ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 411–420
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 411–420
पृष्ठ 411
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३४९ आपो वा अस्पर्धन्त वयं पूर्वं यज्ञं वक्ष्यामो वयमिति याश्चेमाः पूर्वेद्युर्वसतीवर्यो गृह्यन्ते याश्च प्रातरेकधनास्ता भृगुरपश्यदापो वै स्पर्धन्त इति ता एतयर्चा समज्ञपयत् ' समन्या यन्त्युप यन्त्यन्याः ' इति ताः समजानत ॥७ ॥
हिन्दी– (इस ऋचा की प्रशंसा में आख्यायिका को कह रहे हैं - ) याः च इमा पूर्वेद्युः वसतीवर्यः गृहन्ते याः च प्रातः एकधनाः जो जो( उसीये पूर्ववर्तीदिन ) प्रातदिन:काललाये गयेलायेवसतीवरीगये एकधना( नामक(नामकजल जलहैं) और) हैं उन आपः वै अस्पर्धन्त जलों ने परस्पर स्पर्धा किया कि वयं पूर्वं यज्ञं वक्ष्यामः वयम् हम पहले यज्ञ का वहन करेंगे, हम पहले यज्ञ का वहन करेंगे। ताः भृगुः अपश्यत उन (स्पर्धा करते हुए जलों ) को भृगु ऋषि ने देखा कि आपः वै स्पर्धन्त जल परस्पर स्पर्धा कर रहे हैं । ताः उन (जलों ) को ' समन्या यन्त्युप यन्त्यन्याः' इति एतया ऋचा इस ऋचा से समज्ञपयत् परस्पर एक मत वाला किया। इति ताः समजानत (इस ऋचा से) वे (जल ) परस्पर एक मत हो गये। सा० भा ० - पूर्वेद्युः संपादिता वसतीवर्याख्या या आपो याश्च परेद्युः संपादिता. एकधनाख्यास्ता उभयविधा अपि यज्ञनिर्वहणे पूर्वभावित्वार्थमन्योन्तयं स्पर्धां कृतवत्यः । - तदानीं भृगुनामक ऋषिराप एव परस्परं स्पर्धन्त्य इत्यपश्यत्। अर्थवादत्वादचेतनानां स्पर्धायां न चोदनीयम् । यद्वा, तत्तदभिमानिनी देवताऽस्पर्धतेत्यवगन्तव्यम्। ततो भृगुः स्पर्धां दृष्ट्वा ‘ समन्या यन्ति' इत्येतयर्चा ता उभयीरपः समज्ञपयत् संज्ञानं परस्पमैकमत्यं प्रापयत्। ततो मन्त्रसामर्थ्यात् ना उभयविधा आपः समजानतैकमत्यं प्राप्ताः ॥ .वेदनं प्रशंसति— संजानाना हास्याss पो यज्ञं वहन्ति य एवं वेद ॥८ ॥
हिन्दी -( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है अस्य इस ( जानने वाले ) के संजानानाः आपः परस्पर एक मत हुए जल यज्ञं वहन्ति यज्ञ का निर्वहन करते हैं। सा० भा०– या वसतीवर्यो याश्चैकधनास्ता द्विविधा अपि संजानानाः परस्परमैक-मत्यं प्राप्ता अस्य विदुषो यज्ञं निर्वहन्ति॥ ऋगन्तरकालं विधत्ते- ' आपो न देवीरुपयन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह वसतीवरीष्वेकधनासु च ॥९ ॥
हिन्दी— ( पुन: अन्य ऋचा के प्रयोग के काल का विधान कर रहे हैं— ) वसती-
पृष्ठ 412
पाठ पढ़ें पाठ छिपाएँ
: [३५० ऐतरेयब्राह्मणम् ८.२ द्वितीयपञ्चिकायां वरीषु एकधनासु च वसतीवरी और एकधना नामक दोनों जलों को होतृचमसे समवनीयमानासु होतृचमस में डाले जाते समय ' आपो न देवीरुपयन्ति होत्रियम् — इति अन्वाह इस ( ऋचा) का होता अनुवाचन करता है । सा० भा ० —– एतासु द्विविधास्वप्सु होतृचमसे सिच्यमानासु तस्मिन् काले ‘ आपो न देवी: ' " इत्येतामृचमनुब्रूयात्॥ अथ होतुः कंचिद यजुरात्मकं मन्त्रं विधत्ते— ( होतुः प्रश्नार्थं यजुर्मन्त्रः ) अवेरपोऽध्वर्या ३३ इति होताऽध्वर्युं पृच्छति ॥१० ॥
हिन्दी –( अब होता के लिए किसी यजुष् मन्त्र का विधान कर रहे हैं— ) ' अवे: अपो अध्वर्युः आ नु ' अर्थात् हे अध्वर्यु । क्या तुम्हें जल प्राप्त हो गये हैं— इति होता अध्वर्युं पृच्छति इस प्रकार होता अध्वर्यु से पूछता है । सा ० भा ० — हे अध्वयों द्विविधा अपः किमवेर्लब्धवानसि। अस्मिन् मन्त्रे प्लुतिः ’ प्रश्नार्था । तमेतं मन्त्रं व्याचष्टे— आपो वै यज्ञोऽविदो यज्ञा३ म्, इत्येव तदाह ॥ ११ ॥
हिन्दी –( इस उपर्युक्त मन्त्र का व्याख्यान कर रहे हैं - ) आपः वै यज्ञः ( सोमसवन का साधन होने के कारण) जल यज्ञरूप है। अतः अविदः यज्ञम् क्या यज्ञरूप जल मिल गया' इति एव तदाह यही (होता अध्वर्यु से ) कहता है । सा० भा०-० - एतद्विविधा अप्यापः सोमाभिषवसाधनत्वेन यज्ञनिर्वाहकत्वाद् यज्ञ- स्वरूपा एव । तथा सति यज्ञमब्रूपमविदः किं लब्धवानसीत्यनेन प्रकारेण तदाह तन्मन्त्र- वाक्यं ब्रूते । यज्ञा ३मिति प्लुतिः पूर्ववत्॥ अध्वर्योः प्रत्युत्तरमन्त्रं विधत्ते- ( अध्वर्योः प्रत्युत्तरमन्त्रः ) उतेमनन्नमुरित्यध्वर्युः प्रत्याह ॥ १२ ॥
हिन्दी— ( अध्वर्यु द्वारा उत्तर में दिये गये मन्त्र का विधान कर रहे हैं - ) उत ईम अनन्नम् उ यहाँ दोनों जल प्राप्त हो गये हैं— इति अध्वर्युः प्रत्याह इस प्रकार अध्वर्यु (( होता) से ) प्रत्युत्तर कहता है। ( ) (३१ ) ऋपा०० सू०१.७३.२८.२.१०७। वा० १ । २ पा०सू० ७.२.१०७ वा ० १।
पृष्ठ 413
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३५१ सा० भा० — उतशब्दोऽपिशब्दार्थः । ईमिति ' वाक्यपूरणाथों निपात इमा इत्यस्मिन्नर्थे वर्तते। इमा द्विविधा अप्यापोऽनन्नमुरतिशयेनोपनताः प्राप्ता इति ॥ एतमध्वर्योरुत्तरमन्त्रं व्याचष्टे- उतेमाः पश्येत्येव तदाह ॥ १३ ॥
हिन्दी—( अध्वर्यु द्वारा कथित प्रत्युत्तर मन्त्र का व्याख्यान कर रहे हैं— ) उत इमाः पश्य (हे होता) इन ( दोनो जलों) को देखो- इति एव तदाह इसी को यह ( अध्वर्यु होता से) कहता है । सा ० भा ० — इमा द्विविधा अप्यपो हे होतः पश्येत्यनेन प्रकारेण तन्मन्त्रवाक्यं ब्रूते। शाखान्तरेऽप्येतत् सर्वं श्रुतम्--- अध्वर्योऽवेरपा इत्याहोतेमनन्नमुरुतेमाः पश्येति वावैत- दाहेति॥’ अथ किञ्चिन्निगदरूपेण मन्त्रेण होतुः प्रत्युत्थानं विधत्ते- ( निगदरूपेण मन्त्रेण होतुः प्रत्युत्थानविधानम् ) तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टिवनि तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते । यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत् प्र स जन्याति तारिषो ३ मिति प्रत्युत्तिष्ठति ॥१४ ॥
हिन्दी---( अब किसी निगद रूप मन्त्र से होता के प्रत्युत्थान का विधान कर रहे हैं— ) ( मन्त्र ) अध्वर्यो हे अध्वर्यु! तासु उन (जलों ) में वसुमते वसुवों से युक्त, रुद्रवते रुद्रों से युक्त आदित्यवते आदित्यों से युक्त, ऋभुमते ऋभुओं से युक्त, विभुमते समर्थ भृत्यों से युक्त, वाजवते अन्नों से युक्त, बृहस्पतिवते बृहस्पति से युक्त और विश्वदेव्यावते विश्वेदेवो से युक्त इन्द्राय इन्द्र के लिए, मधुमन्तम् माधुर्ययुक्त वृष्टिवनि वृष्टिप्रदाता तीव्रान्तम् अवश्यम्भावी फल देने वाले और बहुरमध्वम् बहुत से अनुष्ठानों के मध्य में रहने वाले सोमं सोतः सोम का सवन करने वाले होवो। इन्द्रः इन्द्र ने यस्य जिस ( सोम) के (रस को) पीत्वा पान करके वृत्राणि जङ्घनत् ( यजमान के ) शत्रुओं को मार डाला है और सः उस ( इन्द्र ) ने जन्यानि सम्भावित पापों को प्र तारिष प्रकृष्टरूप से पार करता है । पुनः ओम् इति प्रत्युतिष्ठति ओम् यह (कह कर) होता उनके प्रति उठता है । सा ० भा ० — तास्वित्यादिरोमित्यन्तो निगदः । तेन मन्त्रेण होता द्विविधानामप्यपां ( १ ) अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा अगच्छन्ति, पदपूरणास्ते मिताक्षरेऽ- वनर्थकाः कमीमिद्विति ( कम्, ईम्, इत, उ ) – इति निरु० ३.३.५ । (२ ) तै ० सं० ६.४.३.४ ।
पृष्ठ 414
पाठ पढ़ें पाठ छिपाएँ
: [३५२ ऐतरेयब्राह्मणम् ८.२ द्वितीयपञ्चिकायां प्रत्युत्थानं कुर्यात्। हे अध्वर्यो द्विविधास्वप्सु सोमं सोता सोमस्याभिषवकर्ता भव। कीदृशं सोमं, मधुमन्तं माधुर्यरसोपेतं वृष्टिवनि वृष्टेः संभजनकर्तार वृष्टिप्रदमित्यर्थः। तीव्रान्तं तीव्रम-वश्यंभावि फलमन्ते यस्य सोमस्य सोऽयं तीव्रान्तः । अविघ्नेन सोमयागे समाप्ते सति सर्वथा फलत्येवेत्यर्थः । बहुरमध्यं बहुलमङ्गादिकमनुष्ठानं मध्ये प्रारम्भसमाप्त्योरन्तराले यस्यासौ बहुरमध्यः । ऋत्विग्वरणमारभ्योदसवानीयेष्टेः पूर्वं दीक्षणीयाद्यङ्गकर्मभिरुपांश्वन्तर्यामग्रहादि-भिश्च प्रधानैरनुष्ठानबाहुल्यं प्रसिद्धम्। कीदृशायेन्द्राय? वसुरुद्रादित्यैरन्यैरप्यृभुभिर्देवैर्विभिः प्रधानैरनुष्ठानबाहुल्यं बृहस्पतिना सुरगुरुणा सर्वदेवहितैर्भोग्यैश्च युक्तत्वेन वस्वादिमते । अय- मिन्द्रो यस्य सोमस्य वल्लीरूपस्य रसं पीत्वा वृत्राणि यजमानस्य शत्रून् पापानि च जङ्घनद् विनाशितवांस्तादृशं सोममिति पूर्वत्रान्वयः; अथवा यस्य यजमानस्य संबन्धिनं सोमं पीत्वेति व्याख्येयम्। स यजमानो जन्यानि जने संभावितानि पापानि प्रतारिषत् प्रकर्षेण तीर्णवान्
भवति। ओमित्यङ्गीकारार्थः । अयं युक्तार्थ एवमेवेत्यङ्गीकारार्थः ॥
एतन्मन्त्रसाध्यं प्रत्युत्थानमुपपादयति—. प्रत्युत्थेया वा आपः प्रति वै श्रेयांसमायन् तमुत्तिष्ठन्ति, तस्मात् प्रत्युत्थेयाः ॥ १५ ॥
हिन्दी -(इस मन्त्र से साध्य प्रत्युत्थान को उपपादित कर रहे हैं - ) प्रत्युत्थेयाः वै आपः जल ही प्रत्युत्थान के योग्य हैं। श्रेयांसम् आयन् ( जिस प्रकार लोक में किसी ) अत्यन्त सम्मानित व्यक्ति ( आचार्य इत्यादि ) के आने पर तं प्रति उत्तिष्ठन्ति उसके प्रति ( सम्मान में) सभी लोग खड़े हो जाते हैं। तस्मात् इसी कारण प्रत्युत्थेयाः (जल) प्रत्युत्थान के योग्य है। सा० भा० — याश्च द्विविधा आपस्ताः प्रत्युत्येषा एव। दर्शनानन्तरमेव प्रत्युत्थानं कर्तव्यम्। लोकेऽपि श्रेयांसमतिप्रशस्तमाचार्यपित्रादिकमायान्तं स्वसंमुखत्वेन समागच्छन्तं प्रति शिष्यपुत्रादय उत्तिष्ठन्त्येव। ' तस्मादतिप्रशस्ता आपः प्रत्युत्थानयोग्याः ॥ न केवलं प्रत्युत्थानं कि त्वनुवर्तनमपि कर्तव्यमिति विधत्ते— ( होतुरपानुवर्तनविधानम्) अनुपर्यावृत्याः ॥ १६ ॥
हिन्दी— ( केवल प्रत्युत्थान ही नहीं किन्तु अनुवर्तन करने का भी विधान कर रहे हैं— ) अनुपर्यावृत्याः ( ये जल प्रत्युत्थान ही नहीं प्रत्युत) परितः सञ्चरण (प्रदक्षिणा) के
योग्य भी हैं ।
सा ० भा ० - अनु पृष्ठतः पर्यावृत्याः परितः संचरणयोग्या द्विविधा आपः ॥
( १ ) मनु० २.११ ९, १२० श्लो० ।
पृष्ठ 415
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३५३ तदेतदुपपादयति— अनु वै श्रेयांसं पर्यावर्तन्ते तस्मादनुपर्यावृत्या अनुब्रुवतैवानुप्रपत्तव्यम्॥१७॥
हिन्दी—(उक्त कथन को उपपादित कर रहे हैं - ) श्रेयांसम् अनु पर्यावर्तन्ते ( आचार्य इत्यादि ) श्रेष्ठ का अनुसरण करके (शिष्य) सञ्चरण करता है, तस्मात् इसी कारण अनुब्रुवता ( पूर्वोक्त अपोनप्त्रीय का) अनुवाचन करते हुए (शिष्यस्थानीय होता) द्वारा अनुपर्यावृत्य (जल का ) अनुगमन करते हुए अनुप्रपत्तव्यम् पीछे- पीछे अनुगमन किया जाना चाहिए । सा ० भा ० — श्रेयांसमाचार्यादिकमनुगम्य शिष्यादयः परितः संचरन्ति। तस्मादत्रापि शिष्यस्थानीयेन होत्रा पूर्वोक्तमपोनप्त्रीयं निगदमनुब्रुवतैव तासामपां पृष्ठतोऽनुगन्तव्यम्॥ ननु यागकर्तृत्वाद् यजमानस्यैवानुव्रजनं युक्तं न तु होतुरित्याशङ्क्याऽऽह—. ईश्वरो ह यद्यप्यन्यो यजेताथ होतारं यशोऽतस्तस्मादनुब्रुवतैवानु- प्रपत्तव्यम् ॥१८ ॥
हिन्दी - यद्यपि अन्यः यजेत् यद्यपि दूसरा (व्यक्ति ) यजन करता है अथ तब भी होतारं यशो अतः ईश्वरः होता ही यश और कीर्ति प्राप्त करने में समर्थ होता है । तस्मात् इसी कारण अनुब्रुवता अनुवाचन करते हुए (शिष्य-स्थानीय होता) के द्वारा ही अनुप्रपत्तव्यम् ( जलों का ) अनुगमन किया जाना चाहिए। सा ० भा ० – यद्यपि होता यागकर्ता न भवत्यथाप्यनुव्रजन्तं होतारं यशः कीर्तिरतोंरीश्वरो ह प्राप्तुं समर्थेव। तस्मात् कीर्तिहेतुत्वादनुब्रुवतैवं होत्रा तासामपामनुगमनं कर्तव्यम्॥ ननु प्र देवत्रेत्यादीनामृचां तास्वध्वर्यवित्यादिनिगदस्य च पूर्वमेवानूक्तत्वाद् इतः परमनुगमनकाले किमनुवक्तव्यमित्याशङ्क्यानुवक्तव्यामवशिष्टामृचं विधत्ते— ' अम्बयो यन्त्यध्वभिः " इति एतामनुब्रुवन्ननु प्रपद्येत ॥ १ ९ ॥ हिन्दी - ( अन्य अवशिष्ट ऋचा का विधान कर रहे हैं - ) ' अम्बयो यन्त्यध्वभिः ’ इति एताम् अनुब्रवन् इस ऋचा का अनुवाचन करते हुए (होता) अनुप्रपद्येत् (जल का ) अनुगमन करें। अस्या ऋचो द्वितीयतृतीयपादावनुवदति—
'जामयो अध्वरीयताम्। पृञ्चतीर्मधुना पयः ' इति ॥ २० ॥
हिन्दी —(उपर्युक्त ऋचा के द्वितीय और तृतीय पादों को कह रहे हैं ) अध्वरीयतां जामयः यज्ञ की इच्छा करने वाले (यजमान) की बहनें मधुना पयः पृञ्चतीः मधुर ( १ ) ऋ० १.२३.१६।
पृष्ठ 416
पाठ पढ़ें पाठ छिपाएँ
: [३५४ ऐतरेयब्राह्मणम् ८.२ द्वितीयपञ्चिकायां (सोमरस) से जल को संयोजित करती हुई होती है और अम्बयः माता के समान (वसतीवरी और एकधना नामक जल) अध्वभिः अनेक मार्गों से यन्ति जाते हैं। सा० भा० — तस्यायमर्थः - अम्बेत्यव्ययं मातृवाचकं तद्रूपत्वं यातीत्यम्बयाः । छा-न्दसो ह्रस्वः । मातृसमाना एता द्विविधा आपोऽध्वभिर्नानाविधैर्मार्गैर्यन्ति गच्छन्ति । कीदृश्यः? अध्वरीयतामध्वरं यज्ञमात्मन इच्छतां यजमानानां जामयः सनाभयो भ्रातृस्थानीया इत्यर्थः । तथा स्वकीयं पय उदकं मधुना मधुरेण सोमरसेन पृञ्चतीः संयोजयन्त्यः ॥ अस्यामृचि मघुशब्दतात्पर्यं दर्शयति— योऽमधव्यो यशोऽर्तोर्बुभूषेत् ॥ २१ ॥
हिन्दी - (इसऋचा में प्रयुक्त ' मधु' शब्द के तात्पर्य को दिखला रहे हैं— ) य: अमधव्यः जो मधुर (सोमरस ) को नहीं चाहता है और यशः अर्तोः बुभूषेत् यश पाने में समर्थ होना चाहता है ( तो वह पूर्वोक्त ऋचा का अनुवाचन करते हुए अनुगमन करें ) । सा० भा ० — यः पुमान् पूर्वममधव्यो मधुररसं सोमं नार्हति स यदि यशोऽर्तोः सोमयागनिमित्तां कीर्ति प्राप्तुं समर्थों भवितुमिच्छेत् स पुमान् पूर्वोक्तामनुब्रुवन्ननुप्रपद्येते- त्यन्वयः ॥ ऋगन्तरं फलविशेषाय विधत्ते- ( फलविशेषाय ऋगन्तरकथनम् ) ( तत्र तेजस्कामाय ऋगन्तरकथनम् ) ' अमूर्या उपसूर्ये याभिर्वा सूर्यः सह' इति तेजस्कामो ब्रह्मवर्चस- कामः ॥२२ ॥
हिन्दी - (फल-विशेष के लिए अन्य ऋचा का विधान कर रहे हैं - ) तेजस्कामः ब्रह्मवर्चसकामः तेज की कामना करने वाला और ब्रह्मवर्चस की कामना करने वाला ( यजमान ) ‘ अमूर्या उपसूर्ये याभिर्वा सूर्यः सह' अर्थात् यह सम्पूर्ण सूर्य के पास है अथवा सूर्य इस जल के पास है’ — इति इस (ऋचा ) का ( अनुवाचन करते हुए अनुगमन करें ) । सा ० भा ० — शरीरकान्ति श्रुताध्ययनसंपत्ति च कामयमानः पुमान् ‘ अमूर्याः ” इत्येतामृचमनुब्रूयात् । फलान्तरार्थमृगन्तरं विधत्ते— ( पशुकामाय ऋगन्तरकथनम्) ' अपो देवीरूप ह्वये यत्र गावः पिबन्ति नः ' इति पशुकामः ॥ २३ ॥
( १ ) ऋ० १.२३.१७।
पृष्ठ 417
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३५५ हिन्दी–( फल -विशेष के लिए अन्य ऋचा का विधान कर रहे हैं— ) पशुकामः पशु की कामना करने वाला ( यजमान) 'अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ' अर्थात् हमारी गायें जिस जल का पान करती हैं, उस जल का हम आह्वान करते हैं- इति इस
ऋचा का ( अनुवाचन करते हुए अनुगमन करें)।
सा० भा०-- पशुप्राप्त्यर्थम् ' अपो देवीः ” इत्येतामृचमनुब्रूयात् ॥
अम्बयो यन्त्यमूर्या अपो देवीरित्येतासां तिसृणां विधिमुपसंहरति- ( विधेरुपसंहारः ) ता एताः सर्वा एवानुब्रुवन्ननुप्रपद्येतैतेषां कामानामवरुद्ध्यै ॥२४ ॥
हिन्दी - (उपर्युक्त तीनों ऋचाओं का उपसंहार कर रहे हैं - ) एतेषां सर्वेषां कामानाम् उपर्युक्त इन सभी ( तीनों ) कामनाओं की अवरुद्ध्यै प्राप्ति के लिए ताः एताः सर्वाः एव अनुब्रुवन् उन (उपर्युक्त) इन सभी (तीनों ऋचाओं) का अनुवाचन करते हुए अनुप्रपद्येत् अनुगमन करना चाहिए । सा० भा० – अथवा नित्यानुष्ठानार्थोऽयं पुनर्विधिः । एतेषामित्यादिस्तत्प्रशंसार्थः ॥ वेदनं प्रशंसति— एतान् कामानवरुन्धे य एवं वेद ॥ २५ ॥
हिन्दी - (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह एतान् कामान् अवरुन्धे इस सभी कामनाओं को प्राप्त करता है । ऋगन्तरस्य कालं विधत्ते— 'एमा अग्मन् रेवतीर्जीवधन्या' इति साद्यमानास्वन्वाह वसतीव- रीष्वेकधनासु च ॥ २६ ॥
हिन्दी - ( अन्य ऋचा के अनुवाचन काल का विधान कर रहे हैं - ) वसतीवरीषु एकधना ( नामक जलों ) को ( वेदि पर ) रखेएकधनाषु साद्यमानासु वसतीवरी और जाते समय ‘ एमा अग्मन् रेवतीजवधन्या' अर्थात् जीवों के लिए हितकारी और धन के आधारभूत ये (जल) आ रहे हैं'–इति अन्वाह इस (ऋचा) का (होता) अनुवाचन करता है । सा० भा ० — उक्ता द्विविधा आपो यदा वेद्यां साद्यन्ते तदानीम् ‘एमा अग्मन्’र इत्येतामनुब्रूयात् ॥ ऋगन्तरेण समाप्तिं विधत्ते— १०.३०.१४।( १ ) ऋ० १.२३ १८। (२ ) ऋ ०
पृष्ठ 418
पाठ पढ़ें पाठ छिपाएँ
: [ ३५६ ऐतरेयब्राह्मणम् ८. ३ द्वितीयपञ्चिकायां ( अपोनप्त्रीय समापनविधानम् ) ' आग्मन्नाय उशतीर्बर्हिरेदम्' इति सन्नासु स एतया परिदधाति ॥ २७ ॥
हिन्दी—( अन्य ऋचा के द्वारा कर्म की समाप्ति को कह रहे हैं— ) सन्नासु ( जलों के वेदि पर) रख दिये जाने पर ‘'आग्मन्नाय उशतीर्बहिरेदम्' अर्थात् तत्परता के साथ जल कुश की ओर जा रहे हैं' – इति एतया इस (ऋचा ) से सः वह ( होता) परिदधाति कर्म का समापन करता है । सा० भा० -द्विविधास्वप्सु वेद्यां स्थापितास्वाऽग्मन्नाप' इत्येतामृचमनुब्रूयात्। सोऽ- नुवक्ता होतैतयैवर्चाऽनुवचनं समापयेत्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) द्वितीयः खण्डः ॥२ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा० भा०. - पूर्वस्मिन् खण्डे द्विविधास्वप्सु वेद्यां सादितास्वपोनप्त्रीयानुवचनस्य समापनमुक्तम्। तत्र सादनप्रकार आपस्तम्बेन दर्शितः– 'अपरया द्वारा हविर्धानमपः प्रपाद-यति पूर्वया गतश्रियः पूर्वया यजमानः प्रपद्यते दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीयं सादयति यं कामयेत पण्डकः स्यादिति तं प्रचरण्योपस्पृशेदेतस्यैव हविर्धानस्याधस्तात् पुरोक्षं मैत्रावरुणचमसमुत्तरस्यां वर्तन्यां पुरश्चक्रॅहोतृचमसमुत्तरस्य हविर्धानस्याधस्तात् पुरोक्षं वंसती- वरीः पश्चादक्षमेकधना एतद्वा विपरीतम् अदो यजमानोऽनुप्रपद्यते' इति। एवं सादिता- स्वप्स्वपोनप्त्रीया ऋचः समाप्य होताऽवतिष्ठते। ततोऽध्वर्युः दधिग्रहेण उपांशुग्रहेण, अदाभ्यग्रहेण उपांशुग्रहेणान्तर्यामग्रहेण क्रमात् प्रचरति तावदयं होता वाचं नियम्यैवास्ते ॥ तदिदं विधत्ते--- ( उपांश्वन्तर्यामयोर्विधानम् ) (तत्र वाग्विसर्जनम् ) शिरो वा एतद् यज्ञस्य यत्प्रातरनुवाकः, प्राणापाना उपांश्वन्तर्यामौ; ( १ ) ऋ० १०.३०.१५ । (२ ) आप० श्रौ० १२.६.९। ( ३ ) दधिग्रहो नित्यः काम्यश्च। काम्यावितरौ (आज्यंग्रहसोमग्रहौ) आप० १२.७.८ । ( ४ ) ग्रहकाण्डं तद्द्ब्राह्मणं (तै ० सं ० १.४.१-४२,६.४,५ ) चैतद द्वयमेव द्रष्टव्यम् ।
पृष्ठ 419
पाठ पढ़ें पाठ छिपाएँ
: ]: ३५७ तृतीयोऽध्यायः तृतीयः खण्ड सायणाचार्यकृतभाष्योपेतम् वज्र एव वाङ्ं नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत ॥ १ ॥
हिन्दी – ( अब उपांशु और अन्तर्याम ग्रह का विधान कर रहे हैं— ) यत् प्रातर- नुवाकः जो प्रातरनुवाक है एतद् यज्ञस्य शिरः वै यह यज्ञ का शिर-स्थानीय है । प्राणापानौ उपांश्वन्तर्यामौ प्राण और अपान क्रमशः उपांशु और अन्तर्याम हैं। वज्र एव वाक् वाणी वज्ररूप है। अतः आहुतयोः उपांश्वन्तर्यामयोः उपांशु और अन्तर्याम आहुति के समय होता वाचं विसृजेत होता वाणी का विसर्जन ( नियमन ) करें। सा ० भा० — योऽयं प्रातरनुवाकः पूर्वमुक्तः सोऽयं यज्ञस्य शिरःस्थानीय उपांश्वन्त- र्यामग्रहौ प्राणापानस्थानीयौ, “एष ते योनिः प्राणाय त्वा ", "एष ते योनिरपानाय त्वेति ” तदीयमन्त्रयोः श्रवणात् '। होतुर्या वाक् सा वज्रस्थानीया । अत एवान्यत्र श्रूयते— ' यद्वै होताऽध्वर्युमभ्याह्वयते वज्रमेवमभिप्रवर्तयति'' इति। एवं सत्यध्वर्युणोपांश्वन्तर्यामग्रहयोर्हु- तयोः सतोः पश्चाद्धोता वाचं विसृजेत् । तावत्पर्यन्तं वाचं नियच्छेत्॥ विपक्षबाधकपूर्वकं स्वपक्षमुपसंहरति— यदहुतयोरुपांश्वन्तर्यामयोहोंता वाचं विसृजेत् वाचा वज्रेण यज- मानस्य प्राणान् वीयाद् य एनं तत्र ब्रूयाद् वाचा वज्रेण यजमानस्य प्राणान् व्यगात् प्राण एनं हास्तीति शश्वत् तथा स्यात् तस्मान्ना- हुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत ॥ २ ॥
हिन्दी — (इस विषय में विपक्ष की बाधा को कह कर अपने पक्ष कर उपसंहार कर रहे हैं — ) यद् अहुतयोः उपांश्वन्तर्यामयोः यदि उपांशु और अन्तर्याम होम से पहले होता वाचं विसृजेत् होता वाणी का नियमन करे तो वाचा वज्रेण वाणी रूपी वज्र से यजमानस्य प्राणान् यजमान के प्राणों को वीयात् अवरुद्ध करता है । तत्र उस ( होता के वाणी के नियमन करने ) पर यः जो (कोई अन्य आकर ) एनं ब्रूयात् (इस प्रकार) इस (होता) से कहे कि वाचा वज्रेण वाणी रूपी वज्र से यजमानस्य प्राणान् यजमान के प्राणों को व्यगात् इसने अवरुद्ध कर दिया है अतः प्राणः एनं हास्यति प्राण इस ( यजमान) को छोड़ देगा- इति इस प्रकार (अन्य पुरुष द्वारा कहा गया होता) शश्वत् तथा स्यात् अवश्य ही वैसा हो जाता है। तस्मात् इसी कारण उपांश्वन्तर्यामयोः आहुतयोः उपांशु और अन्तर्याम होम के मध्य में होता वाचं विसृजेत होता वाणी को न बोले। सा० भा ० — उपांश्वन्तर्यामहोमात् पूर्वं वाचं विसृजन् होता वाग्वज्रेण यजमानस्य प्राणान् वीयाद् विगतान् कुर्यात् । कथं प्राणविगम इति, तदुच्यते — तत्र तस्मिन् होतुर्वाग्वि- ( १ ) तै० सं० १.४.२,३ ( २ ) तै ० सं ० ३.२.९.७ ।
पृष्ठ 420
पाठ पढ़ें पाठ छिपाएँ
: [३५८ ऐतरेयब्राह्मणम् ८.३ द्वितीयपञ्चिकायां सर्गे सति यः कश्चिदागत्यायं होता वाग्वज्रेण यजमानस्य प्राणान् व्यगाद् विगतान् अकरोत् तस्मान् प्राण एनं यजमानं हास्यति परित्यजतीत्येनं होतारं प्रति ब्रूयात्। तदानीं तेन पुरुषेण होतरि शप्ते सति तदीयशापो न शश्वत् तथा स्यादवश्यं यजमानप्राणविगमो होतुस्तद्वध-प्रत्यवायश्च भवेत् । तस्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत ॥ उपांश्वन्तर्यामहोमादूर्ध्व वाग्विसर्गप्रकारं विधत्ते— ( वाग्विसर्गप्रकारविधानम्) 'प्राणं यच्छ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनुमन्त्रयेत तमभि प्राणेत् प्राण प्राणं मे यच्छेत्यपानं यच्छ स्वाहा त्वा सुहव सूर्या- येत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपानापानं मे यच्छेति व्यानाय त्वेत्युपांशुसवनं ग्रावाणमभिमृश्य वाचं विसृजेत ॥३ ॥
हिन्दी – ( उपांशु और अन्तर्याम होम के बाद वाणी के विसर्ग की विधि का विधान कर रहे हैं— ) ‘प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय' अर्थात् हे शुभ होम वांले (उपांशु ग्रह )! सूर्य देव की प्रसन्नता के लिए (उपांशु ग्रह रूपी ) होम कर रहा हूँ अतः ( यजमान के लिए ) प्राण को प्रदान करों' इति उपांशुम् अभिमन्त्रयेत् इस ( मन्त्र ) से उपांशुग्रह को अभिमन्त्रित करना चाहिए। तत्पश्चात् तम् अभि उस ( उपांशु ग्रह ) को देखकर 'प्राण प्राणं मे यच्छ' अर्थात् हे प्राण देव! मेरे लिए प्राण वायु को प्रदान करो'– इति प्राणेत् इस (मन्त्र) से श्वास लेवे ‘ अपानं यच्छ स्वाहा त्वा सुहव सूर्याय' अर्थात् हे शुभ होम वाले ( अन्तर्याम ग्रह )! सूर्य की प्रसन्नता के लिए ( यह अन्तर्याम रूपी) होम कर रहा हूँ ( अत: यजमान के लिए) अपान के प्रदान करो' –- इति अन्तर्यामम् अनुमन्त्रयेतत् इस ( मन्त्र) से अन्तर्याम को अभिमन्त्रित करें। तत्पश्चात् तम् अभि उसको देखकर अपान अपानं मे यच्छ हे अपान!.• मुझे अपान वायु को प्रदान करो' इति अपानेत् इस मन्त्र से नि: श्वास लेवे । पुनः ‘ व्यानाय त्वा ' अर्थात् ( हे उपांशु सवन नामक पाषाण) व्यान वायु ( की प्राप्ति) के लिए तुम्हारा ( स्पर्श कर रहा हूँ)– इति उपांशुसवनं ग्रावाणम् अभिमृश्य इस (मन्त्र ) से उपांशुसवन नामक पाषाण कर स्पर्श करके वाचं विसृजेत् वाणी का विसर्जन करना (वाणी बोलना) चाहिए । सा ० भा ० — शोभनो हवो होमो यस्येत्युपांशुग्रहस्य सोऽयं सुहवः । हे सुहव सूर्याय त्वदभिमानिसूर्यदेवताप्रीत्यर्थं त्वोपांशुग्रहरूपं स्वाहा सुष्ठु हुतं करोमि। अतो यजमान- संबन्धिनं प्राणं यच्छ देहीत्यनेन मन्त्रेणोपांशुग्रहस्यानुमन्त्रणं कुर्यादिति । अन्वीक्ष्य मन्त्रण- मनुमन्त्रणम्। ततस्तमभि प्राणीत् तमुपांशुग्रहमभिलक्ष्योच्छ्वासं कुर्यात् । तत्र प्राणेत्यादिको मन्त्रः । हे प्राणरूपोपांशुग्रह मे मह्यं प्राणं यच्छ देहि। हे सुहवान्तर्यामग्रहेत्येतावान्विशेषः । अन्यत् पूर्ववत्। अपाने निश्वासं कुर्यात् । उपांशुग्रहार्थं सोमाभिषवहेतुर्यः पाषाणस्तं व्यानाय