ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 471–480

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 471–480

पृष्ठ 471

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 471 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ४० ९ पञ्चमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् सा ० भा ० – शोसावोमित्यनेन मन्त्रेण शंसनकाले होताऽध्वर्युमाह्वयति ' हावः । अग्निर्देवेद्ध इत्यादिभिर्द्वादशभिर्वक्ष्यमाणैः सोऽयमा- ' इत्यादिकं सप्तर्च सूक्तम्। तदेतत्रयं क्रमेण ब्राह्मणक्षत्रियवैश्यरूपम्'। तत्र देवायाग्नये पदैः युक्ता तत्समूहरूपा निवित्। प्र वो ब्राह्मणरूपत्वेन प्रथममाह्वयते मन्त्रेणाध्वयो॑राह्वानं कुर्यात्। अथानन्तरं क्षत्रियरूपत्वेन 'निविदं दधाति' अग्निर्देवेद्ध इत्यादिपदसमूह' वदेत् तथा सति ब्रह्मण्येव ब्राह्मणजातावेव क्षत्त्रं क्षत्त्रियजातिमनुनियुनक्ति। प्रथमतो ब्राह्मणजातिः पश्चात् क्षत्त्रियजातिरित्येवं नियोगः कृतो भवेत्। तां निविदं शस्त्वा पश्चात्'प्र वो देवायेति' सूक्तं शंसेत्। तथा सति क्षत्रियजातिरूपायां निविदि वैश्यजातिरूपं सूक्तमनुनियुनक्तयानुकूल्येन पश्चादवस्थापयति । यः पूर्वमुक्तस्तूष्णीशंसो ये च निवित्सूक्ते तदेतत्त्रयमाज्यमाज्यनामकशस्त्रस्य रूपम्। तदुक्त संप्रदायविद्भिः.६- “ तूष्णींशंसनिवित्सूक्तैराज्यशस्त्रं त्रिपर्वकम् ” इति॥ 'अथ कंचिदभिचारप्रयोगं विधत्ते— ( कञ्चिदभिचारप्रयोगः ) यं कामयेत क्षत्त्रेणैनं व्यर्धयानीति, मध्य एतस्यै निविदः सूक्तं शंसेत्, क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैवैनं तद्व्यर्धयति ॥ २ ॥

हिंन्दी — ( अब किसी अभिचार प्रयोग का विधान कर रहे हैं - ) (यदि होता ) यम् जिस ( यजमान ) के प्रति कामयेत् कामना करे कि एनम् इस ( यजमान) को क्षत्रिण क्षत्रिय (जाति ) से व्यर्धयानि च्युत कर दे (विरोधी कर दे ) तो एतस्यै इस ( यजमान ) के लिए निविदः मध्ये (बारह पदों वाले ) निवित् के मध्य में सूक्तं शंसेत् सूक्त का शंसन कर दे । क्षत्रं वै निवित् निवित् क्षत्रिय है और विट् सूक्तम् सूक्त वैश्य है अतः तत् उस (निवित् के मध्य में सूक्त के शंसन ) से एनम् इस ( यजमान ) को क्षत्रेण एव क्षत्रिय जाति से ही व्यर्धयति वियोजित कर देता है । ( १ ) सांख्या०ब्रा० १४.३ । आश्व० श्री० ५.९.१ । ( २ ) तद्यथा निविदध्याये– ' अग्निर्देवेद्धः । अग्निर्मन्विद्धः । अग्निः सुषमित्। होता देववृतः । होता मनुवृतः । प्रणीर्यज्ञानाम्। रथीरध्वराणाम्। अतूतों होता । तूर्णिर्हव्यवाट् । आ देवो देवान् वक्षत् । यज्ञदग्निर्देवो देवान्। सो अध्वरा करति जातवेदाः ' -इति १.१. - १२ । उत्तरस्मिन् खण्डे चेमानि पदानि विधास्यन्ते। ( ३ ) ऋ० ३.१३.१-७ । ( ४ ) 'प्रथममाह्वयते शस्त्रादौ। अथ निविदं दधाति। यद्यपि तूष्णीशंसोऽप्याहावादनन्तरं शस्यते २.तथाप्याहावनिवित्सूक्तानामेवात्र पौर्वापर्यमुच्यते वर्णत्रयसंस्तुतत्वात्' – इति गोविन्दस्वामी। ( ५ ) अर्थात् निविद् १.१-१ । ( ६ ) षड्गुरुशिष्यस्य पद्यखण्डोऽयम्। 'तूष्णीशंसः पूर्वमुक्तो निवित्सूक्ते ब्रवीत्यथ' – इति उत्तरार्धः । (७ ) ‘प्र वो देवायेत्याज्यमुपसन्तनुयात्' – इति आश्च० श्रौ० ५.९.१५ । ऐ.ब्रा. पू- २६

पृष्ठ 472

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 472 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४१० ऐतरेयब्राह्मणम् १०.१ द्वितीयपञ्चिकायां सा ० भा ० — येयं द्वादशपदात्मिका निविदस्ति तस्या मध्ये सूक्तशंसने सति क्षत्त्रियजातिरूपाया निविदः खण्डितत्वादेनं यजमानं क्षत्त्रियजात्या व्यृद्धं वियुक्तं विरोधिनं करोति। अतो यजमानमुद्दिश्य होत्रा यत्कामितं तत्सिध्यतीत्युक्तं भवति ॥ अभिचारान्तरं विधत्ते- ( अभिचारान्तरप्रयोगः ) यं कामयेत विशैनं व्यर्धयानीति, मध्य एतस्य सूक्तस्य निविदं शंसेत्, क्षत्त्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति ॥ ३ ॥

हिन्दी – ( अन्य अभिचार प्रयोग का विधान कर रहे हैं - ) यं कामयेत जिस ( यजमान ) के लिए ( होता ) कामना करे हि एनम् इस ( यजमान) को विशा वैश्य जाति से व्यर्धयानि च्युत कर दें तो एतस्य सूक्तस्य मध्ये इस सूक्त के मध्य में निविदं शंसेत् निवित्पदों का शंसन् कर दे। क्षत्रं वै निवित् निवित् क्षत्रिय जाति वाला है और विद् सूक्तम् सूक्त वैश्य जाति वाला है । तत् इस ( सूक्त के मध्य में निवित् के शंसन) से एनम् इस ( यजमान) को विशा एव वैश्यजाति से ही व्यर्धयति वियोजित कर देता है। सा० भा० — प्र वो देवायेत्यस्य सूक्तस्य वैश्यस्थानीयस्य मध्ये निविदः शंसने सति वैश्यजातेः खण्डितत्वात् तद्विरोधो यजमानस्य भवति ॥ प्रतिकूलं प्रयोगद्वयं विधायानुकूलं प्रयोगं विधत्ते- ( अथानुकूलप्रयोगः ) यमु कामयेत सर्वमेवास्य यथापूर्वमृजुक्लृप्तं स्यादित्याह्वयेताश्च निविदं दध्यादथ सूक्तं शंसेत्, सो सर्वस्य क्लृप्तिः ॥४ ॥

हिन्दी —( उपर्युक्त दोनों प्रतिकूल अभिचारों का अभिधान करके अब अनुकूल अभिचार का विधान कर रहे हैं - ) यमु कामयेत ( होता) जिस ( यजमान ) के विषय में कामना करे कि अस्य इस ( यजमान ) का सर्वमेव सभी (ब्राह्मण, क्षत्रिय और वैश्यरूप) यथापूर्वम् जैसा पहले ( कहा गया है ) वैसा ऋजुक्लृप्तं स्यात् सीधा क्रम सम्यक् रूप से सम्पादित होवे तो आह्वयेत पहले आहाव करे । अथ निविदं दध्यात् तत्पश्चात् निवित् करे अथ सूक्तं शंसेत् इसके बाद सूक्त का शंसन करे। सः सर्वस्य क्लृप्तिः वह ( अनुष्ठान) ही सभी (जाति त्रय ) का सीधा क्रम है । सा ० भा ० – यमु यं तु यजमानं प्रति । पूर्वोक्तस्य द्वेष्यस्य यजमानस्य व्यावृत्त्यर्थ उशब्दः । अस्य यजमानस्य सर्वमेव ब्राह्मणक्षत्रियवैश्यजातिरूपं यथापूर्वमुत्तमजातेः पूर्व-मनतिक्रम्य ऋजुक्लृप्तं' सम्यक्संपादितं स्यादिति कामनायां ' शोंसावोम्' इत्याहावः प्रथमः, ( १ ) ‘ ऋजु साधु क्लृप्तं सङ्गतम्’ – इति षड्गुरु०; 'ऋजु क्लृप्तम् अञ्जसा क्लृप्तं यथोप-

पृष्ठ 473

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 473 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] पञ्चमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ः ४१.१ ततोऽग्निर्देवेद्ध इति निवित्, ततः 'प्र वो देवाय' इति सूक्तं शंसेत्। सो सैवोक्तानुष्ठितिरेव सर्वस्य जातित्रयस्य क्लृप्तिः समीचीनकल्पना भवति॥ अथ निविदः प्रशंसितुमाह- ( निवित्प्रशंसनम् ) प्रजापतिर्वा इदमेक एवाय आस, सोऽकामयंत प्रजायेय भूयान् स्यामिति, स तपोऽतप्यत, स वाचमयच्छत्, स संवत्सरस्य परस्ताद् व्याहरद् द्वादशकृत्वो द्वादश पदा वा एषा निविदेतां वाव तां निविदं व्याहरत् तां सर्वाणि भूतान्यन्वसृज्यन्त ॥ ५ ॥

हिन्दी— ( अब निवित् की प्रशंसा करने के लिए कह रहे हैं — ) इदम् अग्रे (इस (सृष्ट्युत्पत्ति) के पहले प्रजापतिः एव प्रजापति ही एकः अकेले आस थे। सः अकामयत् उस ( प्रजापति) ने कामना किया कि प्रजायेय मैं प्रजा रूप में उत्पन्न करूँ और. भूयान् स्याम बहुत हो जाऊँ। सः तपः अतप्यत् (प्रजापति) ने तपस्या किया और सः वाचम् अयच्छत् और उन्होंने वाणी को संयमित किया । सः संवत्सरस्य परस्ताद् उन्होंने एक संवत्सर के पश्चात् द्वादशकृत्वः द्वादशपदाः बारह बार बारह पदों को व्यहरत उच्चारित किया। एषाः वै निवित् यही ( बारह पद बारह) निवित् हैं। एतां वाव तां निविदं व्याहरत् इन्हीं उन निविदों का उच्चारण किया । ताम् अनु उस (निवित्उच्चारण) पश्चात् सर्वाणि भूतानि असृज्यन्त सभी भूत उत्पन्न हुए । सा ० भा० – इदमिदानीं दृश्यमानं जगदये स्वोत्पत्तेः पुरा प्रजापतिरीश्वर एक एवाऽऽस वै । स चाकामयताहमेव प्रजायेय प्राजरूपेणोत्पद्येयां तथा सति पूर्वस्माद् अद्वितीयरूपाद् भूयानतिप्रभूतः स्यामिति कामयित्वा स प्रजापतिः सृष्टिसाधनं तपः कृतवान्। तस्मिंस्तपसि वाचमयच्छन् मौनव्रतं कृतवान् । तथा कृत्वा संवत्सरादूर्ध्वं द्वादशकृत्वो वाचमुच्चारितवान्। सेयमुच्चारिता वागेषा द्वादशपदोपेता निवित् संपन्ना । तामेतामेव निविदं प्रजापतिर्व्याहृतवान्। तां निविदमनु तत्सामर्थ्यात् सर्वाणि भूतान्यन्वसृज्यन्त॥ उक्तार्थं द्रढयितुं कंचिन्मन्त्रमुदाहरति— तदेतदृषिःः पश्यन्नभ्यनूवाच ' स.पूर्वया निविदा कव्यताऽऽयोरिमाः प्रजा अजनयत् मनूनाम्' इति ॥ ६ ॥

हिन्दी—( पूर्वोक्त अर्थ की दृढ़ता के लिए मन्त्र को उदाहरित कर रहे हैं— ) तद् चारक्लृप्तम्' – इति गोविन्दस्वामी: ऋज्वा अयत्नेनैव विध्यनतिक्रमेण वा' इति भट्टभास्करः । ( १ ) ' नियमेषु तपश्शब्दः' -इति आप ० धर्म० १.२.१ ।

पृष्ठ 474

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 474 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४१२ ऐतरेयब्राह्मणम् १०.१ द्वितीयपञ्चिकायां एतत् पश्यन् ऋषिः उस इस (प्रजापति की सृष्टि का ) दर्शन करते हुए (कुत्स नामक) ऋषि ने अभ्यनूवाच कहा है कि सः उस (प्रजापति ) ने पूर्वया निविदा पहले उत्पन्न हुए ( द्वादश पद वाले ) निवित् से कव्यता कवित्व ( शब्द रचना) को आयोः प्राप्त किया । ( तत्पश्चात्) मनूनाम् ( वैवस्वत) इत्यादि मनुओं की इमाः प्रजाः इन ( ब्रह्मण इत्यादि) प्रजा को'अजनयन् उत्पन्न किया । सा० भा० -- तदेतत् प्रजापतेः सर्जनं दिव्यदृष्ट्या पश्यन् कुत्सनामको महर्षि- मंन्त्रेणाभ्यनूवाच । ‘ स पूर्वया ' इत्यादिर्मन्त्रः । स प्रजापतिः पूर्वया प्रथमं प्रादुर्भूतया निविदा द्वादशपदरूपया कव्यता कवित्वं शब्दस्रष्टृत्वमायोरागतवान् प्राप्तवानित्यर्थः । तत ऊर्ध्वं मनूनां वैवस्वतादीनां संबन्धिनीरिमा ब्राह्मणक्षत्त्रियादिरूपाः प्रजां अजनयद् इत्ययं मन्त्रः पूर्वोक्तमेवार्थं ब्रूते ॥ निविदं प्रशस्य तदनुष्ठानं प्रशंसति-- तद् यदेतां पुरस्तात् सूक्तस्य निविदं दधाति, प्रजात्यै ॥७ ॥

हिन्दी— ( निवित् की प्रशंसा करके उसके अनुष्ठान की प्रशंसा कर रहे हैं - ) तद् यत् तो जो सूक्तस्य पुरस्तात् सूक्त से पहले एतां निविदं दधाति इस निवित् का शंसन करता है, तो वह प्रजात्यै प्रजा की उत्पत्ति के लिए होता है। सा ० भा ० — यस्मात् प्रजापतिनैवं कृतं तस्माद् यदि होता सूक्तस्य पुरस्तादेतां निविदं दध्यात् तदा सा निविद् यजमानस्य प्रजात्यै प्रजोत्पादनाय संपद्यते॥. वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥८ ॥

हिन्दी –( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः च प्रजा और पशुओं से प्रजायते वृद्धि को प्राप्त करता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये (दशमाध्याये) प्रथमः खण्डः ॥१ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के प्रथम खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ ( १ ) ऋ० १.१६.२ ।

पृष्ठ 475

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 475 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ४१३ पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् अथ द्वितीयः खण्डः सा० भा०-– द्वादशपदोपेताया' निविदः प्रथमं पदं विधत्ते— ( निविदः पदविधानम् ) ( प्रथमपदविधानम् ) अग्निर्देवेद्ध इति शंसत्यसौ वा अग्निर्देवेद्ध एतं हि देवा इन्धत एतमेव तदेतस्मिंल्लोक आयातयति ॥ १ ॥

हिन्दी—(द्वादश पदों वाले निवित् के प्रथम पद का विधान कर रहे हैं- ) ' अग्निर्देवेद्ध’ अर्थात् अग्नि देवताओं द्वारा प्रज्वलित की गयी - इति शंसति इस (निवित् के प्रथम पद ) का शंसन करता है । असौ वै अग्निः देवेद्ध वही (यह सूर्यमण्डल में विद्यमान प्रकाश ) ही देवताओं द्वारा प्रज्वलित अग्नि है। एतं हि देवाः इन्धन इसी को देवताओं ने प्रज्वलित किया है । तत् इस ( शंसन ) से एतम् एव इस (आदित्य- प्रकाश रूप अग्नि ) को अस्मिन् लोके इस द्युलोक में आयातयति विस्तारित करता है । सा ० भा ० – देवैरिद्धः प्रज्वलितोऽग्निरित्येष निविदि प्रथमभागस्यार्थः । तं भागं होता शंसेद्, असौ वा आदित्यमण्डलेऽवस्थित एव प्रकाशो देवैरिद्धोऽग्निः । यस्मादेतं द्युलोक- वर्तिनं प्रकाशं देवा इन्धत इद्धं दीपितं समृद्धं कुर्वन्ति तत् तेन प्रथमभागपाठेनैतमेवाऽऽ-दित्यरूपं प्रकाशमेतस्मिन् द्युलोक आयातयति' प्रसारयति ॥ द्वितीयं पदं विधत्ते- ( द्वितीयपदविधानम् ) अग्निर्मन्विद्ध इति शंसत्ययं वा अग्निर्मन्विद्ध इमं हि मनुष्या ( १ ) अत्र चत्वारः पर्यायाः एकैकस्मिन् पर्याये तिस्रस्तिस्रो देवताः । क्षित्यन्तरिक्षद्युस्थानाम- ग्निर्वायुः सूर्य इति। इह तु सूर्योऽग्निर्वायुरिति क्रमः '- इति गोविन्दस्वामी । ' अत्र चत्वारः पर्यायाः । तत्रैकैकस्मिन् पर्याये तिस्रस्तिस्रो निर्विदस्तिस्रश्च देवता द्युपृथिव्यन्तरिक्षस्थाः सूर्याग्निवायवः प्रतिपर्यायमावर्तन्ते। तत्रादश्शब्दो द्युलोकवर्तिसूर्यविषयो द्रष्टव्यः । एत- च्छब्दोऽपि तत्पर्यायः । इदंशब्दस्तु भूलोकवर्तिवह्निविषयो भूलोकविषयश्च। वाय्वन्तरिक्षे तु स्वशब्देनैवोच्येते सर्वत्र ब्राह्मणेन इति द्रष्टव्यम्' -इति भट्टभास्करः । ( २ ) ‘ अग्निः आगन्ता सर्वकार्यार्थम्। अगेर्निर्नलोपश्च (उ० सू० ४.५१ )- इति षड्गुरु ० | ‘ अग्निशब्दो योगादादित्ये वर्तते । अग्निः सर्वदा गच्छत्यादित्यः अतोऽग्निरादित्य उच्यते'- इति गोविन्दस्वामी। ( ३ ) ' आयातयति = आनयति' – इति गोवि०, प्रजारक्षणार्थं सर्वतो यजमानं करोति' – इति भट्टभास्कर ।

पृष्ठ 476

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 476 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४१४ ऐतरेयब्राह्मणम् १०.२ द्वितीयपञ्चिकायां इन्धतेऽग्निमेव तदस्मिंल्लोक आयातयति ॥ २ ॥

हिन्दी—(द्वितीय पद का विधान कर रहे हैं - ) ' अग्निर्मन्विद्ध' अर्थात् ( अङ्गाररूप) अग्नि मनुष्यों द्वारा प्रज्वलित की गयी' इति शंसति इस (निवित् के द्वितीय पद ) का ( होता ) शंसन करता है। अयं वै अग्निः मन्विद्ध यह (पृथिवी लोक को ) अग्नि मन्विद्ध मनुष्यों द्वारा जलायी गयी है; क्योंकि इमं हि मनुष्याः इन्धते इस ( अग्नि) को ही मनुष्य लोग प्रज्वलित करते हैं । तत् इस ( शंसन) से अग्निमेव अग्नि को ही अस्मिन् लोके

इस लोक में आयातयति विस्तारित करता है ।

सा ० भा ० — अङ्गाररूपोऽग्निर्भूलोकवर्ती मनुष्यैः प्रज्वाल्यते । अन्यत् पूर्ववत्॥

तृतीयं पदं विधत्ते— अग्निः सुषमिदिति शंसति वायुर्वा अग्निः सुषमिद् वायुर्हि स्वय- मात्मानं समिन्धे स्वयमिदं सर्वं यदिदं किञ्च वायुमेव तदन्तरिक्षलोक आयातंयति ॥ ३ ॥

हिन्दी—( निवित् के तृतीय पद का विधान कर रहे हैं— ) ‘ अग्निः सुषदमित्’ अर्थात् अग्नि समिध्यमान है ' - इति शंसति इस ( तृतीय पद ) का (होता ) शंसन करता है। सुंषदम् अग्निः वायुः सुष्ठुरूप से प्रज्वलित अग्नि वायुरूप है; क्योंकि वायुः हि वायु ही स्वयम् आत्मानम् स्वयं अपने को और यदिदं किञ्च यह जो कुछ है इदं सर्वम् इन सभी को स्वयं स्वयं समिन्धे सम्यक् रूप से प्रकाशित करता है। तत् इस ( तृतीय पद कें शंसन) से (होता) वायुमेव वायु को ही अन्तरिक्षलोके अन्तरिक्षलोक में आयातयति विस्तारित करता है । सा० भा० – शोभना समित्प्रकाशनं संचरणरूपं यस्य वायोः सोऽयं सुषमित्। तस्या-ग्नित्वं गतिहेतुत्वाद् यौगिकम्। 'अगि गतौ' इत्यस्माद्धातोरुत्पन्नोऽयं शब्दः। प्रथम-पर्यायेऽप्यादित्यपरत्वमेवं योजनीयम् । वायुर्हि स्वात्मानं सर्वं जगच्च समिन्धे सम्यक् प्रकाशयति व्यापारक्षमं करोतीत्यर्थः ॥ चतुर्थपदं विधत्ते— ( चतुर्थपदविधानम् ) होता देववृत इति शंसत्यसौ वै होता देववृत एष हि सर्वतो देवैर्वृत 10. एतमेव तदेतस्मिंल्लोक आयातयति ॥ ४ ॥

हिन्दी— ( निवित् के चतुर्थ पद का विधान कर रहे हैं— ) ‘ होता देववृतः अर्थात् होता देवताओं द्वारा वरण किया गया'–- इति शंसति इस (चतुर्थ पद ) का (होता) शंसन ( १ ) भ्वादि० प०, धा० पा० १४७। उणा० सू० ४.५१ ।

पृष्ठ 477

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 477 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४१५ करता है । असौ वै होता देववृतः यह ( आदित्य) ही सायं और प्रातः होम का हेतु होने से ) देवों द्वारा वरण किया गया होता है; क्योंकि एषः हि सर्वतो देवैर्वृतः यही चारो ओर से ( द्युलोक में स्थित होने के कारण ) देवताओं द्वारा वरण किया गया है । तत् इस ( चतुर्थ पद के शंसन ) से एतमेव इस (सूर्य ) को ही एतस्मिन् लोके इस ( द्युलोक ) में आयातयति विस्तृत करता है। सा ० भा ०1-– असावादित्यः स्वोदयास्तमयाभ्यां सायंप्रातर्होमनिमित्तत्वेन होता सवै द्युलोके वर्तमानत्वाद् देवैर्वृतः ॥ ' पञ्चमं पदं विधत्ते— ( पञ्चमपदविधानम् ) होता मनुवृत इति शंसत्ययं वा अग्निर्होता मनुवृतोऽयं हि सर्वतो मनुष्यैर्वृतोऽग्निमेव तदस्मिंल्लोक आयातयति ॥५ ॥

हिन्दी-( निवित् के पञ्चम पद का विधान कर रहे हैं— ) 'होता मनुवृतः अर्थात् मनुष्यों द्वारा वरण किया गया होता'- इति शंसति इस (पञ्चम पद) का ( होता) शंसन करता है। अयं वै अग्निः होता मनुवृतः यह ( पृथिवी लोक वाला) अग्नि ही मनुष्यों द्वारा वरण किया गया होता है; क्योंकि अयं मनुष्यैः सर्वतः वृतः यह मनुष्यों द्वारा सभी ओर से वरण किया जाता है । तत् इस (पञ्चम पद के शंसन से) अग्निमेव अग्नि को ही अस्मिन् लोके इस (पृथिवी ) लोक में आयातयति विस्तृत करता है । सा ० भा ० — भूलोकेऽवस्थितोऽग्निर्होमाधिकरणत्वाद्धोता यजमानार्त्विग्भिश्चेष्टित-त्वान् मनुवृतः ॥ षष्ठं पदं विधत्ते— प्रणीर्यज्ञानामिति शंसति, वायुर्वै प्रणीर्यज्ञानां यदा हि प्राणित्यथ यज्ञोऽथाग्निहोत्रं वायुमेव तदन्तरिक्षलोक आयातयति ॥ ६ ॥

हिन्दी— ( निवित् के षष्ठ पद का विधान कर रहे हैं - ) ' प्रणीर्यज्ञानाम्' अर्थात् यज्ञ को ले जाने वाला ' इति शंसति इस (षष्ठ पद) का (होता ) शंसन करता है । वायुः वै यज्ञानां प्रणीः वायु ही यज्ञों को ले जाने वाला है; क्योंकि यदा हि प्राणिति जब मनुष्य प्रकृष्ट रूप से प्राणवायु द्वारा चेष्टा करता है अथ तब यज्ञः अग्निहोत्रम् यज्ञ और अग्निहोत्र होता है । तत् इस ( षष्ठ पद के शंसन) से वायुमेव वायु को ही अन्तरिक्षलोके अन्तरिक्ष लोक में आयातयति विस्तरित करता है। ( १ ) ' असौ खलु सूर्यो होता रसानामादाता देवैः रश्मिभिर्वृतः ' –इति भट्टभास्करः । 'होता हवनयोगाद् देवैः सर्वदा वृत आदित्यः' -इति गोविन्दस्वामी।

पृष्ठ 478

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 478 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४१६ ऐतरेयब्राह्मणम् १०.२ द्वितीयपञ्चिकायां सा ० भा० — यज्ञान् प्रकर्षेण नयति वायुः, तस्मादेष यज्ञानां प्रणीर्यस्मिन् काले पुरुष: प्राणिति प्राणवायुना चेष्टते तदा यज्ञो भवति। ' तस्यैव व्याख्यानमुदाहरणरूपमथा- ग्निहोत्रमिति प्राणवायुचेष्टयाऽग्निहोत्रकरणादिव्यापारा निष्पद्यन्ते। सप्तमं पदं विधत्ते-- ( सप्तमपदविधानम् ) रथीरध्वराणामिति शंसत्यसौ वै रथीरध्वराणामेष हि यथैतच्चरति रथीरिवैतमेव तदेतस्मिंल्लोक आयातयति ॥७ ॥

हिन्दी—( निवित् के सप्तम पद का विधान कर रहे हैं - ) 'रथीरध्वराणाम्’ आहुतियों का रथी' – इति शंसति इस (सप्तम पद) का (होता) शंसन करता है। असौ वै अध्वराणां रथी वह ( आदित्य) ही आहुतियों के प्रकाशन के लिए रथवान् होकर विचरण करता है; क्योंकि एषः एव रथीः इव यह आदित्य ही रथी के समान चरति विचरण करता है । तत् इस ( सप्तम पद के शंसन) से एतमेव इस ( सूर्य ) को ही एतस्मिन् लोके इस द्युलोक में आयातयति विस्तृत करता है।. सा० भा०--असावादित्योऽध्वराणां प्रकाशनाय रथीर्भवति रथवान् भूत्वा संचरन्ति। अयमेवार्थ एष हीत्यादिनोच्यते । यथा लोके रथीरिव कश्चन रथवानेवैतद् गन्तव्यस्थानं प्रति चरति तथैष आदित्योऽपि रथयुक्त एव चरति । शाखान्तरे तु तदीयरथप्रदर्शनपूर्वकमेव मन्त्रो व्याख्यातः — ‘रथीरध्वराणामित्याह, एष हि देवरथ: ’ २ इति॥ अष्टमं पदं विधत्ते- ( अष्टमपदविधानम् ) अतूत होतेति शंसत्ययं वा अग्निरतूत होतेमं ह न कश्चन तिर्यञ्चं तरत्यग्निमेव तदस्मिंल्लोक आयातयति ॥८॥

हिन्दी—( निवित् के अष्टम पद का विधान कर रहे हैं - ) अतूर्ती होता अर्थात् ' अपराजित होता' – इति शंसति इस ( अष्टम पद ) का (होता) शंसन करता है । अयम् अग्निः वै अतूर्तः होता यह (पृथिवीस्थानीय) अग्नि ही अपराजित होता है; क्योंकि कश्चन इमं तिर्यञ्चं न तरति कोई भी मार्ग में अवरोध उत्पन्न करने वाले इस (अग्नि ) को पार नहीं कर सकता है। तत् इस ( अष्टम पद के शंसन) से अग्निमेव अग्नि को ही ( १ ) यदा खलु वायुः प्राणिति प्राणयति जनान्। अन्तर्णीतण्यर्थोऽनितिद्रष्टव्यः । यद्वा, यदा प्राणिति बलवान् भवति तदा खल्वयं प्रणीर्भवत्ति। अधुना प्रकृत्यर्थ एवानितिर्द्रष्टव्यः ।'— इति भट्टभास्करः । ( २ ) तै ० सं० २.५.९.२।

पृष्ठ 479

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 479 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ४१७ पञ्चमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् अस्मिन् लोके इस ( पृथिवी ) लोक में आयातयति विस्तारित करता है । सा० भा०.— भूलोकवर्ती वह्निरतूर्तः केनाप्यतीर्णः । मार्गमध्ये तिर्यञ्चं मार्गस्या- वरोधकत्वेनावस्थितं प्रौढं दावाग्निं कश्चिदपि तरितुं न समर्थः ॥ नवमं पदं विधत्ते— ( नवमपदविधानम् ) तूर्णिर्हव्यवाळिति शंसति, वायर्वै तूर्णिर्हव्यवाड्, वायुर्हीींदं सर्वं सद्य- स्तरति यदिदं किञ्च; वायुर्देवेभ्यो हव्यं वहति, वायुमेव तदन्तरिक्षलोक आयातयति ॥९ ॥

हिन्दी — ( निवित् के नवम पद का विधान कर रहे हैं ) तूर्णिर्हव्यवाट् अर्थात् पार करने वाले और हव्यों का वहन करने वाले' - इति शंसति इस (नवम पद ) का (होता ) शंसन करता है। वायुः वै तूर्णिः हव्यवाट् वायु ही पार करने वाला और हव्यों का वहन करने वाला है; क्योंकि वायुः वै तरति वायु ही पार करने वाला है। यद् इदं किञ्च जो कुछ भी यहाँ है, इदं सर्वम् इस सभी को शीघ्रः तरति शीघ्र पार कर लेता है और वायुः देवेभ्यः हव्यं वहति वायु देवताओं के लिए हविष् को वहन करता है। तत् इस (नवम पद के शंसन) से वायुमेव वायु को ही अन्तरिक्षलोके अन्तरिक्ष लोक में आयातयति विस्तारित करता है । सा० भा ० – तरतीति तूणिः । वायोः सर्वतरणसामर्थ्यं प्रसिद्धम्। हव्यं वहतीति हव्यवाड्डविर्वहनस्य क्रियारूपस्य वायुनिष्पाद्यत्वाद् असौ हव्यं वहति ॥ दशमं पदं विधत्ते— ( दशमपदविधानम् ) आ देवो देवान् वक्षदिति शंसत्यसौ वै देवो देवानावहत्येतमेव तदेतस्मिंल्लोके आयातयति ॥ १० ॥

हिन्दी - ( निवित् के दशम पद का विधान कर रहे हैं - ) ' आ देवो देवान् वक्षत्' अर्थात् देव देवों को यहाँ ले आवे' - इति शंसति इस (दशम पद) का. ( होता) शंसन करता है। असौ वै देवः वह (आदित्य ) देव ही देवान् आवहति देवताओं को ले आते हैं। तत् उस ( दशम पद के शंसन) से एतमेव इस ( आदित्य) को हो एतस्मिन् लोके इस लोक में आयातयति विस्तारित करता है । ( १ ) ' अतूर्त: अतिक्रमितुमशक्य: ' -इति भट्टभास्करः; 'अहिसितः ' इति षड्गुरु ०। 'तरणा- योगादतूर्तत्वम्' इति गोवि० ।

पृष्ठ 480

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 480 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४१८ ऐतरेयब्राह्मणम् १०.२ द्वितीयपञ्चिकायां सा ० भा ० — असावादित्यो देवः स्वोदेयास्तमयाभ्यां होमकालसूचनेन देवानावक्षदा-वहति॥ एकादशं पदं विधत्ते— ( एकादशपदविधानम्) यक्षदग्निर्देवो देवानिति शंसत्ययं वा अग्निर्देवो देवान् यजत्यग्निमेव तदस्मिंल्लोक आयातयति ॥ ११ ॥

हिन्दी—(निवित् के एकादश पद का विधान कर रहे हैं - ) ' यक्षदग्निर्देवो देवान्’ अर्थात् अग्नि देव देवताओं का यजन करे' इति शंसति इस ( ग्याहवें पद ) का (होता) शंसन करता है। अयमग्निर्देवो वै यह अग्निदेव ही देवान् यजति देवताओं का यजन करता है । तत् इस ( एकादश पद के शंसन ) से अग्निमेव अग्नि को ही अस्मिन् लोके

आयातयति विस्तारित करता है ।

सा० भा०--अयं भूमौ दृश्यमानोऽग्निर्देवो देवान् यजतीति प्रसिद्धम्॥

द्वादशं पदं विधत्ते- ( द्वादशपदविधानम् ) सो अध्वरा करति जातवेदा इति शंसति, वायुर्वै जातवेदा, वायुहींदें सर्वं करोति यदिदं किंच, वायुमेव तदन्तरिक्षलोक आयातयति ॥ १२ ॥

हिन्दी - ( निवित् के द्वादश पदं का विधान कर रहे हैं - ) (सो अध्वरा करति जातवेदाः' अर्थात् यह जातवेद अध्वर का सम्पादन न करे- इति शंसति इस (द्वादश पर ) का (होता) शंसन करता है। वायुः वै जातवेदाः वायु ही (श्वास उच्छवास द्वारा प्राणियों को जानने के कारण) जातवेद है; क्योंकि वायुः हि वायु ही यदिदं किञ्च यह कुछ भी है इदं सर्वम् इस सभी को करोति सम्पादित करता है। तत् उस (द्वादश पद के शंसन) से वायुमेव वायु को ही अन्तरिक्षलोके अन्तरिक्षलोक में आयातयति विस्तारित करता है । सा ० भा ० — उच्छ्वासनिःश्वासप्रदानेन जातं प्राणिनं वेदयति जीवनयुक्तत्वेन ज्ञाप- यतीति वायुर्जातवेदाः । ' स चाध्वरा सर्वयज्ञान् करोति निष्पादयति व्यापाररूपस्यानुष्ठानस्य वाय्वधीनत्वात्। एषु द्वादशसु पदेषु सूर्याग्निवायवश्चतुरावृत्ताः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये ( दशमाध्याये ) द्वितीयः खण्डः ॥२ ॥

( १ ) ' जातवेदाः जातधनः धनानामुत्पत्तिहेतुः ' -इति भट्टभास्करः ।