ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 441–450

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 441–450

पृष्ठ 441

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 441 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ३७ ९ इन्द्र और वायु ( देवता) से सम्बन्धित ग्रह ( सोमपूर्ण घड़ा) है सः एषः इन्द्रतुरीयः यह ( घड़ा) इन्द्र के चौथाई भाग वाला है। अर्थात् उस घड़े में चौथाई भाग इन्द्र का औरवह शेष भाग वायु का होता है )। सा ० भा ० — योऽयमिन्द्रवायुदेवताको ग्रहः स एष इन्द्रतुरीय इन्द्रस्य तुरीयभागो यस्मिन् ग्रहे सोऽयमिन्द्रतुरीयः१, तादृशं ग्रहं गृह्णीयात्॥ उक्त भागविशेषं मन्त्रसंवादेन द्रढयति- तदेतदृषिः पश्यन्नभ्यनूवाच ' नियुत्वाँ इन्द्रसारथिः ' इति ॥५ ॥

हिन्दी— ( उक्त इन्द्र के भाग- विशेष को मन्त्र द्वारा दृढ़ कर रहे हैं— ) तद् एतत् उस इस ( इन्द्र के चौथाई भाग ) को पश्यन् ऋषिः ( अपनी दिव्य दृष्टि से) दर्शन करते हुए ऋषि ने ' नियुत्वाँ इन्द्रसारथिः वायु और उसका सारथि इन्द्र' अर्थात् अभ्यनूवाच सब कुछ कह दिया, इस मन्त्र के द्वारा । सा० भा०. - तदेतच्चतुर्थभागत्वं दिव्यदृष्ट्या पश्यन् कश्चिन्मन्त्रात्मक ऋषिस्तेन मन्त्रेणाभ्यनूवाचं साकल्येन तदुक्तवान् । नियुत्वानित्यादिको मन्त्रः । नियुत्वच्छन्दो वायुसंबन्धिनां मन्त्राणां वाचकः । ‘ अध वायुं नियुतः सश्चतस्वाः ' इत्यादिमन्त्रेष्वभिधामात् । नियुतो यस्य वायोः सन्ति सोऽयं 'नियुत्वान्'५ इन्द्रः सारथिर्यस्य वायोः सोऽयमिन्द्रसारथिः । अथ सारथित्वाभिधानाद् इन्द्रस्य चतुर्थभागप्राप्तिर्दर्शिता॥ उक्तमर्थं लोकव्यवहारेण द्रढयति— तस्माद्वाप्येतर्हि भरताः सत्वनां वित्तिं प्रयन्ति तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत् ॥ ६ ॥

हिन्दी—( पूर्वोक्त अर्थ को लोकव्यवहार द्वारा दृढ कर रहे हैं— ) तस्मात् इसी कारण एतर्हि आज भी भरताः सत्वनां वित्तिं प्रयन्ति भरत (भा = सङ्ग्राम का विस्तार करने वाले योद्धा) लोग जब सारथियों को धन देते हैं तो यददः इन्द्रः इस इन्द्र ने सारथिः इव भूत्वा अजयत् ( वायु के ) सारिथ के समान होकर विजय प्राप्त किया था' अमुना एव अनूकाशेन इसी दृष्टान्त के द्वारा वदन्ते सारथि से कहते हैं कि तुरीये एव संग्रहीतारः ( तुम सारथि) चौथाई भाग के ही भागीदार हो । ( १ ) 'तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्। तस्मादियं व्याकृता वागुद्यते, तस्मात् सकृदिन्द्राय ·मध्यतो गृह्यते द्विर्वायवे'– इति तै० सं ० ६.४.७। 'चतुर्थभागे ग्रहे त्वाद्यौ भागौ द्वौ वायुरग्रहीत् । तृतीयमिन्द्रश्चतुर्थं वायुस्तु पुनरग्रहीत्' – इति षड्गुरुशिष्यः । ( २ ) इह कर्तुकरणयोरेकत्वमुपगतं सायणस्येत्यालोच्यम्।( ) ( ) ३ ऋ० ४.४६.२ । ४ ऋ० ७.९ ०.३ ।(५ ) 'नियतो वायो:'-इति निघ० १.१५.१०

पृष्ठ 442

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 442 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८० ऐतरेयब्राह्मणम् ९.२ द्वितीयपञ्चिकायां सा० भा ० —– यस्मात् सारथिरूपस्येन्द्रस्य चतुर्थभागः पूर्वं प्रत्तः, तस्माद्ध तत एव कारणादेतर्ह्यपीदानीमपि भरता भरः सङ्ग्रामस्तं तन्वन्ति विस्तारयन्तीति भरता योद्धारः सत्वनां सारथीनां वित्तिं वेतनां जीवितरूपां प्रयन्ति प्रकर्षेण संपादयन्ति। ते च संग्रहीतारः सारथयस्तुरीये हैव युद्धलब्धस्य द्रव्यस्य चतुर्थभाग एव वदन्तेऽस्माकमेतावदुचितमिति कथयन्ति। तदौचित्ये युक्तिमाह— अमुनैव पूर्वोक्तेनैवानूकाशेन दृष्टान्तेन । स एव दृष्टान्तो यदद इत्यादिना स्पष्टीक्रियते। यस्मात्कारणाद् इन्द्रो वायोः सारथिरिव भूत्वाऽदश्चतुर्थांशरूपं सोमात्मकं धनम् उदजयत्, तस्माल्लोकेऽपि तयैव प्रवृत्तमित्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये ( नवमाध्याये ) प्रथमः खण्डः ॥१ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा ० — अथैन्द्रवायमैत्रावरुणाश्विनाख्यान् द्विदेवत्यग्रहान्प्राणरूपत्वेन प्रशंसति— ( द्विदेवत्यग्रहाणां प्राणरूपत्वेन प्रशंसनम् ) ते वा एते प्राणा एव यद्द्द्विदेवत्याः ' ॥ १ ॥

हिन्दी— ( अब ग्रहों की प्राण के रूप में प्रशंसा कर रहे हैं- ) यद् द्विदेवत्याः जो दो- दो देवताओं वाले (ग्रह = सोम से भरे घड़े ) हैं ते एते वै वे ये (ग्रह ) प्राणाः एव प्राणरूप ही है । तेषां त्रयाणां प्राणरूपत्वं विभज्य दर्शयति- वाक् च प्राणश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रावरुणः श्रोत्रं चाऽऽत्मा ( १ ) ‘ भरता युद्धार्थिनः सत्वनां सारथीनां वित्तिं वेतनां भृतिं प्रयन्ति प्रयच्छन्ति तुरीये च भागे संग्रहीतारः संग्रहीतॄन् वदन्ते भरताः । संग्रहीतार इति द्वितीयार्थे प्रथमा । यद्वा, भरता इति ऋत्विङ्नाम । भरता भृता भृत्याः, सत्वनां सत्वतां, सत्वन्तो दाक्षिणात्याः ‘ ये के च सत्वताम्' ( ऐ० ब्रा ० ३.८.३ ) इति लिङ्गात्। वित्ति भृति प्रयन्ति । ते च भृति प्रयन्तः संग्रहीतारो भृत्याः तुरीये चतुर्थे भागे प्रतीयमाने संवदन्ते। तथा चाहुः कर्मकरा हि कर्म कुर्वाणाः पादिकमर्थं लभन्ते । इति, इति गोविन्दस्वामी । किंतु कीथमहोदयेन संज्ञाशब्दरूपेण व्याख्यातम्; (द्र० शत ० १३.५.४.२१ )। ( २ ) द्र० 'प्राणा वा एते यद् द्विदेवत्याः ' - इति तै ० सं० ६.४.९।

पृष्ठ 443

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 443 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३८१ चाऽऽश्विनः ॥ २ ॥

हिन्दी — ( उन तीनों ग्रहों की प्राणरूपता को विभाजित करके दिखला रहे हैं- ) वाक् च प्राणः च वाणी और प्राण ऐन्द्रवायवः इन्द्र और वायु (के ग्रह रूप) हैं, चक्षुः च मनः च चक्षु और मन मैत्रावरुणः मित्र और वरुण के ( ग्रहरूप) हैं तथा श्रोत्रं च आत्मा च श्रोत्र और आत्मा आश्विनः अश्विन्देवों के ( ग्रह रूप ) हैं । सा० भा ० —उच्छ्वासादिर्वृत्तिभेदवर्ती वायुः प्राणः । वागादीनीन्द्रियाणि । तेषां प्राणरूपत्वाभावेऽपि प्राणाधीनवृत्तिलाभत्वेन पूर्वत्र प्राणा इति निर्देशः कृतः । ' ईममर्थं वाजसनेयिन आमनन्ति—'त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एतेनाऽऽख्यायन्ते प्राणाः’२ इति । तत्र वायुरूपे त्वमुख्यः प्राणो वाक्वेत्येतद् उभयमैन्द्रवायवग्रहस्वरूपं, चक्षुर्मनश्चा- तीन्द्रियद्वयं मैत्रावरुणग्रहस्वरूपं, श्रोत्रं जीवात्मा चेत्युभयमाश्विनग्रहस्वरूपं वक्ष्यमाण- याज्यानुवाक्योपयोगित्वेन प्राणरूपतया प्रशस्यैन्द्रवायवग्रहस्य याज्यानुवाक्ये विधातुं पूर्व-पक्षमाह- ( ऐन्द्रवायवग्रहस्य याज्यानुवाक्ययोर्विधानम् ) तस्य हैतस्यैन्द्रवायवस्याप्येकेऽनुष्टभौ पुरोनुवाक्ये कुर्वन्ति गायत्र्यौ याज्ये ॥ ३ ॥

हिन्दी — ( इन्द्र और वायु के ग्रह की याज्या और अनुवाक्या का विधान करने के लिए पूर्वपक्ष को कह रहे हैं— ) तस्य ह एतस्य ऐन्द्रवायवस्य उस इस इन्द्र और वायु से सम्बन्धित ( ग्रह) के अनुष्टुभौ पुरोनुवाक्ये अनुष्टुप् छन्द वाली दो (ऋचाएँ ) पुरोनुवाक्या तथा गायत्र्यौ याज्ये गायत्री छन्द वाली दो ऋचाएँ याज्या कुर्वन्ति करते हैं। सा ० भा ० — योऽयमैन्द्रवायवग्रहः पूर्वमुक्तस्तस्यैके ह याज्ञिका अनुष्टुप्छन्दस्के ऋचौ पुरोनुवाक्ये कृत्वा गायत्रीछन्दस्के ऋचौ याज्ये इति कुर्वन्ति। अपिशब्दोऽनर्थकः । यदाऽपि कुर्वन्तीत्येवं पूर्वपक्षानुवादार्थो वा॥ ( १ ) ' प्राणशब्दः प्राणाप्राणेषु लक्षणया छत्रिणो गच्छन्तीतिवत्' – इति गोविन्दस्वामी । ‘प्राणा- प्रवृत्तिभेदात्मकचक्षुरादिरूपत्वात्, चक्षुरादिस्थितिहेतुत्वाद् वा’—-इति भट्टभास्करः । ( २ ) शत ० ब्रा० १४.४.३.३२ । ' पञ्चधा विहितो वा अयशीर्षन् प्राणो मनो वाक् प्राणश्चक्षुः श्रोत्रम्' – इत्यादि च शत०ब्रा० ९.२.२.५; १.५.२.५; ३.१.३१ ९ -२१; ५.२.४. १०.११.७.१३.१.७.२ । ( ३ ) तु ० तै ० सं ० ६.४.९। 'वचनाप्राणनहेतू इन्द्रवायू चिद्रूपत्वात् प्रेरयितृत्वाच्च । दर्शनमननहेतू मित्रावरूणौ प्रकाशकत्वाज्जीवयितृत्वाच्च श्रवणशरीरहेतू अश्विनौ आरोग्यहेतुत्वात्– इति भट्टभास्करः ।

पृष्ठ 444

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 444 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८२ ऐतरेयब्राह्मणम् ९.२ द्वितीयपञ्चिकायां तेषां पूर्वपक्षिणामभिप्रायं दर्शयति— वाक् च वा एष प्राणश्च ग्रहो यदैन्द्रवायवस्तदपि च्छन्दोभ्यां यथायथं कल्प्स्येते ' इति ॥४ ॥

हिन्दी– ( पूर्वपक्षियों के अभिप्राय को दिखला रहें हैं— ) यद् ऐन्द्रवायवः ग्रहः जो इन्द्र और वायु से सम्बन्धित ग्रह है, एषः वै वाक् च प्राणः च यह ही वाणी और प्राण है ( अर्थात् इन्द्र व्याकरण के कर्ता रूप और प्राण वाणी रूप है ) । तद् अपि ( इस प्रकार) वे दोनों भी यथायथं छन्दोभ्यां कल्प्येते क्रमानुसार दोनों छन्दों से कल्पित किये गये हैं । सा० भा ० — योऽयमैन्द्रवायवग्रहः स एष प्राणात्मकः तत्रेन्दो वाचो व्याकरण-रूपायाः कर्ता ‘ तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोदिति' श्रुत्यन्तराद्रे अत इन्द्रद्वारा वाग्रूप- त्वम्। ‘ यः प्राणः स वायुः’ श्रुत्यन्तरात्' प्राणरूपत्वम्। तावुभावपि यथोक्ताभ्यामनुष्टुब्गा- यत्रीछन्दोभ्यां यथायथं स्वस्वसंबन्धमनतिक्रम्य कल्प्स्येते कल्पितौ भविष्यतः । ४ ‘वाग्वा अनुष्टुप्” इति श्रुत्यन्तराद्' अनुष्टुप्छन्दसो वाग्रूपत्वम्। 'प्राणो वा गायत्रीति' श्रुत्यन्तराद् गायत्र्याः प्राणरूपत्वम्। अत्र मन्त्रविशेषाः शाखान्तरे द्रष्टव्याः । सोऽयं पूर्वपक्षिणामभिप्रायः ॥ पूर्वपक्षनिराकरणपूर्वकसिद्धान्तं दर्शयति ---" तत्तन्नाऽऽदृत्यं व्यृद्वं वा एतद् यज्ञे क्रियते यत्र पुरोनुवाक्या ज्यायसी याज्यायै, यत्र वै याज्या ज्यायसी तत्समृद्धमथो यत्र समे यस्यो तत्कामाय तथा कुर्यात् प्राणस्य च वाचश्चात्रैव तदुपाप्तम् ॥ ५ ॥

हिन्दी – ( पूर्वपक्ष का निवारण करके सिद्धान्त को दिखला रहे हैं - ) तत् तो तद् अनादृत्यम् वह ( पूर्वपक्षियों का पक्ष) सम्माननीय नहीं है; क्योंकि यत्र याज्यायै पुरोनुंवाक्या ज्यायसी जिस (कर्म ) में याज़्या से पुरोनुवाक्या ( अक्षरों की संख्या में) अधिक यज्ञे क्रियते यज्ञ में की जाती है एतद् वै व्यृद्धम् यह (कर्म ) समृद्धि से रहित होता है और यत्र याज्या ज्यायसी जिस (कर्म ) में ( पुरोनुवाक्या से ) याज्या अधिक होती है तत् समृद्धम् वह ( कर्म) समृद्ध होता है। अथ यत्र समे और जिस (कर्म) में ( याज्या ( १ ) ' क्लप्स्येते ' इति वा पाठः । ( २ ) तै ० सं ० ६.४.७४। तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् –इति सहितापाठः । १.४.४ भाष्ये हास्य व्याख्यानं द्रष्टव्यम्। ( ३ ) ‘ तदपि तावपि वाक्प्राणौ तदीयाभ्यां छन्दोभ्यां परिगृहीताभ्यां यथायथं यथास्वं कल्प्स्येते क्लृप्तौ भविष्यतः' - इति भट्टभास्करः । ( ४ ) यो वै प्राणः स वातः....अयं वै....प्राणो योऽयं पवते ' -इति शत० ब्रा० ५.२.४.९। (५ ) ऐं०ब्रा० ३.२.४ । ( ६ ) आं वायो भूष शुचिपाः ' - इत्यादयः तै ० सं० १.४.४ ।

पृष्ठ 445

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 445 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३८३ और अनुवाक्या ) दोनों ( अक्षरों की संख्या में) समान होते हैं (वह भी समृद्धियुक्त होता है ) । प्राणस्य च वाचः च प्राण और वाणी से सम्बधित यस्य जिस (वस्तु ) की कामाय कामना के लिए तथा कुर्यात् उस प्रकार करे तो तत् अत्रैव उपात्तम् वह इस (याज्या अनुवाक्या की समानता) से ही प्राप्त हो जाती है। सा ० भा ० – तत्पूर्वपक्षमतं नाऽऽदरणीयम्। यत्र हेतुरुच्यते — यस्मिन् कर्मणि याज्यायाः सकाशात् पुरोनुवाक्याऽक्षरैरभ्यधिका तत्कर्म व्यृद्धं समृद्धिरहितम् । पूर्वपक्षिणश्चात्र न्यूनां याज्यां पुरोनुवाक्यामधिकां कुर्वन्ति। तस्मादेतन्मतमयुक्तम् । यत्र वै यस्मिंस्तु कर्मणि पुरोनुं-वाक्यायाः सकाशादभ्यधिका याज्या भवति तत्कर्म समृद्धम्। अपि च यत्र कर्मणि याज्या-नुवाक्ये समे भवतः, तदपि कर्म समृद्धम्। साम्यपक्षेऽन्योऽपि गुणोऽस्ति । तत्कथमिति, तदुच्यते— प्राणस्य च वाचश्च प्राणवाचोर्मध्ये यस्य यस्य वस्तुनः कामायापेक्षितफलसिद्धये तत्तथा कुर्यात् तेन पूर्वोक्तप्रकारेणानुष्टुब्गायत्रीजन्यमनुष्ठानं पूर्वपक्षी कुर्वीत तत्सर्वं विफलम्। तत्रैव याज्यानुवाक्ययोः साम्यानुष्ठान एवोपाप्तं शीघ्रं प्राप्तं भवति। तस्मात् साम्यपक्ष एवाऽऽदरणीय इत्यर्थः ॥ साम्यपक्षे पूर्वपक्ष्यभिप्रेतं प्रयोजनं कथं सिध्येदित्यादशङ्कयाऽऽह— वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरैवं, याज्ययोः, सा या वायव्या तया प्राणं कल्पयति, वायुर्हि प्राणोऽथ यैन्द्रवायवी तस्यै यदैन्द्रं पदं तेन वाचं कल्पयति, वाग्ध्यैन्द्रयुपो तं काममाप्नोति यः प्राणे च वाचि च न यज्ञे विषमं करोति ॥ ६ ॥

हिन्दी –( याज्या और अनुवाक्या की समानता के पक्ष में पूर्वपक्ष के अभिप्रेत प्रयोजन की सिद्धि को दिखला रहे हैं — ) ( इन दोनों पुरोनुवाक्याओं में ) पूर्वा पुरोनुवाक्या पहली पुरोनुवाक्या वायव्या वायु देवता वाली और उत्तरा परवर्ती ऐन्द्रवायव्या इन्द्र और वायु देवता वाली होनी चाहिए। एवं याज्ययोः इसी प्रकार दोनों याज्याओं में ( पहली याज्या इन्द्रदेवताक और दूसरी इन्द्र-वायु देवताक ) होनी चाहिए। सा या वायव्या वह जो वायु देवता वाली ( याज्या और अनुवाक्या) है तथा उसके द्वारा प्राणं कल्पयति प्राण को अपने व्यापार में समर्थ बनाता है क्योंकि वायुः हि प्राणः वायु ही प्राण है। अथ तथा या ऐन्द्र-वायवी जो इन्द्र और वायु दोनों से सम्बन्धित ( याज्या और अनुवाक्या है तस्यै यद् ऐन्द्रं पदम् उसमें जो इन्द्र सम्बन्धी पद है, तेन उस (पद ) से वाचं कल्पयति वाणी को अपने व्यापार में समर्थ बनाता है; क्योंकि वाग् वै ऐन्द्री वाणी ही ( इन्द्र के व्याकरण का कर्त्ता होने के कारण) इन्द्र से सम्बन्धित है। प्राणे च वाचि च यः प्राण में और वाणी में जो (कामना होती है ) तं कामम् उस कामना को आप्नोति प्राप्त करता है। अतः यज्ञे यज्ञ में न विषमं करोति (याज्या और अनुवाक्या को) विषम ( अक्षरों वाला ) नहीं करना चाहिए।

पृष्ठ 446

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 446 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८४ ऐतरेयब्राह्मणम् ९.३ द्वितीयपञ्चिकायां सा० भा० — द्वयोः पुरोनुवाक्ययोर्मध्ये या पूर्वा पुरोनुवाक्या सा ' वायव्या ’ वायुदैव-ताका ‘ वायवा याहि दर्शत’ ” इत्यस्यामृचि वायोः श्रवणात्। या तूत्तरा पुरोनुवाक्या सेयमैन्द्र-वायवी ‘इन्द्रवायू इमे सुता’ ” इत्यस्यामृचीन्द्रवाय्वोः श्रवणात्। एवं याज्ययोरपि द्रष्टव्यम्। उभयोर्याज्ययोर्मध्ये या पूर्वा सा वायव्या। 'अयं पिबा मधूनाम्' इत्यस्यामृचि सुतं वायो दिविष्टिष्विति वायोः श्रवणात्। योत्तरा याज्या सेन्द्रवायवी। ' शतेना नो अभिष्टिभिः" इत्य-स्यामृचि नियुत्वाँ इन्द्रसारथिरितीन्द्रः श्रूयते वायो सुतस्येति वायुरपि श्रूयते। तस्माद् इयमैन्द्र-वायवी । एवं संति या वायव्या पुरोनुवाक्या याज्या च तया प्राणः कल्पितः स्वव्यापार-समर्थो भवति ‘ यः प्राणः स वायुः' इति श्रुत्यन्तरेण वायुप्राणयोरेकत्वस्य पूर्वपक्षिणाऽप्यङ्गी-कर्तव्यत्वात्। अथ यैन्द्रवायवी पुरोनुवाक्या या याज्या वा तस्यै तस्यामुभयविधायां यदैन्द्रमिन्द्रसंबन्धिपदं विद्यते तेन पदेन वाचं कल्पयति समर्था करोति। हि यस्मात् कारणाद् वागैन्द्रीन्द्रस्य' व्याकरणकर्तृत्वात्। तस्माद् वाचा सामर्थ्यं भवति। एवमनुतिष्ठन् पुरुषो वाक्प्राणयोर्यः कामोऽस्ति तं प्राप्नोति यज्ञे च च्छन्दः साम्यं विषममनुष्ठानं न करोति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये (नवमाध्याये ) द्वितीयः खण्डः ॥२॥

॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय के द्वितीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा० — अथ द्विदेवत्यानामैन्द्रवायवमैत्रावरुणश्विनग्रहाणां त्रयाणां ग्रहणहोमयोः पात्रवैषम्यं विधत्ते-. ( द्विदेवत्यग्रहाणां ग्रहणहोमयोः पात्रवैषम्यविधानम् ) प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते, तस्मात् प्राणा एकनामानो द्विपात्रा हूयन्ते तस्मात् प्राणा द्वन्द्वम् ॥ १ ॥

हिन्दी— ( अब तीनों ग्रहों के ग्रहण और होम सम्बन्धी पात्रों में विषमता का विधान कर रहे हैं- ) प्राणाः वै द्विदेवत्याः प्राण दो देवता ( इन्द्र और वायु) ग्रह से सम्बन्धि है ( १ ) ऋ० १.२.१। ( २ ) ऋ ० १.२.४ । ( ३ ) ऋ० ४.४६.१। ( ४) ऋ० ४.४६.२। ( ५ ) पुरासीद् ऐन्द्रं व्याकरणमीति प्रवादाश्रितमेदुक्तम्। वस्तुतः 'इन्द्रश्चन्द्रः’— इति वोपदेवीय— कविकल्पद्रुममुखबन्धादौ लिखित्वादिन्द्राचार्यस्य कस्यचिच्छाब्दिकत्वमात्रं प्रतीयते, नतु व्याकरणप्रणेतृत्वम्, तथात्वेऽपि नैवैतरेयब्राह्मणपूर्वजत्वं तस्य सम्भाव्यते ।

पृष्ठ 447

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 447 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: ] ३८५ चतुर्थोऽध्यायः तृतीयः खण्ड सायणाचार्यकृतभाष्योपेतम्: (अत: उस इन्द्र और वायु देवता के लिए ग्रह) एकपात्रा गृह्यन्ते एक पात्र में ग्रहण किये जाते हैं । तस्मात् इसी कारण एकनामान: (वाक् चक्षु और श्रोत्र अलग- अलग होने पर भी ) एक ( प्राण ) नाम वाले हैं। द्विपात्रा हूयन्ते ( अध्वर्यु और प्रतिप्रस्थाता) दो पात्रों आहुति देते हैं । तस्मात् प्राणाः द्वन्द्वम् अतः (चक्षु, श्रोत्र इत्यादि प्राण ) दो -दो के द्वन्द्वसे में अवस्थित हैं । सा० भा०-–द्वे देवते युग्मरूपे येषां ग्रहाणां ते द्विदेवत्याः । इन्द्रश्च वायुश्चेत्येकं युग्मं मित्रश्च वरुणश्चेति द्वितीयं युग्मं, यावश्विनौ तौ तृतीयं युग्मम्। त एते द्विदेवत्यग्रहा प्राणा वै,, इन्द्रियरूपा एव, ‘वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रावरुणः श्रोत्रमाश्विनः ' इति श्रुत्यन्तरात् । ते च ग्रहा एकपात्रा ग्रहीतव्या इन्द्रवाय्वोरेकस्मिन् पात्रे ग्रहणं मित्रावरुणयोरेकस्मिन्नश्विनोरेकस्मिन्निति । यस्मात् प्राणरूपाणां ग्रहाणामेकपात्रत्वं तस्माद् वाक्चक्षुः श्रोत्ररूपाः प्राणा एकनामान: प्राणा इत्येवमेतेषां नाम। ते च ग्रहा होमकाले द्विपात्रा होतव्यास्तत्तद्ग्रहणपात्रेणाध्वर्युर्जुहोति प्रतिप्रस्थाता पात्रान्तरेण जुहोतीति। यस्माद्धोमकाले पात्रद्वयं तस्माच्चक्षुरादयः प्राणाः स्वस्व- गोलकेषु द्वन्द्वं द्वौ द्वौ भूत्वा वर्तन्ते । अयमर्थः। श्रुत्यन्तरेण प्रश्नोत्तराभ्यामाम्नातः - 'ब्रह्म- वादिनो वदन्ति, कस्मात् सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति, यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्रा हूयन्ते तस्मा द्वौद्वौ बहिष्ठात् प्राणाः " इति। होमकाले द्विपात्रत्वम् आपस्तम्बेन स्पष्टीकृतम्—'हविर्धानं गच्छन् संप्रेष्यति वायव इन्द्रवायूभ्यामनुब्रूहीत्युपायाम गृहीतोऽसि वाऽक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोण- कलशादैन्द्रवायवस्य प्रतिनिग्राह्यं गृहीत्वा न सादयत्यैन्द्रवायवमादायाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसंधिमन्वहृत्याध्वरो यज्ञोऽ- यमस्तु देवा इति परिप्लवयाऽऽघारमाघारयत्याश्राव्य प्रत्याश्राविते संप्रेष्यति वायव इन्द्रवायूम्यां प्रेष्य वषट्कृते जुहोत्येवमुत्तराभ्यां ग्रहाभ्यां प्रचरते' ' इति॥ अथ होतुर्ग्रहशेषभक्षप्रतिग्रहमन्त्रं विधत्ते— ( होतुः ग्रहशेषभक्षप्रतिग्रहविधानम् ) येनैवाध्वर्युर्यजुषा प्रयच्छति तेन होता प्रतिगृह्णाति ॥ २ ॥

हिन्दी - ( अब होता के अवशिष्ट ग्रहभक्ष के प्रति ग्रह मन्त्र का विधान कर रहे हैं— ) येन यजुषा जिस यजुष् का उच्चारण करते हुए अध्वर्युः प्रयच्छति अध्वर्यु ( होता को) प्रदान करता है, तेन उसी ( यजुष) से होता प्रतिगृह्णाति होता ग्रहण करता है । सा ० भा० — अध्वयः प्रदानमन्त्र आपस्तम्बेन दर्शितः - ' ग्रहमध्वर्युरादाय क्षिप्र होतारमनुद्रुत्य मयि वसुः पुरो वसुरिति ग्रह होत्रे प्रयच्छत्येतेनैव होता प्रतिगृह्य दक्षिण ( १ ) तै० सं ० ६.४.९.३ । (२ ) आप० श्रौ० १२.२०१८ - २४ । ' जुहोति। पुनर्वषट्कृते जुहुतः' - इत्येव पाठो मौलिकः ।

पृष्ठ 448

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 448 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८६ ऐतरेयब्राह्मणम् ९.३ द्वितीयपञ्चिकायां ऊरावासाद्य हस्ताभ्यां निगृह्याऽऽस्ते' ' इति। अथ होतुः समन्त्रकं भक्षणं विधत्ते— ( होतुः समन्त्रकभक्षणविधानम् ) ( तत्र मैत्रावरुणग्रहशेषस्य समन्त्रकभक्षणम् ) एष वसुः पुरूवसुरिह वसुः पुरूवसुर्मयि वसुः पुरूवसुर्वाक्पा वाचं मे पाहीत्यैन्द्रवायवं भक्षयतीति ॥ ३ ॥

हिन्दी— ( अब होता द्वारा मन्त्रपूर्वक ग्रहशेष के भक्षण का विधान कर रहे हैं— ) एषः यह ( ऐन्द्रवायु ग्रह) वसुः पुरूवसुः निवास और प्रभूत निवास का हेतु है, इह वसुः पुरूवसुः (वह) इस ( मनुष्य लोक ) में निवास करता है और प्रभूत निवास करता है, मयि वसुः पुरूवसुः तथा मुझ ( होता) में निवास करता है और प्रभूत निवास करता है। वाक्पा हे वाणी की रक्षा करने वाले ( ग्रह)! वाचं मे पाहि मेरी वाणी की रक्षा करो'-इति ऐन्द्रवायवं भक्षयति इस ( मन्त्र ) से ऐन्द्रवायु (ग्रह ) का ( होता) भक्षण करता है। सा० भा० --एष ऐन्द्रवायवग्रहो वसुर्निवासहेतुः पुरुवसुः प्रभूतनिवासहेतुः । कस्मिँ- ल्लोके निवासहेतुरित्याकाङ्क्षानिवृत्यर्थमिह वसुरित्यादिकमुच्यते। अस्मिन्नेव मनुष्यलोके निवासं करोति । तत्रापि प्रभूतनिवासं करोति । कस्मिन् पुरुषे ग्रहस्य निवास इत्याकाङ्क्षा- निवृत्त्यर्थं मयि वसुरित्यादिकमुच्यते । मयि होतरि निवसति । तदाऽपि प्रभूतनिवासं करोति। स तादृशो ग्रहो वाक्पा वाचं पालयति । हे ग्रह में वाचं पालयत्यनेन मन्त्रेणैन्द्रवायवशेषं भक्षयेत्॥ तस्य मन्त्रस्यावशिष्टभागं पठति— उपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति ॥४ ॥

हिन्दी –(उस उपर्युक्त मन्त्र के अवशिष्ट भाग को कह रहे हैं — ) वाक् प्राणेन सह उपहूता वाणी प्राण के साथ ( मेरे द्वारा ) बुलायी गयी है अतः प्राणेन सह वाक् माम् उपह्वयतम् प्राण के साथ वाणी मुझको आहूत करें और दैव्यासः दिव्य, तनूपावानः हमारे शरीर की रक्षा करने वाले तपोजाः तन्वः ऋषयः ( पूर्वसम्पदित) तप से उत्पन्न शरीर वाले ऋषिगण उपहूताः मेरे द्वारा बुलाये गये हैं अतः दैव्यासः दिव्य तनूनपावान् शरीर की रक्षा करने वाले और तपोजाः तन्वः ऋषयः तप से उत्पन्न शरीर वाले ऋष्टिगण माम् उपह्वयताम् मुझे बुलावें । ( १ ) आप० श्रौ० १२.२१.५.६/-

पृष्ठ 449

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 449 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ३८७ ' सा० भा० – प्राणेन सह वाग्देवता मयोपहूताऽनुज्ञाता; तस्मात् वाग्देवता मामुपह्वयतामनुजानातु तथर्षय उपहूता मयाऽनुज्ञाताः । कीदृशा ऋषयोप्राणसहिता, दैव्यासोसा देवेषु भवास्तनूपावानांऽस्मच्छरीपालकास्तन्वः शरीरस्यास्मदीयस्य संबन्धिन इति शेषः । तपोजाः पूर्वजन्मानुष्ठितात् तपसो जाताः । यस्माद् ईदृश ऋषयो मयाऽनुज्ञाताः, तस्मात् तेऽपि यथोक्तविशेषणा मामुपह्वयन्तामनुजानन्तु इत्येष मन्त्रशेषः ॥ अस्य शेषस्य तात्पर्यं दर्शयति— प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते॥५ ॥

हिन्दी– ( इस मन्त्र के शेषभाग का तात्पर्य दिखला रहे हैं - ) प्राणाः वै प्राण ही दैव्यासः देवता- स्वरूप वाले, तनूपावानः हमारी शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्व सम्पादित) तप से उत्पन्न शरीर वाले ऋषयः ऋषिगण हैं। तत् उस ( मन्त्र के अवशिष्ट भाग ) से तान् एव उन्हीं (ऋषियों ) को ही उपह्वयते बुलाता है। सा ० भा ० — यथोक्तविशेषणविशिष्टा ऋषय: प्राणस्वरूपा एव । तस्मात् तेन मन्त्र- शेषपाठेन तानेव प्राणान् अनुजानाति॥ मैत्रावरुणग्रहस्य समन्त्रकं शेषभक्षणं मन्त्रशेषव्याख्यानं च दर्शयति- ( मैत्रावरुणग्रहशेषस्य समन्त्रकभक्षणम् ) एष वसुर्विदद्वसुरिह वसुर्विदद्वसुर्मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीति मैत्रावरुणं भक्षयत्युपहूतं चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावा- नस्तन्वस्तपोजा इति, प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्व- स्तपोज़ास्तानेव तदुपह्वयते ॥६ ॥

हिन्दी - ( मैत्रावरुण ग्रह के समन्त्रक शेषभाग के भक्षण और मन्त्र के शेषभाग के व्याख्यान को दिखला रहे हैं - ) एतद् वसुर्विदद्वसुः यह (मैत्रावरुण ग्रह) निवास का हेतु और ज्ञानयुक्त निवास का हेतु है। इह वसुः इस ( मनुष्य लोक ) में निवास करता है और विदद्वसुः ज्ञान के साथ निवास करता है। मयि वसुः विदद्वसुः मेरे में निवास और ज्ञानपूर्वक निवास करता है। चक्षुष्पा चक्षुः मे पाहि हे चक्षु की रक्षा करने वाले! मेरे चक्षु की रक्षा करो' - इति मैत्रावरुणं भक्षयति इस ( मन्त्र ) से मैत्रावरुण ( ग्रह के अवशिष्ट भाग) का (होता) भक्षण करता है। (मन्त्र के अवशिष्ट भाग के तात्पर्य को दिखला रहे हैं— ) मनसा सह चक्षुः उपहूतम् मन के द्वारा चक्षु को बुलाया गया है। अतः मनसा सह चक्षुः माम् उपह्वयताम् मन के साथ चक्षु मुझे बुलावे । दैव्यासः देवस्वरूप वाले, तनूनपावानः हमारी शरीर की रक्षा करने वाले और तपोजा तन्वः ( पूर्व सम्पादित) तप से उत्पन्न शरीर

पृष्ठ 450

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 450 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [३८८ ऐतरेयब्राह्मणम् ९.३ द्वितीयपञ्चिकायां वाले ऋषयः ऋषिगण उपहूताः ( मेरे द्वारा ) बुलाये गये हैं, अतः दैव्यासः देवस्वरूप, तनूनपावानः हमारे शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्वानुष्ठित) तप से उत्पन्न शरीर वाले ऋषयः ऋषिगण माम् उपह्वयताम् मुझको बुलावे। ( अब मन्त्र के शेष भाग के तात्पर्य को दिखला रहे हैं - ) प्राणाः वै प्राण ही दैव्यासः दिव्य- स्वरूप वाले, तनूनपावानः हमारी शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्वानुष्ठित) तप से उत्पन्न शरीर वाले ऋषयः ऋषिगण हैं, तत् इससे तान् एव उन (प्राणों ) को ही उपह्वयते पुकारता है। सा ० भा ० — एष मैत्रावरुणग्रहो विदद्वसुर्ज्ञानपूर्वकनिवासहेतुः । अन्यत् सर्वं पूर्ववत्॥ आश्विनग्रहशेषस्य समन्त्रकं भक्षणं मन्त्रशेषव्याख्यानं च दर्शयति— ( आश्विनग्रहशेषस्य समन्त्रकभक्षणम् ) एष वसुः संयद्वसुरिह वसुः संयद्वसुर्मयि वसुःसंयद्वसुः श्रोत्रपाः श्रोत्रं मे पाहीत्याश्विनं भक्षयत्युपहूतं श्रोत्रं सहाऽऽत्मनोप मां श्रोत्रं सहाऽऽत्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते ॥७ ॥

हिन्दी– ( अश्विन्द्वय के ग्रह के समन्त्रक अवशेष- भक्षण और मन्त्र के अवशिष्टभाग के तात्पर्य को दिखला रहे हैं - ) एषः वसुः यह ( अश्विन्ग्रह ) धन है और संयद्वसुः नियत (एकत्रित किया गया ) धन है। इह वसुः संयद्वसुः वह धन और एकत्रित किया गया धन इह इस ( लोक) में ही मयि वसुः संयद्वसु मुझ (होता ) में धन और नियत धन है। श्रोत्रपाः श्रोत्रं मे पाहि हे श्रोत्रों के रक्षक! मेरे श्रोत्र की रक्षा करो - इति आश्विनं भक्षयति इस ( मन्त्र) से आश्विन ग्रह (के अवशिष्ट भाग) का (होता) भक्षण करता है। ( मन्त्र के अवशिष्ट भाग को कह रहे हैं— ) आत्मना सह श्रोत्रम् उपहूतम् आत्मा के साथ श्रोत्र को मेरे द्वारा बुलाया गया है । आत्मना सह श्रोत्रं माम् उपह्वयताम् आत्मा के साथ श्रोत्र मुझ ( होता) को बुलावे । दैव्यासः देवतास्वरूप तनूपावानः मेरे शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्वकृत ) तप से उत्पन्न शरीर वाले ऋषयः ऋषिगण उपहूताः ( मेरे द्वारा) बुलाये गये हैं; दैव्यासः दिव्यरूप वाले तनूपावानः मेरे शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्वकृत) तप से उत्पन्न शरीर वाले ऋषयः ऋषिगण माम् उपह्वयन्ताम् मुझको बुलावे। ( अब मन्त्र के अवशिष्ट भाग के तात्पर्य दिखला रहे हैं- ) प्राणाः वै प्राण ही दैव्यासः दिव्य रूप वाले तनूपावानः मेरे शरीर की रक्षा करने वाले और तपोजाः तन्वः ( पूर्व में की गयी) तपस्या से उत्पन्न शरीर वाले ऋषयः ऋषिगण हैं ॥ तान् एव उपह्वयते (होता) उन्हीं को ही उपहूत करता है ।