्टव्यम्। ( २ ) 'अग्निश्च एतेऽष्टौ वसवः क्षिता इति' – तै ०आ ० १.९.१ । ५०.२,३ ( ३ ) अथ वांयोरेकादश.....प्रभ्राजमाना........ वैद्युत इत्येकादश ' इति तै ० आ ० १.९.४ । 'प्रभ्राजमान इत्येकादश रुद्रा:' -इति च तत्कल्पः । ( ४ ) कतम आदित्या इति? द्वादश....वै मासा तस्मादादित्या इति - इति बृह ०उ० ३.९.५ । .अपरया च गम्यन्ते। तद्यथा—“त्वष्टा, सविता, भगः, सूर्य:, पूषा, विष्णुः, विश्वानरः वरुणः केशी ( केशिनः ), वृषाकपि, यमः, अजएकपात्” –इति निघ० ६.५ । एते हि अरुणोदयाद्यस्तान्तस्याह्नो द्वादशभागानां कर्तारः कालमात्रकृतपार्थक्याश्रयाः सूर्या एव । तथाहि ‘त्वष्टा दुहित्रे’ — इत्यादिः ' वचनानीमानि' – इत्यन्तश्च ( १२.११-३० ) निरुक्त- ग्रन्थोऽत्रालोच्यः । धाता, मित्रः, अर्यमा, शक्रः, विवस्वान्, पूषा, सविता, त्वष्टा, विष्णुः