ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 421–430
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 421–430
पृष्ठ 421
पाठ पढ़ें पाठ छिपाएँ
] तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम्: त्वेति मन्त्रेणाभिमृशेत्। हे पाषणोपांशुसवनाख्य त्वां प्राणापानयोर्मध्यवर्तिव्यानवायुसिद्-३५ ९ ध्यर्थमभिमृशामीति शेषः । अभिमर्शनादूर्ध्वं मौनं परित्यज्य वाग्व्यवहारं कुर्यात्॥ उपांशुसवनमभिमर्शनमुपपादयति— आत्मा वा उपांशुसवन, आत्मन्येव तद्धोता प्राणान् प्रतिधाय वाचं विसृजते सर्वायुः सर्वायुत्वाय ॥४ ॥
हिन्दी–(उपांशुसवन नामक पत्थर के स्पर्श को उपपादित कर रहे हैं— ) आत्मा वै उपांशुसवनः उपांशुसवन ( नामक पाषाण ) आत्मा रूप है, तत् इस (स्पर्श) से होता आत्मनि एव प्राणान् प्रतिधाय अपने में ही प्राणों को प्रतिष्ठित करके सर्वायुत्वाय सम्पूर्ण आयु की प्राप्ति के लिए सर्वायुः वाचं विसृजते सर्वायु रूप वाणी का विसर्जन करता है । ( वाणी को बोलता है ) । सा० भा०-- योऽत्रयमुपांशुसवनो ग्रावा सोऽयमात्मा वै शरीरमेतत्तदीयाभिमर्शने- नायं होता शरीर एव प्राणानवस्थाप्य स्वयं शतसंवत्सरपरिमितेन सर्वेणाऽऽयुषा युक्तो वाचं विसृजते । तच्च यजमानस्य संपूर्णायुःप्राप्तये भवति॥ वेदनं प्रशंसति– सर्वमायुरेति य एवं वेद ॥५ ॥
हिन्दी –( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है। ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) तृतीयः खण्डः ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । अथ चतुर्थः खण्डः सा ० भा ० – अन्तर्यामग्रहहोमादूर्ध्वं महाभिषवं कृत्वैन्द्रवायवमारभ्य यवमत्यन्तर्ग्रहार्थं तत्तत्पात्रेषु सोमं गृहीत्वाऽऽसादितेषु वैप्रुषान् होमान् हुत्वा बहिष्पवमानार्थं प्रसर्पयेयुः । प्रसर्पण-प्रकारम् आपस्तम्ब आह— 'सप्तहोतारं मनसाऽनुद्रुत्याऽऽहवनीये सग्रहं हुत्वोदञ्च: प्रह्ला बहिष्पवमानार्थं पञ्चत्र्त्विजः समन्वारब्धाः सर्पन्त्यध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः ' इति। आश्वलायनोऽप्याह-‘ अध्वर्युमुखाः ( १ ) आप०श्रौ० १२.१६.१७,१७.१ ।
पृष्ठ 422
पाठ पढ़ें पाठ छिपाएँ
: [ ३६० ऐतरेयब्राह्मणम् ८.४ द्वितीयपञ्चिकायां समन्वारब्धाः सर्पन्त्यातीर्थदेशात्' ' 'तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः, तान् होताऽ- नुमन्त्रयतेऽत्रैवाऽऽसीनो यो देवानामिह ' ' इति॥ ततो होतुः सर्पणं निवारयितुं पूर्वपक्षमुपन्यस्यति—' ( होतुः सर्पणनिवारणम् ) तदाहुः सर्पे३ त्, न सर्पे३त्, इति सर्वेदिति हैक आहुरुभयेषां वा एष: देवमनुष्याणांवदन्तः ॥ १ ॥भक्षो यद्द्बहिष्पवमानस्तस्मादेनमभिसंगच्छन्त इति
हिन्दी – ( अब होता के प्रसर्पण के निवारण के लिए पूर्वपक्ष को उपन्यसित कर रहे हैं— ) तदाहुः इस विषय में (कुछ याज्ञिक ) पूछते हैं कि सर्पेत् ( होता सभी के साथ) चले अथवा न सर्पेत् ( सभी के साथ) न चले - इति इस विषय में सर्पेत् ( सभी के साथ) चले, इति ह एके आहुः इस प्रकार कुछ लोग कहते हैं; क्योंकि यद् बहिष्पवमानः जो बहिष्पवमान है एषः यह देवमनुष्याणाम् उभयेषाम् देवों और मनुष्यों दोनों का ही भक्षः भक्ष्य है ( अर्थात् देव और मनुष्य सभी इस स्तोत्र सन्तृप्त होते हैं ) । तस्मात् इसी कारण एनम् अभिगच्छन्ते इस ( बहिष्पवमान ) की ओर सभी जाते हैं - इति वदन्तः ऐसा कहते हुए ( याज्ञिक कहते हैं कि सभी के साथ उसे प्रसर्पण करना चाहिए) । सा० भा ० — तत्तत्रैन्द्रवायवादिग्रहणादूर्ध्वकालेऽध्वर्युप्रमुखाणां सर्पणे केचिदाहु- र्विचारयन्ति। किमयं होता तैः सह सर्पेन वेति? विचारार्थे प्लुतिः । अयं होताऽपि सर्पेदिति केचित् पूर्वपक्षिण आहुः । तत्रोपपत्तिं च कथयन्ति । उद्गातृभिर्गेयम् 'उपास्मै गायता नरः "४ इत्यादिकं स्तोत्रं बहिष्पवमानशब्देनोच्यते। यो बहिष्पवमान एष एव देवानां मनुष्याणां चोभयेषां भक्षः। तेन हि ते सर्वे तृप्यन्ति। अत एव पूर्वत्र स्तोमभागानां स्तोत्रेण प्रीतिः श्रुता। तस्मात्कारणादेनं बहिष्पवमानं देवमनुष्याः सर्वेऽभिसंगच्छन्त इत्येतामुपपत्ति वदन्तः ॥ पूर्वपक्षिणो यदाहुस्तन्निराकरोति— तत्तन्नाऽऽदृत्यम् ॥२ ॥
हिन्दी—( पूर्वपक्षी के मत का निवारण कर रहे हैं - ) तद् न आदृत्यम् वह (उपर्युक्त
कथन) आदरणीय नहीं है।
सा० भा०-- तस्मिन् सर्पणे तत्पूर्वपक्षिमतं नाऽऽदरणीयम्॥
विपक्षे बाधं दर्शयति- ( १ ) ' तेनान्तरेण प्रतिपद्यन्ते चात्वालं चोत्करं चैतद् वै देवानां तीर्थम्- षड्विंश ब्रा० ३.१ (२ ) आश्व० श्रौ० ८.१३.२३; ५.२.७.८ । ( ३ ) पा० सू० ८.२.१०७ वा० १। (४ ) स ०ड ०आ० १.१.१ - ९ ।
पृष्ठ 423
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ३६१ यत्सर्पेदृचमेव तत्साम्नोऽनुवर्त्मानं कुर्याद् य एनं तत्र बूयादनुवर्त्मा न्वा अयं होता सामगस्याभूद् उद्गातरि -यशोऽधादच्योष्टाऽऽयत- नाच्च्योष्यत आयतनादिति शश्वत्तथा स्यात् ॥ ३ ॥
हिन्दी—( पूर्वपक्षी के कथन में बाधा को दिखला रहे हैं— ) यदि सर्पेत् यदि ( होता उनके साथ ) प्रसर्पण करे, ऋचमेव साम्ना अनुवर्त्मानं कुर्यात् तो ( अपनी ) ऋचा को ही साम का अनुसरण करने वाला बनाता है। तत्र यः एवं ब्रूयात् वहाँ जों कोई ( आकर होता से ) कहता है कि अयं होता यह होता सामगस्य अनुवर्त्मा अभूत् साम का गायन करने वाले (उद्गाता ) का अनुगमन करने वाला हो गया है, अतः उद्गातरि यशः अधात् उद्गाता में ( अपना) यश प्रतिष्ठापित कर देता है; आयतनात् अच्योष्ट अपने स्थान ( पद ) से च्युत हो गया है तथा आयतनाद् अच्योष्यत अपने स्थान (पद ) से भविष्य में भी च्युत रहेगा— इति इस प्रकार (उस व्यक्ति के कहने से ) शश्वत् तथा स्यात् ( होता) अवश्य ही वैसा हो जाता है। सा० भा० – यद्ययं होता तैः सह सर्पेत्तदानीं स्वकीयामृचमेव साम्नोऽनुवर्त्मानं - पृष्ठगामिनी कुर्यात् । तच्चायुक्तम्। ऋच आधारत्वात्। साम्न आधेयत्वात् पश्चाद्भावि। अतं एव च्छन्दोगा आमनन्ति— ' तदेतस्यामृच्यध्यूहळं साम तस्मादृच्यध्यूहळं साम गीयते' इति। ततः पुरोगामिन्या ऋचः पश्चाद्गामित्वमयुक्तम्। तत्र होतुः सर्पणे यः कश्चिदागत्यैनं होतारं ब्रूयादयं होता सामगस्योद्गातुरनुवर्त्मा न्वै पृष्ठगाम्येवाभूत्। अतो होता स्वकीयां यशः कीर्तिमुद्गातर्यधात् स्थापितवान् । स्वयमायतनात् स्वकीयपदादच्योष्ट च्युतवान्। इतः परमपि च्योष्यते स्वकीयस्थानात् प्रच्युतो भविष्यतीत्येवं पुरुषान्तरेण शप्तस्य होतुरवश्यं तथा भवेत् ॥ सर्पणं निवार्यानुमन्त्रणं विधत्ते— ( बहिष्पवमानानुमन्त्रणविधानम्) तस्मात् तत्रैवाऽऽसीनोऽनुमन्त्रयेत ॥४ ॥
हिन्दी-— ( होता के सभी के साथ सर्पण का निवारण करके अनुमन्त्रण का विधान कर रहे हैं — ) तस्मात् इसी कारण (होता) तत्रैव आसीनः वहीं बैठा हुआ ही ( दूसरों के प्रसर्पण का ) अनुमन्त्रयेत् ( आगे कहे जाने वाले मन्त्र से ) अनुमन्त्रित करता है । सा ० भा ० — यस्मात् प्रसर्पणे दोषाः सन्ति तस्माद् यत्र पूर्वमवस्थितस्तत्रैवाऽऽसीन’ इतरेषां सर्पणमन्वीक्ष्यानुमन्त्रयेत॥ तस्मिन्ननुमन्त्रणे मन्त्रं दर्शयति— ( १ ) छा० उ० १.६.१। ( २ ) 'तान् होताऽनुमन्त्रयतेऽत्रैवासीनः ’ —–आश्व० श्रौ० ५.२.८ । ऐ.ब्रा. पू- २३
पृष्ठ 424
पाठ पढ़ें पाठ छिपाएँ
: [३६२ ऐतरेयब्राह्मणम् ८.४ द्वितीयपञ्चिकायां ( अनुमन्त्रणमन्त्रः ) यो देवानामिह सोमपीथो ययज्ञे बर्हिषि वेद्या३ म्। तस्यापि भक्षया- मसीति॥५ ॥
हिन्दी— ( उस अनुमन्त्रण मन्त्र को दिखला रहे हैं — ) इह यज्ञे इस ( यज्ञ ) में बर्हिषि वेद्याम् कुशों और वेदि पर स्थित देवानां यः सोमपीथः देवताओं का जो सोमभागरूप बहिष्पवमान (नामक खाद्य ) है तस्य अपि उसका भी भक्षयामसि हम लोग भक्षण करें। सा० भा०-- इह देशे क्रियमाणो यः सोमयागस्तस्मिन् या वेदिर्यच्च तत्रत्यं बर्हिस्तत्र सर्वदेवानां संबन्धी सोमपीथः सोमयागरूपो बहिष्पवमानाख्यो यो भक्षोऽस्ति तस्याप्यंशं वयं भक्षयाम इत्येषाऽनुमन्त्रणमन्त्रः ॥ तं प्रशंसति— एवमु हास्याऽऽत्मा सोमपीथादनन्तरितो भवति ॥ ६ ॥
हिन्दी— ( उस अनुमन्त्रण की प्रशंसा कर रहे हैं- ) एवम् इस प्रकार अस्य आत्मा इस ( होता) की आत्मा सोमपीथाद् अनन्तरितः भवति सोमभाग से (कमी भी ) वंचित नही होती । सा० भा० — एवमेवानुमन्त्रणे सत्यस्य होतुरात्मा जीवः सोमपानात् कदाचिदप्यन्तरितो न भवति॥ मन्त्रान्तरं च विधत्ते— ( बहिष्पवमानानुमन्त्रणे यजुर्मन्त्रः ) अथो ब्रूयान्मुखमसि मुखं भूयासमिति ॥७ ॥
हिन्दी— ( अन्य मन्त्र का विधान कर रहे हैं - ) अथ इस ( पूर्वोक्त मन्त्र) के बाद ' मुखम् असि मुखं भूयासम् ( हे बहिष्पवमान )– तुम ( इस यज्ञ में ) प्रमुख हो अतः मैं भी प्रमुख होऊँ' इति ब्रूयात् होता इस ( मन्त्र ) को कहे । सा० भा०--– पूर्वोक्तान् मन्त्रादनन्तरं मुखमित्यादिकमपि मन्त्रं ब्रूयात् । हे बहिष्पवमान यज्ञस्य त्वं मुखमसि यज्ञमध्ये मुखोऽसि। अतः त्वत् प्रसादादहमपि मुखं मुख्यो भूयासम्॥ एतं मन्त्रं प्रशंसति— मुखं वा एतद् यज्ञस्य यद् बहिष्पवमानः ॥८ ॥
हिन्दी— ( इस मन्त्र की प्रशंसा कर रहे हैं - ) यद् बहिष्पवमानः जो बहिष्पवमान है, एतद् यज्ञस्य मुखम् यह यज्ञ का मुखरूप है। ( १ ) ‘ यत् यः सवनत्रययोगिपवमानत्रयादिभूतत्वात्' इति षड्गुरुशिष्यः ।
पृष्ठ 425
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः सा० भा० चतुर्थः– स्तोत्रेषुखण्डःसर्वेष्वाद्यत्वाद् बहिष्पवमानस्यसायणाचार्यकृतभाष्योपेतम् ३६३ मुखत्वम्॥ वेदनं प्रशंसति— भवतिश्रेष्ठः स्वनां भवति य एवं वेद ॥९ ॥
हिन्दी— (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह स्वेषु मुखं भवति अपने (ज्ञातिजनों ) में प्रमुख हो जाता है और स्वानां श्रेष्ठः
भवति अपने लोगों में श्रेष्ठ हो जाता है।
सा ० भा०-- मुखत्वं लोकव्यवहारप्रवर्तकत्वम्, श्रेष्ठत्वं विद्यावित्तादिसंपत्तिः ॥
अथ सवनीयपुरोडाशेषु येयं मैत्रावरुणी पयस्याऽस्ति तत्सद्भाव आपस्तम्बेन दर्शितः- ‘प्राग्वँशे प्रतिप्रस्थाता सवनीयान्निर्वपति सर्वे यवा भवन्ति लाजार्थान् परिहाप्येन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारत्यै परिवापमिन्द्राय पुरोडाशं मित्रावरुणाभ्यां पयस्याम्' ' इति॥ तामेतां पयस्यां प्रशंसितुमाख्यायिकामाह— ( मैत्रावरुणपयस्याप्रशंसार्थमाख्यायिका ) आसुरी वै दीर्घजिह्वी देवानां प्रातःसवनमवालेट्, तद्व्यमाद्यत् ते देवाः प्राजिज्ञासन्त ते मित्रावरुणावब्रुवन् युवमिदं निष्कुरुतमिति, तौ तथेत्यब्रूतां तौ वै वो वरं वृणावहा इति, वृणाथामिति, तावेतमेव वरमवृणातां, प्रातःसवने पयस्यां सैनयोरेषाऽच्युता वरवृता, ह्येनयोस्तद्यदस्यै विमत्तमिव तदस्यै समृद्धं विमत्तमिव हि तौ तया निरकुरुताम् ॥१० ॥
हिन्दी – ( अब पयस्या = मट्ठा की प्रशंसा करने के लिए आख्यायिका को कह रहे हैं - ) दीर्घजिह्वी आसुरी वै दीर्घजिह्वी नामक आसुरी ( स्त्री ) ने देवानाम् देवताओं के प्रातःसवनम् अवालेट् प्रातः सवन को चाट डाला और तद् व्यमाद्यत् उससे वह मतवाली हो गयी । ते देवाः प्रजिज्ञासन्त तब उन देवताओं ने ( उसके परिहार के लिए) प्रकृष्ट रूप के विचार किया। ते मित्रावरुणौ अब्रुवन् उन देवताओं ने मित्र और वरुण से कहा कि युवम् इदं निष्कुरुतम् (हे मित्रावरुणो)! तुम दोनों इस (प्रात: सवन ) का निराकरण करो । तौ उन दोनों ( मित्र और वरुण ) ने तथा इति अब्रूताम् ठीक है - यह कहा । तौ वै वः वरं वृणावहै उन दोनों ने (पुन: कहा कि हम दोनों तुम लोगों से वर माँग रहे हैं । वृणाथाम् इति ‘ तुम दोनों वर माँगो' इस प्रकार (देवताओं ने कहा )। तौ एतमेव वरम् अवृणाताम् उन दोनों ने यही वर माँगा कि प्रातः सवने पयस्याम्प्रातःसवन में ( १ ) आप ०श्र ० १२.४.४-६ ।
पृष्ठ 426
पाठ पढ़ें पाठ छिपाएँ
: [३६४ ऐतरेयब्राह्मणम् ८.४ द्वितीयपञ्चिकायां पयस्या (मट्ठा) ( ही माँग रहे हैं ) । वरवृता वर में माँगे जाने के कारण सा एषा वह यह ( दीर्घजिह्वी नामक राक्षसी ) एनयो: अच्युता इनसे कभी च्युत नहीं होती । अस्यै एनयो: यत् इस ( दीर्घाजिह्व ) के लिए इन ( मित्र और वरुण) द्वारा जो (प्रात: सवन का अङ्ग) विमत्तम् इव मादकता से रहित सा (किया गया ), तद् अस्यै वह ( अङ्ग ) इस ( मट्ठे ) के द्वारा समृद्धम् समृद्ध हो गया क्योंकि तौ उन दोनों ( मित्र और वरुण) ने तया उस (मट्ठे ) द्वारा विमतम् इव मादक॑तारहित ( प्रातः सवन ) को निरकुरुताम् निवारित कर दिया। सा ० भा ० – दीर्घा जिह्वा यस्याः सा दीर्घजिह्वी । असुरजातावुत्पन्नत्वादासुरी । तथा च तलवकारा आमनन्ति— ' दीर्घजीह्वी वा असुर्या सा'' इति । सा च देवानां संबन्धि प्रात: -सवनमवालेट् स्वकीयया जिह्वया तस्यावलेहं कृतवती । तत्र प्रातः सवनं विषजिह्वालेहनेन ‘ व्यमाद्यद्’ ’ विविधं मत्तमभूत्। सर्वस्यापि सवनप्रयोगस्य विपर्यासो जातः । ते देवास्तत् परिहारोपायं प्राजिज्ञासन्त प्रकर्षेण विचारितवन्तः । विचार्य च तत्परिहारसमर्थौ मित्रावरुणा- वब्रुवन् हे मित्रावरुणौ युवं युवामुभाविदं प्रातः सवनं निष्कुरुतं निर्गतदोष कुरुतम् । तत्तावद- ङ्गीकृत्य देवेभ्यो वरं याचित्वा प्रातः सवनगतां पयस्यामेव स्वकीयवरत्वेन वृतवन्तौ। पयसि भवाऽऽमिक्षा पयस्या । सैषा वरवृतत्वाद् एनयो: कदाचिदप्यविच्युता। तत्र प्रातःसवने समृद्ध- मासीत्। यस्माद् विमत्तमिव स्थितं प्रातः सवनं तौ मित्रावरुणौ तया पयस्यया निरकुरुतां निवारितवन्तौ तस्मात् समृद्धिर्युक्ता ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) चतुर्थः खण्डः ॥४॥
( १ ) दीर्घजिह्वी वा इदश्रक्षो यज्ञहा यज्ञानवलिहत्यचरत्- इत्यादि ता० ब्रा० १३.६ । श्वानं दीर्घजिह्वयम्' -इति ऋ ० ९.१०१.१ । 'दीर्घजिह्वी च च्छन्दसि' इति पा० सू० ४ १.५ ९ । निपातनादीकारः । महाभारते त्वियमादिपर्वणि दानवीति, वनपर्वणि तु राक्ष- सीति । ‘ आसुरी’ जातिलक्षणो ङीष्। ' दीर्घजिह्वी वा असुर्या सा' इति तलवकाब्राह्मणे दर्शनादसुरीति तद्धितान्तमेव द्रष्टव्यम्' इति भट्टभास्करः। ' अत्र केचित्- आसुरी वै दीर्घजिह्वीति ह्रस्वादिमाहुः । कथम्? ' दीर्घजिह्वी ह वा असुर्या' इति तलवकारश्रुतेः संहितायाश्व सम्भवात्। अपरे पुनरेतन्नानुमन्यन्ते तद्धितेष्वचामादेः इति दीर्घस्मरणात्। ननु तलवकारश्रुतेर्हस्वोऽपि स्याद् इत्युक्तम् । तत्तु नात्रोपयुज्यते । दृष्टानुविधिश्छन्दसीति स्मरणात् यावद्दर्शनभावी हि छान्दसप्रयोगो न सदृशमुपसंक्रामति इति न्यायाच्च । अ आसुरीति दीर्घाद्येव पदम्’ -इति गोविन्दस्वामी । ( २ ) ‘ व्यमाद्यत् व्यमादयत् विरूपस्य मदस्य हेतुरभवत्। यद्वा, विमत्तमभूत् मदरहितम् अभूत’ - इति भट्टभास्करः । ‘ मत्तं बभूव वि नाना । अमाद्यत्, ' शमामष्टानां दीर्घः श्यनि’ पा ० सू० ७.३.७४ इति षड्गुरुशिष्यः । ( ३ ) 'निर्गतविषाददोषम्' -इति वा पाठः ।
पृष्ठ 427
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३६५ ॥ इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के चतुर्थ खण्ड की' 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा० — अथ सवनीयपुरोडाशान्' विधातुमादौ कथामाह— ( सवनीयपुरोडाशविधानम् ) देवानां वै सवनानि नाप्रियन्त त एतान् पुरोळाशानपश्यंस्ताननु- सवनं निरवपन् सवनानां धृत्यै ततो वै तानि तेषामध्रियन्त ॥ १ ॥
हिन्दी– ( अब सवनीय पुरोडाश का विधान करने के लिए प्रारम्भ में कथा को कह रहे हैं - ) देवानां सवनानि देवताओं के लिए (प्रातः, माध्यदिन और सायं सवन) न आध्रियन्त स्थिर नहीं रहे। ते उन ( देवताओं) ने पुरोडाशान् (स्थिरता के हेतुभूत ) पुरोडाशों को अपश्यन् देखा और अनुसवनम् प्रत्येक सवन के लिए तान् उन ( पुरोडाश ) का सवनानां धृत्यै सवनों की स्थिरता के लिए निरवपन् निर्वाप किया । ततः वै तभी से तानि वे ( सवन ) तेषाम् उन ( देवताओं ) को लिए अध्रियन्त स्थिर हो गये। सा ० भा० -– यानि प्रातः सवनमाध्यदिनसवनतृतीयसवनानि सन्ति तानि त्रीणि देवा- नामर्थे नाध्रियन्त नैव धृतानि देहैरवरोद्धुमशक्यान्यासन्। ते देवास्तद्धारणहेतून् पञ्च पुरोडाशान् दृष्ट्वा तान् प्रतिसवनं निरवर्पस्तै: पुरोडाशैस्तुष्टानि सवनानि देवानामर्थे धृतान्यासन्॥ आख्यायिकया प्रशस्य पुरोडाशान् विधत्ते— तद् यदनुसवनं पुरोळाशा निरुप्यन्ते सवनानामेव धृत्यै तथा हि तानि तेषामध्रियन्त ॥ २ ॥
हिन्दी –( आख्यायिका के द्वारा प्रशंसा करके पुरोडाशों का विधान कर रहे हैं— ) तत् तो यद् अनुसवनम् जो प्रत्येक को सवन अनुलक्षित करके सवनानां धृत्यै सवनों की स्थिरता के लिए पुरोडाशाः निरूप्यन्ते पुरोडाशों का निर्वाण करते हैं, तेषाम् उन. ( देवताओं) के लिए तानि वे ( सवन ) तथा एव अध्रियन्त उसी प्रकार (स्थिर) हो जाते हैं । सा० भा०-–तत् तस्माद् दैवैर्निरुप्तत्वाद् यदि यजमानाः प्रतिसवनं पुरोळाशा निरु-प्येरंस्तदा स निर्वापः सवनानां धारणाय भवति। तथा तेनैव हि प्रकारेण तानि सवनानि निर्वाप एव धारणोपायः ॥ ( १ ) सवनेषु भवः सवनीयः । वपया प्रातः सवने चरन्ति, पुरोडाशेन माध्यन्दिने, अङ्गैस्तृतीयसवने इत्येवं यष्टव्यः ’ - इति आश्व ० श्रौ० ५.३.१ वृत्तिः ।
पृष्ठ 428
पाठ पढ़ें पाठ छिपाएँ
: [३६६ ऐतरेयब्राह्मणम् ८.५ द्वितीयपञ्चिकायां इदानीं पुरोडाशशब्दं निर्वक्ति— ( पुरोडाशशब्दनिर्वचनम्) पुरो वा एतान् देवा अक्रत यत्पुरोळाशास्तत्पुरोळाशानां पुरोळाशत्वम् ॥ ३ ॥
हिन्दी— ( अब पुरोडाश शब्द की निरुक्ति कह रहे हैं- ) देवाः देवताओं ने एतान् उन ( पुरोडाशों) को पुरः अक्रत (सोमाहुतियों के ) पुरः ( = सामने ) किया तत् वही पुरोडाशानां पुरोडशत्वम् पुरोडाशों का पुरोडाश होना (पुरतः दीयमान होना) है। सा० भा०-- यत्पुरोळाशाः सन्त्येतान् देवाः पुरो वै सोमाहुतिभ्यः पुरस्तादेवाक्रत कृतवन्तः । तस्मात् पुरोडाशेति नाम संपन्नम्। ' दा दाने' इति धातुः; पुरतो दीयमानं हविरित्यर्थः । यद्यप्यत्र धानादिषु हविष्षु चतुर्थ एव' पुरोडाशः, तथाऽपि च्छन्त्रिन्यायेन धानादीनां सर्वेषां पुरोडाशत्वोपचारः । यद्वा, पुरः शब्द एवं व्याख्येयः – सवनानां धारणार्थं देवा एतानि हवींषि दुर्गमाणि पुराण्यकुर्वतेति। यदि पुरस्ताद् यदि वा पुराणि सर्वथाऽपि पुरोडाशशब्दो निष्पद्यते॥३ अथ पुरोडाशस्वरूपविशेषं निर्धारयितुं पूर्वपक्षमाह— ( पुरोडाशस्वरूपविशेषनिर्धारणम् ) तदाहुरनुसवनं पुरोळाशान् निर्वपेदष्टाकपालं प्रातः सवन एकादश- कपालं माध्यदिने सवने, द्वादशकपालं तृतीयसवने; तथाहि सवनानां रूपं तथा छन्दसामिति ॥४ ॥
हिन्दी— ( अब पुरोडाश के स्वरूप- विशेष के निर्धारण के लिए पूर्वपक्ष को कह रहे हैं— ) तद् आहुः इस विषय में (कुछ ब्रह्मवादी ) कहते हैं कि अष्टाकपालं प्रातः सवने प्रातःसवन में आठ कपालों वाला, एकादश कपालं माध्यन्दिने सवने माध्यन्दिन सवन में ग्यारह कपालों वाला और द्वादशकपालं तृतीयसवने तृतीयसवन ( सायंसवन) में बारह कपालों वाला— इस प्रकार अनुसवनम् प्रत्येक सवन के लिए पुरोडाशान् निर्वपेत् पुरोडाशों का निर्वाप करना चाहिए; क्योंकि सवनानां रूपम् जैसा सवनों का रूप होता है तथा छन्दसाम् वैसा ही छन्दों का रूप होता है। विमर्श— ( १ ) गायत्री, प्रातःसवन का, त्रिष्टुप् माध्यान्दिन सवन का और जगती ( १ ) 'पुरो दाश्यते पुरोडा: ' - इति सि० कौ ० वै ० ३ अ० पा० सू० ३.२,७१। ( २ ) ‘ एतानि हवींषि — आज्यं, धानाः, करम्भः, परिवापः, पुरो॒ळाशः पयस्येति’ –इति। श्रुतेर्यद्यपि पुरोडाशस्य पञ्चमत्वं गम्यते, परमुत्तरखण्डे 'धाना: करम्भः परिवापः पुरो॒ळाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिः ' – इत्यादि ऐ० ८.७ श्रुतेश्चतुर्थत्वमेव। ( ३ ) पुरः परस्तात् कर्मारम्भ एव करणाद् इत्यर्थः । बहुवचनं सर्वपुरोडाशपरिग्रहार्थम्। इतरथा हि सन्निहितपुरोडाशमात्रनिर्वचनं स्यात्। सवनबहुत्वाद् वा बहुवचनम्— इति भट्टभास्करः ।
पृष्ठ 429
पाठ पढ़ें पाठ छिपाएँ
]: तृतीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३६७ सायंसवन का निष्पादक होता है। गायत्री के प्रत्येक पाद में आठ, त्रिष्टुप् के प्रत्येक पाद में ग्यारह और जगती के प्रत्येक पाद में बारह अक्षर होते हैं अतः इन छन्दों के प्रत्येक पाद में अक्षरों की संख्या के अनुसार ही इनके द्वारा निष्पादित सवनों में क्रमशः आठ, ग्यारह और बारह कपालों वाले पुरोडाशों का निर्वाप करना चाहिए। सा० भा० – तत् तेषु पुरोडाशेषु पूर्वपक्षिण आहुः- प्रतिसवनं निर्वपणीयेषु पुरो- डाशेषु क्रमेण कपालसंख्याऽष्टत्वादिरूपा द्रष्टव्या। सवनानां रूपस्य तथाविधत्वात् । तच्च च्छन्दोद्वारेण द्रष्टव्यम्। गायत्री त्रिष्टुब्जगती चेति च्छन्दांसि सवननिष्पादकानि गायत्रं प्रातः- सवनं त्रैष्टुभं माध्यदिनं सवनं जागतं तृतीयसवनमिति श्रुत्यन्तरात्। तथा सतिं तत्तच्छन्दो- गताक्षरसंख्यानुसारेण कपालसंख्या युक्तेति' पूर्वपक्षः ॥ तं निराकृत्य सिद्धान्तं दर्शयति— तत्तन्नाऽऽदृत्यमैन्द्रा वा एते सर्वे निरुप्यन्ते यदनुसवनं पुरोळाशास्त-कस्मात् तानेकादशकपालानेव निर्वपेत् ॥ ५ ॥
हिन्दी –(उपर्युक्त पूर्वपक्ष का निराकरण करके सिद्धान्त पक्ष को कह रहे हैं— ) तत् तो तद् न आदृत्यम् वह ( पूर्वपक्ष द्वारा कहा गया मत) आदरणीय नहीं है; क्योंकि यद् अनुसवनं पुरोडाशाः जो प्रत्येक सवन के पुरोडाश हैं, एते सर्वे ये सभी (पुरोडाश ) ऐन्द्रा वै निरुप्यन्ते इन्द्र ( देवता) के लिए ही निर्वपित किये जाते हैं। तस्मात् इसी कारण एकादशकपालान् एव तान् ग्यारह कपालों वाले उन (पुरोडाशों ) का ही निर्वपेत् निर्वाप करना चाहिए । सा० भा ० – पञ्चसु हविष्षु धानादिषु मध्ये चतुर्थस्य पुरोडाशस्यैन्द्रदेवताकत्वादै- न्द्रश्चान्यत्रैकादशकपाल एव प्रायेण विधीयत इति तत्प्रयत्नावगमात्' अत्रापि त्रिष्वपि सवने- ष्वैन्द्रान् पुरोडाशानेकादशकपालानेव निर्वपेत् । शाखान्तरेऽपि विलोमत्वदोषेण* पूर्वपक्षं निराकृत्य सिद्धान्तोऽभिहित: - एकादशकपालानेव प्रातःसवने कुर्यादेकादशकपालान् मा- ( १ ) आग्नावैष्णवमष्टाकपालं निर्वपेत् प्रातः सवनस्याकाले सरस्वत्याज्यभागा स्याद् बार्हष्पत्य- श्चरुर्यदष्टाकपालो भवत्यष्टाक्षरा गायत्रं प्रातः सवनं प्रातः सवनमेव तेनाप्नोति द्वादशाक्षरा जगती जागतं तृतीयसवन तृतीयसनवमेव प्रातः सवनमेव तेनाप्नोति - इति तै ० सं० २.२.९; भाष्यमेतस्य मन्त्रकाण्डे ( तै ० सं ० १.८.२२ ) द्रष्टव्यम्। तु ० तै ० सं ० ३.२.९ ‘ गायत्रं प्रातः सवनम्— आदि। ( २ ) अत एव श्रुतं तैत्तिरीये– तं वसवोऽष्टाकपालेन प्रातः सवने भिषज्यन्, रुद्रा एकादशकपालेन माध्यन्दिने सवने, विश्वेदेवा द्वादशकपालेन तृतीयसवने — इति तै ० ब्रा ० १.५.११.३ । ( ३ ) ' विधीयते होमादूर्ध्वं वाग्विसर्गतत्प्रयत्नावागमाद्' इति वा पाठः । ( ४ ) तथाहि—' स यदष्टाकपालान् प्रातः सवने कुर्यात्, एकादशकपालान् माध्यन्दिने सवने, द्वादशकपाला स्तृतीयसवने, विलोम तद्यज्ञस्य क्रियते' -इति तै० ब्रा० १.५.११.४ ।
पृष्ठ 430
पाठ पढ़ें पाठ छिपाएँ
: [३६८ ऐतरेयब्राह्मणम् ८.५ द्वितीयपञ्चिकायां ध्यदिने सवने ' इत्यादि। ' आपस्तम्बस्त्वन्यशाखाभेदमनुसृत्य पक्षद्वयमप्युदाहरति — ‘ अष्टौ पुरोडाशकपालान्येकादश मध्यंदिने द्वादश तृतीयसवने सर्वानैन्द्रानेकादशकपालाननुसवनमेके समामनन्ति' इति। अथ तत्पुरोडाशशेषभक्षणे कंचित्पूर्वपक्षमुपन्यस्यति— ( पुरोडाशशेषभक्षणविधानम् ) तदाहुर्यतो घृतेनानक्तं स्यात् ततः पुरोळाशस्त प्राश्नीयात् सोम- पीथस्य गुप्त्यै, घृतेन हि वज्रेणेन्द्रो वृत्रमहन्निति ॥६ ॥
हिन्दी – (उन पुरोडाशों के अवशिष्ट भाग के भक्षण में पूर्वपक्ष को कह रहे हैं— ) तदाहुः उस ( अवशिष्ट पुरोडाश के भक्षण ) के विषय में ( कुछ ब्रह्मवादी ) कहते हैं कि पुरोडाशस्य पुरोडाश का यतः घृतेन अनक्तं स्यात्जितना भाग घृत से सिक्त नहीं सोमपीथस्य गुप्त्यै सोमपान की रक्षा के लिए ततः प्राश्नीयात् उतना ही प्राशन करना चाहिए क्योंकि घृतेन हि वज्रेण घृत रूपी वज्र से ही इन्द्रः वृत्रम् अहन् इन्द्र ने वृत्र को मारा था। सा० भा० — तत्सोमपानस्य रक्षणाय भवति। यस्मादिन्द्रो घृतमेव वज्रं कृत्वा तेन वृत्रं हतवान्, तस्मात् तस्य क्रूरत्वात् घृतरहितं सकलं भक्ष्यमिति पूर्वपक्षिण आहुः । तं निराकृत्य सिद्धान्तं दर्शयति— तत्तन्नादृत्यं, हविर्वा एतद्यदुत्पूतं सोमपीथो वा एषं यदुत्पूतं तस्मात् तस्य यत एव कुतश्च प्राश्नीयात्, सर्वतो वा एताः स्वधा यजमान- मुपक्षरन्ति यदेतानि हवींष्याज्यं धानाः करम्भः परिवापः पुरोळाशः पयस्येति ॥७ ॥
हिन्दी –(उस पूर्वपक्ष का निराकरण करके सिद्धान्त पक्ष को कह रहे हैं— ) तत् तो तद् न आदृत्यम् वह ( पूर्वपक्ष का कथन ) आदरयोग्य नहीं है क्योंकि यद् उत्पूतम् जो ( घृत) उत्पवन संस्कार (से ) संस्कृत है, एतद् हविः एव यह हवि ही होता है और यद् उत्पूतम् जो ( उत्पवन संस्कार से) संस्कृत है एषः सोमपीथः एव यह सोमपान के समान है। तस्मात् इस कारण से तस्य उस (पुरोडाश ) का यतः एव कुतः जो कोई भी भाग ( घृतसहित या घृतरहित अवशिष्ट) हो, प्राश्नीयात् उसका भक्षण कर लेना चाहिए। आज्यं धानाः करम्भः परिवापः पुरोडाशः पयस्या घृत, धान, करम्भ, परिवाप, पुरोडाश और पयस्या (मट्ठा) यद् एतानि हवींषि जो ये हवियाँ हैं एताः स्वधाः ये अन्न रूप होकर सर्वतः वै सभी ओर से यजमानम्उपक्षरन्ति यजमान के पास आ जाती हैं। ( १ ) तै ०ब्रा० १.५.११.४ । ( २ ) आप० श्रौ० १२.४.१,२ ।