ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 461–470

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 461–470

पृष्ठ 461

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 461 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] चतुर्थोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम्: आयु की प्राप्ति के लिए होता आत्मनि एव प्राणान् ३ ९९ ( ) को डालता है। इससे वह होता भी सर्वायुः पूर्णायुसमवनयतेको प्राप्त होताकरताशरीरहै। में ही प्राणों होतृचमसरूपेसा ० भाहोता० —प्रक्षिपतिसंस्रवा । बिन्दवःप्राणानामवस्थापनात्, तत्प्रक्षेपेण द्विदेवत्यरूपान्स्वयं सर्वायुरपमृत्युरहितोप्राणानात्मन्येव शरीरे यजमानस्य सर्वायुत्वाय संपद्यते॥ भवति । तद् वेदनं प्रशंसति- सर्वमायुरेति य एवं वेद ॥५ ॥

हिन्दी - ( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये- ( नवमाध्याये ) षष्ठः खण्डः ॥६ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय के षष्ठ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० – अथ तूष्णीशंसविधानार्थमितिहासमाह— ( तूष्णीशंसविधानम् ) ( तत्राख्यायिका ) देवा वै यदेव यज्ञेऽकुर्वंस्तदसुरा अकुर्वंस्ते समावद्वीर्या एवाऽऽसन्न व्यावर्तन्त, ततो वै देवा एतं तूष्णीशंसमपश्यंस्तमेषामसुरा नान्व- वायंस्तूष्णींसारो वा एष यत्तूष्णीशंसः ॥ १ ॥

हिन्दी-( अब मौन होकर स्तुति करने के विधान के लिए आख्यायिका को कह रहे हैं— ) देवाः देवताओं ने यज्ञं यज्ञ में यदेव अकुर्वः जो कुछ ( कर्म ) किया तद् असुराः अकुर्वः वही असुरों ने भी ( देखकर ) किया । तब ते वे ( देवता और असुर) समावद्वीर्या एव आसन् समान सामर्थ्य वाले हो गये। न व्यावर्तन्त ( अत: उनमें ) भेद नहीं हो पाया । ततः वै देवाः तब देवताओं ने एवं तूष्णींशंसम् इस मौन स्तुति का अपश्यन् दर्शन किया। तेषाम् उनमें से तम् उस ( मौनस्तुति ) को असुराः असुर लोग न अन्वायन् अनुगत नहीं कर सके; क्योंकि यत् तूष्णीशंसः जो यह मौन स्तुति है एषः तूष्णींसारः वै वह मौनभाव ही है ।

पृष्ठ 462

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 462 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४०० ऐतरेयब्राह्मणम् ९.७ द्वितीयपञ्चिकायां सा० भा ० — देवाः पुरा स्वकीये यज्ञे यदेवाङ्गमन्वतिष्ठन्नसुरा अप्यवेक्ष्य तदेवान्व-तिष्ठन्। तदा ते देवाश्चासुराश्च परस्परं समावद्वीर्यास्तुल्यसामर्थ्या एवाभवन्नेकस्य वर्गस्य सामर्थ्याधिक्यमितरस्य तु न्यूनमित्येवं व्यावृत्तिं न प्राप्ताः । ततो देवाः समार्थ्याधिक्य- लक्षणव्यावृत्तिहेतुं वेदेष्वन्विच्छन्त एतं वक्ष्यमाणं तूष्णीशंसं तदुपायत्वेन दृष्टवन्तः । सर्वेष्वपि शस्त्रेष्वप्यृचः पठ्यन्ते । अस्मिंस्तु शस्त्रे न पठ्यन्त इति तूष्णीशंसत्वम्। ऋक्पाठराहित्येन गूढमेषां देवानां तं तूष्णीशंसमसुरा नान्ववायन्नानुगतवन्तः । एतदनुष्ठानमविज्ञाय न कृतवन्त इत्यर्थः । योऽयं तूष्णीशंस एष तूष्णीसारो वा ऋक्पाठराहित्यलक्षणात् तूष्णीभाव एवा- स्मिञ्शस्त्रे शस्तः । असुराणां तु निष्फलं तूष्णीमवस्थानमिति निश्चयः ॥ · अस्य तूष्णीशंसस्यासुरविनाशहेतुत्वं दर्शयति— ( तूष्णीशंसस्य विनाशहेतुत्वकथनम् ) देवा वै यं यमेव वज्रमसुरेभ्य उदयच्छंस्तं तमेषामसुराः प्रत्य- बुध्यन्त, ततो वै देवा एतं तूष्णीशंसं वज्रमपश्यंस्तमेभ्य उदयच्छं- स्तमेषामसुरा न प्रत्यबुध्यन्त, तमेभ्यः प्राहरंस्तेनैनानप्रतिबुद्धेनाघ्नंस्ततो वै देवा अभवन् पराऽसुराः ॥२ ॥

हिन्दी – ( इस मौन स्तुति की असुरों के विनाश की हेतुता को दिखला रहे हैं- ) देवाः देवताओं ने यं यं वज्रम् जिस ( मन्त्ररूप अथवा अभिचाररूप ) वज्र को असुरेभ्यः असुरों ( के विनाश ) के लिए उदयच्छन् प्रयोगं किया, एषाम् इन ( देवताओं ) के तं तम् उस-उस ( वज्र ) को असुराः असुरों ने प्रत्यबुध्यन्त जान लिया। ततः वै देवाः तब देवताओं ने एवं तूष्णीशंसम् इस मौन स्तुति का अपश्यन् दर्शन किया और तम् उस ( मौनस्तुतिरूप वज्र) को एभ्यः इन ( राक्षसों के विनाश ) के लिए उदयच्छन् प्रयोग किया । एषाम् इन देवताओं के तम् उस ( मौनस्तुतिरूप वज्र ) को असुराः असुरलोग न प्रत्यबुध्यन्त नहीं जान पाये । ( तब उन देवताओं ने ) तम् उस (मौनस्तुति रूप वज्र) का एभ्यः इन ( राक्षसों) के विनाश के लिए प्राहरन् प्रहार किया । तेन अप्रतिबुध्नेन अज्ञात उस ( मौनस्तुति रूप वज्र ) से एनान् अघ्नन् इन ( राक्षसों ) को मार डाला । ततः वै देवाः अभवन् तब से देवता विजयी हुए और असुराः परा असुर लोग पराभूत हो गये। सा ० भा ० — देवा असुरविनाशार्थमायुधरूपं मन्त्ररूपमाभिचाररूपं वा यं यं वज्रं प्रत्युक्तवन्त एषां देवानां तं तं वज्रमसुराः प्रत्यबुध्यन्त तदा तदा प्रतीकारं कुर्वन्ति । ततो देवा एतं तूष्णीशंसं वज्रत्वेन दृष्ट्वा तदसुरविनाशार्थं प्रयुक्तवन्तः। असुरास्तु देवानां तं तूष्णी- शंसमज्ञात्वा प्रतीकारं न कृतवन्तः । ततो निर्विघ्नेन देवास्तं तूष्णीशंसं वज्रमसुराणामुपरि प्राहरंस्तद्विनाशार्थं प्रयुक्तवन्तः । असुरैरविज्ञातेन तेनैवासुरान् हतवन्तः । ततो वै देवा विजयि- नोऽभवन् मुख्येष्वसुरेषु हतेष्ववशिष्टा असुराः पराभूताः ॥

पृष्ठ 463

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 463 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:चतुर्थोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४०१ एतद् वेदनं प्रशंसति— ( तूष्णीशंसवेदनस्य प्रशंसा ) भवत्यात्मना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ हिन्दी- यः एवं वेद जो इस प्रकार जानता है वह भवति विजय को प्राप्त करता है और अस्य द्विषन् पाप्मा भ्रातृव्यः परा इसके द्वेष करने वाले दुष्ट शत्रु पराभूत हो जाते हैं । अथोपाख्यानमुखेनैव तूष्णीशंसस्य स्वरूपं दर्शयति— ( उपाख्यानद्वारा तूष्णीशंस्य स्वरूपप्रदर्शनम् ) ते वै देवा विजितिनो मन्यमाना यज्ञमतन्वत, तमेषामसुरा अभ्यायन् यज्ञ- वेशसमेषां करिष्याम इति, तान् समन्तमेवोदारान् परियत्तानुदपश्यं- स्तेऽब्रुवन्, संस्थापयामेमं यज्ञं यज्ञं नोऽसुरा मा बधिषुरिति तथेति, तं तूष्णीशंसे संस्थापयन्, भूरग्निज्र्ज्योतिर्ज्योतिरग्निरित्याज्यप्रउगे संस्थापयन्निन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति निष्केवल्यमरुत्वतीये संस्थापयन्, सूर्यो ज्योतिज्र्ज्योतिः स्वः सूर्य इति वैश्वदेवाग्निमारुते संस्थापयंस्तमेवं तूष्णींशंसे संस्थापयंस्तमेवं तूष्णीशंसे संस्थाप्य तेनारिष्टेनोदृचमाश्नुवत ॥३ ॥

हिन्दी– ( अब आख्यायिका द्वारा मौनस्तुति के स्वरूप को दिखला रहे हैं - ) ते वै देवाः उन देवताओं ने विजितिनः मन्यमानाः - अपने को विजयी मानते हुए यज्ञम् अतन्वत · यज्ञ का विस्तार किया । एषाम् इन ( देवताओं) के तम् उस ( यज्ञ) को ( अभिलक्षित करके ) असुराः अभ्यायन् असुर लोग (वहाँ) आये कि एषाम् इन ( देवताओं ) के यज्ञवेशसम् करिष्यामः यज्ञ का विधात हम लोग करेंगे। (उन देवताओं ने) समन्तमेव सभी ओर से उदारान् परियात्तान् तान् उद्धत और अत्यधिक सन्निकट ( आये हुए) उन ( राक्षसों) को उदपश्यन् देखा। ते अब्रुवन् उन ( देवताओं ) ने परस्पर कहा कि इमं यज्ञं संस्थापयाम इस यज्ञ का हम लोग समापन करें जिससे नः यज्ञम् हमारे यज्ञ को असुराः मा बधिषुः असुर लोग बाधित न कर सके। तथा इति ( तब देवतओं ने परस्पर) वैसा ही ( करने का निश्चय किया ) । (उन्होंने ) तम् ( यज्ञ ) का तूष्णींशंसे संस्थापयन् मौनस्तुति से समापन किया । (उन्होंने प्रातःसवनकालीन) आज्यप्रउगे आज्य और प्रउग ( शस्त्र ) को ‘ भूरग्निज्र्ज्योतिर्ज्योतिरग्निः ' इति संस्थापयन् इस मन्त्र से समापन किया। ( माध्यन्दिनसवनकालीन ) निष्केवल्यमरुत्वतीये निष्केवल्य और मरुत्वतीय ( शस्त्र ) का ‘इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रः' इति संस्थापयन् इस मन्त्र से समापन किया तथा

पृष्ठ 464

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 464 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४०२ ऐतरेयब्राह्मणम् ९.७ द्वितीयपञ्चिकायां ( सायंसवनकालीन) वैश्वदेवाग्निमारुते वैश्वदेव और आग्निमारुत ( शस्त्र) का ' सूर्यो ज्योति-.ज्योंति स्वः सूर्यः ' इति संस्थापयन् इस ( मन्त्र) से समापन किया । देवताओं ने तम्उस ( यज्ञ ) का एवं तूष्णींशंसे संस्थापयन् इस प्रकार मौनस्तुति से समापन किया । तम् उस ( यज्ञ ) का एवं तूष्णींशंसे संस्थाप्य इस प्रकार मौनस्तुति से समापन करके अरिष्टेन तेन हिसारहित उस ( यज्ञ ) से उदृचम् अश्नुवत उत्तम ऋचा वाली समाप्ति को प्राप्त किया। सा० भा ० — मुख्यानामसुराणां हतत्वात् ते देवा विजितिनो विजयवन्तो वयमिति मन्यमाना यज्ञं विस्तारितवन्तः । एषां देवानां यज्ञमभिलक्ष्यासुरास्तत्र गताः । केनाभिप्राये- णेति, तदुच्यते — एषां देवानां यज्ञवेशसं यज्ञविघातं करिष्याम इति तदभिप्रायः । ततो देवाः समन्तमेव पुरतः पृष्ठतः पार्श्वयोश्च समागतानुदारानुद्धतान् परियत्तानत्यन्तसंनिधानुदपश्यन्नु- दङ्मुखाः सन्तो दृष्टवन्तः । दृष्ट्वा च परस्परमिदब्रुवन्निमं यज्ञं संस्थापयामः शीघ्रं समापयामः । तथा सति नोऽस्मदीयं यज्ञमसुरा मा वधिषुर्मा विनाशयन्तु विलम्बे सति विनाशयिष्यन्ति तन्मा भूदिति। तद्वचनं परस्परमङ्गीकृत्य स्वकीयं तं यज्ञं तूष्णीशंसे संस्थापयशीघ्रं समापि- तवन्तः ' । यद्वा, तूष्णीशंसस्य वज्ररूपेण रक्षकत्वाद् रक्षार्थं तस्मिन् स्थापितवन्तः । कोऽयं तूष्णीशंस, इति स उच्यते— भूरग्निर्ज्योतिर्ज्योतिरग्निरित्येष नवाक्षरात्मको मन्त्र एकस्तूष्णी- शंसभागः । आज्यं प्रउगं चेत्युभे प्रातः सवनकालीने शस्त्रे। तदुभमप्युक्ते तूष्णीशंसभागे स्थापितवन्तः । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इत्येष दशाक्षरात्मको मन्त्रो द्वितीयस्तूष्णी- शंसभागः । निष्केवल्यं मरुत्वतीयं चेत्युभे माध्यंदिनसवनकालीने शस्त्रे । तदुभयमिन्द्रो ज्योतिरित्यस्मिंस्तूष्णीशंसभागे स्थापितवन्तः । सूर्यो ज्योतिज्र्ज्योतिः स्वः सूर्य इत्येष नवाक्ष- रात्मको मन्त्रस्तृतीयस्तूष्णीशंसभागः । वैश्वदेवमाग्निमारुतं चेत्युभे तृतीयसवनकालीने शस्त्रे तदुभयं ‘ सूर्यो ज्योतिः ’” इत्यादिके तूष्णीशंसभागे स्थापितवन्तः । तं सवनत्रयगतैः षड्भिः शस्त्रैरुपेतं यज्ञमेवमुक्तेन प्रकारेण तूष्णीशंसे स्थापितवन्त इत्येवमुक्तार्थस्योपसंहारः पुनस्तमेवमित्यादिः । उक्तार्थानुवादषड्विधशस्त्रसंस्थापनादूर्ध्वमरिष्टेन हिंसारहितेन तेन यज्ञेनोदृचमुत्तमामृचं यज्ञसमाप्तिमाश्नुवत प्राप्तवन्तः ॥ इत्थमाख्यायिकामुखेन तूष्णीशंसस्वरूपमभिधाय तदनुष्ठानं विधत्ते— ( तूष्णींशंसानुष्ठानविधानम्) स तदा वाव यज्ञः संतिष्ठते यदा होता तूष्णीशंसं शंसति ॥४ ॥

हिन्दी –( मौनस्तुति के अनुष्ठान का विधान कर रहे हैं— ) यदा होता तूष्णीशंसं ( १ ) ‘ संस्थापयन्। अडभावश्छान्दसः । यद्वा, पञ्चमोऽयं लकारः । संस्थापयेयुः ' –इति भट्ट- भास्करः । ( १ ) ‘ भूरग्निज्र्ज्योतिर्ज्योतिरग्नो ३ म्, इन्द्रों ज्योतिभुवो ज्योतिरिन्द्रो ३ म्, सूर्यो ज्योतिज्र्ज्योतिः स्वः सूर्यो ३मिति त्रिपदस्तूष्णीशंस: ' - इति आश्व० श्री० ५.९.११ ।

पृष्ठ 465

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 465 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४०३ शंसति जब होता मौनस्तुति का शंसन करता है तदा सः यज्ञः संतिष्ठते तब वह यज्ञ समाप्त हो पाता है। सा० भा० — यस्मिन् काले होता तमिमं मन्त्रं शंसेत् तदैव स यज्ञो निर्विघ्नः समाप्यते । तस्माद्धोत्रा तच्छस्त्रं शंसनीयम्। तत्प्रकार आश्वलायनेन दर्शित:- " सुमत्पद्वग्दे पिता मातरिश्वाऽच्छिद्रा पदाऽधाद्' अच्छिद्रोक्था कवयः शंसन् सोमो विश्वविनीथा निनेषद् बृहस्पतिरुक्थामदानि शंसिषद् वागायुर्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यति ' इति जपित्वाऽनभिहिंकृत्य ‘ शोसावोम्' इत्युच्चैराहूय तूष्णीशंसं शंसेद् उपांशु सप्रणवमसंत- न्वन्नेष आहाव: प्रातःसवने शस्त्रादिषु २ इति । अस्यायमर्थः — ऋतुपात्रभक्षणानन्तरं होतुर्मुखत आसीनोऽध्वर्युः पराङ्मुखः सन्नावर्तते तदानीं होता 'सुमद्' इत्यादि ' स इदं शंसिष्यति ' इत्यन्तं मन्त्रं जपित्वाऽभिहिंकारमकृत्वा शोसावोमित्यनेन मन्त्रेणाध्वर्युमुच्चैराहूय भूरग्निरि- त्यादिकं प्रणवसहितमुपांशु पठेत् प्रणवेन सहासंततमविच्छेदनं कुर्यात्। एष शोंसा- वोमितिमन्त्रोऽध्वर्योराह्वानरूपत्वाद् ' आहाव' इत्युच्यते । स च प्रातःसवने शस्त्रादिषु प्रवर्तत इति॥ उक्तं तूष्णीशंसनं प्रशंसति- ( तूष्णीशंसप्रशंसनम् ) स य एनं शस्ते तूष्णीशंस उप वा वदेदनु वा व्याहरेत् तं ब्रूयादेष एवैतामार्तिमारिष्यति प्रातर्वाव वयमद्येमं शस्ते तूष्णीशंसे संस्थपाया- मस्तं यथा गृहानितं कर्मणाऽनुसमियादेवमेवैनमिदमनुसमिम इति स वाव तामार्तिमृच्छति य एवं विद्वान् संशस्ते तूष्णीशंस उप वां वदत्यनु वा व्याहरति, तस्मादेवं विद्वान् संशस्ते तूष्णीशंसे नोप- ' वदेन्नानुव्याहरेत् ॥ ५ ॥

हिन्दी – ( पूर्वोक्त मौनस्तुति की प्रशंसा कर रहे हैं - ) एनं तूष्णीशंसे शस्ते (होता द्वारा) इस मौनस्तुति का शंसन करने पर सः यः उपवदेत वह जो उसकी निन्दा करे अथवा अनु वा वदेत् शाप देवे तो (वह होता) तं ब्रूयात् उस ( निन्दा करने वाले ) से कहे— एषः एव यह (निन्दा करने वाला या शाप देने वाला) ही एताम् आर्तिम् इस ( निन्दारूप अथवा शापरूप) विनाश को आरिष्यति प्राप्त करेगा; क्योंकि अद्य प्रातः वाव आज प्रात: ही वयम् हम लोगों ने तूष्णींशंसे शस्ते मौन स्तुति को कह कर इमं संस्थापयामः इस ( यज्ञ) को समाप्त कर दिया है। (जिस प्रकार लोक में) गृहान् इतं तम् गृह पर आये हुए उस ( अतिथि) को कर्मणा अनुसमियात् (सत्कार इत्यादि) कर्म से सम्यक् प्रकार ( १ ) इतः परं दशमाध्याये षष्ठखण्डे एतन्मन्त्रव्याख्यानभूतब्राह्मणे तु 'पदाऽधा' इति पाठः । ( २ ) आश्व० श्री ० ५.९.१,२।

पृष्ठ 466

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 466 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४०४ ऐतरेयब्राह्मणम् ९.८ द्वितीयपञ्चिकायां से सत्कृत करता है एवमेव एनम् अनुसमिमः उसी प्रकार इस (मौनस्तुति रूप अनुष्ठान को करके ) हम लोग इस ( यज्ञ ) को सत्कृत कर रहे हैं। अतः यः एवं विद्वान् जो इस प्रकार जानने वाला तूष्णींशंसे संशस्ते (होता द्वारा) मौनस्तुति करते समय उपवदति कोई निन्दा करता है अथवा अनु वा व्याहरति शाप देता है तो सः ह वाव वही ताम् आर्तिम्ऋच्छति उस विनाश को प्राप्त करता है। तस्मात् इसी कारण एवं विद्वान् इस प्रकार जानने वाला तूष्णींशंसे संशस्ते ( होता के ) मौनस्तुति करते समय न उपवदेत् निन्दा न करे और न अनुव्याहरेत् न तो शाप देवे । सा ० भा ० – होत्रा तूष्णीशसे शंस्ते सत्येनं होतारं स उपवदेद् वाऽनुव्याहरेद् वा य: कोऽप्यन्यः पुरुषो निन्देच्छपेद् वा। उपवादो निन्दाऽनुव्याहारः शापः । तदानीमयं होता निन्दितारं शप्तारं वा ब्रूयात् । कथं ब्रूयादिति, तदुच्यते— यो निन्दता शप्ता वाऽस्त्येष एव निन्दारूपां शापरूपां वाऽऽति विनाशमारिष्यति प्राप्स्यति न त्वहं प्राप्स्यामि। तत्र हेतुरुच्यते-प्रातर्वाव प्रात: सवन एव वयं होतारोऽद्यास्मिन् दिवसेऽस्माभिः शस्ते तूष्णीशंसे तमिमं यज्ञं संस्थापयामः समापयामो यथा लोके गृहानितं. स्वकीयान् गृहान् प्राप्तमतिथिं कर्मणऽऽतिथ्यसत्काररूपेणानुसमियादानुकूल्येन सम्यक्प्राप्नुयादुपचरेदित्यर्थः । एवमेवमपीदं तूष्णीशंसानुष्ठानं कृत्वैनं यज्ञमनुसमिम आनुकूल्येन सम्यक्प्राप्नुम उपचराम इत्यर्थः । एष एवेत्यादिकोऽनुसमिम इत्यन्तो निन्दाशापपरिहारार्थो मन्त्रः । तं होता ब्रूयात् । तस्मिन्नुक्ते तामार्तिं प्राप्नोति । तस्मात् कारणादेवमुक्तार्थं विद्वान् पुरुषस्तूष्णीशंसपाठादूर्ध्वं होतारं न निन्देन्नापि शपेत्॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये ( नवमाध्याये ) सप्तमः खण्डः ॥७॥

॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय के सप्तम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथाष्टमः खण्डः सा ० भा० – अथ प्रकारान्तरेण तूष्णीशंसं प्रशंसति— ( प्रकारान्तरेण तूष्णीशंसप्रशंसनम् ) चक्षूंषि वा एतानि सवनानां यत्तूष्णीशंसो भूरग्निज्र्ज्योतिर्ज्योतिर- ग्निरिति प्रातःसवनस्य चक्षुषी, इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यदिनस्य सवनस्य चक्षुषी, सूर्यो ज्योतिज्र्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी ॥ १ ॥

पृष्ठ 467

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 467 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: चतुर्थोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४०५ हिन्दी— (प्रकारान्तर से मौनस्तुति की प्रशंसा कर रहे हैं - ) यत् तूष्णींशंसः जो मौनस्तुति है एतानि सवनानां चक्षूंषि वे ( तीनों) सवनों के नेत्र हैं। ' भूरग्निज्योंति- ज्योतिरग्निः ' इति प्रातः सवनस्य चक्षुषी यह प्रातः सवन की दो आँखे हैं, 'इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रः' इति माध्यन्दिनस्य सवनस्य चक्षुषी यह माध्यन्दिन सवन की दो आँखे हैं और ‘ सूर्यो ज्योतिज्योति स्व: सूर्य: ' इति तृतीयसवनस्य चक्षुषी यह तृतीय सवन की दो आँखे हैं । सा० भा०० – यत्तूष्णीशंसोऽस्त्येतान्येव तद्गतानि पदानि त्रयाणां सवनानां चक्षुः स्थानीयानि । कथमेतदिति, तदेव स्पष्टीक्रियते– 'भूरग्ज्यिोतिरिति' प्रथमस्य तूष्णीशंसपादस्य पूर्वो भागः । स च प्रातः सवनस्य दक्षिणचक्षुः स्थानीयः । ज्योतिरग्निरित्ययमुत्तरो भागो वामचक्षुःस्थानीयो भूलोकवर्ती योऽग्निः स एव गोलकद्वये प्रकाशक इत्यर्थः । इन्द्रो ज्योतिरित्ययं द्वितीस्य पूर्वो भागो माध्यदिनस्य सवनस्य दक्षिणं चक्षुः । भुवो ज्योतिरित्ययमुत्तरो भागो वामचक्षुरन्तरिक्षलोकवर्ती परमैश्वर्ययुक्तो वायुर्गोलकद्वये भासक इत्यर्थः । सूर्यो ज्योतिरित्येष तृतीयस्य पूर्वभागस्तृतीयसवनस्य दक्षिणं चक्षुः । ज्योतिः स्वः सूर्य इत्ययमुत्तरो भागो वामचक्षुः स्वर्लोकवर्ती सूर्यो गोलकद्वये भासक' इत्यर्थः ॥ वेदनं प्रशंसति— चक्षुष्यमद्भिः सवनै राध्नोति, चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति, य एवं वेद ॥ २ ॥

हिन्दी– (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह चक्षुमद्भिः सवनैः नेत्रों से सम्पन्न सवनों द्वारा राध्नोति समृद्धि को प्राप्त करता है और चक्षुमद्भिः सवनैः नेत्रों से सम्पन्न सवनों द्वारा स्वर्गं लोकम् एति स्वर्ग लोक

को प्राप्त करता है ।

सा ० भा ० -– राधिरिह लोके समृद्धिः॥२

तूष्णीशंसस्य चक्षुःस्वरूपत्वमुपपादयति— ( तूष्णीशंसस्य चक्षुः स्वरूपोपपादनम् ) चक्षुर्वा एतद् यज्ञस्य यत्तूष्णीशंस, एका सती व्याहृतिर्द्वेधोच्यते, तस्मादेकं सच्चक्षुर्द्वधा ॥ ३ ॥

( १ ) ' यद्यु वै षट्पदः, पूर्वैज्र्ज्योतिः शब्दैरग्रेऽवस्येत्' –इति आश्व० श्री० ५.९.११ । 'त्रिपद: षट्पदो वायं शंस्तव्यः । त्रिपदपक्षे यथापठितमेव षट्पदपक्षे त्रीणि त्रीणि वाक्यानि द्विधा कृत्वा शंसेत् । तत्र द्विधाकरणेऽवसानस्थानं पूर्वैज्र्ज्योतिः शब्दैरग्रेऽवस्येत्' –इति तद् वृत्तिः । ( २ ) 'राद्धः समृद्धो भवति' – इति च शत ० ब्रा० १४.७.१.३२ ।

पृष्ठ 468

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 468 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४०६ ऐतरेयब्राह्मणम् ९.८ द्वितीयपञ्चिकायां हिन्दी— ( मौन स्तुति की चक्षुरूपता को उपपादित कर रहे हैं — ) यत् तूष्णींशंसः जो मौनस्तुति है, एतद् यज्ञस्य चक्षुः यह यज्ञ का नेत्र है; क्योंकि व्याहृतिः एका सती व्याहृति ( भू: यह ) एक होती हुई द्विधा उच्यते (आरोह और अवरोह के क्रम से) दो प्रकार से उच्चरित होती है । तस्मात् इसी कारण चक्षुः नेत्र एकं सत् एक होते हुए भी द्वेधा दो प्रकार के होते हैं । सा ० भा ० — यद्यपि भूरित्येषैव व्याहृतिस्तथाऽपि तद्योगादग्निर्ज्योतिरित्यपि पदद्वयं व्याहृतित्वेनोच्यते । सेयं व्याहृतिरेकैव सत्यारोहावरोहाभ्यां द्वेधोच्यते ।' यस्मादेवं तस्माच्चक्षुरिन्द्रियमप्येकमेव सद्गोलकद्वये द्वेधा वर्तते। तस्माच्चक्षुष्वं युक्तम्॥ पुनरपि प्रकारान्तरेण प्रशंसति— ( प्रकारान्तरेण तूष्णीशंसप्रशंसनम् ) मूलं वा एतद् यज्ञस्य यत्तूष्णीशंसो यं कामयेतानायतनवान् स्यादिति नास्य यज्ञे तूष्णीशंसं शंसेदुन्मूलमेव तद्यज्ञं पराभवन् तमनु पराभवति ॥४ ॥

हिन्दी–( पुनः प्रकारान्तर से मौनस्तुति की प्रशंसा कर रहे हैं — ) यत् तूष्णींशंसः जो मौन स्तुति है, वह एतद् यज्ञस्य मूलम् यह यज्ञ का मूल है । यं कामयेत (यदि कोई होता ) जिस ( इर्ष्या करने वाले ) के लिए कामना करे कि यह अनायतनवान् स्यात् घर से रहित हो जाये तो अस्य यज्ञे इस ( यजमान के ) यज्ञ में तूष्णींशंसं न शंसेत् मौनस्तुति का शंसन नहीं करे; क्योंकिं तत् इस ( मौन स्तुति का शंसन न करने ) से यज्ञम् उन्मूलमेव ( वृक्ष के समान ) जड़ - रहित ( उसका ) यज्ञ पराभवन् पराभूत हो जाता है। तम् अनु उस ( यज्ञ के पराभव ) के बाद पराभवति (यजमान भी ) विनष्ट हो जाता है । सा ० भा ० — यं यजमानमुद्दिश्य होता द्वेषादेवं कामयेतानायतनवान् स्वर्ग- साधनरूपेणाऽऽयतनेनाऽऽश्रयेण रहितोऽयं यजमानः स्यादिति तदानीमस्य द्विषस्य यज-मानस्य यज्ञे तूष्णीशंसं होता न शंसेत्। तथा सति वृक्षमूलवद् यज्ञमूलविनावस्थितस्य तूष्णीशंसस्य पाठाभावाद् अयं यज्ञो मूलरहितः पराभवति विनश्यति । तमनु यजमानोऽपि विनश्यति । तदेवं द्वेष्यस्य विनाशहेतुत्वेन प्रशंसा कृता ॥ पुरनप्यृत्विजो होतुरनुकूलत्वेन प्रशंसति— ( १ ) ‘ व्याहृतीर्मनसानुद्रवेत् भूर्भुवः स्वरिति' – इति षड्वि० ब्रा० । ‘ सोऽताम्यत्। स भूरिति व्याहरत्। स भुव इति व्याहरत्। स सुवरिति व्याहरत्। एता वै व्याहृतय: इमे लोकाः। ' इति तै० ब्रा० २.२.४.३ । आरोहावरोहौ चात्र क्रमव्युत्क्रमाभ्यां पाठौ; ‘ अग्निः ज्योतिः’, ‘ ज्योतिः अग्निः’ — इत्येवमिति ।

पृष्ठ 469

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 469 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ४०७ चतुर्थोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् तदु वा आहुः शंसेदेवापि वैतदृत्विजेऽहितं शंसत्यृत्विजि हि सर्वो यज्ञः प्रतिष्ठितो यद्धोता तूष्णीशंसं न ॥५ ॥, शंस्तव्यः यज्ञे यजमानः तस्माच्छंस्तव्यः

हिन्दी- (पुन: ऋत्विकों की होता से अनूकूलता के रूप में प्रशंसा कर हैं— ) तदु आहुः उस ( मौनस्तुति के विषय में ब्रह्मवादी ) कहते हैं कि यद् होतारहे . तूष्णीशंसं न शंसति यदि होता मौनस्तुति का शंसन नहीं करता है तो एतद् ऋत्विजे अहितम् यह ऋत्विज के लिए (दक्षिणा की प्राप्ति न होने के कारण) अहितकर होता है अतः शंसेद् एव ( मौनस्तुति का ) शंसन अवश्य करना चाहिए । ऋत्विजिहि सर्वः यज्ञः प्रतिष्ठितः ऋत्विक् में ही सम्पूर्ण यज्ञ प्रतिष्ठित होता है और यज्ञे यजमानः यज्ञ में यजमान ( प्रतिष्ठित होता है ) । तस्मात् इसी कारण शंस्तव्यः ( मौनस्तुति का ) शंसन करना चाहिए । सा० भा०- तदु वै तत्रैव तूष्णीशंसविषये ब्रह्मवादिन आहुः । किमिति, तदुच्यते- यद्यपि यजमाने प्रीतिरहितो होता तथाऽपि शंसदेव। अपि वेति पूर्वोक्तापेक्षया पक्षान्त- रोपन्यासार्थः । होता न शंसतीति यदस्ति तदेनदृत्विजे होत्रेऽप्यहितं भ्रष्टे यज्ञे दक्षिणाया अलाभात्। यस्मादृत्विजि सर्वो यज्ञः प्रतिष्ठितः, तस्माद् यज्ञयजमानयोः प्रतिष्ठाद्वारा होतु-र्हितत्वेनायं तूष्णीशंसः शंस्तव्यः । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्य विरचिते माधवीये ' वेदार्थ प्रकाशे' ऐतरेयब्राह्मण- • भाष्ये द्वितीयपञ्चिकायां प्रथमाध्याये अष्टमः खण्डः || ८ || ॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय के अष्टम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥

वेदार्थस्य प्रकाशेन तमो हार्छं निवारयन् ।

पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥

॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपालसाम्राज्यधुरंधरमाधवा- चार्यादेशतो सायणाचार्येण विरचिते माधवीये 'वेदार्थप्रकाश' - नामभाष्ये ऐतरेयब्राह्मणस्य द्वितीयपञ्चिकायाः चतुर्थोऽध्यायः ॥४ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के नवम अध्याय की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥

पृष्ठ 470

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 470 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अथ द्वितीयपञ्चिकायाम् पञ्चमोऽध्यायः [ अथ दशमोऽध्यायः ] प्रथमः खण्डः

सायणभाष्यम्— ऋतुयाजा द्विदेवत्यास्तद्विशेषफला स्तुतिः ।

तूष्णींशंसप्रशंसा च नवमाध्यायचोदना ॥१ ॥

अथाऽऽहावादयो वक्तव्यास्त्रिहावं निविदं सूक्तं च विधत्ते— ( तूष्णीशंसस्य आहावनिवित्सूक्तानां कथनम् ) ब्रह्म वा आहावः, क्षत्त्रं निविद्विसूक्तमाह्वयतेऽथ निविदं दधाति, ब्रह्मण्येव तत्क्षत्त्रमनुनियुनक्ति, निविदं शस्त्वा सूक्तं शंसति, क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्र एव तद्विशमनुनियुक्ति ॥ १ ॥

हिन्दी – ( अब आहाव इत्यादि के कथन के लिए त्रिहाव निवित् वाले सूक्त का विधान कर रहे हैं— ) (आज्य के तीन भाग में) ब्रह्म वै आहाव: आहाव ब्राह्मणरूप, क्षत्रं निवित् निवित् क्षत्रिय रूप और विट् सूक्तम् सूक्त विट् (वैश्य ) रूप है । अतः आह्वयते ( ब्राह्मण रूप में पहले अध्वर्यु का ) आह्वान करते हैं। अथ तत्पश्चात् 'निविदं दधाति' ( इस मन्त्र से होता) ब्रह्मणि एव क्षत्रम् अनु नियुनक्ति ब्राह्मण (जाति ) में क्षत्रिय ( जाति ) को सन्निविष्ट करता है। क्षत्रं वै निवित् निवित् क्षत्रियरूप और विट् सूक्तम् सूक्त वैश्यरूप है तत् इस ( निवित् के बाद सूक्त के शंसन ) से क्षत्रे एव विशम् अनुनियुनक्ति क्षत्रिय में वैश्य को सन्निविष्ट करता है । विमर्श - ( १ ) शंसन के समय 'शोंसावोम्' इस मन्त्र से होता अध्वर्यु को बुलाता है जो आहाव कहलाता है । ( २ ) ‘ अग्निर्देवेद्ध’ इत्यादि बारह कहे जाने वाले पदों से युक्त समूहरूप निवित् कहलाते हैं । ये छोटे मन्त्र यज्ञ में देवताओं को आदरपूर्व बुलाने के लिए प्रयोग में लाये जाते हैं । ( ३ ) ‘प्र वो देवायाग्नये ’ (ऋ ० ३.३.१-७ ) यह सात ऋचाओं वाले सूक्त को यहाँ सूक्त शब्द से अभिहित किया गया है।