ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 531–540
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 531–540
पृष्ठ 531
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ४६ ९ पदं वाऽतीयात्, तेनैव तल्लुब्धं, श्रोत्रेणैवैनं तद् व्यर्धयति ॥ ६ ॥
हिन्दी-( चतुर्थ तृच में प्रयुक्त अनिष्ट को दिखला रहे हैं - ) यं कामयेत (होता) जिस यजमान के प्रति कामना करे एनम् इस ( यजमान) को श्रोत्रेण व्यर्धयानि कान से विहीन कर दूँ तो अस्य इस ( यजमान ) के आश्विनं लुब्धं शंसेत् अश्विन देव से सम्बन्धित ( तृच) का व्यामोहित ( उलट फेर कर) शंसन करे। ऋचं पदं वा अतीयात् इस ( तृच) के ऋचा का अथवा पद का व्यतिक्रमण करे । तेनं एव लुब्धम् उसी ( अतिक्रमण) से वह (तृच ) व्यामोहित हो जाता है। तत् उस ( शंसन ) से एनम् इस (यजमान ) को श्रोत्रेण
व्यर्धयति कान से विहीन कर देता है।
सा० भा०---- पूर्ववद् व्याख्येयम्॥
पञ्चमतृचप्रयुक्तमनिष्टं दर्शयति— यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धं, वीर्येणैवैनं तद् व्यर्धयति ॥७ ॥
हिन्दी –(पञ्चम तृच में प्रयुक्त अनिष्ट को दिखला रहे हैं — ) यं कामयेत होता जिस (यजमान) को चाहे कि एनं वीर्येण व्यर्धयानि इसको शक्ति से रहित कर दूँ तो अस्य इस ( यजमान) के ऐन्द्रं लुब्धं शंसेत् इन्द्र- सम्बन्धी ( तृच) को व्यामोहित करके शंसन करे । ऋचं वा पदं वा अतीयात् ( उस तृच के ) ऋचा अथवा पद का व्यतिक्रमण कर दे । तेनैव लुब्धम् उसी ( व्यतिक्रमण) से (तृच ) व्यतिक्रमित हो जाता है। तत् उस ( शंसन) से एनम्
इस ( यजन करने वाले ) को वीर्येण व्यर्धयति वीर्य से च्युत कर देता है ।
सा० भा०-० – पूर्ववद् व्याख्येयम्॥
षष्ठतृचप्रयुक्तमनिष्टं दर्शयति— यं कामयेताङ्गैरेनं व्यर्धयानीति, वैश्वदेवमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धमङ्गैरेवैनं तद् व्यर्धयति ॥८ ॥
हिन्दी –( षष्ठ ऋचा में प्रयुक्त अनिष्ट को दिखला रहे हैं - ) यं कामयेत होता जिस (यजमान) को चाहे कि एनम् अङ्गैः व्यर्थयानि इस ( यजमान ) को ( शरीर ) के अङ्गों से च्युत कर दूँ तो अस्य इस (यजन करने वाले ) के वैश्वदेवं लुब्धं शंसेत् विश्वदेवों से सम्बन्धित ( तृच ) को व्यामोहित करके शंसन करे ऋचं वा पदं वा अतीयात् (उस तृच की) ऋचा अथवा पद का व्यतिक्रमण कर दे । तेनैव तत् लुब्धम् उसी ( शंसन ) से वह ( तृच ) व्यतिक्रमित हो जाता है । तत् उस शंसन से एनम् इस ( यजन करने वाले ) को अङ्गैः
व्यर्धयति अङ्गों से विहीन कर देता है।
सा ० भा ० –- पूर्ववद् व्याख्येयम्॥
पृष्ठ 532
पाठ पढ़ें पाठ छिपाएँ
: [४७० ऐतरेयब्राह्मणम् ११.३ तृतीयपञ्चिकायां सप्तमतृचप्रयुक्तमनिष्टं दर्शयति— यं कामयेत वाचैनं व्यर्धयानीति, सारस्वतमस्य लुब्धं शंसेद्, ऋचं वा पदं वाऽतीयात्, तेनैव तल्लुब्धं, वाचैवैनं तद् व्यर्धयति ॥ ९ ॥
हिन्दी – ( सप्तम ऋचा के अनिष्ट को दिखला रहे हैं— ) यं कामयेत होता (जिस यजमान) को चाहे कि एनम् इस ( यजमान) को वाचा व्यर्धयानि वाणी से च्युत कर दूँ तो अस्य इस ( यजमान) के सारस्वतं लुब्धं शंसेत सरस्वती से सम्बन्धित (तृच) को व्यामोहित करके शंसन करे। ऋचं पदं वा अतीयात् (इस तृच की ) ऋचा अथवा पद का व्यतिक्रमण कर दे । तेनैव लुब्धम् उसी शंसन से वह ( तृच) व्यामोहित हो जाता है । तत् इस ( शंसन ) से एनं इस (यजन करने वाले ) को वाचा व्यर्धयति वाणी से विहीन
कर देता है।
सा० भा ० –- पूर्ववद् व्याख्येम्॥
अथास्य शस्त्रस्येष्टफलसामर्थ्यं दर्शयति— यमु कामयेत सर्वैरेनमङ्गैः सर्वेणाऽऽत्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सत्तू,, सर्वैरेवैनंसर्वरेवेनं तदङ्गैः सर्वेणाऽऽत्मना समर्धयति ॥१० ॥
हिन्दी –( अब प्रउगशस्त्र के अभीष्ट फल देने की सामर्थ्य को दिखला रहे हैं - ) यमु कामयेत् होता जिस ( यजमान) को चाहे कि एनम् इस ( यजमान ) को सर्वै अङ्गैः सभी अङ्गों से और सर्वेण आत्मना समूर्ण शरीर से समर्थयानि समृद्ध कर दूँ तो अस्य इस ( यजमान) के एतदेव उस (प्रउगशस्त्र ) को ही यथापूर्वम् पहले ( गुरुमुख से ) पढ़े गये के अनुसार ऋजुक्लृप्तं शंसेत् किसी प्रकार की हीनता से रहित शंसन करे । तत् उस ( शंसन) से एनम् इस ( यजमान ) को सर्वैरेव अङ्गैः सभी अङ्गों से और सर्वेण आत्मना सम्पूर्ण शरीर से समर्धयति समृद्ध कर देता है । सा० भा०-- पूर्वोक्तानि प्राणदीनि सर्वाण्यङ्गानि। संपूर्णो देहः सर्व आत्मा । तत्स- मृद्धिकामो होताऽस्य यजमानस्य संबन्धि तदेव प्रउगशस्त्रं यथापूर्वं गुरोः समीपे पुरा येन क्रमेणपठितं तथैव ऋजुक्लृप्तं' कस्यचिदवयस्यान्यथात्वाभावाद् ऋजुत्वं तथा क्लृप्तं संपादितं कृत्वा शंसेत् । ततः काम्यमानसमृद्धिः सिध्यति। वेदनं प्रशंसति- ( १ ) 'यथापूर्वं यथाक्रमम् ऋजु अञ्जासानतिक्रमेण क्लृप्तं यथा कल्पनं यथोत्पत्ति । यद्वा क्लृप्तम् अविकल्पनम्' इति भट्टभास्करः । 'ऋजु सुष्ठु' । क्लृप्तं व्यवस्थितम्: यथा- पूर्वमवोचाम' इति षड्गुरुशिष्यः ।
पृष्ठ 533
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ४७१ सर्वैरङ्गैः सर्वेणाऽऽत्मना समृध्यते य एवं वेद ॥ ११ ॥
हिन्दी— (प्रउगशस्त्र के इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वै: अङ्गैः सभी अङ्गों से और सर्वेण आत्मना और सम्पूर्ण शरीर
से समृध्यते समृद्ध होता है ।
सा० भा० – स्पष्टोऽर्थः ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये 11 ४ । · तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) तृतीयः खण्डः ॥३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा ० भा ० — अथ स्तोत्रशस्त्रयोर्देवतावैलक्षण्यरूपमाक्षेपमुत्थापयति- ( स्तोत्रशस्त्रयोर्देवतावैलक्षण्यविचारः ) तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते, कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति ॥ १ ॥
हिन्दी—(स्तोत्र और शस्त्र के देवता की विलक्षणता के विषय में आक्षेप को उठा रहे हैं— ) तदाहुः इस विषय के ( कुछ ब्रह्मवादी ) कहते हैं कि यथा वा स्तोत्रम् जैसा स्तोत्र होता है एवं शस्त्रम् वैसा ही शस्त्र भी होना चाहिए। सामगाः आग्नेयीषु स्तुवते साम का गायन करने वाले अग्नि देवता वाली (ऋचाओं) स्तुति करते हैं और होता वायव्याः प्रतिपद्यते ( होता) वायु देवता वाली (ऋचाओं) का प्रतिपादन करते हैं, पुनः कथम् तो किस प्रकार से अस्य आग्नेयः इस अग्नि से सम्बन्धित ऋचाओं के अनुशस्ताः भवन्ति ( होता द्वारा सम्पादित वायु देवताक ऋचाएँ) अनुकूल होती हैं? सा० भा० - सामगानां यान्याज्यस्तोत्राणि तत्र ऋच आग्नेय्य आम्नाताः । 'अग्न आ याहि’१ इत्यादिषु सामगैराज्यस्तोत्रपाठात् । ' होता तु ' वायवा याहि’३ इत्यनया वायव्या प्रउगशस्त्रं प्रारभते । अतोऽनेन विलक्षणदेवताकेन शस्त्रेणाऽऽग्नेय्य ऋचः कथमनुशस्ता भवन्ति? अनुकूलशंसनाभावे स्तुतमनुशंसतीति' शाखान्तरं विरुध्येतेत्याक्षेपः ॥ तस्योत्तरं दर्शयति— अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः ॥ २ ॥
( १ ) ऋ ० ६.१६.१० । उ० आ० १.१.४-७१ ( २ ) ता०ब्रा० २.४-६,७.२; ११.२.३।( ) ( ) ३ ऋ० ५.५१.५। ४ ता०ब्रा० ९.८.१० ।
पृष्ठ 534
पाठ पढ़ें पाठ छिपाएँ
: [४७२ ऐतरेयब्राह्मणम् ११.४ तृतीयपञ्चिकायां 'हिन्दी – ( पूर्वोक्त आक्षेप का समाधान दिखला रहे हैं - ) यद् एताः देवताः जो ये देवता हैं एताः सर्वे ये सभी अग्नेः तन्वः अग्नि के ही शरीरभूत भवन्ति होते हैं । सा० भा० — सप्तसु तृचेषु य एता वाय्वादयो देवताः प्रतीयन्ते ताः सर्वा अग्नेरेव शरीरभूताः । अतोऽग्निविषयमेव कृत्स्नं शस्त्रं संपद्यत इति स्तोत्रगता आग्नेय्य ऋचोऽ- नुशस्ता भवन्ति॥ अग्नेः प्रथमतृचप्रतिपादिताया वायुदेवतायाः स्वरूपं दर्शयति— स यदग्निः प्रवानिव दहति; तदस्य वायव्यं रूपं, तदस्य तेनानुशंसति ॥ ३ ॥
हिन्दी—( प्रथम तृच में प्रतिपादित वायुदेवता की अग्नि से सरूपता को दिखला रहे हैं— ) सः अग्निः वह अग्नि यत् प्रवानिव दहति जो प्रकृष्ट रूप से जलती है तद् अस्य वायव्यं रूपम् वह इस अग्नि का वायु से सम्बन्धित रूप है । तत् तेन इस (प्रउगशस्त्र) से होता अस्य इस (अग्नि) का तेन उस (वायु रूप) से अनुशंसति अनुशंसन करता है। सा० भा ० — प्रवानिव प्रकर्षवानेव सन्नधिकज्वालया दहत्यग्निरिति यदस्ति तत्प्र- कर्षात्मकं वायुसंबन्धिरूपम्। वायुना ज्वालाऽऽधिक्योदया । अतोऽस्य प्रउगशस्त्रस्य संबन्धिना वायुरूपेणायं होता तदग्निरूपमनुशंसति॥ द्वितीयतृचप्रतिपादिताया इन्द्रवायुदेवतायाः सारूप्यं दर्शयति— ( द्वितीयतृचे इन्द्रवायुदेवतायाः सारूप्यप्रदर्शनम् ) अथा यद्द्द्वैधमिव कृत्वा दहति, द्वौ वा इन्द्रवायू, तदस्यैन्द्रवायवं रूपं, तदस्य येनानुशंसति ॥४ ॥
हिन्दी—( द्वितीय तृच में प्रतिपादित इन्द्र और वायु देवता की अग्नि से सरूपता को दिखला रहे हैं— ) यद् द्वैधम् इव कृत्वा ज्वलति अग्नि जो दो प्रकार से (ज्वालाओं कों) करके जलता है तो द्वौ एव इन्द्रवायू इन्द्र और वायु दो देवता हैं । तद् अस्य इन्द्रवायवं रूपम् इस प्रकार इस ( अग्नि ) का इन्द्र और वायु रूप है। तद् तो येन जिस तृच से अग्नि के (दो रूपों का) अनुशंसति अनुशंसन करता है। सा० भा० – ज्वालाद्वयमिव' कृत्वा यदा दहति तदा द्वित्वसाम्यात् तज्ज्वाला- द्वयमिन्द्रवायुसंबन्धि रूपं भवति । अन्यत् पूर्ववत्॥ तृतीयतृचे सारूप्यं दर्शयति— ( तृतीयतृचे मैत्रावरुणसारूप्यम्) अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं, तदस्य ( १ ) ' द्वैध कृत्वाज्ञया रूपेण द्वेधा भूत्वा दहति— इति गोविन्दस्वामी ।
पृष्ठ 535
पाठ पढ़ें पाठ छिपाएँ
]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ४७३ तेनानुशंसति ॥५ ॥
हिन्दी - ( तृतीय तृच में मित्र और वरुण की सरूपता को दिखला रहे हैं— ) यद् उच्च हृष्यति जो (यह अग्नि की ज्वाला) ऊपर की ओर हर्ष के साथ उठती है और नि च हृष्यति नीचे की ओर जाती है। तद् अस्य मैत्रावरुणं रूपम् तो वह इस (अग्नि ) का मित्र और वरुण का रूप है । तद् तेन अस्य अनुशंसति इस ( तृच ) से इस (अग्नि के ) रूप की अनुशंसा करता है । सा ० भा ० – ज्वलतोऽग्नेरौन्नत्यमुद्धर्षः । ज्वालाशान्त्या नीचत्व ' निहर्षः। तदुभयं मित्रावरुणसंबन्धि रूपम्। मित्रं दृष्टवतौ हर्षेणोन्नतत्वात् तन्मित्ररूपम्। वरुणसंबन्धिनीना- मपां नीचगामित्वाद् इतरद् वरुणस्य रूपम्। तदीयतृचेंनाग्निरनुशस्तो भवति॥ तत्रैव युक्त्यन्तरमाह- स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं, तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते, तदस्य मैत्रं रूपं, तदस्य तेनानुशंसति ॥ ६ ॥
हिन्दी–( तृतीय तृच में अन्य युक्ति को कह रहे हैं - ) सः यद् अग्निः घोर- संस्पर्शः जो यह अग्नि का उष्ण स्पर्श है तद् अस्य वारुणं रूपम् वह इस ( अग्नि ) का वरुण सम्बन्धी रूप है और तं यद् घोरसंस्पर्श सन्तम् जो उस ( अग्नि) का उष्ण स्पर्श होता हुआ मित्रकृत्या इव उपासते मित्र के समान ( तापने के लिए ) बैठते हैं तद् अस्य मैत्रं रूपम् वह इस ( अग्नि) का मित्र से सम्बन्धित रूप है। तद् अस्य तेन अनुशंसति तो इस (अग्नि ) का उस ( मैत्रावरुण रूप) से अनुशंसन करता है। सा ० भा ० – सोऽग्निर्घोरसंस्पर्श उष्णसंस्पर्श इति यदस्ति तदस्याग्नेर्वरुणसंबन्धि रूपं वरुणस्योग्रत्वात् । घोरसंस्पर्शं सन्तं स्प्रष्टुमशक्यमपि तमग्निं शीतार्ताः प्राणिनो मित्र-कृत्या मित्रस्य कृतिः कार्यं समीपेऽवस्थानं तेनैवैनमुपासते शीतपरिहाराय हस्तावुदरं पृष्ठं च वह्निसमीपे प्रतापयन्तो वह्नि सेवन्ते। तदेतत् सेवनमस्याग्नेर्मित्रसंबन्धि रूपम्। ततोऽ-स्याग्नेः संबन्धिना तेन मैत्रावरुणरूपेणायं होता वह्निमनुशंसति॥ चतुर्थतृचे सारूप्यं दर्शयति— ( चतुर्थतृचे अश्विन्द्वयसारूप्यम् ) अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति, द्वौ वा अश्विनौ, तदस्याऽऽश्विनं रूपं, तदस्य तेनानुशंसति ॥७ ॥
( १ ) 'ज्वालया अत्यन्तनीचत्वम्' इति वा पाठः । ( २ ) 'यस्मादयमग्निर्दाहारम्भे दाह्यसंयोगाद् उदधृष्यति ऊर्ध्वज्वालो भवति । अथ भस्मीकृतदाह्यो निहृष्यति निभृतज्वालो भवति' इति भट्टभास्करः । ऐ.ब्रा. पू-३०
पृष्ठ 536
पाठ पढ़ें पाठ छिपाएँ
: [४७४ ऐतरेयब्राह्मणम् ११.४ तृतीयपञ्चिकायां हिन्दी—( चतुर्थ तृच में अश्विन्द्वय की सरूपता को दिखला रहे हैं— ) यद् एनम् जो इस (अग्नि ) को द्वाभ्यां बाहुभ्याम् दो भुजाओं से और द्वाभ्याम् अरणीभ्याम् दो अरणियों से मन्थन्ति मन्थन करते हैं । द्वौ वै अश्विनौ अश्विन् भी दो ही है। तत् तो तेन उस (तृच ) से अस्य इस (अग्नि के ) (अश्विन् रूप ) का अनुशंसति अनुशंसन करता है। सा ० भा ० — आश्विनोर्द्वित्वाद्धस्तद्वयेनारणिद्वयेन च मन्थमस्याग्नेराश्विनं रूपम्॥ पञ्चमतृचे सारूप्यं दर्शयति— ( पञ्चमतृचे इन्द्रसारूप्यम्) अथ यदुच्चैर्घोष स्तनयन् बबबा कुर्वन्निव दहति, यस्माद् भूतानि विजन्ते, तदस्यैन्द्रं रूपं, तदस्य तेनानुशंसति ॥८ ॥
हिन्दी— ( पञ्चम तृच में इन्द्र की सरूपता को दिखला रहे हैं— ) यद् उच्चैः घोषः स्तयन् जो ( अग्नि ) ऊँची ध्वनि करता हुआ और बबबा कुर्वन् इव बबबा ध्वनि करते हुए दहति जलता है, यस्मात् जिस कारण से भूतानि विजन्ते प्राणी (उससे ) भयभीत होते हैं, तत् अस्य ऐन्द्रं रूपम् वह इस ( अग्नि) का इन्द्र- सम्बन्धी रूप है अतः तेन उस (तृच ) से अस्य इस (अग्नि के इन्द्र रूप) का अनुशंसति अनुशंसन करता है । सा० भा० — स्तनयन् ध्वनिं कुर्वन्। स एव ध्वनिस्त्रिभिर्बकारैरनुक्रियते । यत ईदृशाद् ध्वनिसहिताद् अग्ने रूपाद् भूतानि प्राणिनो विजन्ते बिभ्यति। तद्भयकारणध्वनिसहिता- मिन्द्रस्य सङ्ग्रामार्थमास्फोटनं कुर्वतः शत्रुभयकारिणो रूपम्॥ षष्ठतृचे सारूप्यं दर्शयति— ( षष्ठतृचें वैश्वदेवसारूप्यम् ) अथ यदेनमेकं सन्तं बहुधा विहरन्ति, तदस्य वैश्वदेवं रूपं, तदस्य तेनानुशंसति ॥९ ॥
हिन्दी–(षष्ठ तृच में विश्वेदेवा की सरूपता को दिखला रहे हैं — ) यद् एकं सन्तम् जो एक होते हुए भी अनेकं बहुधा विहरन्ति अनेक प्रकार से प्रज्वलित करते हैं तद् अस्य वैश्वदेवं रूपम् वह इस (अग्नि) का विश्वेदेव रूप है । तेन उस (तृच ) से तस्य उस ( अग्नि के वैश्वदेव रूप) का अनुशंसति अनुशंसन करता है। सा ० भा ० — अग्नेराहवनीयादिस्थानेष्वाग्नीश्रादिधिष्ण्येषु त बहुधा विहरणं' यदस्ति तद्विश्वेषां देवानां रूपं तेषामपि बहुत्वात्॥ सप्तमतृचे सारूप्यं दर्शयति— ( १ ) ‘ एकमौपासनं गाह्यं बहून् श्रौता हि कुर्वते ॥' इति षड्गुरु० । 'एकं सन्तं बहुधा नानादेशेषु पाकाद्यर्थं विहरन्ति' – इति गोविन्दस्वामी ।
पृष्ठ 537
पाठ पढ़ें पाठ छिपाएँ
` ]: प्रथमोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेटम् ४७५ ( सप्तमतृचे सारस्वतसारूप्यम्) अथ यत् स्फूर्जयन् वाचमिव वदन् दहति, तदस्य सारस्वतं रूपं, तदस्य तेनानुशंसति ॥१० ॥
हिन्दी—( सप्तम तृच में सरस्वती की सरूपता को दिखला रहे हैं - ) यत् स्फूर्जयन् वाचम् इव वदन् जो स्फूर्जित होती हुई ( मनुष्य के समान ) विलक्षण ध्वनि करती हुई दहति जलती है तद् अस्य वह (अग्नि) का सारस्वतं रूपम् सरस्वती से सम्बन्धित रूप है । तद् अस्य वह इस (सरस्वती से सम्बन्धित अग्नि के रूप) का तेन उस ( तृच ) से अनुशंसति अनुशंसन करता है । सा० भा० — यथा जनो वाचं वदति, तथैवाग्निः स्फूर्जयति, ईषद्विच्छिद्य विलक्ष- णोच्चारणमिव शब्दं करोति। ' तदेतद् वागुच्चारणसदृशं ध्वनिकरणं सरस्वतीसंबद्धं रूपम्॥ इत्थमग्नेर्वाय्वादिदेवतानां च सारूप्यद्वाराऽनुशंसनमुपपाद्योपसंहरति— एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देव- ताभिः स्तोत्रियोऽनुशस्तो भवति ॥ ११ ॥
हिन्दी—( अब उपसंहार कर रहे हैं - ) एवमु इस प्रकार वायव्यया एव प्रतिपद्य- मानस्य अस्य वायु देवता वाली (ऋचाओं) से प्रारम्भ करने वाले इस होता का तृचेन तृचेन प्रत्येक तृच से प्रतिपादित एताभिः देवताभिः इन देवताओं द्वारा स्तोत्रियः स्तोत्र सम्बन्धी ( अग्नि देवता वाले तृच ) के अनुशस्तः भवति अनुकूल होता है । सा ० भा ० — 'एवमु ह' अनैनैवोक्तप्रकारेण ' वायवा याहि' इत्येतया वायुदेवताक- यैवर्चा शस्त्रं प्रारभमाणस्य होतुस्तेन तेनोक्ततृचेनैव प्रतिपादिताभिर्वाय्वादिदेवताभिरग्नि-सदृशीभिः स्तोत्रियः स्तोत्रसंबन्धी तृचो 'अग्न आयाहि'? इत्यादिक आग्नेयोऽप्यनुशस्तो भवति। तस्यानुष्ठानं यथा भवति तथा प्रउगशस्त्रम॑नुष्ठितं भवतीत्यर्थ ॥ • अथ शस्त्रयाज्यां विधत्ते— ( शस्त्रस्य याज्याविधानम्) ' विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ३ इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति, यथाभागं तद्देवताः प्रीणाति ॥ १२॥
हिन्दी– ( अब प्रउगशस्त्र की याज्या का विधान कर रहे हैं - ) वैश्वदेवम् उक्थं शस्त्वा विश्वे देवों से सम्बन्धित स्तुति का शंसन करके वैश्वदेव्या यजति ( होता) इस ( १ ) ' स्फूर्जयन् दाह्यं वस्तु निष्पिषन्' – इति भट्टभास्करः । (२ ) उ०आ० १.१.१-७ ( ३ ) ऋ० १.१४.१० ।
पृष्ठ 538
पाठ पढ़ें पाठ छिपाएँ
: [४७६ ऐतरेयब्राह्मणम् ११.५ तृतीयपञ्चिकायां विश्वेदेवों से सम्बन्धित ( ऋचा ) से यजन (याज्या ) करता है और यथाभागम् अपने भाग के अनुसार देवताः प्रीणाति सभी देवताओं को प्रसन्न करता है । मन्त्रार्थ- ' अग्ने' हे अग्नि! विश्वेभिः सभी ( देवताओं ) के साथ इन्द्रेण वायुना विशेषरूप से इन्द्र और वायु के साथ तथा मित्रस्य धामभिः मित्र के स्थानों के साथ सोम्यं मधु मधुर सोम का प पान करो' इति । सा० भा० — हे अग्ने विश्वेभिः सर्वैर्देवैः सह विशेषत इन्द्रेण वायुना च सह तथा मित्रस्य धामभिः स्थानैर्युक्तः सन् सोम्यं मधु सोमसंबन्धिन' मधुरं रसं पिब । 'विश्वेभिः ’ इत्यादिका सेयमृग्वैश्वदेवी तया यजति तां याज्यां पठेत्। कदा पठेदिति, तदुच्यते— वैश्वदेवं बहुदेवताकमुक्थं शस्त्रं प्रउगनामकं शस्त्वा पश्चात् पठेत्। तथा सति स्वस्वभागम- नतिक्रम्य सर्वा देवतास्तर्पयति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) चतुर्थः खण्डः ॥ ४॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । अथ पश्चमः खण्डः सा० भा० — अथ शस्त्रयाज्यान्ते पठनीयं वषट्कारं विधत्ते— ( शस्त्रयाज्यान्ते पठनीयवषट्कारविधानम्) देवपात्रं वा एतद् यद् वषट्कारो वषट्करोति, देवपात्रेणैव तद्देवता- स्तर्पयति ॥ १ ॥
हिन्दी-( अब प्रउगशस्त्र की याज्या के अन्त में शंसनीय वषट्कार का विधान कर रहे हैं— ) यद् वषट्कारः जो वषट्कार ( वौषट्) है, एतद् वै देवपात्रम् यह देवपात्र है। अतः वषट्करोति वषट्कार करता है। तत् इस (वषट्कार) से देवपात्रेण वै देवपात्र के द्वारा ही देवताः तर्पयति देवताओं को तृप्त करता है। सा० भा०-- वौषडिति मन्त्रो वषट्कारः । स च देवपात्रं देवानां पानसाधनम्। तस्माद् वषट्कुर्याद् वौषडित्येव पठेत्। तथा सति देवानामुचितेनैव पानसाधनेन सर्वा देवतास्त- र्पयतीति॥ तत ऊर्ध्वं पठनीयमनुषट्कारमन्त्रं विधत्ते— ( १ ) आश्व० श्रौ० ५.१०.१० । ' याज्यान्तानि शस्त्राणि' – इति च तत्रैव तदुत्तरम ( ५.१०.२१ )।
पृष्ठ 539
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४७७ • ( वषट्कारान्ते पठनीयानुवषट्कारविधानम् ) · अनुवषट्करोति, तद् यथाऽदोऽश्वान् वा गा वा पुनरभ्याकारं तर्पय- न्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति ॥ २ ॥
हिन्दी – ( वषट्कार के बाद पठनीय अनुवषट्कार मन्त्र का विधान कर रहे हैं - ) अनुवषट्करोति (वषट्कार के बाद ) अनुवषट् करता है । यथा जिस प्रकार ( लोक में लोग ) अश्वान् वा गाः वा (अपने- अपने) अश्वों अथवा गायों को पुनः अभ्याकारं तर्पयन्ति बार - बार (घास, जल इत्यादि द्वारा ) अभिमुख करके तृप्त करते हैं, एवमेव उसी प्रकार यद् अनुवषट्करोति जो अनुवषट् करता है एतद् देवताः इस ( अनुवषट् से) देवताओं को पुनः अभ्याकारम् बार- बार अभिमुख करके तर्पयन्ति तृप्त करता है । सा० भा ० – 'सोमस्याग्ने वीहि' इत्ययं मन्त्रोऽत्रनुवषट्कारः तं पठेत्। तत्र लोकेऽदः? किञ्चिदिदं निदर्शनमस्ति । कथमिति, तदुच्यते - यथा मनुष्याः स्वकीयानश्वान् वा स्वकीया गा वा पुनरभ्याकारं पौनःपुन्येन तृणोदकादिभिरभिमुखीकृत्याभिमुखीकृत्य तर्पयन्ति, कण्डू- यनेन प्रियशब्देन वा लालयित्वा यथेष्टघासं प्रयच्छन्ति, एवमेवैतेनानुवषट्कारेण पुनःपुन-र्देवता अभिमुखीकृत्य यजमानो हविषा तर्पयति॥ अनुवषट्कारप्रशंसार्थं चोद्यमुद्भावयति— ( अनुवषट्कारप्रशंसनम्) इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यान्, अथ कस्मात् पूर्वस्मिन्नेव जुह्वति, पूर्वस्मिन् वषट्कुर्वन्तीति ॥ ३ ॥ ३
हिन्दी -( अब अनुवषट्कार की प्रशंसा के लिए प्रश्न को उठा रहे हैं - ) इमान् धिष्ण्यान् इन ( सोममध्यवर्ती) धिष्ण्यों के समीप अग्नीन् उपासत (आग्नीध्र इत्यादि) अग्नियों की केवल सेवा करते हैं— इत्याहुः ऐसा कहा गया है। अथ कस्मात् तो किस कारण से पूर्वस्मिन् एव पहले वाली ही ( उत्तरवेदि पर स्थित अग्नि ) में जुह्वति (ऋत्विक्) होम करते हैं और अनुवषट्कुर्वन्ति अनुवषट्कार करते हैं। सा० भा०-– सोममध्यवर्तिषु धिष्ण्येष्वाग्नीध्राद्यग्नयो ये विहितास्तानग्नीनृत्विजः समीपे स्थित्वोपासत एव सेवन्त एव केवलं न तु तेषु जुह्वति नापि वषट्कुर्वन्ति। पूर्व-स्मिन्नेवोत्तरवेदिस्थितेऽग्नावृत्विजो जुह्वति नापि वषट्कुर्वन्ति। पूर्वस्मित्रेवोत्तरवेदिस्थितेऽ-( १ ) आश्व ० श्रौ० ५.१३.६। ( २ ) ‘ अदः ' ‘इति वक्ष्यमाणपरामर्शः ' - इति षड्गुरुशिष्यः । ' अद इति सर्वनाम्ना लोकप्रसिद्धि दर्शयति' – इति भट्टभास्करः । ( ३ ) 'चोद्यस्वरूपप्रदर्शनार्थों द्वितीय इतिकरणः । चोद्यत्रहेतुप्रदर्शनार्थः प्रथमः इतिकरण: '- इति भट्टभास्करः ।
पृष्ठ 540
पाठ पढ़ें पाठ छिपाएँ
: [४७८ ऐतरेयब्राह्मणम् ११.५ तृतीयपञ्चिकायां ग्नावृत्विजो जुह्वति च तत्रैव वषट्कुर्वन्ति च। अथैवं सति धिष्ण्यगतानामग्नीनां प्रीतिर्नास्ति। कस्मादेवं वैषम्यं क्रियत? इति चोद्यवादिन आहुः॥ तत्रोत्तरं दर्शयति— यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान् प्रीणाति ॥४ ॥
हिन्दी—( अब उपर्युक्त प्रश्न का उत्तर दिखला रहे हैं - ) यदेव जो कि ' अग्ने हे अग्ने सोमस्य वीहि सोमरस का पान करो ' इति अनुवषट् करोति यह अनुवषट् करता है तेन उससे धिष्ण्यान् प्रीणाति धिष्ण्य ( अग्नियों) को प्रसन्न करता है । सा ० भा ० — हे अग्न इति जात्याकारेणाग्निं संबोध्य सोमस्य सोमरसं वीहि पिबे- त्येवं मन्त्रेण होताऽनुवषट्करोतीति यदस्ति तेन धिष्ण्यानग्नीन् होता तर्पयति । तस्मान्न वैषम्यम् ॥ प्रकारान्तरेण प्रशंसितुं पुनश्चोद्यद्वयम् उद्भावयति— ( प्रकारान्तरेणानुवषट्कारप्रशंसनम् ) असंस्थितान् सोमान् भक्षयन्तीत्याहुर्येषां नानुवषट्करोति, को नु सोमस्य स्विष्टकृद्भाग इति ॥ ५ ॥
हिन्दी— ( अब प्रकारान्तर से अनुवषट् की प्रशंसा करने के लिए प्रश्न को उद्भावित कर रहे हैं— ) येषां अनुवषट्न करोति जिन दो देवों के ( ग्रह ) के लिए होता अनुवषट् नहीं करता है उन असंस्थितान् सोमान् असंस्थित सोमों का भक्षयति (ऋत्विक् लोग) भक्षण करते हैं — इत्याहुः यह कहा गया है और (दर्शपूर्णमास आदि में स्विष्टकृत भाग से पूर्व हवि के संस्कार के लिए) को नु सोमस्य स्विष्टभाक् सोम (के संस्कार) के लिए कौन सा स्विष्टभाक् होता है? सा ० भा ० — ‘ येषां’ द्विदेवत्यग्रहाणामर्थे होता नानुवषट्करोति, ते द्विदेवत्या: सोमा ‘ असंस्थितः ’ असमाप्ताः; देवतार्थहोमस्यासमाप्तौ कथमृत्विजस्तान् द्विदेवत्यान् भक्षयन्ति? इत्येके चोद्यमाहुः ' । दर्शपूर्णमासादिषु स्विष्टकृद्भागेन ततः पूर्वेषां हविषां संस्कारो भवति। ततः सोमस्यापि संस्काराय को नाम स्विष्टकृद्भागः? इति द्वितीयं चोद्यम्॥ तत्रोत्तरमाह— यद्वाव ' सोमस्याग्ने वीहि' इत्यनुवषट्करोति, तेनैव संस्थितान् सोमान् भक्षयन्ति, स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति ॥६ ॥
( १ ) ‘ऋतुयाजान् द्विदेवत्यान्' (आश्व० श्रौ० ५.५.२१ ) इत्यादियज्ञगाथादर्शनाद् येषामृ- तुयाजद्विदेवत्यपात्नीवतादित्यग्रहसावित्रग्रहाणां नानुषट्करोति होत्रादिः; तान् असंस्थि- तान् असमाप्तान् किमिति भक्षयन्तीत्येकं चोद्यम् - इति षड्गुरुशिष्यः ।