ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 501–510
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 501–510
पृष्ठ 501
पाठ पढ़ें पाठ छिपाएँ
:: ]: पञ्चमोऽध्यायः सप्तम खण्ड सायणाचार्यकृतभाष्योपेतम् ४३ ९ स इदं शंसिष्यति' अर्थात् प्रजापति इसके शंसन करने के लिए कामना करता है अतः वह ही इसके शंसन की कामना करता है— इत्याह इस (षष्ठभाग का) शंसन करता है। प्रजापतिः वै कः ( यहाँ ) कः प्रजापति का वाचक है। प्रजापतिः प्रजनयष्यिति प्रजापति ( यजमान को ) उत्पन्न करेगा' - इति एव तदाह यही यहाँ कहा गया है । सा० भा० — कः प्रजापतिरिदं शस्त्रं शंसिष्यति शंसितुमिच्छति । अतः स एवेदं शंसिष्यति, तमिममन्तिमभागं ब्रूयात्। अत्र कशब्देन प्रजापतिरुक्तत्वात् स एव यजमान- मुत्पादयिष्यतीत्यनेनैव प्रकारेण तन्मन्त्रवाक्यं ब्रूते॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये ( दशमाध्याये ) षष्ठः खण्डः ॥ ६ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । J अथ सप्तमः खण्डः सा ० भा ० – आहावात् पूर्वकालीनं जपमुक्त्वोत्तरकालीनं तूष्णीशंसं विधत्ते— ( आहावादुत्तरकालीनं तूष्णीशंसविधानम् ) आहूय तूष्णींशंसं शंसति, रेतस्तत्सिक्तं विकरोति सिक्तिर्वा अग्रेऽथ विकृतिः ॥ १ ॥
हिन्दी -( आहाव के पूर्व में किये जाने वाले जप को कहकर उसके उत्तरकालीन तूष्णीशंस का विधान कर रहे हैं - ) आहूय ' शोसावोम्' मन्त्र से अध्वर्यु को आहूत करके तूष्णीशंसं शंसति तूष्णीशंस का शंसन करता है। तत् इस ( शंसन) से सिक्तं रेतः सिञ्चित वीर्य को विकरोति ( पिण्ड रूप आकार में ) विकार उत्पन्न करता है। ( लोक में ) अग्रे सिक्तिः वै पहले ( वीर्य का ) सेचन होता है अथ विकृतिः इसके बाद विकार (उत्पन्न होता है) । सा ० भा ० – शोसावोमिति मन्त्रेणाध्वर्युमुपहूय पश्चात्तूष्णीशंसं पठेत्। तथा सति होतृजपेन सिक्त रेतोऽऽनेन विकरोति पिण्डाद्याकारविकारं रेतसि जनयति। सेकः पूर्वभावी विकारः पञ्चाद्भावीति युक्तोऽयं क्रमः । शंसनकाले ध्वनिराहित्यं विधत्ते- ( तूष्णीशंसशंसनविधानम् ) उपांशु तूष्णीशंसं शंसत्युपांश्विव वै रेतसः सिक्तिः ॥२ ॥
पृष्ठ 502
पाठ पढ़ें पाठ छिपाएँ
: [४४० ऐतरेयब्राह्मणम् १०.७ द्वितीयपञ्चिकायां हिन्दी—( शंसन के समय ध्वनि होने का निषेध कर रहे हैं— ) उपांशु तूष्णीशंसं शंसति तूष्णीशंस का उपांशु ( मौन) ही शंसन करता है; क्योंकि (लोक में ) रेतसः सिक्तिः वीर्य का सेचन उपांशु इव अश्रवणीय के समान होता है ।
सा० भा०--परैर्ध्वनेरश्रवणादपठितसदृशं भवतीत्यस्य तूष्णीशंस इति नामधेयम्।
तस्मात् तदनुसारेणोपांशूच्चारयेत् । रेतःसेकोऽप्युपांशुसदृशः, रहसि क्रियमाणत्वात्॥
उपांशुत्वेन होतृजपसाम्यप्रसक्तौ वैषम्यं विधत्ते— तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते ॥ ३ ॥
हिन्दी -( उपांशु रूप में होतृ जप से समानता की प्राप्ति होने के कारण दोनों में भेद दिखला रहे हैं— ) तिरः इव तूष्णीशंसं शंसति छिपे हुए के समान तूष्णीशंस का शंसन करता हैं; क्योंकि तिरः इव रेतांसि विक्रियन्ते छिपे हुए•के समान (गुप्त रूप से ) ही वीर्य में विकार करते है । सा० भा ० — यथा कुड्यगृहादिव्यवहितमन्यैरधीयमानं वाक्यमीषत् प्रतीयते, न तु स्पष्टम्, तद्वत् तूष्णींशंसोऽप्यस्पष्टो यथा भवति तथा शंसेत्। तदिदं तिर इवेत्युच्यते । होतृजपादीषदुच्चैरित्यर्थः॥ तूष्णींशंसस्येयत्तां विधत्ते— ( तूष्णीशंस्येयत्ताविधानम् ) षट्पदं तूष्णीशंसं शंसति, षड्विधो वै पुरुषः षळङ्ग आत्मानमेव तत्षड्विधं षळङ्गं विकरोति ॥४ ॥
हिन्दी –( तूष्णीशंस की इयत्ता का विधान कर रहे हैं - ) षट्पदं तूष्णीशंसं शंसति छः पदों के अवसान पर तूष्णीशंस का शंसन करता है क्योंकि षड्विधः पुरुषः पुरुष छ: प्रकार ( के अङ्गों) वाला होता है। षडङ्गः आत्मानम् इस प्रकार अपने को छः अङ्गो वाला करता है । तत् उस ( शंसन ) से षड्विधं षडङ्गं विकरोति ( यजमान के शरीर को ) छः प्रकार वाले छ: अङ्गों से युक्त करके प्रवृद्ध करता है । सा० भा०--षट्पदं षड्भागम्। भूरग्निज्योंतिरित्येको भागो ज्योतिरग्निरिति द्वितीयो भागः । एवमुत्तरत्रापि द्रष्टव्यम्। तथाविधशंसने पुरुषसाम्यं भवति। पुरुषस्य षड्विधत्वमेव षळङ्ग इत्यनेन स्पष्टीक्रियते । पुरुषावयवषट्कं शाखान्तरे दर्शितम् –'षोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यङ्गानि ' ' इति। द्वौ हस्तौ द्वौ पादावित्यङ्गचतुष्टयम्। आत्मशब्दो मध्य- देहवाची । भागत्रयोपेते तूष्णीशंसे तत्तद्भागमध्येष्ववसाने षड्भागत्वं भवति । आश्वलायन आह— ‘ भूरग्निज्र्ज्योतिर्ज्योतिरग्नों इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रों सूर्यो ज्योतिज्योंतिः स्वः ( १ ) तै ० सं० ५.२.९.१ ।
पृष्ठ 503
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४४१ सूर्योमिति त्रिपदस्तूष्णीशंसो यद्यु वै षट्पदः पूर्वैज्योंतिः शब्दैरग्नेऽवस्येत् ” इति । अतः षट्पदेन तूष्णीशंसेन यजमानस्य शरीरमेव षडङ्गोपेतं कृत्वा विकरोति॥ एतदनन्तरं निविदो विधत्ते—. ( तदनन्तरं पुरोरुक्शंसऩविधानम्) तूष्णीशंसं शस्त्वा पुरोरुचं शंसति, रेतस्तद्विकृतं प्रजनयति विकृतिर्वा अग्रेऽथ जातिः ॥५ ॥
हिन्दी—(इसके बाद निवित् का विधान कर रहे हैं - ) तूष्णीशंसं शस्त्वा तूष्णीशंस का शंसन करके (होता) पुरोरुचं शंसति पुरोरुक् ‘प्रवो देवाय' इस सूक्त के सम्मुख दीप्तियुक्त निवित् का शंसन करता है। तत् इस ( शंसन) से रेतः द्विकृतं प्रजनयति (षडङ्ग विकार वाले ) वीर्य को दूसरी बार ( शरीर के रूप में ) उत्पन्न करता है । विकृतिः वै अग्रे ( वीर्य का ) विकार तो पहले ही होता है अथ जातिः इसके बाद उत्पत्ति होती है । सा० भा०--‘प्र वो देवाय' इत्यादिसूक्तात् पुरतो दीप्यते रोचत इति पुरोरुक्शब्देन निविदुच्यते। तां तूष्णीशंसादूर्ध्वं पठेत्। तेनोर्ध्वपाठेन षडङ्गतया विकृतं रेतः शरीररूपेणो- त्पादितं भवति । विकारः पूर्वभावी, जन्म पश्चाद्भावि। तस्मात् तदानन्तर्यं निविदो युक्तम्॥ होतृजपगतं यदुपांशुत्वं तूष्णींशंसगतं च यदीषदुच्चध्वनित्वं तस्मादुभयस्माद् वैलक्षण्यं निविदो विधत्ते— ( पुरोरुच उच्चैः शंसनम् ) उच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति ॥ ६ ॥
हिन्दी—( निवित् के उच्चारण में होतृजप और तूष्णींशंस की अपेक्षा कुछ विलक्षणता का विधान कर रहे हैं— ) उच्चैः पुरोरुचं शंसति ऊँची ध्वनि से पुरोरुक् ( निवित्) का शंसन करता है । तत् इस (ऊँची ध्वनि से शंसन करने ) से उच्चैः एव एनं प्रजनयति इस (यजमान) को उच्च स्वर से उत्पन्न करता है। सा ० भा० — उत्पादनकाले प्रसववेदनया तन्मातोच्चैर्ध्वनि करोति। तदिदमुच्चैः प्रजनयतीत्युच्यते॥ निविदां न्यूनाधिकभागशङ्काव्युदासाय संख्यां विधत्ते— ( निविदं संख्याविधानम्) द्वादशपदां पुरोरुचं शंसति, द्वादश वै मासाः संवत्सरः, संवत्सरः ( १ ) आश्व०श्री ० ५.९.११। ऐ.ब्रा. पू- २८
पृष्ठ 504
पाठ पढ़ें पाठ छिपाएँ
: [४४२ ऐतरेयब्राह्मणम् १०.७ द्वितीयपञ्चिकायां प्रजापतिः, सोऽस्य सर्वस्य प्रजनयिता, स योऽस्य सर्वस्य प्रजनयिता, स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै ॥७ ॥
हिन्दी -( निविदों की कम और अधिक पदों की संख्या के परिहार के लिए उसकी संख्या का विधान कर रहे हैं- ) द्वादश पदां पुरोरुचं शंसति बारह पदों वाले पुरोरुक् निवित् का शंसन करता है; क्योंकि द्वादश मासा वै संवत्सरः संवत्सर बारह महीनों वाला ही होता है और संवत्सरः प्रजापतिः संवत्सर प्रजापतिरूप है। सः अस्य सर्वस्य प्रजनयिता वह ( संवत्सर रूप प्रजापति) इस सम्पूर्ण (जगत्) को उत्पन्न करने वाला है। सः यः अस्य सर्वस्य प्रजनयिता वह जो इस सम्पूर्ण (जगत्) को उत्पन्न करने वाला है, तत् इस ( शंसन) से सः एव वही (प्रजापति) प्रजात्यै प्रजनन के लिए एनम् इस ( यजमान) को प्रजया पशुभिः प्रजनयति प्रजा और पशुओं के साथ उत्पन्न करता है। सा० भा ० - निविदो द्वादश भागाः पूर्वमेव तद्व्याख्याने विवेचिताः । अतो माससंख्यासाम्यात् माससंवत्सरद्वारा सर्वस्य जगत उत्पादकत्वेन प्रसिद्धः प्रजापतिरेवेयं पुरोरुग्भवति। तादृश्याः पाठे सति प्रसिद्धः सर्वस्योत्पादको यः प्रजापतिरस्ति स एवैनं
यजमानं प्रजापशुसहितं प्रजनयति । तस्मादेतच्छंसनं प्रजात्यै संपद्यते ॥
वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥८ ॥
हिन्दी –( इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है, वह प्रजया पशुभिः प्रजायते प्रजा और पशुओं के साथ प्रवृद्ध होता है । देवताद्वारा पुरोरुचं प्रशंसति— जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गाम् ॥ ९ ॥
हिन्दी - (देवता द्वारा पुरोरुक् निवित् की प्रशंसा कर रहे हैं - ) जातवेदस्यां पुरोरुचं शंसति जातवेद देवता वाले पुरोरुक् (निवित् ) का शंसन करता है, ( क्योंकि ) जातवेदोन्यङ्गाम् अन्तिम भाग में जातवेद रूप चिह्न है। सा० भा ० — जातवेदा देवता यस्याः पुरोरुचः सा जातवेदस्या। जातवेदःशब्दरूपं न्यङ्गं नितरामङ्गं चिह्नं यस्याः पुरोरुचः सा जातवेदोन्यङ्गा। तस्याः पुरोरुचोऽन्तिमे भागे ‘सो अध्वरा करति जातवेदाः ' इति जातवेदः शब्दः पठ्यते ॥ उक्तमर्थमाक्षिपति— तदाहुर्यत् तृतीयसवनमेव जातवेदस आयतनम् अथ कस्मात् प्रातः- सवने जातवेदस्यां पुरोरुचं शंसतीति ॥ १० ॥
पृष्ठ 505
पाठ पढ़ें पाठ छिपाएँ
]:पञ्चमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४४३ हिन्दी - ( पूर्वोक्त अर्थ पर आक्षेप को दिखला रहे हैं— ) तदाहुः इस विषय में (कुछ वेदवेत्ता ) आक्षेप कहते है कि तृतीयसवनमेव जातवेदसः आयतनम् तृतीयसवन ही जातवेदस का स्थान है। अथ कस्मात् तो किस कारण प्रातः सवने जातवेदस्यां पुरोरुचं शंसति प्रातःसवन में जातवेदस् देवता वाले पुरोरुक् (निवित् ) का शंसन करता है? सा० भा० - तृतीयसवनस्य जातवेदसं प्रत्यायतनत्वमाग्निमारुतशस्त्रे देवत्वादव-गन्तव्यम्। तथा च संप्रदायविद' आहुः - "जातवेदास्तु देवोऽयं वर्तत आग्निमारुते ” इति। यस्मादेवं तस्मात् प्रातःसवने जातवेदस्यायाः शंसने कारणं नास्तीत्याक्षैपं तद्वादिन आहुः ॥ तस्य परिहारं दर्शयति- प्राणो वै जातवेदाः, स हि जातानां वेद, यावतां वै स जातानां वेद ते भवन्ति येषामु न वेद किमु ते स्युर्यो वा आज्य आत्मसंस्कृति वेद तत्सुविदितम् ॥ ११ ॥
हिन्दी–( पूर्वोक्त आक्षेप का परिहार दिखला रहे हैं - ) प्राणो वै जातवेदाः जातवेद प्राणरूप है; क्योंकि सः हि जातानां वेद वह (प्राण) उत्पन्न हुए ( सभी शरीरों ) का जानता है । सः वह (प्राण) यावतां जातानां वेद जितने उत्पन्न शरीरों को जानता है, भवन्ति वे ही सत्ता में होते हैं । येषामु न वेद जिनको ( वह ) नहीं जानता किमु ते स्युः वे कैसे विद्यमान हो सकते है (अर्थात् विद्यमान नहीं हो सकते) । यः आज्ये आत्म- संस्कृतिं वेद जो ( यजमान ) आज्यशस्त्र में आत्मसंस्कृति को जानता है तत्सुविदितम् वही ( यजमान) सुष्ठु ज्ञान वाला है । सा० भा ० – अत्र जातवेदः शब्देन प्राण एवाभिधीयते न त्वग्निः । अत एवान्तिम- भागव्याख्याने 'वायुर्वै जातवेदा ' इत्याम्नातम्। यस्मात् स प्राणो जातानामुत्पन्नानां शरीराणां स्वरूपं वेद जानाति लभत इत्यर्थः । तस्मात् प्राणस्य जातवेदा इति नामधेयम्। एवं सति प्राणो यावतामुत्पन्नानां शरीराणां स्वरूपं वेद लभते ते देहा भवन्ति सत्तां भजन्ते । येषां तु देहानां स्वरूपं प्राणो न वेद न लभते ते देहाः किमु स्युः किमु विद्यमानतां भजेयुर्न भजेयुरित्यर्थः । एवं सति जातवेदोनामकस्य प्राणस्य प्रतिपादिकायाः पुरोरुचोऽन्तःपाठे यजमानो लब्धप्राणः सन् विद्यमानो भवति । अन्यथाऽयमसत् कल्पः स्यात्। एवमुक्तप्रकारेण यो यजमान आज्यशस्त्रे पुनर्जन्मस्वरूपां संस्कृतिं वेद तत् तस्य यजमानस्य सुविदितं सम्यग्ज्ञानमुत्पन्नम्। अनेन होतृजपमित्यारभ्य प्रोक्ते प्रघट्टकेऽवस्थितस्यार्थवादस्य सर्वस्या- प्युपसंहारो जातः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये द्वितीयपञ्चिकायाः चतुर्थाध्याये (दशमाध्याये ) सप्तम: खण्ड: ॥ ७॥
( १ ) षड्गुरुशिष्यस्य श्लोकोऽयम्।
पृष्ठ 506
पाठ पढ़ें पाठ छिपाएँ
: [४४४ ऐतरेयब्राह्मणम् १०.८ द्वितीयपञ्चिकायां ॥ इस प्रकार ऐतरेयब्राह्मण के दशम अध्याय के सप्तम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । अथाष्टमः खण्डः सा० भा ० — अथ सूक्तगतां प्रथमामृचं विधत्ते— ( आज्यशस्त्रविधानम् ) ( तत्र सूक्तगतानामृचां प्रतीकनिर्देशपूर्वकाध्यात्मिकव्याख्यानम् ) प्र वो देवायाग्नय इति शंसति, प्राणो वै प्र, प्राणं हीमानि सर्वाणि भूतान्यनु प्रयन्ति, प्राणमेव तत्संभावयति प्राणं संस्कुरुते ॥ १ ॥
हिन्दी -( अब सूक्तगत प्रथम ऋचा का विधान कर रहे हैं — ) 'प्र वो देवायाग्नये अर्थात् ( हे होता)! अग्नि देव के लिए ( स्तुति करो ) ' इति शंसति इस (ऋचा ) का शंसन करता है । प्राणो वै प्र (इस ऋचा में) प्र ( शब्द ) प्राणरूप है; क्योंकि इमानि सर्वाणि भूतानि हि ये सभी प्राणी जगत् प्राणमनु प्रयन्ति प्राण का अनुगमन करते हैं। तत् इस ( शंसन ) से प्राणमेव सम्भावयति ( यजमान में) प्राण की सृष्टि करता है और प्राणं संस्कुरुते प्राण को संस्कारित करता है । सा० भा ० — अस्याः प्रथमाया ऋच आदौ प्रेतिशब्दः श्रूयते स प्राणस्वरूपः । नाम्न आद्यक्षरसाम्यात्। हि यस्मात्कारणात् सर्वाणीमानि भूतानि जीवजातानि प्राणमनु प्रयन्ति। प्राणः प्रथमतो गच्छति, तमनु पश्चाद् देहाः प्रयन्ति, प्राणप्रेरणादूर्ध्वं देहानां चलनात्। तत्तथा सति प्रशब्दप्रयुक्ताया ऋचः शंसनेन प्राणं संभावयति सभावितं पूजितं करोति। अनया पूजया प्राणः संस्कृतः सन् स्वव्यापारसमर्थो भवति। तस्मात् 'प्र वो देवाय' इत्येषा शंसनीया ॥ द्वितीयामृचं विधत्ते— ' दीदिवांसमपूर्व्यम्' इति शंसति मनो वै दीदाय, मनसो हि न किञ्चन पूर्वमस्ति, मन एव तत्संभावयति मनः संस्कुरुते ॥ २ ॥
हिन्दी -( अध्ययन क्रम से पञ्चमी ऋचा का द्वितीय ऋचा के रूप में शंसन का विधान कर रहे हैं— ) ‘ दीदिवांसमपूर्व्यम्' अर्थात् जिससे पूर्व कोई दीप्तिमान नहीं हुआ उसको’ - इति शंसति (होता) इस ऋचा का शंसन करता है। मनो वै दीदाय मन ही दीप्तिसम्पन्न है; क्योंकि मनसा पूर्वं हि मन से पहले पूर्वं किञ्चन न अस्ति कोई भी ( सङ्कल्प) नहीं होता । तत् इस (ऋचा के शंसन ) से मनः एव सम्भावति मन को ही उत्पन्न ( १ ) ऋ० ३.१३.१ ।
पृष्ठ 507
पाठ पढ़ें पाठ छिपाएँ
] `:पञ्चमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४४५ करता है और मनः संस्कुरुते मन को संस्कारित करता है। सा० भा०--यद्यप्यध्ययनक्रमेणेयमृक्पञ्चमो तथाऽपि द्वितीयात्वेन प्रयोक्तव्या । ब्राह्मणक्रमस्यानुष्ठानार्थत्वात् । दीदिवांसं दीप्तियुक्तमपूर्व्यमस्मादन्येन पूर्वेण रहितमित्येताभ्यां मन्त्रपदाभ्यां मनोऽभिधीयते । तच्च मनः सर्वार्थप्रकाशकत्वाद् दीदाय दीप्तियुक्तं भवति। तथा मनसोऽपि न किञ्चिदपीन्द्रियं व्यापारवन्नास्ति, मनसा सङ्कल्पितेष्वर्थेषु पश्चाद् वागादीन्द्रियाणां व्याप्रियमाणत्वात्। अत एवारण्यकाण्डे वक्ष्यति – 'मनसा वाऽग्रे संकल्पयत्यथ वाचा व्याहरति’ ” इति। अतो दीदिवांसमपूर्व्यमिति पदद्वयार्थस्य मनसि विद्यमानत्वात् तच्छंसनेन मनसः संभावनासंस्कारौ संपद्येते। अत्रारध्ययनक्रमादन्यमनुष्ठानक्रममभिप्रेत्य आश्वलायन आह — ‘ अनुब्राह्मणं वाऽऽनुपूर्व्यम्' ' इति ॥ अध्ययनक्रमेण* चतुर्थीमनुष्ठानाय तृतीयात्वेन विधत्ते— ' स नः शर्मणि वीतयें' इति शंसति, वाग् वै शर्म, तस्माद् वाचाऽनुवदन्तमाह शर्मवदास्मा आयांसीति, वाचमेव तत्संभावयति वाचं संस्कुरुते ॥ ३ ॥
हिन्दी -( अध्ययन के क्रम में चतुर्थी ऋचा का शंसन तृतीय ऋचा के स्थान पर करने का विधान कर रहे हैं - ) 'सः नः शर्मणि वीतये ' अर्थात् 'वह अग्नि (हमारी ) कामना के लिए सुख प्रदान करे' - इति शंसति इस (चतुर्थी ऋचा ) का शंसन करता है । वाग् वै शर्म वाणी ही शर्म है। तस्मात् इसी कारण वाचा अनुवदन्तम् आह वाणी से ( दूसरे के कथन को) दुहराते हुए कहता है कि शर्मवद् अस्मै आयांसि इसके लिए सुख - सम्पन्न (जीवन ) मैंने दिया है। तत् इस ऋचा (के शंसन ) से वाचमेव सम्भावयति वाणी को ही उत्पन्न करता है और वाचं संस्कुरुते वाणी कों संस्कारित करता है । सा० भा ० - सोऽग्निर्नोऽस्माकं वीतये कामाय शर्माणि सुखानि यच्छत्विति मन्त्रपादस्यार्थः । अत्र शर्मशब्देन वागेव विवक्षिता। यस्मादेवं तस्माल्लोके स्वगुरुक्तमर्थं स्ववाचा सम्यगनुवदन्तं पुरुषमितरः प्रामाणिक एवमाह। अस्मै गुरुक्तार्थस्य सम्यगनुवादिने शिष्याय शर्मवत् सुखयुक्तं जीवनं संपन्नं यस्मात् तस्माद्धेशिष्याऽऽयांसि समन्ततो नियतोऽ-स्मि । आङ्पूर्वस्य ' यम उपरमे ' इत्यस्य धातोश्छान्दसं रूपम्। आस्मा इत्यकारश्च च्छान्दसः । इत्येवं वाङ्नियमितस्य सुखस्य लौकिकेनोच्यमानत्वान् मन्त्रोक्तशर्मशब्देन वाग्विवक्षोप-पन्ना॥ तस्मन्त्रपाठेन वाच: संभावनासंस्कारौ भवतः ॥ चतुर्थीत्वेन विधत्ते— ( ) अध्ययनक्रमेण' षष्ठीमृचमनुष्ठानाय( ); १ ऋ० ३.१३.५। २ द्र० तै ० सं० २.२.११.५ ५.१.३.३ ६.१.७.३(३ ) आश्व ० श्री० ५.९.१३ । (४ ) ऋ ० ३.१३.४ ।( ) 133 ५ ऋ० ३.१३.६ ।
पृष्ठ 508
पाठ पढ़ें पाठ छिपाएँ
: [४४६ ऐतरेयब्राह्मणम् १०.८ द्वितीयपञ्चिकायां 'उत नो ब्रह्मन्नविष' इति शंसति, श्रोत्रं वै ब्रह्म, श्रोत्रेण हि ब्रह्म शृणोति, श्रोत्रे ब्रह्म प्रतिष्ठितं, श्रोत्रमेव तत्संभावयति, श्रोत्रं संस्कुरुते ॥ ४ ॥
हिन्दी— ( अध्ययन के क्रम से षष्ठी ऋचा का चतुर्थी ऋचा के रूप में शंसन करता है— ) ‘ उत नो ब्रह्मन्नविष ' अर्थात्' हे ब्राह्मणरूप (अग्नि)! भी हमारी रक्षा करो' – इति शंसति इस ( षष्ठी ऋचा का चतुर्थी ऋचा के रूप में) शंसन करता है । श्रोत्रं वै ब्रह्म श्रोत्र ही ब्रह्म है; क्योंकि श्रोत्रेण हि ब्रह्म शृणोति श्रोत्र से ही ब्रह्म ( वेद) को सुनता है अतः श्रोत्रे एवं ब्रह्म प्रतिष्ठितम् श्रोत्र में ही वेद प्रतिष्ठित रहता है । तत् इस (ऋचा के शंसन) से श्रोत्रमेव सम्भावयति श्रोत्र को ही उत्पन्न करता है और श्रोत्रं संस्कुरुते श्रोत्र को संस्कृत करता है । सा० भा ० — उतापि च हे ब्रह्मन् देवेषु ब्राह्मणरूपाग्ने नोऽस्मानविषो रक्षसि । अस्मिन् मन्त्रे ब्रह्मशब्देन श्रोत्रमुपलक्ष्य श्रोत्रेण हि ब्रह्म वेदं पुरुषः शृणोति। श्रोत्रेऽवगतं ब्रह्म वेद- वाक्यं प्रतिष्ठितं कदाचिदप्यविस्मृतं भवति। तस्मात् तन्मन्त्रपाठेन श्रोत्रस्य संभावना- संस्कारौ भवतः ॥ अध्ययनक्रमेण' तृतीयामृचमनुष्ठानाय पञ्चमीत्वेन विधत्ते— 'सयन्ता विप्र एषाम्' इति शंसत्यपानो वै यन्ताऽपानेन ह्ययं यतः प्राणो न पराङ्भवत्यपानमेव तत्संभावयत्यपानं संस्कुरुते ॥५ ॥
हिन्दी — ( अध्ययन के क्रम से तृतीय ऋचा का पञ्चमे ऋचा के रूप में शंसन करने का विधान कर रहे हैं— ) स यन्ता विप्र एषाम् अर्थात् वह ( देवों में ) ब्राह्मण (अग्नि) (मनुष्यों में ब्राह्मणों का ) नियमन करने वाला है— इति शंसति इस ( तृतीया ऋचा) का (पञ्चमी ऋचा के रूप में) शंसन करता है। अपानः वै यन्ता अपान ही नियमन करने वाला है क्योंकि अपानेन हि अपान द्वारा ही अयं प्राणः (नियमित) यह प्राण न पराङ् भवति पुनः नही लौटता है। तत् इस (ऋचा के शंसन) से अपानमेव सम्भावयति अपान को ही उत्पन्न करता है और अपानं संस्कुरुते अपान को संस्कारित करता है। सा० भा ० – सोऽग्निर्विप्रो देवेषु ब्राह्मणः सन्नेषां मनुष्यविप्राणां यन्ता नियमनकर्ता। अस्मिन् मन्त्रे यन्तुशब्देनापानवायुरुपलक्ष्यते। निःश्वासरूपेणापानेन यतो नियमितः प्राणवायुः पराङ्भवति परं बाह्यं ूरदेशमञ्चति गच्छतीति पराङ्। यद्ययं बहिर्मुख उच्छ्वासरूपः प्राणवायुरपानवायुना न नियम्येत तदा बहिरेव गच्छेन्न पुनर्निवर्तेत । ततः पुरुषो म्रियेतातोऽपानस्य नियन्तृत्वं युक्तम्। एतन्मन्त्रपाठेनापानवायोः संभावनासंस्कारौ भवतः ॥ ( १ ) ऋ० १.१३.३ ।
पृष्ठ 509
पाठ पढ़ें पाठ छिपाएँ
]: पञ्चमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४४७ अध्ययनक्रमेण' द्वितीयामृचं षष्ठीत्वेनानुष्ठानाय विधत्ते— 'ऋतावा यस्य रोदसी' इति शंसति, चक्षुर्वा ऋतं, तस्माद् यतरो विवदमानयोराहाहमनुष्ठ्या चंक्षुषाऽदर्शमिति तस्य श्रद्दधति, चक्षुरेव तत्संभावयति चक्षुः संस्कुरुते ॥ ६ ॥
हिन्दी– ( अध्ययन क्रम से द्वितीय ऋचा का षष्ठी ऋचा के रूप में शंसन का विधान कर रहे हैं — ) 'ऋतावा यस्य रोदसी अर्थात्जिस ( अग्नि ) के वश में द्यावापृथिवी है-इति शंसति इस ( द्वितीया ऋचा का षष्ठी के रूप में) शंसन करता है। चक्षुः वै ऋतम् चक्षु ही ऋत है । तस्मात् इसी कारण विवदमानयोः विवाद करते हुए दो व्यक्तियों में यतरः आह एक व्यक्ति कहता है कि ' अहम् अनुष्ट्या चक्षुषा अदर्शम् मैने प्रयत्न द्वारा (अपनी ) आँख से देखा है' इति तस्य श्रद्धधति तो ( लोग) उसके ( कंथन में) श्रद्धा (विश्वास ) रखते हैं । तत् (इस द्वितीय ऋचा के षष्ठी के रूप में शंसन करने ) से चक्षुरेव सम्भावति चक्षु को ही उत्पन्न करता है और चक्षुः संस्कुरुते चक्षु को ही संस्कारित करता है । सा ० भा ० - रोदसी द्यावापृथिव्यौ यस्यार्ऋतावा सत्यवत्यौ । अस्मिन् मन्त्रगतऋत- शब्देन चक्षुरुपलक्ष्यते । यस्मादेवं तस्माल्लोके विवदमानयोः पुरुषयोर्मध्ये यतरः पुमानेवमाह। कथमिति, तदुच्यते— अहमनुष्ठ्याऽनुष्ठित्या प्रयत्नेन चक्षुषाऽदर्शं दृष्टवानस्मीति। तस्य श्रद्दधति तदीयवचनं सर्वे विश्वसन्ति। दूरस्थे चूतवृक्षे फलमस्ति न वेति निश्चेतुं राजा द्वौ पुरुषौ प्रेषयति। तयोरलसः कश्चिदापाततो दृष्ट्वा नास्तीति ब्रूते । अपरस्तु तत्र प्रयत्नेन दृष्ट्वा यन्त्र क्वापि पर्णेनाऽऽच्छन्नं फलं सम्यग् दृष्टवानस्मीति ब्रूते । तस्य वचने सर्वेषां विश्वासो जायते । तस्मात् सम्यग्दर्शिनश्चक्षुष ऋतत्वं युक्तम्। एतन्मन्त्रपाठेन चक्षुषः संभावना- संस्कारौ भवतः ॥ अध्ययनक्रमेणानुष्ठानक्रमेण च सप्तम्या शस्त्रसमाप्तिं विधत्ते— 'नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद् वसु' इत्युत्तमया परिदधा- त्यात्मा वै समस्तः सहस्रवांस्तोकवान् पुष्टिमानात्मानमेव तत्समस्तं संभावयत्यात्मानं समस्तं संसकुरुते ॥७ ॥
हिन्दी - ( अध्ययन क्रम और अनुष्ठान क्रम से सप्तमी ऋचा से शस्त्र की समाप्ति का विधान कर रहे हैं— ) 'नू नो रास्व सहस्रवत् लोकवत् पुष्टिमद् वसु' अर्थात्(हे अग्ने )! सहस्र संख्या वाले सन्तान से सम्पन्न और समृद्धि युक्त धन को शीघ्र प्रदान करों - इति उत्तमया( ) परिदधाति इस ( सूक्त (की)) अन्तिम (ऋचा) से ( आज्यशस्त्र ) को समाप्त करता १ ऋ० ३.१३.२। २ ऋ० ३.१३.७।
पृष्ठ 510
पाठ पढ़ें पाठ छिपाएँ
: [४४८ ऐतरेयब्राह्मणम् १०.८ द्वितीयपञ्चिकायां है। आत्मा वै समस्तः सहस्रवान् तोकवान् पुष्टिमान् समस्त आत्मा ही सहस्र संख्या से युक्त, सन्तान- सम्पन्न और समृद्धि- सम्पन्न धन से युक्त है । तत् इस (ऋचा द्वारा आज्य- शस्त्र के समापन) से आत्मानमेव समस्तं सम्भवति सम्पूर्ण आत्मा को उत्पन्न करता है और आत्मानं समस्तं संस्कुरुते और समस्त आत्मा को संस्कारित करता है । सा० भा० — यद् वसु धनं सहस्रवत् सहस्रसंख्योपेतं तोकवदपत्योपेतं पुष्टिमत् समृद्धियुक्तमस्ति तादृशं धनं नोऽस्मभ्यं नु क्षिप्रमेव रास्व हेऽग्ने देहि। अनयाऽन्तिमयाऽऽज्य- शस्त्रं समापयेत्। अत्र समस्तः पूर्वोक्तः प्राणमनोवागादिभिः सर्वैरिन्द्रियैः संपूर्ण आत्मा वै पुरुष एव सहस्रसंख्योपेतधनयुक्तो बहुभिरपत्यैरुपेतः समृद्धियुक्तश्च विवक्षितः । अतस्त-त्पाठेन तादृशस्य पुरुषस्यैव संभावनासंस्कारौ भवतः ॥ शस्त्रस्यान्ते याज्यां विधत्ते— याज्यया यजति, प्रत्तिर्वै याज्या, पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मी संभावयति पुण्यां लक्ष्मीं संस्कुरुते ॥ ८ ॥
हिन्दी – ( आज्यशस्त्र के अन्त में याज्या का विधान कर रहे हैं— ) याज्यया यजति ( पूर्वोक्त ) याज्या से यजन करता है। प्रत्तिः वै याज्या प्रदानरूप ही याज्या है और पुण्यः इव लक्ष्मीः पुण्य लक्ष्मी है । तत् इस (याज्या के शंसन) से पुण्यां लक्ष्मीमेव सम्भावयति पुण्य लक्ष्मी को ही उत्पादित करता है और पुण्यां लक्ष्मीं संस्कुरुते पुण्य लक्ष्मी को संस्कारित करता है । सा० भा०--' अग्न इन्द्रश्चेति' येयं याज्या पूर्वमुक्ता तया यजति यागार्थं याज्यां पठेत् । याज्या च प्रत्तिर्वै प्रदानरूपैव। तथा च हविष आदानप्रदाने क्रमेण पुरोनुवाक्यायाज्याधीने श्रुत्यन्तरे श्रूयेते— ' पुरोनुवाक्ययाऽऽदत्ते प्रयच्छति याज्यया' ' इति । अतः प्रदानरूपत्वादियं पुण्यैव लक्ष्मीः । ' शस्त्रीयत्वात् पुण्यत्वम्। फलस्य लब्धिहेतुत्वाल्लक्षणस्य दर्शनहेतुत्वाद्वा लक्ष्मीत्वम्। अतो याज्यापाठेन पुण्याया एव लक्ष्म्याः संभावनासंस्कारौ भवतः ॥ उक्तक्रमेणानुष्ठातृवेदित्रोः फलं दर्शयति— स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद ॥ ९ ॥
( १ ) ( i ) तै ० सं ० २.६.२ । 'ह्वयति वा सा याज्या स्यात्' इति च शत ० ब्रा ० १.७.२. १७- १ ९ । ‘ पुरोनुवाक्या देवतास्मरणार्था, याज्या च हविः प्रदानार्था– इति कात्या० श्रौ० १.८.९। ( ii ) दातुरुपक्रमः प्रत्तिः ऊधो जृम्भणमिति यो गोषु प्रसिद्धः । यथा ब्राह्मणा- न्तरे— 'प्रत्ता वै गौर्दुहे प्रत्तेहे प्रत्तेडा यजमानाय दुहे ' (तै ० सं ० १.७.१ ) इति यज्ञात्मिकाया धेनोः सर्वाभिमतफलप्रदानादिकर्मस्थानीया याज्या' — इति भट्टभास्करः । ( २ ) ' यज्ञानुष्ठानलब्धा श्रीः पुण्यमेव हि साधयेत्' – इति षड्गुरुशिष्यः ।