ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 401–410

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 401–410

पृष्ठ 401

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 401 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३३ ९ एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एतेऽसोमपाः पशुभाजनाः सोमेन सोमपान् प्रीणाति पशुनाऽसोमपान् ॥७ ॥

हिन्दी – ( अब सोमपशु की प्रशंसा कर रहे हैं - ) त्रयस्त्रिंशद्वै देवाः सोमपाः तैंतीस देवता सोमपान करने वाले हैं और त्रयस्त्रिंशद् असोमपाः तैंतीस देवता सोम का पान करने वाले नहीं हैं । अष्टौ वसवः आठ वसु देवता, एकादश रुद्राः ग्यारह रुद्र देवता द्वादश आदित्याः बारह आदित्य देव, प्रजापतिः वषट्कारः च प्रजापति और वषट्-कार- एते देवाः सोमपाः ये (तैंतीस ) देवता सोम का पान करने वाले हैं। एकादश प्रयाजाः ग्यारह प्रयाज, एकादश अनुयाजाः ग्यारह अनुयाज और एकादश उपयाजाः ग्यारह उपयाज - एते असोमपाः ये (तैंतीस) सोम का पान करने वाले नहीं है प्रत्युत पशुभाजनाः पशु को ग्रहण करने वाले हैं । इस प्रकार सोमेन सोमपान् सोम के द्वारा सोम पीने वाले देवताओं और पशुना असोमपान् पशु के द्वारा असोमपायी देवताओं को प्रीणाति प्रसन्न करता है । सा ० भा० - वस्वादीनां वषट्कारान्तानां देवानां सोमयागेन प्रीतिः । होता यक्षदग्निं-मित्यादिमैत्रावरुणप्रैषमन्त्रेषु समिद्धो अद्येत्यादियाज्यासु चाभिहिताः समिदाद्या एकादश प्रयाजदेवताः । ' देवं बर्हिः सुदेवमित्यादिमैत्रावरुणप्रैषमन्त्रेषु देवं बर्हिर्वसुवन इत्यादि या-ज्यासु चाभिहिता बर्हिराद्या एकादशानुयाजदेवताः । समुद्रं गच्छ स्वाहेत्यादिमन्त्रोक्ताः समुद्रादय एकादशोपयाजदेवताः । सर्वा अपि सोमपानवर्जिताः पशुमेव भजन्ते । तासां पशुना तृप्तिः ॥ वेदनं प्रशंसति— इति च द्वादश महाभारते १.२५.२३ । ( ५ ) अष्टौ.....दित्या इमे एव द्यावापृथिव्यौ त्रयस्त्रिंश्यौ, त्रयस्त्रिंशद् वै देवाः । प्रजापतिश्चतुस्त्रिंशः— इति शत० ब्रा० ४.५.७.२। तंत्रैवान्यविधमपि अष्टौ......दित्यास्त एकत्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति' - इति ११.६.३.५ । अदितिर्जनयामास त्रयस्त्रिंशत् शुभान् सुरान् आदित्याश्च वसूश्चैव रुद्राश्चैवाश्विनावपि' - इति च ( रामा ० ३.२०.१५ ) । ( १ ) समिध:, तनूनपात् नराशंसो वा, इळ:, बर्हिः, दुर:, उषासानक्ता, दैव्याहोताराः, तिस्रो देव्य: ( इंडा, सरस्वती, भारती), त्वष्टा, वनस्पतिः, स्वाहाकृतयः, – इत्येकादशप्रयाजदेवताः, तै०ब्रा० ३.६.२.३ द्रष्टव्याः । ( २ ) बर्हिः, द्वारः उषासानक्ता, जोष्ट्री, ऊर्जाहुती, दैव्याहोतारा, तिस्रो देव्याः, नराशंसः वन- स्पतिः, बर्हिः, स्विष्टकृत्; —इत्येकादशानुयाजदेवताः । तै ०ब्रा० ३.६.१३-१४ द्रष्टव्याः । ( ३ ) समुद्रः, अन्तरिक्षम्, सविता, अहोरात्रे, मित्रावरुणौ, सोमः यज्ञः, छन्दांसि, द्यावापृथिवी, दिव्यं नमः, वैश्वानरः, आपः – इत्येकादशोपयाजदेवताः तै ० सं ० १.५.११; ६.४.१ । द्रष्टव्याः । उपयजोमयाजशब्दावेकार्थौ।

पृष्ठ 402

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 402 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३४० ऐतरेयब्राह्मणम् ७.८ द्वितीयपञ्चिकायां उभयो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद ॥८ ॥

हिन्दी—( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार (इस तथ्य को) जानता हैं अस्य इस (ज्ञाता ) के उभयोः एताः देवताः ये (सोमपायी और असोमपायी ) दोनों प्रकार के देवता प्रीताः अभीष्टाः भवन्ति प्रसन्न और अभीष्ट- प्रदायक होते हैं। सा० भा ० — अत्र सोमपानामसोमपानां च भिन्नप्रीतिनिमित्ततया छन्दोभागानां देवतानामितरदेवताविलक्षणं प्रीतिनिमित्तं प्रातरनुवाक इत्यभिप्रायः ॥ तस्य प्रातरनुवाकस्य समाप्तिमृचं विधत्ते— ( प्रातरनुवाकस्य परिधानीयविधानम्) 'अभूदुषा रुशत् पशुरिति उत्तमया परिदधाति ॥ ९ ॥

हिन्दी—( उस प्रातरनुवाक के समापन की ऋचा को कह रहे हैं— ) 'अभूदुषा रुशत् पशुः' इति उत्तमया परिदधाति इस अन्तिम (ऋचा ) से ( प्रातरनुवाक का ) समापन करता है। अत्र कचिदाक्षेपमुत्थापयति— तदाहुर्यत्रीन् क्रतूनन्वाहाऽऽग्नेयमुषस्यमाश्विनं कथमस्यैकयर्चा परि- दधतः सर्वे त्रयः क्रतवः परिहिता भवन्तीति ॥ १० ॥

हिन्दी-( इस विषय में कुछ आक्षेप की उद्भावना कर रहे हैं — ) तदाहुः इस विषय में ( कुछ ब्रह्मवादी ) कहते हैं कि आग्नेयमुषस्यम् आश्विनम् जो अग्नि, उषा और अश्विन् से सम्बन्धित त्रीन् क्रतून् तीन (प्रातरनुवाक सम्बन्धी ) देवों के यागों का अन्वाह अनुवाचन करता है तो कथम् एकया ऋचा किस प्रकार एक ही ऋचा से परिदधतः समापन करते हुए सर्वे त्रयः क्रतवः सभी तीनों याग परिहिताः भवन्ति समाप्त हो जाते हैं । सा ० भा ० — क्रतुशब्दः सोमयागसंबन्धिनः प्रातरनुवाकभागानुपलक्षयति । ते च भागास्त्रय आग्नेय उषस्य आश्विनश्चेति। तत्र सर्वानसौ होता ब्रूते तदानीमेकयर्चा परिधानं कुर्वतोऽस्य होतुस्त्रयो भागाः सर्वेऽपि कथं समापिता भवन्तीत्याक्षेपमाहुः ॥ तत्र समाधानं दर्शयति- अभूदुषा रुशत् पशुरित्युषसो रूपमाऽग्निरधाय्यृत्विय इत्यग्नेरयोजि वां वृषण्वसू रथो दस्स्रावमत्यों माध्वी मम श्रुतं हवमित्यश्चिनोरेवमु हास्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्ति, ( १ ) ऋ० ५.७५.९।

पृष्ठ 403

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 403 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

:: ]: द्वितीयोऽध्यायः अष्टम खण्ड सायणाचार्यकृतभाष्योपेतम् ३४१ भवन्ति ॥ ११ ॥

हिन्दी—(उपर्युक्त आक्षेप का समाधान दिखला रहे हैं - ) ‘ अभूदुषा रुशत् पशुः ’ अर्थात् परस्पर ध्वनि करते हुए पशुओं से युक्त उषा प्रकट हुई है— इति उषसः रूपम् यह ( पाद ) उषा के अनुरूप है। ‘ आऽग्निरधाय्यृत्वियः ' अर्थात् ( अरणिमन्थन रूप ) ऋतु के अनुकूल अग्नि रख दी गयी है ' – इति अग्नेः यह अग्नि के अनुकूल है और ' अयोजि वां वृषण्वसू रथो दस्रावमत्यों माध्वी मम श्रुतं हवम्' अर्थात् वर्धनशील धनसम्पन्न हे अश्विनो! मनुष्यों के लिए अयोग्य तुम्हारे रथ में घोड़े योजित कर दिये गये हैं— इति अश्विनोः यह (अर्धर्च) अश्विनों के अनुरूप है। एवमु इस प्रकार एकया ऋचा एकही ऋचा द्वारा परिदधतः समापन करते हुए अस्य इस यजमान के सर्वे त्रयः क्रतवः सभी तीनों देवताओं के याग परिहिताः भवन्ति समाप्त हो जाते हैं । सा ० भा ० — येयमुषाः सूर्योदयात् पूर्वभाविनी सेयं रुशत् पशुरभूत। रुशन्तः परस्पर- ध्वनिं कुर्वन्तः पशवो यस्यामुषसि सेयं रुशत् पशुः । रात्रौ निद्रां कुर्वन्तः पशव उषःकाले प्राप्ते ध्वनिं कुर्वन्तीति प्रसिद्धमेतत् । उषोदेवताया अस्मिन् पादेऽभिहितत्वादयं प्रथमः पाद उषसो रूपमनुकूल इत्यर्थः । ऋत्वियोऽरणिमथनरूप ऋतुकाले भवस्तादृशोऽग्निरा समन्तादधाय्याधानेन संपादितः । अत्राग्नेरभिधानाद् द्वितीयपादोऽग्ने रूपम्। वृषण्वसू वर्ध-मानधनौ दस्रौ हेऽश्विनौ देवौ वां युवयोरमयों रथो मनुष्याणामयोग्यः समीचीनो रथोऽ-योज्यश्वाभ्यां योजितः । अतो माध्वी मधुरया वाचा मम हवं मदीयमाह्वानं श्रुतं युवां शृणुतम्। अस्मिन्नुत्तरार्धेऽश्विनोरभिधानादयमर्धोऽश्विनो रूपम्। तस्मादेकयर्चा देवतात्रयप्रतिपादिक-यैतमेव प्रातरनुवाकं परिदधतः समापयतोऽस्य होतुस्त्रयः क्रतवः प्रातरनुवाकभागाः सर्वे

परिहिताः समापिताः भवन्ति। पदाभ्यासोऽध्यायसमाप्त्यर्थः ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः द्वितीयाध्याये ( सप्तमाध्याये ) अष्टमः खण्डः ॥८ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये 'वेदार्थप्रकाश' - नामभाष्ये ऐतरेयब्राह्मणस्य द्वितीयपञ्चिकायाः द्वितीयोध्यायः ॥ २ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के सप्तम अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 404

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 404 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ द्वितीयपञ्चिकायाम् तृतीयोऽध्यायः [अथाष्टमोऽध्यायः ] प्रथमः खण्डः

सायणभाष्यम्— पर्यग्न्यादेर्विशेषांश्च स्तोकाः स्वाहाकृतीरपि ।

वपां चाधीयते प्रातरनुवाकविधिः परम् ॥१ ॥

अथापोनप्त्रीयादयो वक्तव्याः । तदर्थमादावाख्यायिकामाह— ( अपोनप्त्रीयानुवचनं विधातुमाख्यायिका ) ऋषयो वै सरस्वत्यां सत्रमासत, ते कवषमैलूषं सोमादनयन् दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति तं बहिर्धन्वो- दवहन्ननैनं पिपासा हन्तु सरस्वत्या उदकं मा पादिति स बहिर्धन्वोदूह्ळः पिपासया वित्त एतदपोनप्त्रीयमपश्यत् ' प्र देवत्रा ब्रह्मणे गातुरेत्विति तेनापां प्रियं धामोपागच्छत् तमापोऽनूदायंस्तं सरस्वती समन्तं पर्य- धावत् ॥ १ ॥

हिन्दी - (अब अपोनप्त्रीय इत्यादि के कथन के लिए पहले आख्यायिका को कह रहे हैं— ) ऋषयः वै ऋषियों ने सरस्वत्याम् सरस्वती (नामक नदी ) के किनारे सत्रम् आसत ( एक बार द्वादशाह से आरम्भ करके तेरह रात्रियों तक चलने वाला) सत्र सम्पादित किया । ते उन (ऋषियों ) ने कवषम् ऐलूषम् ईलूष के पुत्र कवष को सोमाद् . अनयन् ( यह कहते हुए) सोमयाग से बाहर कर दिया कि दास्याः पुत्रः दासी का पुत्र, कितवः जुआड़ी और अब्राह्मणः अब्राह्मण (यह कवष ) नः मध्ये हम ( शिष्ट लोगों) के मध्य में कथं अदीक्षिष्ट किस प्रकार दीक्षित होगा। अतः तम् उस ( कवष ) को बहिः (नदीतट ) के बाहर धन्वाद्वहन् जलरहित- प्रदेश (रेगिस्तान) में बलात् निकाल दिया जिससे एनम् इस (कवष ) को पिपासा हन्तु प्यास मार डाले और वह सरस्वत्याः उदकम् सरस्वती (नदी ) के जल को मा पात् न पी सके। बहिः धन्वोदूढः ( सरस्वती तट से) बाहर निर्जल- स्थान में निकाला गया और पिपासया वित्तः प्यास से व्याकुल सः उस ( कवष ) ने ‘प्र देवत्रा ब्रह्मणे गातुरेतु' इति एतद् अपोनप्त्रीयम् इस अपोनप्त्रीय ( सूक्त ) का अपश्यत् दर्शन किया । तेन उस ( सूक्त के दर्शन) से अपां प्रियं धाम जलों के प्रिय-स्थान

पृष्ठ 405

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 405 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३४३ को उपागच्छत् प्राप्त किया। आपः तम् अनूदायन् जल ( देवता) अनुग्रह करके उस (कवष) को प्राप्त हुए और सरस्वती तं समन्तम् सरस्वती उसके चारो ओर पर्यधावत् प्रवाहित होने लगी । सा० भा ० – भृग्वङ्गिरःप्रभृतय ऋषयः कदाचित् सरस्वत्यामेतन्नामकनदीतीरे सत्र- मासत । द्वादशामाहरभ्योपरितनं त्रयोदशरात्रादिकं बहुयजमानकं कर्म सत्रमित्युच्यते । तदु- द्दिश्य तत्र स्थितवन्तः, सत्रमन्वतिष्ठन्नित्यर्थः । तदानीं तेषां मध्ये कश्चिदिलूषाख्यस्य पुरुष- स्य पुत्रः कवषनामकोऽवस्थितोऽभूत्। ते च ऋषयस्तं कवषं सोमयागान्निःसारितवन्तः । तेषामभिप्राय उच्यते— दास्याः पुत्र इत्युक्तिरधिक्षेपार्था । कितवो द्यूतकारः, तस्माद् अब्रा- ह्मणोऽयम्। ईदृशो नाऽस्माकं शिष्टानां मध्ये स्थित्वा कथं दीक्षां कृतवानिति तेषाम- भिप्रायः । ' तं कवषं सरस्वतीतीराद् बहिदूरे धन्व जलरहितां भूमिं प्रत्युदवहन्नुद्धृतवन्तो बलाद्पसारितवन्तः । धन्वदेशे बलात् प्रेरयितॄणामयमभिप्रायः — अत्र जलवर्जितदेश एनं कवषं पिपासा मारयतु, सरस्वत्या नद्याः पवित्रमुदकमयं पापिष्ठो मा पिबत्विति। स च कवषोऽत्र सरस्वत्वया बहिर्दूरं धन्व निर्जलं देशं प्रत्युदूह्ळ उत्कर्षेणापसारितः पिपासया वित्तो लब्ध आक्रान्तस्तत्परिहारार्थमेतत् 'प्र देवत्रा' इत्यादिकमपोनप्तृदेवताकं सूक्तं ' वेद- मध्ये विचार्यापश्यत् । तेन सूक्तेन जपितेनापां जलाभिमानिनीनां देवतानां प्रियं स्थानमुपा- गच्छत्। तं चाऽऽगतमापो देवता अनूदायन्ननुग्रहेणोत्कर्षो यथा भवति तथा प्राप्तवत्यः । ततः सरस्वती नदी तं कवषं पर्यधावत् परितः प्रवाहवेगेन प्रवृत्ताऽऽसीत् ॥ उक्तमर्थं लोकप्रसिद्ध्या द्रढयति— तस्माद्धाप्येतर्हि परिसारकमित्याचक्षते यदेनं सरस्वती समन्तं परिससार ॥ २ ॥

हिन्दी–( पूर्वोक्त को लोकप्रसिद्धि द्वारा दृढ़ कर रहे हैं — ) यद् एनं समन्तम् जो इस ( कवष ) को चारो ओर से सरस्वती परिससार सरस्वती ने घेर लिया तस्मात् इसी कारण एतर्हि आज भी ( वह तीर्थस्थल के रूप में ) परिसारकम् इति आचक्षते परिसारक नाम से कहा जाता है। सा० भा०– यद्यस्मिन् स्थाने सरस्वती नद्येनं कवर्षं समन्तं सर्वासु दिक्षु परिससार तत्स्थानमेतर्ह्यप्येतस्मिन्नपि काले तीर्थविशेषाभिज्ञाः पुराणकर्तारः परिसारकमित्येतन्नाम्ना व्यवहरन्ति॥ अथ सत्रानुष्ठायिनां तेषामृषीणां कृत्यं दर्शयति— ( १ ) अशिष्ट इति तस्य शिष्टाव्यवहार्यत्वम्, दास्याः पुत्र इति निन्दार्थमुक्तं न तु सत्यमित्याशयः । ( २ ) ऋ० १०.३० ।

पृष्ठ 406

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 406 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३४४ ऐतरेयब्राह्मणम् ८.१ द्वितीयपञ्चिकायां ( सत्रानुष्ठायिनामृषीणां कृत्यम् ) वा ऋषयोऽब्रुवन् विदुर्वा इम देवा उपेमं ह्वयामहा इति तथेति तमुपाह्वयन्त तमुपहूयैतदपोनप्त्रीयमकुर्वत प्र देवत्रा ब्रह्मणे गातुरे- त्विति तेनापां प्रियं धामोपागच्छन्नुपदेवानाम् ॥ ३ ॥

हिन्दी— ( अब सत्र का अनुष्ठान करने वाले ऋषियों के कृत्य को दिखला रहे हैं— ) ते वै ऋषयः अब्रुवन् उन ऋषियों ने कहा- इमम् इस ( कवष ) को देवाः विदुः देवता लोग जानते है अत: इमम् उप ह्वयामहै इसको हम लोग बुला लें। तथा इति (उन लोगों ने इसे स्वीकार करते हुए कहा कि ठीक है। (तब उन ऋषियों ने ) तम् उपाह्वयन्त उस (कवष ) को बुलाया और तम् उपहूय उसको बुलाकर 'प्र देवत्रा ब्रह्मणे गातुरेतु ' तेन उस (प्रयोग) से अपां प्रियं धाम उपागच्छन् जलों के प्रिय स्थान को प्राप्त किया और देवानाम् उप देवताओं की समीपता को (प्राप्त किया )। सा० भा ० — ते भृग्वादयः परस्परमिदमब्रुवन्निमं कवषं देवाः सर्वेऽपि विदुर्वै जा- नन्त्येव, अतोऽस्य कितवत्वादिदोषो नास्ति, तस्मादिममस्मत् समीपं प्रत्याह्वयाम इति विचार्य तमुपहूय तेन दृष्टमेतदपोनप्तृदेवताकं प्र देवत्रेत्यादि सूक्तमकुर्वत प्रयुक्तवन्तः । तेन सूक्तेन जलदेवतानामन्यदेवतानां च प्रियं स्थानमुपागच्छन्॥ एतद् वेदनपूर्वकमुनुष्ठानं च प्रशंसति— उपापां प्रियं धाम गच्छत्युप देवानां जयति परमं लोकं य एवं वेद यश्चैवं विद्वानेतदपोनप्त्रीयं कुरुते ॥ ४ ॥

हिन्दी— (इस ज्ञान के साथ अनुष्ठान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है और यः च एवं विद्वान् जो इस प्रकार जानने वाला अपोनप्त्रीयं कुरुते अपोनप्त्रीय सूक्त का प्रयोग करता है, वह अपां प्रियं धाम उप गच्छति जलों के प्रिय स्थान को प्राप्त करता है, देवानाम् उप देवताओं के सामीप्य को ( प्राप्त करता है )

तथा परमं लोकं जयति परम लोक की जीत लेता है ।

सा० भा ० — यस्मादेवं प्रशस्तं तस्मादपोनप्त्रीयं कुर्यादिति विधिरुन्नेय॥

तस्मिन्नपोनप्त्रीयसूक्ते प्रातरनुवाकवत् प्रसक्तमर्धर्चेऽवसानं निवारयितुं नैरन्तर्यं विधत्ते— ( अपोनप्त्रीयसूक्तस्य नैरन्तर्येणानुवाचनम् ) तत्संततमनुब्रूयात् ॥ ५ ॥

हिन्दी—( अपोनप्यीय सूक्त में प्रातरनुवाक के समान प्राप्त अर्धर्च पर अवसान करने का निवारण कर रहे हैं— ) तत् उस ( अपोनप्त्रीय सूक्त ) का सन्ततम् अनुब्रूयात् (अर्धर्च पर अवसान न करके ) निरन्तर अनुवाचन करना चाहिए ।

पृष्ठ 407

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 407 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३४५ होतुर्वेदनं प्रशंसति— संततवर्षी ह प्रजाभ्यः पर्जन्यो भवति यत्रैवं विद्वानेतत्संततमन्वाह ॥ ६ ॥

हिन्दी– (होता के इस ज्ञान की प्रशंसा कर रहे हैं - ) यत्र जहाँ एवं विद्वान् इस प्रकार जानने वाला (होता) एतत् इस ( सूक्त ) का सन्ततम् अन्वाह निरन्तर अनुवाचन करता है, उसकी प्रजाम्यः प्रजाओं के लिए पर्जन्यः सन्ततवर्षी भवति मेघ अपेक्षित वर्षा करने वाला होता है । सा ० भा ० — पर्जन्यो मेघः, संततवर्षी नैरन्तर्येण वृष्टिमान्यावती वृष्टिरपेक्षिता सा संपूर्णा भवतीत्यर्थः ॥ विपक्षे बाधकपूर्वकं स्वपक्षमुपसंहरति- यदवग्राहमनुब्रूयाज्जीमूतवर्षी ह प्रजाभ्यः पर्जन्यः स्यात्, तस्मात् तत्संततमेवानुच्यम् ॥ ७ ॥

हिन्दी - यद् अवग्राहम् अनुब्रूयात् यदि (होता बार- बार अर्धर्च पर) अवसान करके अनुवाचन करता है तो उसके प्रजाभ्यः प्रजाओं के लिए पर्जन्यः जीमूतवर्षी स्यात् मेघ जीमूतवर्षा (पर्वत के समान रुक-रुक कर वर्षा ) करने वाला होता है । सा० भा ० – अवग्राहं तस्मिंस्तस्मिन्नर्धर्चे पादे वाऽवगृह्यावगृह्य पुनः पुनरवसानं कृत्वा यद्यनुब्रूयात् तदा प्रजोपकारार्थं प्रवृत्तः पर्जन्यो जीमूतवर्षी स्यात्। जीमूः पर्वतः । ‘ जीमूतौ मेघपर्वतौ ’ इत्युक्तत्वात्। ' अनुपयुक्ते पर्वत एव वर्षति न तूपयुक्तेषु सस्येष्वित्यर्थः ।

यस्मादेवं तस्मादवग्रहो न कार्यः । किं तु संततमेवानूच्यम्॥

तस्मिन् सूक्ते प्रथमाया ऋच आवृत्तिसहितं सांतत्यं विधीयते— प्रथमाया ऋचः सावृत्तिं सान्तत्यम् ) तस्य त्रिः प्रथमां संततमन्वाह तेनैव तत्सर्वं संततमनूक्तं भवति ॥८ ॥

हिन्दी - (उस अपोनप्त्रीय सूक्त की प्रथम ऋचा के आवृत्ति के साथ निरन्तरता का विधान कर रहे हैं - ) तस्य उस ( सूक्त) के प्रथम (ऋचा) को त्रिः सन्ततम् अन्वाह तीन बार निरन्तर अनुवाचन करता है। तेन एव उस (निरन्तर अनुवाचन) से तत्सर्वम् वह सम्पूर्ण ( सूक्त ) सन्ततम् अनूक्तं भवति निरन्तर अनुवाचन किया गया प्राप्त होता है । सा ० भा ० – अस्य सूक्तस्य प्रथमायास्त्रिरावृत्तिः सांतत्येन सर्वस्यापि सूक्तस्य सांतत्यं सिघ्यति । प्रथमायाः सांतत्यम् आश्वलायनो दर्शयति— अध्यर्धकारं प्रथमामृगावानमुत्तराः’२ इति । त्रिरावृत्तायाः प्रथमाया अर्धत्रयेणावसानं कृत्वा पठेत् उत्तरासामृचामवसानं कृत्वा पाठः कर्तव्य इत्यर्थः ॥ ( १ ) अमरकोश ३.३.५८ । ( २ ) आश्व० श्रौ० ५.१.५ ।

पृष्ठ 408

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 408 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३४६ ऐतरेयब्राह्मणम् ८.२ द्वितीयपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) प्रथमः खण्डः ॥१ ॥

|| इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा० — तत्सूक्तवचने प्रकारविशेषं विधत्ते— ( अपोनप्त्रीयसूक्तानुवचने प्रकारविशेषविधानम्) ता एता नवानन्तरायमन्वाह ॥ १ ॥

हिन्दी –( इस सूक्त के अनुवाचन में प्रकार- विशेष का विधान कर रहे हैं— ) ताः एताः उन (उस सूक्त ) की इन (ऋचाओं में नव अनन्तरायम् ( प्रारम्भ वाली ) नव ऋचाओं का विना अन्तराल के ( निरन्तर ) अन्वाह अनुवाचन करता है । सा० भा० — प्र देवत्रेत्यारभ्य नवसंख्याका ऋचो याः सन्ति तासां द्वयोर्ऋचोर्मध्येऽ- न्तराया विच्छेदो न भवति तथाऽनुब्रूयात् ॥ अपरं विशेषं विधत्ते— ' हिनोता नो अध्वरं देवयज्येति' दशमीम् ॥ २ ॥

हिन्दी -( अन्य विशेष को कह रहे हैं - ) 'हिनोता नो अध्वरं देवयज्या' इति दशमी ( ग्यारहवीं ऋचा ) का दशमी (ऋचा) के स्थान पर ( पाठ करना चाहिए ) । विमर्श—( १ ) सूक्त की नवमी ऋचा तक निरन्तर अनुवाचन करने के बाद दशमी ऋचा ‘ आवर्वृततीरध' के स्थान पर एकादशी 'हिनोता नो' इत्यादि ऋचा का पाठ करना चाहिए। सा० भा ० — अध्ययनक्रमेणाऽऽवर्वृततीरिति दशमी । ता परित्यज्य तदुत्तरभाविनी ‘ हिनोता न: ’ २ इति दशमी कृत्वाऽनुब्रूयात्॥ परित्यक्तायास्तस्या अनुवचने कालविशेषं विधत्ते— आवर्वृततीरध नु द्विधारा इत्यावृत्तास्वेकधनासु ॥ ३ ॥

हिन्दी– ( सूक्त की परित्यक्त दशमी ऋचा के अनुवाचन में काल--विशेष का विधान ( १ ) ऋ० १०.३०.१० । (२ ) ऋ ० १०.३०.११।

पृष्ठ 409

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 409 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]: तृतीयोऽध्यायः द्वितीयः खण्ड सायणाचार्यकृतभाष्योपेतम् ३४७ कर रहे हैं - ) आवृतासु एकधनासु एकधना ( नामक जल ) को ( नदी से ) ले आते समय ‘ आवर्वृततीरध नु द्विधारा’- इति इस (दशमी ऋचा ) का (एकादशी ऋचा 'हिनोता नो' के स्थान पर) अनुवाचन करता है । सा० भा ० — अत्रायं प्रयोगक्रमः - सुत्यादिनात् पूर्वस्मिन् दिने अग्नीषोमीयं पशु- मनुष्ठाय वसती वरीसंज्ञिताः सोमाभिषवकाले सवनीयाः ' अपः स्वानीय वेद्यामवस्थाप्य मध्यरात्रादूर्ध्वं निद्रां परित्यज्याऽऽग्नीध्रधिष्ण्यादींस्तत्तन्मन्त्रैरभिमृश्य सोमादीनां पात्राण्या- साद्य प्रातरनुवाकार्थं होतारं संप्रेष्य प्रातरनुवाकान्ते 'शृणोत्वग्निः ' इति मन्त्रेण हुत्वा तत एकधनाः ' अप आनेतुं गच्छन्नपोनप्त्रीयसूक्तार्थ होतारं संप्रष्यैकधना अप आनयेदिति । सोऽयं प्रयोगक्रम आध्वर्यवसूत्रेषु द्रष्टव्यः । तत्र होतारं प्रत्यपोनप्त्रीयविषये प्रैषम् आपस्तम्बो दर्शयति— ‘ यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं म इत्यपरं चतुर्गृहीतं गृहीत्वा संप्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैक- धनिन आद्रवत नेष्टः पत्नीमुदानयोन्त्रेतहोंतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्स्व इति ४ इति। अस्मात् प्रैषादूर्ध्वं होता सूक्तमनुब्रूयात्। तदाहाश्वलायनः - परिहितेऽप इष्य होतरि- त्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाह " इति । तत्र पूर्वोक्तदशमीसहिता ऋचोऽनूच्यैकधनिनः पुरुषाः प्रेषिताः सन्त एकधनाख्या अपो घटैर्गृहीत्वा यद् जलसमीपादावर्तन्ते तदानीं तास्वेकधनास्वप्स्वावृत्तासु सतीषु तदावृत्तिं प्रतीक्षमाणो होता पूर्वं परित्यक्ताम् ' आवर्वृतती: ' ६ इत्येतामृचं तस्मिन् कालेऽनुब्रूयादित्यर्थः ॥ ऋगन्तरकालं विधत्ते— 'प्रति यदापो अदृश्रमायतीरिति' प्रतिदृश्यमानासु ॥४ ॥

( १ ) “ अग्नीषेमीयस्य वपामार्जनान्ते वसतीवरीग्रहणं " इति कात्या० श्र ० ८.९.७ । 'सोमार्था आपो वसतीवरीशब्देनोच्यन्ते' - इत्यादिश्च तद्वृत्तिः । ' यत्र होतुः गृह्णाति' - इति आप० श्रौ० १२.५.५ । यावत्यध्वनि प्रांतरनुवाकस्य शब्दः श्रूयते तावत्येव वहन्तीनामपो गृह्णाति' इति च तद्वृत्तिः । 'वसतु नु न इदमिति तद्वसतीवरीणां वसतीवरीत्वम्' इति तन्नामनिर्वचनम् तै ० सं ० ६.४.२.१ । द्रष्टव्यम्। वसतीवरीग्रहणविध्यादिकं तु तत्रैव तत उत्तरं द्रष्टव्यम्। तत्तन्मन्त्रास्त्वाम्नातास्तत्र प्रथमे काण्डे ३.१२.१३ । ( २ ) तै ० सं० १.३.१३ । ( ३ ) 'एकधनशब्दार्थ स्वयमेव व्याचष्टे - ( प्रत्यगेकधनानयुग्मान्) उदहरणांस्त्रिप्रभृत्या पञ्च- दशभ्यः ' इति सू० । उदकं ह्रियत एभिरित्युदहरणाः कलशाः । त्र्यादि पञ्चदशपर्यन्तम्। अयुग्मसंख्यान् विषमसंख्यान् ( शत०ब्रा ० ३.९.३.३४ ) । ' अग्निष्टोमे त्रयः पञ्च वा आप्तोर्यामे त्रयोदय वा पञ्चदश वेति' - इत्यादि कात्या० श्र० ९.२.२३ वृ० । एकधन- स्थानं चोत्तरस्य हविर्धानस्याधस्तादक्षस्य पश्चात् इति च तत्रैव० ९.४.१ । (४ ) आप० श्र० १२.५.१.२ । ( ५ ) आश्व ० श्री० ५.१.१ । (६ ) ऋ० १०.३०.१० ।

पृष्ठ 410

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 410 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ३४८ ऐतरेयब्राह्मणम् ८.२ द्वितीयपञ्चिकायां हिन्दी— ( अन्य ऋचा के प्रयोग काल का विधान कर रहे हैं — ) प्रतिदृश्यमानासु ( एकधना नामक जल को लेकर ) लौटते हुए पुरुषों के देखने पर 'प्रति यदापो अदृश्रमायती: ’ इति इस ( तेरहवी ऋचा ) का (होता अनुवाचन करता हैं ) । सा ० भा ० — ता एकधनाख्या आपो ग्रहणस्थानात् प्रतिनिवृत्य तैः पुरुषैरानीयमाना यदा होत्रा दृश्यन्ते तदानीं ‘प्रति यदाप: ' इत्येतामृचमनुब्रूयात्॥ पुरनप्यृगन्तरकालं विधत्ते— ' आ धेनवः पयसा तूर्ण्यर्था' इत्युपायतीषु ॥ ५ ॥

हिन्दी –( पुन: अन्य ऋचा के अनुवाचन काल का विधान कर रहे हैं - ) उपायतीषु (जल के चत्वाल के ) समीप आने पर ' आ धेनवः पयसा तूर्ण्यर्था: ' - इति इस (ऋचा ) का ( अनुवाचन करता है ) । सा० भा ० — होत्रा दृष्टास्ता एकधनाख्या आपो यदा चात्वालसमीपं प्रत्यागच्छन्ति तदानीमुपायतीषु समीपमागच्छन्तीषु तासु ' आ धेनवः ' इत्येतामृचं ब्रूयात् ॥ पुनरप्यृगन्तरकालं विधत्ते- 'समन्या यन्त्युप यन्त्यन्याः ' इति समायतीषु ॥६ ॥

हिन्दी— ( पुनः अन्य ऋचा के अनुवाचन काल का विधान कर रहे हैं — ) समायतीषु (वसतीवरी और एकधना नामक जल के ) परस्पर मिलाये जाने के समय 'समन्या यन्त्युप यन्त्यन्याः ' इति इस (ऋचा ) का (होता अनुवाचन करता है। ) सा० भा०० - पूर्वत्र 'उन्नेतर्होतुचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्स्वेति' इति आपस्तम्बसूत्रोक्तः ' प्रैष उदाहृतः । तत उन्नेता होतृसंबन्धिनं चमसं वसतीवर्याख्याः पूर्वदि- नानीता अपश्चत्वालसमीपे समानयति। मैत्रावरुणस्य चमसाध्वर्यवाद्रवेति प्रेषितत्वान् मैत्रा- वरुणस्य परिचारकश्चमसाध्वर्युरपि तदीयं चमसं चात्वालसमीपे समानयति । तेन होतृचमसे मैत्रावरुणचमसगतास्वेकधनास्वध्वर्युणा समीपनीतासु संयोजयितुं समागातासु ‘ समन्या यन्ति’ इत्यादिकामृचमनुब्रूयात्। ” तमेतमनुवचनकालम् आपस्तम्बो विशदयति— 'होतृचमसेन वसतीवरीभ्यो ' निषिच्योपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च संस्पर्श्य वसतीवरी- र्व्यानयति ‘ समन्या यन्ति ’ इत्यभिज्ञाय होतृचमसान् मैत्रावरुणचमस आनयति मैत्रा-वरुणचमसाद्धोतृचमस एतद्वा विपरीतम् " इति ॥ एतस्या ऋच: प्रशंसार्थमाख्यायिकामाह— ( ) ( )( १ ) ऋ० १०.३०.१३ ( २ ) ऋ० ५.४३.१ ।( ५३ ) आपआप०० श्रौश्रौ०० १२.६.१,२१२.५.२ ४ ऋ० २.३५.३