ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 521–530

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 521–530

पृष्ठ 521

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 521 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: प्रथमोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४५ ९ ( द्वितीयतृचविधानम् ) ऐन्द्रवायवं शंसति, तेनैन्द्रवायव उक्थवान् ॥ ३ ॥

हिन्दी—(द्वितीय तृच का विधान कर रहे हैं - ) ऐन्द्रवायवं शंसति इन्द्र और वायु देवता वाली ‘इन्द्रवायु इमे सुता' का ( होता ) शंसन करता है। तेन उस ( शंसन ) से ऐन्द्रवायवः उक्थवान् इन्द्र और वायु देवता सम्बन्धी (ग्रह) स्तुति से युक्त हो जाता है । सा० भा ० — इन्द्रश्च वायुश्च मिलित्वा' देवता यस्य तृचस्य सोऽयमैन्द्रवायवः ' इन्द्र-वायू इमे सुताः ’ ” इत्यादिकस्तं शंसेत् । तच्छंसनेनैन्द्रवायवग्रहस्योत्तरभागः शस्त्रवान् भवति॥ तृतीयं तृचं विधत्ते— ( तृतीयतृचविधानम्) मैत्रावरुणं शंसति, तेन मैत्रावरुण उक्थवान् ॥४ ॥

हिन्दी –( तृतीय तृच का विधान कर रहे हैं - ) मैत्रावरुणं शंसति मित्र और वरुण सम्बन्धी तृच (‘ मित्रं हूवे पूतदक्षं' ) का होता शंसन करता है । तेन मैत्रावरुणः उक्थवान् उस ( शंसन ) से मित्र और वरुण वाला (ग्रह ) स्तुति से युक्त हो जाता है । सा ० भा ० —– मित्रो वरुणश्च मिलित्वा देवता यस्य तृचस्य सोऽयं मैत्रावरुणो ‘मित्रं

हुवे पूतदक्षम्’” इत्यादिकः । शंसतीत्यादिकं पूर्ववद् योज्यम्॥

चतुर्थं तृचं विधत्ते— ( चतुर्थतृचविधानम् ) आश्विनं शंसति, तेनाऽऽश्विन उक्थवान् ॥ ५ ॥

हिन्दी–( चतुर्थ तृच का विधान कर रहे हैं - ) आश्विनं शंसति अश्विन देवता वाले तृच ( ‘ अश्विना यज्वरीरिष’ ) का (होता) शंसन करता है। तेन आश्विनः उक्थवान् उस ( शंसन) से अश्विन् वाला ( ग्रह) स्तुति- सम्पन्न हो जाता है। सा० भा० -अश्विनौ मिलित्वा' देवता यस्य तृचस्य सोऽयमाश्विनो ' अश्विना यज्व-रीरिषः’व इत्यादिकः ॥। पञ्चमं तृचं विधत्ते— ( पञ्चमतृचविधानम् ) ऐन्द्रं शंसति, तेन शुक्रामन्थिना उक्थवन्तौ ॥ ६ ॥

( १ ) 'मिलिता' इति वा पाठः ( ) । २ ऋ० १.२.४-६ ।( ३ ) 'मिलिता' इति वा पाठः ( ) - । ४ ऋ० १.२.७ ९। ( ५ ) 'मिलिता' इति वा पाठः ( ) ' । ६ ऋ ० १.३.१-३ ।

पृष्ठ 522

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 522 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४६० ऐतरेयब्राह्मणम् ११.१ तृतीयपञ्चिकायां हिन्दी—(पञ्चम तृच का विधान कर रहे हैं — ) ऐन्द्रं शंसति इन्द्र देवता वाले तृच ( ‘इन्द्राऽऽयाहि ’ ) का शंसन करता है । तोन शुक्रमन्थिसौ उक्थवान्तौ उस ( शंसन ) से शुकग्रह और मन्थिग्रह स्तुति से युक्त हो जाते हैं। सा० भा ० – इन्द्रो देवता यस्य तृचस्य सोऽयमैन्द्र 'इन्द्राऽऽ याहि चित्रभानो' १

इत्यादिनैन्द्रस्तृचः । तेन शुक्रग्रहमन्थिग्रहयोरुभयोः शस्त्रवत्त्वम्॥

षष्ठं तृचं विधत्ते— ( षष्ठतृचविधानम् ) वैश्वदेवं शंसति, तेनाऽऽग्रयण उक्थवान् ॥७ ॥

हिन्दी–(षष्ठ तृच का विधान कर रहे हैं - ) वैश्वदेवं शंसति विश्वे देवों से सम्बन्धित तृच (‘ ओमासश्चर्षणी धृतः ' ) का शंसन करता है । तेन आग्रयणः उक्थवान् उस ( शंसन) से आग्रयण ( ग्रह) स्तुत किया जाता है। सा० भा ० – ' ओमासश्चर्षणीधृतः ' इत्येष वैश्वदेवस्तृचः । तेनाऽऽग्रयणग्रहस्य शस्त्र-वत्त्वं तथाऽपि विश्वदेवदेवताकत्वाद् वैश्वदेवम्। एवं सर्वत्र ग्रहशस्त्रयोरैकदेवताकत्वं द्रष्टव्यम्॥ सप्तमं तृचं विधत्ते— (सप्तमतृचविधानम् ) सारस्वतं शंसति ॥८॥

हिन्दी–( सप्तम तृच का विधान कर रहे हैं — ) सारस्वतं शंसति सरस्वती सम्बन्धी तृच (‘ पावका नः सरस्वती' ) का शंसन करता है। सा० भा०--' पावका नः सरस्वती' इत्यादिकः सारस्वतस्तृचः । ननु पूर्ववदत्रापि ग्रहस्य शस्त्रवत्त्वं कुतो नोपन्यस्यत इत्याशङ्क्याऽऽह— न सारस्वतो ग्रहोऽस्ति ॥९ ॥

हिन्दी – सारस्वतं ग्रहः न अस्ति सरस्वती का (कोई) ग्रह नहीं होता है। · सा० भा०-–आर्ध्वर्यवमन्त्रकाण्डे सारस्वतमन्त्रस्यापठितत्वाद्, ब्राह्मणे विध्यभा- भावाच्च ग्रहाभावः ॥ तर्हि ग्रहोक्थेऽस्मिन्नस्य सारस्वतस्य तृचस्य किमर्थं शंसनमाम्नातमित्याशङ्क्याऽऽह— वाक् तु सरस्वती ये तु के च वाचा ग्रहा गृह्यन्ते, तेऽस्य सर्वे शस्तोक्थाः ॥ १० ॥

( ) ( ) - ( ) १ ऋ० १.३.४-६ । २ ऋ० १.३.७ ९ । ३ ऋ ० १.३.१०-१३ ।

पृष्ठ 523

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 523 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४६१ हिन्दी –( सरस्वती सम्बन्धी तृच के शंसन का प्रयोजन बतला रहे हैं - ) वाक्वै सरस्वती वाणी ही सरस्वती है। ये के च वाचा ग्रहाः गृह्णयन्ते तो वाणी से जो ग्रह ग्रहण किये जाते हैं, ते सर्वे वे सभी (ग्रह ) अस्य इस (तृच के शंसन) से शंस्तोक्थाः स्तुति कर दिये जाते हैं । सा० भा०--सरस्वती हि वाग्देवता। ग्रहाणां च वाचा गृह्यमाणत्वात् सारस्वत-त्वम्। तेन सर्वेऽपि ग्रहाः शस्तोक्थाः पठितशस्त्रा भवन्ति॥ वेदनं प्रशंसति- उक्थिनो भवन्ति य एवं वेद ॥ ११ ॥

हिन्दी –( इस सात तृचों की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है (उसके सभी ग्रह) उक्थिनः भवन्ति स्तुति कर दिये गये होते हैं। सा ० भा ० — तस्य वेदितुः सर्वे ग्रहाः शस्त्रवन्तो भवन्ति ग्रहदेवतास्तुष्यन्तीत्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) प्रथमः खण्डः ॥ १ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा० भा० – विहितं प्रउगशस्त्रं प्रशंसति— ( विहितप्रउगशस्त्रप्रशंसनम् ) अन्नाद्यं वा एतेनावरुन्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यद- न्यदुक्थं प्रउगे क्रियते ॥१ ॥

हिन्दी— ( विहित प्रउग शस्त्र की प्रशंसा कर रहे हैं - ) यत् प्रउगम् जो प्रउग नामक शस्त्र है, एतेन इस (प्रउग शस्त्र ) से अन्नाद्यं वै अवरुन्धते भोज्य अन्न को प्राप्त करता है क्योंकि प्रउगे प्रउग ( शस्त्र) में अन्याऽन्या देवताः विविध देवता शस्यस्ते स्तुत किये जाते है और प्रउगे प्रउग ( शस्त्र ) में अन्यदन्यत् विविध उक्थम् स्तुतियाँ क्रियते की जाती हैं । सा ० भा० — यदेतत् प्रउगाख्यं शस्त्रमस्ति, तदेतदत्तुं योग्यस्यान्नस्य साधनम्। अत-स्तेनान्नं प्राप्नोति । यस्मादस्मिशस्त्रे पृथगेव देवता शस्यते। प्रथमतृचे केवलो वायु-

पृष्ठ 524

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 524 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४६२ ऐतरेयब्राह्मणम् ११.२ तृतीयपञ्चिकायां र्द्वितीयस्मिन्निन्द्रवायू तृतीयस्मिन् मित्रावरुणावित्यादिर्देवताभेदः । यथैव देवता भिद्यते तथैतस्मिञ्शस्त्रेऽन्यदन्यदुक्थं वायवा याहीन्द्रवायू इत्यादिकं परस्परविलक्षणं शस्त्राङ्गं क्रियते। तस्मादोदनशाकसूपादिविलक्षणभक्ष्यभोज्यलेह्यपेयचोष्यसाम्याद् अन्नाद्यहेतुत्वं युक्तम्॥ वेदनं प्रशंसति— अन्यदन्यदस्यान्नाद्यं गृहेषु' ध्रियते य एवं वेद ॥ २ ॥

हिन्दी—(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, अस्य गृहेषु इस (जानने वाले ) के गृहों में अन्यदन्यद् अन्नाद्यम् विविध भोज्य अन्न

प्रिय स्थित रहते हैं ।

सा ० भा ० — अन्यदन्यत् परस्परविलक्षणं मधुराम्लादिरूपम्॥

प्रकारान्तरेण प्रउगं प्रशंसति— ( प्रकारान्तरेण प्रउगप्रशंसनम् ) एतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं, तस्मादेनेनैतदु- पेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति ॥३ ॥

हिन्दी –( प्रकारान्तर से प्रउग शस्त्र की प्रशंसा कर रहे हैं - ) यत् प्रउगम् जो प्रउगशस्त्र है एतद् ह वै यह निश्चित रूप से यजमानस्य यजमान की अध्यात्मतमम् उक्थम् इव अध्यात्मतम ( अपने शरीर के अत्यन्त समीपवर्ती ) उक्थ ( स्तुति) के समान है। तस्मात् इसी कारण एनेन इस ( यजन करने वाले ) के द्वारा उपेक्ष्यतमम् इव अत्यधिक ईक्षणीय ( आदरणीय) है— इत्याहुः ऐसा कहा गया है; क्योंकि एतेन हि इसके द्वारा ही एनं होता संस्करोति इस ( यजमान ) को होता संस्कारित करता है । सा ० भा ० — प्रउगाख्यं यच्छस्त्रमस्ति एतदेव यजमानस्याध्यात्मतममिव। आत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मं शरीरसंबन्धीत्यर्थः । पूर्वत्राऽऽज्यशस्त्रस्य यजमानशरीर- निष्पत्तिहेतुत्वाभिधानात्, तदप्यध्यात्मम्। इदं तूत्पन्नस्य शरीरस्य संस्कारत्वादतिशयेनै- वाध्यात्मम्। यस्मादेवं तस्मादेनेन यजमानेनैतत् प्रउगशस्त्रमुपेक्ष्यतममिवातिशयेनोप समीप ईक्षणीयमादरणीयमित्यर्थः । इत्येवमभिज्ञा आहुः। तेषामयमभिप्रायः । एतेन प्रउगशस्त्रेणैनं यजगानमाज्यशस्त्राद् उत्पन्नं होता संस्करोति तस्मादादरणं युक्तम्॥ अथ प्रथमं तृचं विहितमनूद्य स्तौति— ( प्रथमात्सप्तमपर्यन्ततृचानां विधानतात्पर्यप्रदर्शनम्) वायव्यं शंसति; तस्मादाहुर्वायुः प्राणः, प्राणो रेतो, रेतः पुरुषस्य ( १ ) 'ग्रहेषु' इति वा पाठः ।

पृष्ठ 525

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 525 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४६३ प्रथमं सम्भवतः संभवतीति, यद्वायव्यं शंसति, प्राणमेवास्य तत्संस्करोति ॥ ४ ॥

हिन्दी - ( अब प्रथम तृच की विधि को कहकर उसकी प्रशंसा कर रहे हैं— ) वायव्यं शंसति (प्रथम तृच से) वायु का शंसन करता है । तस्मात् इसी कारण आहुः कहा जाता है कि वायुः प्राणः वायु प्राण है । प्राणः रेतः प्राण वीर्य है और रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवति वीर्य उत्पन्न होते हुए पुरुष के शरीर का कारण होने से (पितृदेह में ) प्रथम उत्पन्न होता है तो यद् वायव्यं शंसति जो वायु - सम्बन्धी ( तृच ) का ( होता ) शंसन करता है । तत् उस ( शंसन) से अस्य इस (यजन करने वाले ) के प्राणमेव संस्करोति प्राण को ही संस्कृत करता है । सा० भा०।-- पूर्वोक्तो विधि: 'वायव्यं शंसति' इति वाक्येनानूद्यते। यस्माद् वायव्यं शंसनीयं तस्मादभिज्ञा एवमाहुः -प्राणस्य वायुकार्यत्वेन वायुरेव प्राणः। रेतसः प्राण-धारकशरीरनिष्पादकत्वाद् रेतः प्राणः प्राणस्वरूपम्। तत्सदृशं रेतः संभवत उत्पाद्यमानस्य पुरुषस्य देहस्य कारणत्वेन पितृदेहे प्रथमं संभवति। एवमभिज्ञैरुक्तत्वाद् वायव्यृतृचः समीचीनः । तच्छंसनेन होता यजमानस्य प्राणमेव संस्करोति॥ • द्वितीयं विधिमनूद्य स्तौति- ऐन्द्रवायवं शंसति; यत्र वाव प्राणस्तदपानो, यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति ॥५ ॥

हिन्दी -( अब द्वितीय तृच की विधि को कहकर उसकी प्रशंसा कर रहे हैं— ) ऐन्द्रवायवं शंसति इन्द्र और वायु देवता वाले तृच का शंसन करता है। यत्र वाव प्राणः जहाँ (उच्छ्वास ) प्राण है तद् अपानः वहाँ (नि: श्वास रूप) अपान है । यद् ऐन्द्रवायवं शंसति जो इन्द्र और वायु देवता वाले तृच का शंसन करता है तत्इस ( शंसन ) से अस्य इस (यजन करने वाले ) के प्राणपानौ प्राण और अपान ( वायु) को संस्करोति संस्कारित करता है। सा० भा ० — उच्छ्वासरूपः प्राणो यत्रास्ति तत्र निश्वासरूपोऽपानोऽप्यस्ति। इन्द्र- वायू च प्राणापानस्वरूपौ । तस्मात् तेन सूक्तेन प्राणापानयोः संस्कारः । तृतीयं विधिमनूद्य स्तौति— मैत्रावरुणं शंसति; तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं संभवतः संभव- तीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोति ॥ ६ ॥

हिन्दी–(तृतीय तृच की विधि को कहकर प्रशंसा कर रहे हैं- ) मैत्रावरुणं शंसति मित्र और वरुण देवता वाले तृच का शंसन करता है। तस्माद् आहुः इसी कारण

पृष्ठ 526

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 526 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ४६४ ऐतरेयब्राह्मणम् ११.२ तृतीयपञ्चिकायां कहा जाता है कि पुरुषस्य चक्षुः प्रथमं सम्भवतः पुरुष का चक्षु पहले उत्पन्न होता है, सम्भवति (तत्पश्चात्) मनुष्य जन्म लेता है। अत: यद् मैत्रावरुणं शंसति जो मित्र और वरुण देवता वाले तृच का शंसन करता है तत् उस ( शंसन) से अस्य चक्षुः एव इस ( यजन करने वाले ) के चक्षु को ही संस्करोति संस्कारित करता है । सा० भा०--श्रुत्यन्तरे 'चक्षुर्मैत्रावरुणः " इति मित्रावरुणसंबद्धस्य ग्रहस्य चक्षुष्ट्वा- भिधानात् तृचोऽपि चक्षुःस्वरूप एव। तच्चक्षुरन्यस्माच्छ्रोत्रादीन्द्रियात् प्रथममुत्पद्यते। अस्यार्थस्याऽऽगमागम्यत्वादाहुरभिज्ञा इत्युक्तम्। एवंविधचक्षुःस्वरूपेण मैत्रावरुणतृचेन यजमानचक्षुषः संस्कारः ॥। चतुर्थविधिमनूद्य स्तौति— आश्विनं शंसति; तस्मात् कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति, यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोति ॥७ ॥

हिन्दी–( चतुर्थ तृच की प्रशंसा कर रहे हैं - ) आश्विनं शंसति अश्विन्देव वाले (तृच ) का शंसन करता है । तस्मात् क्योंकि कुमारं जातं संवदन्ते शिशु के पैदा होने पर (उसके माता -पिता) कहते हैं कि उप वै शुश्रूषते यह सुनना चाहता है और नि वै ध्यायति निरन्तर देखते हुए ध्यान लगा रहा है । अतः यद् आश्विनं शंसति जो अश्विन्देव वाले ( तृच ) का शंसन करता है तत् उस (शंसन) से अस्य श्रोत्रमेव संस्करोति इस ( यजमान ) के श्रोत्र को ही संस्कारित करता है । सा ० भा० — उत्पन्नं बालं मुग्धमेवेक्षमाणा मातापित्रादयः परस्परमेवमाहुः —नाना-विधैरुषलालनैराहूतो बालकोऽस्मन् मुखमवलोकयति । यस्माद् अयमस्मदीयां वाञ्चं श्रोतु-मिच्छति । नैरन्तर्येणावलोकनेन मामेव ध्यायतीति। तदेतत् मित्रावरुणानुग्रहकृतम्। तस्मात् तच्छंसनेन श्रोत्रस्य संस्कारः ॥ पञ्चमं विधिमनूद्य स्तौति— ऐन्द्रं शंसति; तस्मात् कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति; यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति ॥८ ॥

हिन्दी–( पञ्चम तृच की प्रशंसा कर रहे हैं ) ऐन्द्रं शंसति इन्द्र देवता से सम्बन्धित ( तृच) का शंसन करता है । तस्मात् क्योंकि कुमारं जातं संवदन्ते शिशु के पैदा होने पर ( उसके माता पिता) परस्पर कहते हैं कि प्रतिधारयति वै ग्रीवा यह गर्दन उठा रहा है अथ शिरः इसके बाद शिर को उठा रहा है। तो यद् ऐन्द्रं शंसति ( होता) जो इन्द्र देवता से सम्बन्धित (तृच ) का शंसन करता है तत् उस ( शंसन ) से अस्य वीर्यमेव ( १ ) तै० सं० ६.४.९.४ ।

पृष्ठ 527

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 527 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४६५ संस्करोति इस ( यजन करने वाले ) के वीर्य ( शक्ति ) को ही संस्कारित करता है। सा० भा ० – दोलायां शयानं बालमवेक्ष्य परस्परमेवमाहुः—अयमिदानीं ग्रीवाः प्रतिधारयति उत्थातुमादौ गलमुन्नयति ततः शिर उन्नमतीति । एतस्य व्यापारस्य वीर्यनिमित्त-त्वाद् इन्द्रस्य च वीर्यप्रदत्वात् तदीयतृचेन शक्तेः संस्कारः ॥ षष्ठं विधिमनूद्य स्तौति— वैश्वदेवं शंसति, तस्मात् कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति ॥ ९ ॥

हिन्दी-(षष्ठ तृच की प्रशंसा कर रहे हैं- ) वैश्वदेवं शंसति विश्वदेवों से सम्बन्धित ( तृच ) का ( होता ) शंसन करता है। तस्मात् इसी कारण कुमारः जातः पश्चैव प्रचरति पैदा हुआ शिशु पैर को हिलाता है; क्योंकि अङ्गानि हि वैश्वदेवानि (हाथ, पैर इत्यादि) अङ्ग विश्वे देवों से सम्बन्धित होते हैं। यद् वैश्वदेवं शंसति तो (होता) जो वैश्वदेवविषयक (तृच ) का शंसन करता है तत् उस ( शंसन) से अस्य अङ्गानि एव संस्करोति इस (यजन करने वाले ) के अङ्गों को ही संस्कारित करता है। सा० भा ० — उत्पन्नो बालः पश्चेव दर्शनश्रवणग्रीवोन्नमनादिक्रियाभ्यः पश्चादेव समर्थः सन् हस्ताभ्यां पादाभ्यां चेतस्ततः प्रचरति। हस्तादीन्यङ्गानि च बहुदेवताकानि। तस्माद् वैश्वदेवतृचेनाङ्गसंस्कारः ॥ सप्तमं विधिमनूद्य स्तौति— सारस्वतं शंसति, तस्मात् कुमारं जातं जघन्या वागाविशति, वाग्घि सरस्वती, यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोति ॥ १० ॥

हिन्दी -( सप्तम तृच की प्रशंसा कर रहे हैं - ) सारस्वतं शंसति सरस्वती देवता से सम्बन्धित ( तृच) का ( होता) शंसन करता है। तस्मात् इसी कारण कुमारं जातं शिशु के पैदा होने पर जघन्या वाग् आविशति जघन्या ( पादादि हिलाने - डुलाने के बाद उत्पन्न) वाणी प्रवेश करती है; क्योंकि वाग् वै सरस्वती वाणी ही सरस्वती है अतः यत् सारस्वतं शंसति ( होता) जो सरस्वती सम्बन्धी ( तृच ) का शंसन करता है तत् उस ( शंसन ) से अस्य इस ( यजन करने वाले ) की वाग् एव संस्करोति वाणी को ही संस्कारित करता है । सा० भा० — हस्तपादप्रचारावस्थाया ऊर्ध्वं वक्तुमारभते । अतो जघन्या' वागित्यु- च्यते । वाचः सरस्वतीरूपत्वात् तदीयतृचेन तस्याः संस्कारः ॥ ( १ ) इवार्थे जयनाच्छाखादित्वाद्ये (पा० सू० ५.३.१०३ ) वै जघन्यगी: वाग्वै जघनवत् पश्चाद्- भूता जातस्य जायते ' -इति षड्गुरुशिष्य ।

पृष्ठ 528

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 528 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४६६ ऐतरेयब्राह्मणम् ११.३ तृतीयपञ्चिकायां वेदितारमनुष्ठातारं च प्रशंसति— एष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः, सर्वेभ्य उक्थेभ्यः, सर्वेभ्यश्छन्दोभ्यः, सर्वेभ्यः प्रउगेभ्यः, सर्वेभ्यः सवनेभ्यो य एवं वेद, यस्य चैवं विदुष एतच्छंसन्ति ॥ ११ ॥

हिन्दी— ( इस तथ्य के जानने वाले और अनुष्ठान करने वाले की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है अथवा यस्य जिस ( यजन करने वाले ) का एवं विदुषः इस प्रकार जानने वाला होता एतत् शंसति इस (प्रउगशस्त्र ) का शंसन करता है एषः यह यजन करने वाला जातः एक बार पैदा होकर एताभ्यः सर्वाभ्यः देवताभ्यः इन देवताओं से, सर्वेभ्यः उक्थेभ्य: सभी स्तुतियों से, सर्वेभ्यः छन्दोभ्यः सभी छन्दों से, सर्वेभ्यः प्रउगेभ्यः सभी प्रउगशस्त्रों से और सर्वेभ्यः सवनेभ्यः सभी सवनों से जायते पुनः उत्पन्न होता है ।:. सा० भा० - यो होता यथोक्तप्रकारेण वेदैष एव पूर्वं स्वमातृपितृभ्यां जातोऽपि पुनर्देवतादिभ्यो जातो भवति । यथोक्तार्थं विदुषो यस्य यजमानस्य होतार एतत् प्रउगं शंसन्ति सोऽपि यजमानो देवतादिभ्यः पुनर्जायते। देवता वाय्वादयः । उक्थान् आज्य-प्रउगादीनि । छन्दांसि गायत्र्यादीनि। प्रउगाणि तदवयवातृचाः। सवनानि त्रीणि प्रसिद्धानि। एतेभ्यः सर्वेभ्यः पुनरुत्पत्तिः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये) द्वितीयः खण्डः ॥२॥

॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के द्वितीय खण्ड की... 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा ० भा ० — प्रकारन्तरेण प्रउगशस्त्रं प्रशंसति— ( प्रकारान्तरेण प्रउगशस्त्रप्रशंसनम् ) प्राणानां वा एतदुक्थं यत्प्रउगं, सप्त देवताः शंसति, सप्त वै शीर्षन् प्राणः, शीर्षन्नेव तत्प्राणान् दधाति ॥ १ ॥

हिन्दी—( प्रकारान्तर से प्रउगशस्त्र की प्रशंसा कर रहे हैं — ) यत् प्रउगम् जो प्रउग ( शस्त्र ) है एतत् प्राणानाम् उक्थम् यह प्राणों की स्तुति है। सप्त देवताः शंसति (इस प्रउगशस्त्र में) सात देवताओं का शंसन करता है; क्योंकि सप्त शीर्षन् प्राणाः शिर में

पृष्ठ 529

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 529 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४६७ ( दो नाक, दो कान, दो आँख और एक मुख के छिन्द्रों में एक-एक इस प्रकार) सात प्राण हैं । तत् इस ( प्रउगशस्त्र के शंसन्ं से) शीर्षन् एव प्राणान् दधाति शिर में ही प्राणों को प्रतिष्ठापित करता है । सा ० भा० – शिरोगतसप्तच्छिद्रवर्तिप्राणानां पूर्वोक्तसप्ततृचगतवाय्वादिदेवतानां च संख्यासाम्याच्छस्त्रस्य प्राणरूपत्वं तेन यजमानस्य शिरसि प्राणधारणं भवति॥ अथ प्रश्नोत्तराभ्यां प्रउगशस्त्रस्य सामर्थ्यं दर्शयति— किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽहं योऽस्य होता स्याद् इत्यत्रेवैनं यथा कामयेत तथा कुर्यात् ॥ २ ॥

हिन्दी- (प्रश्नोत्तर द्वारा प्रउगशस्त्र के सामर्थ्य को दिखला रहे हैं- ) (प्रश्न ) किं सः क्या वह (होता) यजमानस्य ( यजन करने वाले ) के पापभद्रम् पाप और पुण्य फल का आद्रियेत आदर ( सम्पादन) कर सकता है? ( उत्तर) ह स्म आह हाँ (कर सकता है ) ऐसा कहा गया है । यः अस्य होता स्यात् जो इस ( यजन करने वाले ) का होता है, वह अत्र एव यहाँ ( याग में) ही एनम् इस ( यजन करने वाले ) की यथा कामयेत जैसी इच्छा करे तथा कुर्यात् वैसा कर सकता है । सा ० भा ० — अस्य यजमानस्य यो होता स्यात् स तस्य पापभद्रं किमाद्रियेत? पापमनिष्टफलं भद्रमिष्टफलम्। तादृशं किं फलं संपादयितुं समर्थः? इति प्रश्नः । अत्रैव जन्मनि ' एनं' यजमानं प्रति यथा होता कामयेत्, तथा कर्तुं शक्नोतीत्युत्तरम्॥ .तत्र प्रथम तृचप्रयुक्तमनिष्टं दर्शयति— ( प्रठगशस्त्रस्य तृचानामनिष्टकथनम् ) यं कामयेत प्राणेनैनं व्यर्धयानीति, वायव्यमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धं प्राणेनैवैनं तद् व्यर्धयति ॥ ३ ॥

•हिन्दी -(उन सात तृचों में प्रथम तृच में प्रयुक्त अनिष्ट को दिखला रहे हैं— ) यं कामयेत जिस ( यजन करने वाले यजमान के लिए होता) यदि चाहे कि एवं प्राणेन व्यर्धयानि इस ( यजमान) को प्राण से वियोजित कर दूँ तो अस्य वायव्यं इस ( यजमान ) के वायु- सम्बन्धी तृच का लुब्धं शंसेत् व्यामूढ़ ( गड़बड़ ) करके शंसन करे। ऋचां वा पदं वा उसके लिए एक ऋचा अथवा (ऋचा के ) एक पद का अतीयात् अतिक्रमण ( व्यवधान ) कर दे । तेनैव उसी ( अतिक्रमण ) से ही तत् वह तृच लुब्धम् व्यामोहित हो जाता है । तत् उस ( शंसन ) से एनम् इस (यजन करने वाले ) को प्राणेन व्यर्धयति प्राण से वियोजित कर देता है। सा ० भा ० — यं यजमानमुद्दिश्य होता कामयेत। कथमिति; तदुच्यते — एनं यजमानं

पृष्ठ 530

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 530 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [४६८ ऐतरेयब्राह्मणम् ११.३ तृतीयपञ्चिकायां प्राणेन व्यर्धयानि व्यृद्धं वियुक्तं करवाणीति। एवं कामयमानो होताऽस्य यजमानस्य संबन्धिनं वायव्यं तृचं लुब्धं व्यामूढं भवति। तथा सति प्राणरूपत्वेन पूर्वनिरूपितस्य वायोः क्रोधाद् 'एनं' यजमानं प्राणेन वियोजयति। द्वितीयतृचनिमित्तमनिष्टं दर्शयति- यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धं, प्राणापानाभ्यामेवैनं तद् व्यर्धयति ॥ ४ ॥

हिन्दी—( द्वितीय तृच के अनिष्ट को दिखला रहे हैं - ) यं कामयेत ( होता ) जिस ( यजमान) के प्रति चाहे कि एनम् जिस ( यजमान) को प्राणापानाभ्याम् प्राण और अपान से व्यर्धयानि वियोजित करूँ तो अस्य इस (यजमान) के ऐन्द्रवायवम् इन्द्र और वायु देवता वाले ( तृच ) को लुब्धं शंसेत् व्यामोहित करके शंसन करे । ऋचं पदं वा अतीयात् (इस तृच के ) ऋचा अथवा पद का अतिक्रमण (इधर-उधर के शंसन ) करे। तनैव तत् लुब्धम् उसी ( अतिक्रमण से अतिक्रमित) वह (तृच) व्यामोहित हो जाता है । तत् इस ( शंसन से ) एनम् इस ( यजमान) को प्राणापानाभ्याम् प्राण और अपान से वियोजित

कर देता है।

सा० भा०- पूर्ववद् व्याख्येयम्॥

तृतीयतृचनिमित्तमनिष्टं दर्शयति— यं कामयेत चक्षुषैनं व्यर्धयानीति, मैत्रावरुणमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धं चक्षुषैवैनं तद् व्यर्ध- यति ॥५ ॥

हिन्दी– ( तृतीय तृच के अनिष्ट को दिखला रहे हैं— ) यं कामयेत् होता जिस ( यजमान) को चाहे किं एनं चक्षुषा व्यर्धयानि इस ( यजमान) को आखों से हीन कर दूँ तो अस्य ( इस यजमान) के मैत्रावरुणं लुब्धं शंसेत् मित्र और वरुण देवता सम्बन्धी ( तृच ) को व्यामोहित करके शंसन करे। ऋचं पदं वा अतीयात् ( उस तृच के ) ऋचा अथवा पद का अतिक्रमण करे । तेनैव तत् लुब्धम् उसी ( अतिक्रमण) से वह तृच व्यामोहित हो जाता है । तत् उस (व्यामोहित शंसन ) से एनम् इस ( यजमान) को चक्षुषा

व्यर्धयति नेत्र से विहीन कर देता है।

.सा० भा०-- पूर्ववद् व्याख्येयम्॥

चतुर्थतृचप्रयुक्तमनिष्टं दर्शयति— यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेद्, ऋचं वा