ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 431–440

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 431–440

पृष्ठ 431

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 431 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ] ३६ ९ तृतीयोऽध्यायः षष्ठः खण्ड सायणाचार्यकृतभाष्योपेतम्: सा० भा ० - घृतरहितभाग एव भक्षणीय इति मतं नाऽऽदरणीयम्। संस्काररहितस्य घृतस्य वज्रत्वेऽपि यदुत्पूतं घृतं तद्धविरेव। किं च यदुत्पूतं तत्सोमपीथ-उत्पवन- सदृशमेव। तस्मात् तस्य पुरोडाशस्य यतः कुतश्च घृतयुक्ताद् घृतरहिताद्वा यस्मात् कस्मादपि भागात् प्राश्नीयात् । आज्यं धानादीनि यानि हवींषि सन्ति ता एताः सर्वतः स्वधाऽन्नं तद्रूपा

एव भूत्वा यजमानमुपक्षरन्ति स्रवन्ति। तस्मात् सर्वतः प्राशनमुपपन्नम्॥

वेदनं प्रशंसति— सर्वत एवैनं स्वधा उपक्षरन्ति य एवं वेद ॥८॥

हिन्दी- यः एवं वेद जो इस प्रकार जानता है, एनं सर्वतः एव उसके लिए सभी ओर से स्वधा उपक्षरन्ति अन्न आते हैं ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) पञ्चमः खण्डः ॥ ५॥

॥ इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के पञ्चम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा ० भा ० -– विहितान् सवनीयपुरोडाशान् धानादिरूपान् प्रशंसति— ( धनादिरूपसवनीयपुरोडाशानां प्रशंसनम् ) ( तत्र हविष्पङ्किविधानम् ) यो वै यज्ञं हविष्पङ्क्ति वेद हविष्पङ्क्तिना यज्ञेन राध्नोति धानाः करम्भः परिवापः पुरोळाशः पयस्तेत्येष वै यज्ञो हविष्पङ्क्ति- र्हविष्पङ्क्तिना यज्ञेन राध्नोति य एवं वेद ॥ १ ॥

हिन्दी— ( धानादिरूप सवनीय पुरोडाशों की प्रशंसा कर रहे हैं - ) यः वै यज्ञं हविष्पङ्क्ति वेद जो पाँच हविषों वाले सोमयाग को जानता है, वह हविष्यङ्किना यज्ञेन राध्नोति वह पाँच हविषों वाले सोमयाग से समृद्ध होता है। धानाः करम्भः परिवापः पुरोडाशः पयस्या धान, करम्भ, परिवाप, पुरोडाश और पयस्या– इति एषः वै यज्ञः हविष्पङ्किः इन पाँच हविषों वाला यह यज्ञ (सोमयाग) है । यः एवं वेद जो इस प्रकार जानता है, वह हविर्ष्याङ्कना यज्ञेन राध्नोति वह पाँच हविषों वाले सोमयाग द्वारा समृद्ध ( १ ) ' हरिवाँ इन्द्रो धाना' इत्यादि (ऐ०ब्रा० ८.६ ) सवनप्रैषाद्युक्तानि यत् यानि एतानि हवींषि— इत्यर्थः । ‘ अथैन्द्रैः पुरोडाशैरनुसवनं चरन्ति' इति आश्व ० श्रौ० सू० ५.४.१ ।

पृष्ठ 432

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 432 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३७० ऐतरेयब्राह्मणम् ८.६ द्वितीयपञ्चिकायां होता है। सा ० भा० — हविषां धानादिद्रव्यरूपाणां पङ्क्तिः समूहो यस्मिन् सोमयागे सोऽयं हविष्पङ्क्तिः, तादृशं यज्ञं यो वेद स तथैव तादृशेन यज्ञेन समृद्धो भवति। भृष्टा यवतण्डुला धानाः । तदाह आपस्तम्बः-–‘कपालानामुपधानकाले प्रथमकपालमन्त्रेण धानार्थं लाजार्थं कपाले अधिश्रित्य तण्डुलानोप्य धानाः करोति व्रीहीनोप्य लाजान् करोति पुरोडाशमधि- श्रित्याऽऽमिक्षावत् पयस्यां करोत्युद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौत्यर्धाः पिष्टानान् मावृता सक्तून् करोति। मन्थं संयुतं करम्भ इत्याचक्षते, लाजान् परि-वाप इति न वै लाजेभ्यः स्तुषान् संहरति २ इति । पुरोडाश: प्रसिद्धः । अन्ये धानाकरम्भ- परिवापपयस्याशब्दा आपस्तम्बेन व्याख्याताः । एतैर्हविर्भिर्युक्तो यज्ञो हविष्पङ्क्तिः । हविष्पङ्क्तिनेत्यादिपुनर्वचनमुपसंहारार्थम्। यद्वा, पूर्वं वेदनपूर्वकानुष्ठानप्रशंसेह तु वेदन- मात्रप्रशंसा द्रष्टव्या। हविषां पञ्चसंख्यानां समूहरूपा या पङ्क्तिः सा शाखान्तरेऽप्या- म्नाता— ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति । धानाः करम्भः परिवापः पुरोळाशः पयस्या तेन पङ्क्तिराप्यते तद् यज्ञस्य पाङ्क्तत्वम् ” इति। अत्रार्थवादेन धानादीनां पुराडाशद्रव्याणां विधिरुन्नेतव्यः ॥ अनेनैव न्यायेनाक्षराणां पञ्चानां विध्युन्नयनं दर्शयति— ( अक्षरपङ्क्त्युन्नयनविधानम् ) यो वै यज्ञमक्षरपङ्क्तिं वेदाक्षरपङ्क्तिना यज्ञेन राध्नोति सुमत्पद्वग्द इत्येष वै यज्ञोऽक्षरपङ्क्तिरक्षरङ्क्तिना यज्ञेन राध्नोति य एवं वेद ॥ २ ॥

हिन्दी- ( इसी न्याय से पाँच अक्षरों वाली विधि के उन्नयन को दिखला रहे हैं - ) यो वै अक्षरपंक्तिं वेद जो पाँच अक्षरों वाले यज्ञ को जानता है, वह अक्षरपंक्तिना यज्ञेन पाँच अक्षरों वाले यज्ञ द्वारा राध्नोति वृद्धि को प्राप्त करता है। सुमत्पद्वग्दे सु मत् पद्, वग् और दे’ इत्येषः अक्षरपंक्तिः यज्ञः यह पाँच अक्षरों वाला यज्ञ है। यः एवं वेद जो इस प्रकार जानता है, वह अक्षरपंक्तिना यज्ञेन पाँच अक्षरों वाले यज्ञ द्वारा राध्नोति वृद्धि को प्राप्ता करता है। सा० भा०-–पञ्चसंख्याकानामक्षराणां समूहोऽक्षरपङ्क्तिः । ' सु' इत्येकमक्षरम्, मदिति द्वितीयमक्षरम्, पदिति तृतीयमक्षरम्, वगिति चतुर्थमक्षरम्, दे इति पञ्चममक्षरम्। तान्येतान्यक्षराणि होतृजपादौ प्रयोक्तव्यानि । तथा च संप्रदायविद' आहुः- एतद्धोतृजपाख्यस्य चाऽऽदितोऽक्षरपञ्चकम् । एकैकमक्षरं चात्र परस्य ब्रह्मणे वपुः ॥ ( ) ( ) ( ३१ ) षड्गुरुशिपतै ० सं० ६.५.११.४,५पद्यद्वयमिदम्॥ २ आप० श्रौ ० १२.४.९ -१४ ।

पृष्ठ 433

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 433 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: तृतीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ३७१ सुपूजितं मत्प्रहृष्टं पत्सर्वव्यापि तच्च वक् ।

सर्वस्य वक्तृ ब्रह्मैव दे फलानां प्रदातृ तत्'॥ इति।

अन्यत् पूर्ववद् व्याख्येयम्॥

तथा पञ्चविधनाराशंसविध्युन्नयनं दर्शयति— ( नाराशंसपंक्त्युन्नयनविधानम् ) यो वै यज्ञं नराशंसपङ्क्तिं वेद नराशंसपङ्क्तिना यज्ञेन राध्नोति द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपङ्क्तिर्नराशंसपङ्क्तिना यज्ञेन राध्नोति य एवं वेद ॥ ३ ॥

हिन्दी - ( अब पाँच नराशंस-विधि के उन्नयन को दिखला रहे हैं - ) यः वै नराशंसपङ्क्तिं यज्ञं वेद जो पाँच नराशंसी से युक्त यज्ञ को जानता है, वह नराशंसपङ्किना यज्ञेन पाँच नराशंस से युक्त यज्ञ द्वारा राध्नोति वृद्धि को प्राप्त करता है द्विनाराशंसं प्रातःसवनम् प्रातःसवन दो नाराशंसी वाला, द्विनाराशंसं माध्यन्दिम् दो नराशंसी वाला माध्यन्दिन सवन और सकृद् नाराशंसं तृतीयसवनम् एक नराशंसी वाला सायंसवन होता है । एषः वै नाराशंसपङ्किः यज्ञः यही पाँच नाराशंसी युक्त यज्ञ है । यः एवं वेद जो इस प्रकार जानता है वह नराशंसपङ्किना यज्ञेन राध्नोति पाँच नराशंस वाले यज्ञ द्वारा वृद्धि को प्राप्त करता है । सा ० भा०- भक्षिताप्यायितानां सादितानां चमसानां नाराशंसशब्दः संज्ञा। अत उक्तमाचार्येण’ ‘ आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति इति। भक्षितेषु चम-सेषु पुनः पूरणमाप्यायनम्। तथाविधश्चमसाः प्रातः सवने द्विः प्रयुज्यन्ते तथा माध्यंदिन-सवनेऽपि, तृतीयसवने तु सकृदेव । एवं पञ्चसंख्योपोतत्वान्नराशंसानां पङ्क्तिर्यज्ञे विद्यते ॥ तथैव सवनपङ्क्तिं दर्शयति-- ( सवनपंक्तिविधानम् ) यो वै यज्ञं सवनपङ्क्तिं वेद सवनपङ्क्तिना यज्ञेन राध्नोति पशुरुप- वसथे त्रीणि सवनानि पशुरनुबन्ध्य इत्येष वै यज्ञः सवनपङ्क्तिः सवनपङ्क्तिना यज्ञेन राध्नोति य एवं वेद ॥४ ॥

हिन्दी— ( अब पाँच प्रकार के सवन को दिखला रहे हैं - ) यः सवनपङ्क्तिं यज्ञं वेद ( १ ) ब्रह्मैतद् दे दानाय तु तिष्ठति - इति षड्गुरुशिष्यस्य पाठः । ( २ ) एतत्सूत्रकारेण आश्वलायनेनेति यावत्। तत्र ' आध्वर्य उपह्वयस्व ' – इत्यादीनि सूत्राणि | ( ) द्रष्टव्यानि ५.६.२ -१० ३ आश्व ० श्रौ० ५.६.३० ।

पृष्ठ 434

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 434 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३७२ ऐतरेयब्राह्मणम् ८.६ द्वितीयपञ्चिकायां जो पाँच सवन वाले यज्ञ को जानता है, वह सवनपङ्क्तिना यज्ञेन राध्नोति पाँच सवन वाले यज्ञ द्वारा वृद्धि को प्राप्त करता है। उपवसथे उपवसथ ( नामक पहले दिन अग्निषोमीय) पशुः पशु ( एक सवन) त्रीणि सवनानि (प्रातः, मध्यन्दिन और सायं - ये ) तीन सवन और पशुरनुबन्ध्यः ( सवनों के बाद अनुष्ठेय) अनुबन्ध्य ( नामक ) पशु (पाचवाँ सवन) है। एषः वै सवनपङ्क्तिः यज्ञः यही पाँच सवनों से युक्त यज्ञ है । यः एवं वेद जो इस प्रकार जानता है, वह सवनपङ्किना यज्ञेन राध्नोति पाँच सवन वाले यज्ञ से समृद्धि को प्राप्त करता है । सा० भा ० — परेद्युर्यक्ष्यमाणस्य यजमानस्य समीपे पूर्वेद्युर्देवतास्तदीयं यज्ञं प्रतीक्ष-माणा वसन्ति तस्मादुप समीपे वसन्त्यस्मिन् दिवस इति पूर्वदिवसमुपवसथाख्ये पूर्वदिवसे यः पशुरग्नीषोमीयः सोऽप्यत्र सवनसमीपवर्तित्वात् सवनत्वेन गण्यते। प्रात: सवनादीनि तु त्रीणि प्रसिद्धान्येव सवनानि। सवनेभ्य ऊर्ध्वमनुष्ठेयोऽनुबन्ध्याख्यः पशुरपि पूर्ववत् सवन- त्वेन गण्यते । अतः पञ्चानां सवनानां पङ्क्तया समूहेन युक्तो यो यज्ञ एष एव सवनपङ्क्तिः । एवं हविष्पङ्क्तिप्रङ्गेनाक्षरपङ्क्तिर्नराशंसपङ्क्तिः सवनपङ्क्तिश्चेत्येतावदभिहितम् । एतदेवा- भिप्रेत्य तत्र तत्र “पाङ्क्तो यज्ञः ” श्रूयते॥१ अथ प्रकृतानां सवनीयपुरोडाशानां क्रमेण याज्या विधत्ते- ( सवनीयपुरोडाशानां क्रमेण याज्याविधानम् ) हरिवाँ इन्द्रो धाना अत्तु पूषण्वान् करम्भं सरस्वतीवान् भारतीवान् परिवाप इन्द्रस्यापूप इति हविष्पङ्क्त्या यजति ॥ ५ ॥

हिन्दी –( अब सवनीय पुरोडाशों की क्रमशः याज्या का विधान कर रहे हैं— ) (पहली याज्या ) ‘ हरिवाँ इन्द्रः धाना अत्तु' अर्थात्' हरि' नामक दो घोड़ों वाले इन्द्र धान (रूपी हवि ) का भक्षण करें । ( दूसरी याज्या) पूषण्वान् करम्भम् पशुओं के स्वामी पूषादेव करम्भ (रूपी हवि ) का भक्षण करें। ( तीसरी याज्या) सरस्वतीवान् भारतीवान् ( वाग्देवी) सरस्वती और भारती से युक्त देवता परिवापः परिवाप (रूप हवि का भक्षण करें ) । ( चौथी याज्या ) इन्द्रस्य अपूपः इन्द्र को अपूप ( पुरोडाश ) प्रिय है। (पाँचवी याज्या ) ' हवि पयस्या ' ( इस पाँचवीं याज्या को अन्य शाखाओं से जान लेना चाहिए )– इति हविष्पङ्क्त्या यजति इन पाँच हवियों ( की याज्याओं ) से यजन करता है । सा० भा० – हरिनामानौ द्वावश्वावस्य स्त इति हरिवानिन्द्रः । सोऽयं धाना अत्तु भक्ष- यतु । सेयं प्रथमहविषो याज्या। पोषकत्वात् पशवः पूषञ्छब्देनोच्यन्ते। तत्स्वामी देवः पूषण्वान् स तु करम्भमत्त्वित्यनुवर्तते। सेयं द्वितीयहविषो याज्या । सरस्वती वाक्साऽस्या- स्तीति देवविशेषः सरस्वतीवान्। स एव भारतीवाञ्शरीरभरणाद्भरणः प्राणः । तस्य संबन्धिनी ( १ ) शत ० ब्रा ० १.१.२.१६; तै ० सं ० ७.१.१०.४ ।

पृष्ठ 435

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 435 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ३७३ तृतीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् देहाऽवस्थितिर्भारती तद्युक्तो देवो भारतीवान्। ' अयं विशेषणद्वयोपेतो देवः परिवापः परिवा- पाख्यं हविरत्तु । इयं तृतीयस्य याज्या| इन्द्रस्यापूपः पुरोडाशः प्रिय इति शेषः । तथा सतीन्द्रोऽ- पूपमत्त्वित्यर्थादवगम्यते । सेयं चतुर्थहविषे याज्या। पञ्चमहविःस्वरूपायाः पयस्यायाः ‘ ' न्तरादत्रोपसंहर्त्तव्या। एवं हविष्पङ्क्तया यजति हविष्पङ्क्तिविषयां याज्यां पठेदित्यर्थःशाखा-॥ प्रथमयाज्यां व्याचष्टे— ऋक्सामे वा इन्द्रस्य हरी ॥ ६ ॥

हिन्दी— ( प्रथम याज्या की व्याख्या कर रहे हैं - ) ऋक्सामे वै इन्द्रस्य हरी ऋक् और साम ही इन्द्र के हरि (नामक दो अश्व है ) । सा ० भा ० — ऋग्देवता सामदेवता चेत्युभयदेवतारूपाविन्द्रस्याश्वावतो हरिवानिति मन्त्रोक्तिरित्यर्थः ॥ द्वितीययाज्यां व्याचष्टे— पशवः पूषाऽन्नं करम्भः ॥७ ॥

हिन्दी —( द्वितीय याज्या की व्याख्या कर रहे हैं - ) पशवः पूषा अन्नं करम्भः ( पशुओं का भरण- पोषण करने के कारण) पूषा ही पशु है और करम्भम् अन्नम् · (स्वादयुक्त होने के कारण) करम्भ अन्न है। सा० भा०---पोषकत्वान् पशूनां पूषत्वं स्वादुपोषकत्वात् करम्भस्यान्नत्वमतः पशु- स्वामिनः करम्भो योग्य इत्यर्थः ॥ तृतीययाज्यां व्याख्यापूर्वं व्याचष्टे- सरस्वतीवान् भारतीवानिति वागेव सरस्वती प्राणो भरतः ॥८ ॥

हिन्दी —- ( तृतीय याज्या का व्याख्यान कर रहे हैं - ) ‘ सस्वतीवान् भारतीवान्’ इति यहाँ वागेव सरस्वती वाणी ही सरस्वती है और प्राणः भरतः प्राण ही भरण करने वाला है । सा० भा ० — अत्र सरस्वतीवान् भारतीवानिति व्याख्येयमनूद्य वागित्यादिना तद्- व्याख्यानं क्रियते । वागेव सरस्वतीत्येल्लोकप्रसिद्धं न त्वत्र किञ्चिद्वक्तव्यमस्तीत्येवशब्द- स्यार्थः । शरीरभरणहेतुत्वात् प्राणो भरतशब्दवाच्यः । तदीयवृत्तिर्भारती तदुभयोपेतं मत्प्रत्यय- स्यार्थ इति द्रष्टव्यम्॥ तृतीययाज्याया उत्तरार्धं चतुर्थयाज्यां चानूद्य व्याचष्टं— परिवाप इन्द्रस्यापूप इत्यन्नमेव परिवाप इन्द्रियमपूपः ॥९ ॥

( १ ) ' शरीरस्य भर्ता प्राणो भरतः तस्य स्वभूता भारती प्राणवती वाक् तद्वान् इन्द्रो भारतीवान्'- इति भट्टभास्करः ।

पृष्ठ 436

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 436 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३७४ ऐतरेयब्राह्मणम् ८.६ द्वितीयपञ्चिकायां हिन्दी—( तृतीय याज्या के उत्तरार्ध और चतुर्थ याज्या को कह कर उसका व्याख्यान कर रहे हैं— ) ‘परिवाप इन्द्रस्य अपूपम्' इति यहाँ अन्नमेव परिवापः परिवाप (लावा) अन्न ही है और इन्द्रियम् अपूपः ( इन्द्रियों की वृद्धि का हेतुभूत) अपूप इन्द्रिय है । सा० भा ० — परिवापशब्दवाच्यानां लाजानां मृत्युत्वेनात्तुं सुकरत्वादन्नत्वम्। इन्द्रिय-वृद्धिहेतुत्वाद् अपूपस्येन्द्रियत्वम्। अत्र हरिपूषादिविशेषरूपदेवताभेदाद्याज्याभेदेऽपि यजनी-यस्य विशेषस्येन्द्रस्यैकत्वादेकयाज्यात्वमभिप्रेत्य हविष्पङ्क्त्या यजतीत्येकप्रधानविधिरिति द्रष्टव्यम् ॥१ होतुरुक्तयाज्यावेदनं प्रशंसति— एतासामेव तद्देवतानां यजमानं सायुज्यं सरूपतां सलोकतां गमयति, गच्छति श्रेयसः सायुज्यं गच्छति श्रेष्ठतां य एवं वेद ॥ १० ॥

हिन्दी– (होता के इस पूर्वोक्त ज्ञान की प्रशंसा कर रहे हैं — ) यः एवं वेद जो (होता ) इस प्रकार जानता है वह तत् इस (ज्ञान ) से यजमानम् यजमान को एताषामेव देवतानाम् इन देवताओं के सायुज्यं सरूपतां सलोकतां गमयति सहवास, सारूप्य और समान निवास की प्राप्ति करा देता है। श्रेयसः गच्छति स्वयं (होता ) श्रेय को प्राप्त करता है, सायुज्यं गच्छति (देवताओं की ) समीपता को प्राप्त करता है और श्रेष्ठतां गच्छति श्रेष्ठता को प्राप्त करता है । सा ० भा०— य एवं वेदिता होता यजमानामिन्द्रादिदेवतानां सायुज्यं सहवासं सरूपतां समानशरीरत्वं सलोकतामेकलोकावस्थानां च प्रापयति। स्वयं च होता श्रेयसोऽतिप्रशस्त-स्येन्द्रादेः सायुज्यं सहवासं प्राप्नोति भागाधिक्येन श्रेष्ठतां च प्राप्नोति॥ सवनीयपुरोळाशसंबन्धिनः स्विष्टकृतो याज्यां विधत्ते— हविरग्ने वीहीत्यनुसवनं पुरोळाशः स्ष्टिकृतो यजति ॥ ११ ॥

हिन्दी—( सवनीय पुरोडाश से सम्बन्धित स्विष्टकृत् की याज्या को कह रहे हैं- ) ' अग्ने हे अग्ने हविः वीहि ( हमारे द्वारा दी गयी ) हवि का भक्षण करो' -– इति अनुसवनम् इस प्रकार प्रत्येक अनुसवन में पुरोडाशः स्विष्टकृतः पुरोडाश का स्विष्टकृत् यजति याज्या करता है । सा ० भा ० — हे अग्ने इदमस्माभिर्दत्तं हविर्वीहि भक्षय। एतामेव त्रिष्वपि सवनेषु ( १ ) अत एव श्रूयते— अथ कस्मादेतेषाँ हविषामिन्द्रमेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात्’ – इति ० तै ० ब्रा० १.५.११.३ । ‘ यस्मादेताः सर्वा देवता एनमिन्द्रमुपजीवन्तीति शेष:, तस्माद् इन्द्रस्यैव धानादिहविः स्वमित्वं युक्तम्' – इति च तत्र सा० भा० । ( २ ) ‘ पुरोडाशस्विष्टकृतं यजेत् । सवनबहुत्वात् पुरोडाशस्विष्टकृत इति बहुवचनम्। द्वितीयार्थे वा षष्ठ्येकवचनम्’— इति भट्टभास्करः ।

पृष्ठ 437

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 437 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ] तृतीयोऽध्यायः षष्ठः खण्ड सायणाचार्यकृतभाष्योपेतम्: याज्यां पठेत् ॥ ३७५ एतामेव प्रशंसति— अवत्सारो वा एतेनाग्नेः प्रियं धामोपागच्छत् स परमं लोकमजयत् –( हिन्दी इस स्विष्टकृत् याज्या — ) ॥ १२ ॥ नामक किसी ऋषि की हवि एतेन इस (कीमन्त्रप्रशंसा) से अग्नेःकर रहेप्रियंहैं धामअवत्सारःउपागच्छत्वै अग्निअवत्सारके

प्रिय धाम को प्राप्त किया और सः परमं लोकम् अजयत् उस (ऋषि) ने परम लोक को प्राप्त किया । सा ० भा ० – अवत्सारनामकः कश्चिदृषिर्हविरित्येतेन मन्त्रेणाग्निदेवतायाः प्रियं स्थानं प्राप्य तत ऊर्ध्वं ततोऽत्युत्कृष्टं लोकं जितवान् । अत्र सर्वत्र यजुःस्वरूपैव याज्या ॥ तदेतन्मन्त्रवेदनं तत्पूर्वकमनुष्ठानं च प्रशंसति— उपाग्नेः प्रियं धाम गच्छति, जयति परमं लोकं, य एवं वेद, यश्चैव विद्वानेतया हविष्यङ्क्त्या यजते यजतीति च, यजतीति च ॥ १३ ॥

हिन्दी –( इस ज्ञान और अनुष्ठान की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है यः च एवं विद्वान् जो इस प्रकार का जानने वाला ( होता) एतया हविष्पङ्क्त्या इस पाँच हविषों से युक्त यजते यजन करता है और यजति च यजन कराता है । वह अग्नेः प्रियं धाम उपगच्छति अग्नि के प्रिय धाम को प्राप्त करता है और परमं लोकं जयति उससे भी उत्कृष्ट स्थान को प्राप्त करता है । सा ० भा० — यस्यात्रवेदिनः फलतया हविष्पङ्क्ति स्वार्थमनुतिष्ठतो यजमानस्य परार्थं

याज्या पठतो होतुश्च फलं भवति। उभयविवक्षयाऽऽत्मनेपदपरस्मैपदप्रयोगः ॥

॥ इति श्रीमत्सायणाचार्य विरचिते माघवीये 'वेदार्थ प्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः तृतीयाध्याये ( अष्टमाध्याये ) षष्ठः खण्ड: ॥६॥

|| इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये ' वेदार्थप्रकाश' -नामभाष्ये ऐतरेयब्राह्मणस्य द्वितीयपञ्चिकायाः तृतीयोऽध्यायः ॥३ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के अष्टम अध्याय की 'शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 438

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 438 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ द्वितीयपञ्चिकायाम् _____ चतुर्थोऽध्यायः [ अथ नवमोऽध्यायः ] प्रथमः खण्डः

सायणभाष्यम्— अपोनप्त्रीयतच्छेष उपांश्वादिग्रहा अपि ।

सवनीयाः पुरोडाशाः पवमानाय सर्पणम् ॥१ ॥

इदानीमैन्द्रवायवादीन् द्विदेवत्यान् ग्रहान् विधातुमाख्यायिकामाह— ( ऐन्द्रवायवादिद्विदेवत्यग्रहस्य विधातुमाख्याकिा ) देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयमहं प्रथमः पिबेयमित्येवाकामयन्त, ते संपादयन्तोऽब्रुवन् हन्ताऽऽजिम- याम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति, तथेति त आजिमयुस्तेषामाजिं यतामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यता- थेन्द्रोऽथ मित्रावरुणावथाश्विनौ ॥ १ ॥

हिन्दी – ( अब इन्द्रवायू इत्यादि द्विदेव से सम्बन्धित ग्रहों के विधान के लिए आख्यायिका को कह रहे हैं - ) देवाः देवताओं ने सोमस्य राज्ञः अग्रपेये सोम राजा के विषय में आगे पान करने के लिए न समपादयन् सम्मति को नहीं प्राप्त हुए (एक मत नहीं हुए किन्तु) । अहं प्रथमः पिबेयम् अहं प्रथमः पिबेयम् मैं पहले पान करूँ, मैं पहले पान करूँ— इत्येव अकामयन्त यही कामना किये। ते संपादयन्तः अब्रुवन् उन्होंने परस्पर सममति होकर कहा कि हन्त आजिमयाम अरे हम लोग दौड़ लगावे । नः यः उज्जेष्यति हम लोगों में जो जीतेगा सः प्रथमः सोमस्य पास्यति वह पहले सोम का पान करेगा । तथा इति ठीक है ( ऐसा उन्होंने निश्चय किया ) । ते आजिमयुः उन लोगों ने दौड़ लगाया । आजि यताम् अभिसृष्टानां तेषाम् दौड़ में प्रवृत्त उन ( देवतांओं ) में वायुः प्रथमः मुखं प्रतिपद्यत वायु पहले (नियतस्थान पर ) पहुँच गये । अथ इन्द्रः इसके बाद इन्द्र अथ मित्रावरुणौ इसके बाद मित्र और वरुण, अथ अश्विनौ तत्पश्चात् अश्विन्देव पहुँचे। सा० भा० -– पुरा कदाचिद्देवाः सोमस्याग्रपेये प्रथमपाने निमित्तभूते सति न समपाद-

पृष्ठ 439

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 439 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ]: चतुर्थोऽध्यायः प्रथमः खण्ड सायणाचार्यकृतभाष्योपेतम् ३७७ यन् संपादनं संपत्तिं न प्राप्ताः। किंत्वहमेव प्रथमः पिबेयमिति सर्वेऽप्यकामयन्त समयबन्धपुरःसरमाजिं धावनावधिं कञ्चिद्वृक्षं पाषाणमन्यद्वा किञ्चिदयामप्राप्नवाम । स सर्वेयो यः कश्चिदपि नोऽस्माकं मध्य उज्जेष्यति तस्मिन् धावन उत्कर्षेण जयं प्राप्स्यति स एक एव प्रथमो भूत्वा सोमस्य सोमं पास्यति । ते देवास्तथेत्यङ्गीकृत्याऽऽजिं धावनमर्यादामयुः प्राप्त- वन्तः । आजिं यतां प्राप्नुवतामभिसृष्टानामभितः प्रवृत्तानां तेषां मध्ये वायुः प्रथमो भूत्वा मुखमवधेः संमुखं तं प्रत्यपद्यत। वायोः पृष्ठत इन्द्रः, तस्य पृष्ठतो मित्रावरुणौ, तयोः पृष्ठतोऽश्विनावेवं क्रमेण सर्वे धावनं प्रारब्धवन्तः॥ तस्मिन् धावने वायोरिन्द्रस्य च परस्परं संवादं दर्शयति— ( धावने वायोरिन्द्रस्य संवादः ) सोऽवेदिन्द्रो वायुमुद्वै जयतीति तमनु परापतत् सह नावथोज्जया- वेति स नेत्यब्रवीदहमेवोज्जेष्यामीति तृतीयं मेऽथोज्जयावेति नेति हैवाब्रवीदहमेवोज्जेष्यामीति तुरीयं मेऽथोज्जयावेति, तथेति तं तुरीयेऽत्यार्जत, तत्तुरीयभागिन्द्रोऽभवत् त्रिभाग्वायुः ॥ २ ॥

हिन्दी – (उस दौड़ प्रतियोगिता में वायु और इन्द्र के हुए परस्पर संवाद को दिखला रहे हैं - ) सः इन्द्रः अवेत् उस इन्द्र ने सोचा कि वायुम् उद्वै जयति वायु को जीत लूँ। तम् अनु परापत् ( अतः दौड़ते हुए इन्द्र ) उस (वायु ) के समीप गिर गये । अथ तब (इन्द्र ने कहा कि) सह नौ उज्जयौ हम दोनों (वायु और इन्द्र) ने साथ- साथ जीता है ( अतः हम दोनों साथ - साथ आधा - आधा सोम पान करें ) । तब सः अब्रवीत् उस ( वायु ) ने कहा कि नेति नहीं, अहमेव उज्जेष्यामि केवल मैंने ही जीता है। (पुनः इन्द्र ने कहा कि) तृतीयं मे मेरे लिए तृतीय भाग ही प्राप्त हो; क्योंकि अथ उज्जयौ हम दोनों ने साथ-साथ जीता है। नेति ह एव अब्रवीत् (तब वायु ने कहा कि नहीं, अहमेव उज्जेष्यामि मैंने ही जीता है। (पुनः इन्द्र ने कहा ) मे तुरीयम् मुझे चौथाई भाग ही प्राप्त हो क्योंकि अथा उज्जयाव हम दोनों ने साथ-साथ जीता है । ( तब वायु ने कहा कि ) तथा ठीक है। तं तुरीये अत्यार्जत उस ( इन्द्र) को चौथाई भाग प्राप्त होवे । तत् इस कारण तुरीयभाग् इन्द्रः चौथाई भाग वाला इन्द्र और त्रिभाग् वायुः तीन भाग वाला वायु अभवत् हुआ । ( १ ) न समपादयन् न समपद्यन्त तद्विषये सम्प्रतिपत्तिमन्तो नाभवन् । सम्प्रतिपत्तिरेव सम्पत्ति स्वार्थिको णिच् । यद्वा, सामर्थ्यादात्मानमिति गम्यते । आत्मानं सम्प्रतिपन्नं नाकुर्वत' – इति भट्टभास्करः । ‘ सम्पदेरनुज्ञान – इत्यर्थाल्लङ्' –इति षड्गुरुशिष्यः । ( २ ) ( i ) ‘सम्प्रतिपत्तिकामा अब्रुवन् हेतौ शतृप्रत्ययः ' - इति भट्टभास्करः । ( ii ) ‘ हन्तेत्यभि- मुखीकरणे’—इति षड्गुरुशिष्यः । ' हन्तेत्यात्मगतम्' – इति गोविन्दस्वामी। ऐ.ब्रा. पू- २४

पृष्ठ 440

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 440 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३७८ ऐतरेयब्राह्मणम् ९.१ द्वितीयपञ्चिकायां सा ० भा ० — अयं वायुरुत्कर्षेण जयत्येवेति स इन्द्रोऽवेत्स्वमनसि ज्ञातवाञ्ज्ञात्वा च तं वायुमनु पृष्ठतः परापतत् सहसैवाधावत्। आगत्य चेदमुक्तवान् हे वायो नावावयोरुभयो: सह सोमपानमस्तु तवार्धं ममार्धम्। अथ तस्मात्कारणादावामुभौ सहैवोत्कर्षेण जयं प्राप्नवावेति । स वायुर्नेति निराकृत्याहमेक एवोज्जेष्यामीत्यब्रवीत्। ततः स इन्द्र एवमुवाच ममार्धं मा भूत्, किं तु तृतीयं त्रिषु भागेषु भागोऽस्तु तव द्वौ भागौ। अथैवं सति सहैवाऽऽवामुज्जयावेति। पुनरपि नेत्येव निराकृत्य स वायुरहमेवोज्जेष्यामीत्यब्रवीत्। ततः स इन्द्रः पुनरप्युवाच तृतीयो मा भूत्, किं तु मे तुरीयमस्तु चतुर्थभागोऽस्तु, तव त्रयो भागा। अथैवं सत्यावामुभावुञ्जयावेति। ततो वायुरङ्गीकृत्य तमिन्द्रं तुरीये चतुर्थभागेऽत्यार्जतातिशयेन स्थापितवान्' तस्मात्

कारणादिन्द्रश्चतुर्थांशभागभूत्। वायुरंशत्रयभागवान्॥

अथ विजयक्रमेण सोमपानक्रमं दर्शयति— ( सोमपानक्रमविधानम्) तौ सहैवेन्द्रवायू उदजयतां सह मित्रावरुणौ सहाश्विनौ, त एषामेते यथोज्जितं भक्षा इन्द्रवाय्वोः प्रथमोऽथ मित्रावरुणयोरथाश्विनोः ॥३ ॥

हिन्दी— ( अब विजय के क्रम से सोमपान के क्रम को दिखला रहे हैं - ) तौ इन्द्रवायू सह एव उदजयताम् उस इन्द्र और वायु ने साथ-साथ जीता, सह मित्रवरुणौ मित्र और वरुण ने साथ- साथ तथा सह अश्विनौ दोनों अश्विन् देवों ने साथ-साथ जीता। एषाम् इन ( देवताओं ) में ते एते वे ये ( देवता ) यथा उज्जितम् जिस क्रम से जीते भक्षाः (उसी क्रम से) सोमपान के प्राप्त करते हैं। इन्द्रवाय्वोः प्रथमम् इन्द्र और वायु को पहले अथ मित्रावरुणयोः इसके बाद मित्र और वरुण को अथ तत्पश्चात् अश्विनोः अश्विन्द्वय को ( सोम दिया जाता है ) । सा ० भा ० -- इन्द्रवायू उभौ सहैवोदजयतां धावतामवधिदेशं प्राप्नुताम् । तयोः पृष्ठतो मित्रावरुणौ परस्परं सह प्राप्नुतः। तयोः पृष्ठतोऽश्विनौ सह प्राप्नुतः । एषां देवानां यथोज्जितं तत्तज्जयमनतिक्रम्य त एते भक्षाः सोमपानरूपा अभवन्निन्द्रवाय्वोः प्रथमं सोमपानं ततो मित्रावरुणयोः सोमपानं ततोऽश्विनोः सोमपानमित्येवं द्विदेवत्यग्रहाणां क्रमो व्यवस्थितः ॥ इदानीमैन्द्रवायवग्रहं विधत्ते— ( ऐन्द्रवायवग्रहविधानम् ) स एष इन्द्रतुरीयो ग्रहो गृह्यते यदैन्द्रवायवः ॥४ ॥

हिन्दी—( अब इन्द्रावायु के ग्रह का विधान कर रहे हैं - ) यद् ऐन्द्रवायवः ग्रह जो ( १ ) ‘ अतिसृष्टवान् । यद्वा, स्वात्मानमतिक्रम्य स्वामित्वेनेन्द्रमार्जितवान् स्वीकृतवान्’ – इति भट्टभास्करः । ‘ अति सुष्ठु। आर्जताभ्युपगतवान्' – इति षड्गुरशिष्यः ।