ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 481–490

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 481–490

पृष्ठ 481

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 481 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: ४१ ९ पञ्चमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के द्वितीय खण्ड की ' शशिप्रभा ' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा० भा० - निविदो यानि द्वादश पदानि भागरूपाणि तान्युक्तानि। अथ तदनन्तर- भाविसूक्तं विधत्ते— ( निवित्पदादूर्ध्वं शंसनीयसूक्तप्रयोगविधानम् ) प्र वो देवायाग्नय इत्यभुष्टुभः ॥ १ ॥

हिन्दी — ( निवित्पदों के बाद शंसनीय सूक्त का विधान कर रहे हैं - ) 'प्र वो देवायाग्नये ' इति आनुष्टुभः इस अनुष्टुप् छन्द वाली ( सात ऋचाओं वाले सूक्त का होता शंसन करता है ) । सा० भा ० -– 'प्र वो ' इत्यादि सूक्तस्य' प्रतीकं तस्मिन् सूक्ते याः सप्तसंख्याका अनुष्टुप्छन्दस्का ऋचः सन्ति ताः शंसेदिति शेषः ॥ प्रथमायामृचि यौ प्रथमद्वितीयपादौ तयोर्विहरणं विधत्ते— प्रथमे पदे विहरति तस्मात् रूयुरू विहरति ॥ २ ॥

हिन्दी - ( प्रथम ऋचा के प्रथम और द्वितीय पाद के मध्य में विहरण का विधान कर रहे हैं— ) प्रथमे पदे विहरति प्रथम दो पादों के मध्य में विहरण करता है अर्थात् प्रथम और द्वितीय पाद के मध्य में विच्छेद करके पढ़ता है । तस्मात् इसी कारण स्त्री उरू विहरति ( लोक में भी ) स्त्री ( सम्भोग काल में) ( अपनी दोनों जङ्घाओं को अलग कर लेती है। सा० भा० – विहरणम् = पृथक्करणम्। द्वयोः पादयोर्मध्ये विहारं विच्छेदं कृत्वा पठेत् । यस्माद् अत्र पादयोः परस्परवियोग:, तस्माल्लोकेऽपि स्त्री संभोगकाले स्वकीये ऊरू विहरति वियोजयति ॥ तस्यामृचि तुतीयचतुर्थपादयोरविच्छेदं विधते— समस्यत्युत्तरे पदे, तस्मात् पुमानूरू समस्यति तन्मिथुनं मिथुनमेव तदुक्थमुखे कॅरोति, प्रजात्यै ॥ ३ ॥

हिन्दी —(उस प्रथमा ऋचा में तृतीय और चतुर्थ पादों में अविच्छेद करने का विधान ( १ ) ऋ० ३.१३।

पृष्ठ 482

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 482 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४२० ऐतरेयब्राह्मणम् १०.३ द्वितीयपञ्चिकायां कर रहे हैं— ) उत्तरे पदे समस्यति उत्तरार्ध के दो पादों को मिलाकर पढ़ता है। तस्मात् इसी कारण पुमान् उरू समस्यति (लोक में ) पुरुष ( सम्भोग काल में) अपनी जँधाओं को मिलाये रहता है । तत् मिथुनम् वह मिथुन है, तत् इस ( शंसन) से उक्थमुखे आज्यशस्त्र के प्रारम्भ में प्रजात्यै प्रजोत्पादन के लिए मिथुनमेव करोति मिथुन ही करता है। सा ० भा० — यस्मात् तृतीयचतुर्थपादयोरुत्तरार्धगतयोः संयोजनं तस्माल्लोकेऽप्यु-परिवर्ती पुमान् भोगकाले स्वकीये ऊरू समस्यति संयोजयति तदुभयं मिलित्वा मिथुनं भवति। तस्मादुक्थमुखे शस्त्रस्योपक्रमे मिथुनमेव करोति । तच्च यजमानस्य प्रजननाय संपद्यते ॥ वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ४ ॥

हिन्दी–(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः प्रजायते प्रजा और पशुओं से प्रवृद्ध होता है। पुनरप्युक्तमेवानूद्य प्रकारान्तरेण प्रशंसति— प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति वज्रमेव तत्परो- वरीयांसं करोति, समस्यत्येवोत्तरे पदे, आरम्भणतो वै वज्रस्याणि- माऽथो दण्डस्याथो परशोर्वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै ॥५ ॥

हिन्दी – ( पुनः प्रकारान्तर से प्रशंसा कर रहे हैं - ) 'प्र वो देवायग्नये' – इत्येव आनुष्टुभः ये अनुष्टुप् छन्द वाली ऋचाएँ हैं। प्रथमे पदे विहरति प्रथम दो पादों के मध्य में विच्छेद करता है । तत् इस (प्रथम दो पादों में विच्छेद करने ) से परः उत्तर भाग को वरीयांसम् अत्यधिक स्थूल वज्रमेव करोति वज्र ही बना देना देता है। उतरे पदे समस्यति एव उत्तरवर्ती पादों को मिला ही देता है; क्योंकि वज्रस्य आरम्भण: अणिम् एव वज्र का प्रारम्भ वाला भाग सूक्ष्म होता है। अथो दण्डस्य अथो परशोः ऐसा ही दण्ड ( गदा ) का और कुठार का भी भाग होता है । तत् इस प्रकार ( प्रथम दो पादों को विच्छेद तथा उत्तरवर्ती दो पादों को मिलाने से ) द्विषते भ्रातृव्याय वधम् द्वेष करने वाले शत्रु के वध के लिए वज्रमेव (सूक्तरूप) वज्र का ही प्रहरति प्रहार करता है। यः जो ( शत्रु ) अस्य इस ( यजमान) का स्तृत्यः हिंस्य होता है, तस्मै स्तर्तवै उसके वध के लिए ही ( ऐसा करता है ) । सा० भा ० — इत्येवानुष्टुभ इति योऽयमेवकारः स पूर्वस्यैवानुवादो न तु नूतन-विधिरितिज्ञापनार्थः । परोवरीयासं परस्युत्तरभागेऽतिशयेन स्थूलमीदृशं वज्रं सूक्तपठनेन :

पृष्ठ 483

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 483 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

] ४२१ पञ्चमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम्: संपादयति । प्रथमाया ऋच उत्तरार्धे पदे तत्पादयोः समसनं तदपि वज्रसादृश्यार्थं ह्यारम्भणतोऽणिमा मूले सौक्ष्म्यमित्यर्थः । वज्रशब्देन खड्गादिरूपमायुधमभिधीयते वज्रस्य हि मूले मुष्टिबन्धनस्थाने सूक्ष्मता भवत्युपरि तु विस्तारः । दण्डशब्देन । तस्य साऽपि हस्तग्रहणस्थाने मूले सूक्ष्मा प्रहारस्थानेऽग्रे गदा विवक्षिता । सूक्तं प्रथमार्धर्चपादविहरणेन सूक्ष्ममुत्तरार्धर्चपादसमासेन त्रिविधो वज्र एवमिदमपि स्थूला। परशुरपि तथाविधः । यथाऽयं अत ईदृशं सूक्तरूपं वज्रमेव द्वेषं कुर्वतो भ्रातृव्यस्य वधमुद्दिश्य स्थूलम्।, - स्तृत्यो हन्तव्यः तस्मै स्तर्तवै तस्य हिंसायै भवति ॥ प्रहरति यः शत्रुरस्य ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे'. ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये (दशमाध्याये ) तृतीयः खण्डः ॥३ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के तृतीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० — अथाऽऽग्नीधीयवासादिसिद्ध्यर्थमाख्यायिकामाह— ( आग्नीग्रीयवासादिसिद्ध्यर्थमाख्यायिका ) देवासुरा वा एषु लोकेषु समयतन्त, ते वै देवाः सद एवाऽऽयत- नमकुर्वत, तान् सदसोऽजयंस्त आग्नीध्रं संप्रापद्यन्त, ते ततो न पराजयन्त, तस्मादाग्नीध्र उपवसन्ति, न सदस्याग्नीध्रे ह्यधारयन्त यदाग्नीध्रेऽधारयन्त तदाग्नीध्रस्याऽऽग्नीध्रत्वम् ॥ १ ॥

हिन्दी - ( अब अग्नीध्रीय वासादि की सिद्धि के लिए आख्यायिका को कह रहे हैं— ) देवासुराः देवताओं और असुरों ने एषु लोकेषु इन लोकों विषय में समयतन्त परस्पर युद्ध किया । ते एव देवाः उन देवताओं ने सदे एव आयतनम् अकुर्वत ( सौमिक वेदि पर प्राग्वंश के पूर्व की ओर) सदस् नामक स्थान को अपना आवास बनाया। तान् सदसः अजयन् उन ( देवताओं ) को ( राक्षसों ने ) सदस् नामक स्थान से जीत लिया । ते आग्नीध्रं सम्प्रापद्यन्त तब उन ( देवताओं ) ने (निवास के लिए) आग्नीध्र (नामक स्थान ) ( १ ) 'वज्रस्य खस्वारम्भणे आरम्भे हस्तग्रहणप्रदेशेऽणिमा अणुत्वं भवति। अथो अनन्तरं दण्डभागस्यान्योऽणिमा पूर्वस्मादूनो भवति। अथो तदनन्तरं च परशोः आस्यप्रदेशस्या- न्योऽणिमा ततोऽप्यूनो भवति । यदा चाणिमा उपर्युपरि क्षीयते तदा चोपर्युपरि वरिमा भवति वज्रस्य' - भट्टभास्करः ।

पृष्ठ 484

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 484 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४२२ ऐतरेयब्राह्मणम् १०.४ द्वितीयपञ्चिकायां को प्राप्त किया । ततः वहाँ से ते न पराजयन्त वे ( देवता) पराजित नहीं हुए। तस्मात् इस कारण आग्नीध्रे उपवसन्ति वे ( देवता) आग्नीध्र के समीप (स्थान ) में ही ( यजमान उपवसथ के दिन) बैठते हैं, न सदसि सदस् के समीप नहीं; क्योंकि आग्नीध्रे हि अधारयन्त आग्नीध्र में ही उन ( देवताओं ) ने आश्रय को प्राप्त किया। तद् आग्नीध्रस्य आग्नीध्रत्वम् वही आग्नीध्र का आग्नीध्रत्व (आग्नीध्र होना) है। सा ० भा० — पुरा कदाचिद् देवाश्चासुराश्च लोकविषये समयतन्त सङ्ग्रामं कृतवन्तः। वयमेवैषु लोकेषु निवसामो न तु यूयमित्येवं परस्परस्पर्धा। तदानीं देवाः सौमिकवेद्यां प्राग्वंशस्य पूर्वस्यां दिशि येयं सदोभिधाना शाला तामेव स्वस्य निवासस्थानं कृतवन्तः । तत्रावस्थितांस्तान् देवानसुराः सदसो जयञ्जित्वा सदसो नि: सारितवन्त इत्यर्थः । ततो देवा निर्गताः सन्त अग्नीध्राभिधां शालां प्राप्तवन्तः । ते देवाः प्राप्य तत आग्नीध्रीयं न पराजयन्त तत्रासुराणामेव पराजयो न तु देवानाम् । यस्मादेवं तस्मादाग्नीध्रशालायामुपवसथे दिन यजमाना उपवसन्ति । अग्निसमीपे निवसेयुर्न तु सदसि निवासः कर्तव्यः । आग्नीध्रे हि देवाः पलायनं परित्यज्य स्वात्मानं धारितवन्तः, तस्मात् तत्र निवासो युक्त। यस्माद् आग्नीध्रे धारितवन्तः, तस्मादाग्नीध्रनाम संपन्नम्। ' अग्निसमीपे स्वात्मधारणस्य प्रवृत्तिनिमित्तत्वात्॥ अथ सदस्यवस्थितेषु धिष्ण्येष्वाग्नीध्रादग्निविहरणं विधत्ते— तेषां वै देवानामसुराः सदस्यानग्नीन्निर्वापयांचक्रुस्ते देवा आग्नी- ध्रांदेव सदस्यानग्नीन् विहरन्त तैरसुररक्षांस्यपाघ्नत तथैवैतद् यजमाना आग्नीध्रादेव सदस्यानग्नीन् विहरन्त्यसुररक्षांस्येव तदपघ्नते ॥ २ ॥

हिन्दी– ( अब सदस् में अवस्थित धिष्ण्य में आग्नीध्र से अग्नि- विहरण का विधान कर रहे हैं— ) असुराः असुरों ने तेषां देवानाम् उन देवताओं के सदस्यान् अग्नीन् सदस् में विद्यमान अग्नि को निर्वापयांचक्रुः (जल सेचन द्वारा) बुझा दिया। ते देवाः उन देवताओं ने अग्नीघ्राद् एव आग्नीध्र से ही सदस्यान् अग्नीन् सदस् की अग्नि को विहरन्त स्थापित कर दिया । तैः असुररक्षांसि अपाध्नत उन अग्नियों द्वारा ( देवताओं ने ) असुरों और राक्षसों को मार डाला। तथा एव उसी प्रकार ही यजमानाः यजन करने वाले लोग आग्नीनाद् एव आग्नीध्र से ही सदस्यान् अग्नीन् सदस् की अग्नियों को विहरन्ति स्थापित करते हैं और तत् उससे असुररक्षांसि अपघ्नते असुरों और राक्षसों को विनष्ट कर देता है। ( १ ) ‘ प्रयाजादिप्रदानेनाग्नेरिन्धका देवा ध्रियन्तेऽस्मिन्नित्याग्नीभ्रम्। घञर्थे कविधानमित्याधिकरणे कः । इन्धेः क्विप् अग्नीध्रमेवाग्नीध्रः स्वार्थिकोऽण्। वर्णव्यत्ययेन वाकारस्य दीर्घत्वम्। तदिदानीमाग्नीध्रस्याग्नीचत्वम् । अग्नीघ्रः शरणे रण् भत्वं चेत्येतदनाश्रित्यैवमुक्तम् – इति भट्टभास्करः ।

पृष्ठ 485

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 485 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चमोऽध्यायः चतुर्थः खण्ड: ] सायणाचार्यकृतभाष्योपेतम्: ४२३ सा० भा०--पुरा देवानां संबन्धिनो येऽग्नयः सदस्यवस्थितेषु सर्वान् देवपलायनेन सदःप्रविष्टा असुरा निर्वापयांचक्रुर्जलप्रक्षेपेणाग्नीन् धिष्ण्येष्वासंस्तान् ते देवा आग्नीध्रे स्थित्वा तत्रत्यान् सदस्यानग्नीन् शान्तानकुर्वन्। तदानीं पृथक्पृथगग्नीन् विहृतवन्तः विहरन्त सदस्यवस्थितेषु धिष्ण्येषु यथा देवैर्विहरणं कृतं तथैवैतस्मिन्नपिस्थापितवन्तः काले। तैः प्रबलैरग्निभिरसुरान्यजमाना आग्नीध्रादेवरक्षांसिवह्नेःच सदसिसदस्यानग्नीन्हतवन्तः । विहरेयुः । तेन विहरणेनासुरान् रक्षांसि च तदपघ्नते तत् तदानीं नाशयन्ति। सोऽयमर्थः सर्वोऽपि शाखान्तरे संगृह्याऽऽम्नातः- 'देवा वै यज्ञं पराजयन्त तमाग्नीभ्रात् पुनरयाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद् धिष्णियान् विहरन्ति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते " इति॥ इत्यं शंसनस्थानगतेषु धिष्ण्येष्वग्निविहरणं विधाय तत्र शंसनीयानां शस्त्राणां यदेतद् आज्यनामकत्वं तदेतच्छब्दनिर्वचनेन विस्पष्टयति— ( आज्यनामनिर्वचनम् ) ते वै प्रातराज्यैरेवाऽऽजयन्त आयन् यदाज्यैरेवाऽऽजयन्त आयंस्त- `दाज्यानामाज्यत्वम् ॥३ ॥

हिन्दी - ( अग्नि- विहरण में शंसनीय आज्य नामक शस्त्र आज्य नाम को निर्वचन द्वारा स्पष्ट कर रहे हैं— ) प्रातः प्रातः सवन में आज्यैः एव आज्य (नामक शस्त्र ) से आजयन्तः विजय प्राप्त करते हुए ते वै वे ( देवता ) आयन् आये । यद् आज्यैः एव जो आज्य ( शस्त्र ) से आजयन्तः आयन् विजय प्राप्त करते हुए आये तद् आज्यानाम् आज्यत्वम् आज्यों का आज्यत्व है। सा० भा० - त एव देवाः प्रातः सवने यान् याज्यनामकानि शस्त्राणि तैरेवाऽऽसमन्ता- ज्जयं प्राप्नुवन्त आगच्छन्। यस्मादेवं तस्माद् आसमन्ताज्जयन्त्येभिरिति व्युत्पत्त्या शस्त्राणामाज्यनाम संपन्नम्। अनेनैव न्यायेन सामवेदे 'पञ्चदशान्याज्यानिति' वाक्येन विहि-तानां पञ्चदशस्तोमयुक्तानां स्तोत्राणामाज्यनामत्वं द्रष्टव्यम्॥ अथाच्छावाकस्य शस्त्रं विधत्ते- ( १ ) तै० सं ० ६.३.१.१। ( २ ) ता०ब्रा० २०.३.१ । बहिष्पवमानसूक्तादनन्तरम् 'अग्न आयाहि' (उत्तर ऋक् १-४ ) इत्यारभ्य गीयमानानि सूक्तान्याज्यस्तोत्राणि । तत्र प्रातः सवने चत्वारि। माध्यन्दिनसवने पञ्च। तृतीयसवने षट् इति पञ्चदश। ( ३ ) प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत् तेऽन्योऽन्यस्मा अग्राय तातिष्ठन्त तान- ब्रवीदाजिमस्मिन्नितेति त आजिमायन्यदाजिमाय स्तदाज्यानामाज्यत्वम्' – इत्याद्याखण्ड- समापि द्रष्टव्यम् (ता० ब्रा० ७.२ )।

पृष्ठ 486

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 486 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४२४ ऐतरेयब्राह्मणम् १०.४ द्वितीयपञ्चिकायां ( अच्छावाकस्य शस्त्रविधानम्) तासां वै होत्राणामायतीनामाजयन्तीनामच्छावाकीयाऽहीयत, तस्यामिन्द्राग्नी अध्यास्तामिन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ तस्मादैन्द्राग्नमच्छावाकः प्रातः सवने शंसतीन्द्राग्नी हि तस्यामध्यास्ताम् ॥४ ॥

हिन्दी— (अब अच्छावाक के शस्त्र का विधान कर रहे हैं - ) आजयन्तीनाम् आयतीनां तासां होत्रकाणाम् चारों ओर से विजय प्राप्त करते हुए (निवास के लिए सदस् नामक स्थान में प्रवेश करने के लिए) आये हुए उन होत्रकों का अच्छावाकीया अहीयत अच्छावाकीय शरीर हीन हो गया ( सदस नामक स्थान में प्रवेश नहीं सका) । तस्याम् इन्द्राग्नी अध्यास्ताम् उस ( हीन शरीर) पर इन्द्राग्नी ने निवास किया; क्योंकि इद्राग्नी वै इन्द्र और अग्नि ही देवानाम् देवताओं में ओजिष्ठौ अत्यधिक ओजस्वी बलिष्ठौ अत्यधिक बल- सम्पन्न, सहिष्ठौ ( शत्रुओं को ) अत्यधिक अभिभूत करने वाले, सत्तमौ ( भक्तों के ) अत्यधिक समीप रहने वाले और पारयिष्णुतमौ (पापों से ) अत्यधिक पार लगाने वाले हैं । तस्मात् इसी कारण अच्छावाकः अच्छावक (नामक ऋत्विक्) प्रातः - सवने प्रातःसवन में ऐन्द्राग्नं शंसति इन्द्र और अग्नि का शंसन करता है; क्योंकि इन्द्रग्नी हि इन्द्र और अग्नि ही तस्याम् अध्यास्ताम् उस ( अच्छावाक के शरीर) में निवास करते हैं । सा० भा ० - प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इत्येते शस्त्रिणो होत्रका यद्यपि पुरुषा-स्तथाऽपि तदीयतनुविवक्षया तासामित्यादिस्त्रीलिङ्गनिर्देशः । यास्तनवः पूर्वमसुरानपाघ्नत तासामेव होत्राणां होत्रकतनूनामायतीनां सदः प्रवेष्टुमागच्छन्तीनामाजयन्तीनां सर्वतो जयं प्राप्नुवतीनां मध्येऽच्छावाकीयाऽच्छावाकसंबन्धिनी तनुरहीयत हीनाऽभूत् सदसमागन्तुं नाशक्नोद् इत्यर्थः । तदनुग्रहार्थं तस्यां तन्वामिन्द्राग्नी अध्यास्तामधिष्ठाय निवासं कृत- वन्तौ। युज्यते हीन्द्राग्न्योरनुग्रहीतृत्वं यस्माद्देवानां मध्य इन्द्राग्नी ओजिष्ठावोजसा बल- हेतुनाऽष्टमधातुनाऽत्यन्तमुपेतावत एव बलिष्ठावतिशयेन शरीरशक्तियुक्तौ तत एव सहि- ष्ठावतिशयेन शत्रूनभिभवितारौ स्वभक्तविषये तु सत्तमावतिशयेन सन्तौ सन्मार्गवर्तिना- वनुग्रहीतारावित्यर्थः । अत एव पारयिष्णुतमौ स्वभक्तैरनुष्ठीयमानं कर्मातिशयेन पारं नेतुं सदोद्युक्तौ। तस्मादयमच्छावाक इन्द्राग्नीदेवताकं शस्त्रं प्रातः सवने शंसेत्। ' इन्द्राग्नी आ गतम्” इत्यादिकं तच्छस्त्रम्। यस्मादिन्द्राग्नी तस्यामच्छावाकतन्वामध्यास्ता' तस्मादैन्द्राग्न- ( १ ) ऋ० ३.१२ । ( २ ) ‘ इन्द्राग्नी आगतं सुतम्' इति आश्व०श्री ० ५.१०.२८ ( ३ ) अध्यास्तम् = अध्यासाताम्। आसेर्व्यत्ययेन परस्मैपदम्;.अधिशीङ् स्थासामिति कर्म-

पृष्ठ 487

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 487 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:पञ्चमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ४२५शस्त्रं तस्य युक्तम्॥ इदानीमच्छावाकस्य सदः प्रवेशे विशेषं विधत्ते— ( अच्छावाकस्य सदःप्रवेशे विशेषः ) तस्मादु पुरस्ताद् अन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाऽच्छावाकः पश्चेव हि हीनोऽनुसंजिगमिषति ॥५ ॥

हिन्दी – ( अब अच्छावाक के सदसस्थान में प्रवेश के विषय में कुछ विशेष का विधान कर रहे हैं — ) तस्मात् इसी कारण अन्ये होत्रका: (अच्छावाक से) अन्य होत्रक पुरस्तात् सदः प्रसर्पन्ति पहले सदस् में प्रवेश करते हैं पश्चा अच्छावाकः तत्पश्चात् अच्छावाक प्रवेश करता है। क्योंकि (लोक में ) हीनः हि हीन ( अशक्त व्यक्ति) पश्चा एव अनुसंजिगमिषति पीछे ही ( अनुगमन करने के लिए) छोड़ दिया जाता है । सा० भा ० — यस्मादच्छावाकव्यतिरिक्ताः प्रशास्तादयो होत्रकाः सहसा गन्तुं शक्नु-वन्ति न त्वच्छावाकः, तस्मात्प्रशास्तादयः पुरस्तात् सदः प्रसर्पेयुः । अच्छावाकस्तु पश्चात् प्रसर्पेत्। लोकेऽपि हि हीनोऽशक्तः पश्चेव हि पश्चादेव हि जिगमिषतीति प्रसिद्धम्। अत्र पुरस्तात् पश्चाछब्दौ देशतः कालतश्चेति वेदितव्यौ॥ अच्छावाकीयशस्त्रं प्रशंसति— ( अच्छावाकीयशस्त्रप्रशंसनम् ) तस्माद् यो ब्राह्मणो बवृचो वीर्यवान् स्यात् सोऽस्याच्छावाकीयां कुर्यात् तेनैव साऽहीना भवति ॥ ६ ॥

हिन्दी – ( अब अच्छावाकीय शस्त्र की प्रशंसा कर रहे हैं — ) तस्मात् इसी कारण यः ब्राह्मणः जो ब्राह्मण बहवृचः वीर्यवान् स्यात्ऋग्वेद का पारंगत और वीर्यवान् (ऋचाओं का शंसन करने में अत्यधिक समर्थ) हो, सः अच्छावाकीयां कुर्यात् वह अच्छावाक शस्त्र का शंसन करे; क्योंकि तेन एव उस ( अच्छावाक शस्त्र के पाठ) से सा वह (उसका शरीर ) अहीना भवति हीन नहीं होता है । सा० भा० — यस्मादिन्द्राग्नी तस्यां तन्वामधिष्ठाय निवसतस्तस्माल्लोके यः कोऽपि ब्राह्मणो बह्वृच ऋग्वेदाध्यायी वीर्यवान् वेदपाठसामर्थ्यातिशयोपेतः स्यात् सोऽस्य यजमानस्याच्छावाकीयां कुर्यादच्छावाकसम्बन्धमैन्द्राग्नशस्त्रं पठेत्। तेनैव पाठेन स तदीयत-नुरहीना व्यवहर्तुं समर्था भवति ॥ संज्ञाभावश्च। यद्वा, अस्तेर्लङ्| स्वामित्वेन भवनमधिभवनम् । इन्द्राग्नी खलु तस्यामधि स्वामित्वेनास्तामभवताम् । अधिरीश्वर इति कर्मप्रवचनीयत्वाद् यस्मादधिकमिति सप्तमी'– इति भट्टभास्करः । ऐ.ब्रा. पू- २७

पृष्ठ 488

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 488 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४२६ ऐतरेयब्राह्मणम् १०.५ द्वितीयपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये ( दशमाध्याये) चतुर्थः खण्डः ॥४॥

॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के चतुर्थ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा ० भा ० — अथाऽऽज्यशस्त्रस्य बहिष्पवमानस्तोत्रोत्तरत्वं प्रउगशस्त्रस्याऽऽज्यस्तो- त्रोत्तरत्वं विधत्ते— ( यज्ञस्य देवरथत्वेन कथनम् ) देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाऽऽज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्य- लोभाय॥ १ ॥

हिन्दी – ( अब आज्यशस्त्र का बहिष्पवमान स्तोत्र के पश्चात् और प्रउगशस्त्र का आज्य स्तोत्र के पश्चात् शंसन का विधान कर रहे हैं- ) यद् यज्ञः जो यज्ञ है एषः देवरथः वै वह देवताओं का रथ है और यद् आज्यप्रउगे जो आज्य और प्रउग ( नामक शस्त्र) हैं एतौ ये दोनों अस्य अन्तरौ रश्मी इस ( यज्ञ) की भीतर (की अश्व को ) बाँधने की रस्सियाँ ( लगाम) है । तत् तो यद् आज्येन पवमानमनु शंसति जो आज्यशस्त्र से पवमान ( सम्बन्धी स्तोत्र ) के बाद शंसन करता है और प्रउगेण आज्यम् आज्य ( शस्त्र) के बाद प्रउग ( नामक शस्त्र) से शंसन करता है। तत् उस ( शंसन) से देवरथस्य देवताओं के रथ (रूपी यज्ञ ) के अन्तरौ रश्मी दोनों भीतर की रश्मियों को अलोभाय व्यामोह-रहितता के लिए विहरति सभाल लेता है। सा० भा ० – यो यज्ञोऽस्त्येष देवानां रथ एव तस्य रथरूपस्य रथस्याऽऽज्यं प्रउगं च यच्छस्त्रद्वयं तदन्तरौ रश्मी अश्वबन्धनरज्जू रथस्योपर्यवस्थितेन सारथिना ध्रियमाणत्वात् तयोरभ्यन्तरत्वम्। यस्मादेवं तस्मात् यद्याज्यशस्त्रेण बहिष्पवमानमनु पश्चाच्छंसेत् प्रउगशस्त्रेण चाऽऽज्यस्तोत्रमनुशंसेत् तदानीं देवरथस्यैव संबन्धिनावभ्यन्तरौ रश्मी प्रग्रहौ विहरति विशेषेण संपादयति। तच्चालोभाय व्यामोहराहित्याय संपद्यते । रश्मिाराहित्ये दुष्टाभ्यामश्वाभ्यां यत्र क्वापि दुर्गमे देशे रथनयने सति रथभङ्गरूपो व्यामोहः स्यात् तन्मा भूदिति शस्त्रद्वयं क्रमेण प्रयोक्तव्यम्॥ लौकिकफलप्रदर्शनेऽत्रैव रश्मिस्थानीयं शस्त्रद्वयं प्रशंसति—

पृष्ठ 489

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 489 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: पञ्चमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४२७ ( रथस्थानीयशस्त्रद्वयप्रशंसनम् ) तामनु कृतिं मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय ॥ २ ॥

हिन्दी- (लौकिक फल- प्रदर्शन द्वारा यहाँ रश्मिस्थानीय दोनों शस्त्रों की प्रशंसा कर रहे हैं— ) ताम् अनुकृतिम् उस ( देवरथरूपी यज्ञ के शस्त्रद्वय रूप लगाम) के अनुकरण से मनुष्यरथस्य मनुष्य के रथ की अन्तरौ रश्मी भीतरी लगाम को अलोभाय व्यामोह-रहितता के लिए विहरन्ति ( सारथी लोग ) सभालते हैं । सा० भा०--तां कृतिं देवरथे शस्त्रद्वयरूपरश्मिकरणमनु पश्चान्मनुष्यरथस्यैवान्तरौ सारथिना ग्रहणयोग्यौ रश्मी प्रग्रहौ विहरन्ति संपादयन्ति। तच्च मनुष्यरथस्यालोभाय संपद्यते । अभग्नो मनुष्यरथो यजमानस्य संभवतीत्यर्थः ॥ वेदनं प्रशंसति— नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद ॥ ३ ॥

हिन्दी –( इस ज्ञान की प्रशंसा कर रहे हैं ) यः एवं वेद जो इस प्रकार जानता है अस्य इस (जानने वाले ) का देवरथः न लुभ्यति देवरथ (रूपी यज्ञ) भ्रमित नहीं होता है और न मनुष्यरथः न तो मनुष्यरथ भ्रमित होता है। इदानीं स्तोत्रशस्त्रयोर्वैयधिकरण्यरूपं चोद्यमुद्भावयति— ( स्तोत्रशस्त्रयोस्तुल्यताया विधानम्) तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं पावमानीषु सामगाः स्तुवत आग्नेयं होताऽऽज्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति ॥४ ॥

हिन्दी – (अब स्तोत्र और शस्त्र में वैयधिकरणत्वरूप प्रश्न को उद्भावित कर रहे हैं— ) तदाहुः इस विषय में (कतिपय ब्रह्मवित्) पूछते हैं कि यथा वाव जिस प्रकार (सामगान करने वालों का) स्तोत्रम् स्तोत्र होता है एवम् इसी प्रकार (ऋग्वेदियों का) शस्त्रम् शस्त्र होना चाहिए। पावमानीषु पवमान देवता वाली (ऋचाओं ) में सामगाः साम का गायन करने वाले ( बहिष्पवमान नामक स्तोत्र से ) स्तुवते स्तुति करते हैं किन्तु होता होता ( नामक ऋत्विक् ) आग्नेयम् आज्यं शंसति अग्नि देवता वाली ऋचा का आज्य (शस्त्र) शंसन करता है, तो कथम् किस प्रकार पावमान्यः पवमान देवता वाली (ऋचाएँ ) अस्य इस (होता) के अनुशस्ताः भवन्ति अनुकूल होती हैं । सा० भा० — तत्तस्मिन्नाज्यशस्त्रे ब्रह्मवादिन आहुश्चोदयन्ति। यथैवं स्तोत्रं समागैरुक्तं तथैव बह्वृचैः शस्त्रं वक्तव्यं ‘ स्तुतमनुशंसतीति' विधानात्। ' अत्र तु सामगा ‘उपास्मै गायता ( १ ) ऐ०ब्रा० २४.४ । ऋग्भिः शंसन्ति, यजुर्भिर्यजन्ति, सामभिः स्तुवन्ति ' इति निरु ० १३.७ । ' स्तुवतेऽथ शंसति' -इति शतं० ब्रा० ८.१.३.३ । ' स्तोत्रमग्रे शस्त्रात्' इति च आश्व० श्री० ५.१०.१।

पृष्ठ 490

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 490 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: • [ ४२८ ऐतरेयब्राह्मणम् १०.५ द्वितीयपञ्चिकायां नरः पवमानाय' इत्यादिषु पावमानीषु पवमानदेवताकास्वृक्षु' बहिष्पवमानाख्येन स्तोत्रेण स्तुवते। बह्वृचस्तु होता ' प्र वो देवायाग्नये इत्यादिकमाज्यशस्त्रं शंसति । तथा सति कथमस्य होतुः पावमान्य ऋचोऽनुशस्ता भवेयुः । न हि पवमानः शस्त्रस्य देवता किं त्वग्निरिति चोद्यम्॥ तस्य परिहारमाह- यो वा अग्निः स पवमानः ॥५ ॥

हिन्दी— ( उस प्रश्न का परिहार कह रहे हैं— ) यः वै अग्निः जो अग्नि है, सः पवमानः वही पवमान है । सा ० भा ० — अग्निपवमानदेवतायोः परस्परप्रीत्याऽभेदादाग्नेयमपि सूक्तं पावमान- मिति वक्तुं शक्यते। तेन पावमान्योऽनुशस्ताः संपद्यन्ते। अग्निपवमानयोरेकत्वे कंचिन्मन्त्रमुदाहरति— तदप्येतदृषिणोक्तम् ' अग्निर्ऋषिः पवमानः१३' ३ इति ॥ ६ ॥

हिन्दी—(अग्नि और पवमान की एकता के विषय में ऋचा को उदाहरित कर रहे हैं— ) तदपि उसी ( कथन) को एतद्ऋषिणा उक्तम् यह ऋषि द्वारा कहा गया है- ' अग्निः ऋषिः पवमानः ' अर्थात् जो अग्नि है, वही पवमान वायु है। सा ० भा० - ऋषिरतीन्द्रियद्रष्टा। योऽयमग्निः स एव पवमानो वायुः । प्रीत्यति- शयेनैकत्वप्रतिभासात्। यद्वा, शोधकत्वादग्निरेव पवमान इति मन्त्रार्थः । परिहारमुपपाद्य निगमयति— एवमु हास्याऽऽग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति ॥७॥

हिन्दी—( परिहार को उपपादित करके उसका निगमन कर रहे हैं - ) एवमु ह इस प्रकार ही आग्नेयीभिः अग्नि देवता वाली ऋचाओं से प्रतिपद्यमानस्य आरम्भ होने वाला अस्य इस ( होता ) का ( आज्यशस्त्र) पावमान्यः (बहिष्पवमानगत ) पवमान देवता वाली (ऋचाओं) के अनुशस्ताः भवन्ति अनुकूल होते हैं। सा ० भा ० — अग्निदेवताकाभिः सूक्तगताभिर्ऋग्भिः शस्त्रं प्रारभमाणस्य होतुर्बहि- ष्पवमानस्तोत्रगताः पवमानदेवताका ऋचोऽनुशस्तौ भवन्ति ॥ देवताप्रयुक्तं वैयधिकरण्यं परिहृत्य च्छन्दःप्रयुक्तं वैयधिकरण्यरूपं वोद्यं पूर्ववद्

(( २१ )) ऋउ००आ३.१३.१-७० १.१.१ ।३ १ (९३ )(ऋऋ०० ९९.११.१.६६.२०) ॥