ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 541–550
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 541–550
पृष्ठ 541
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ४७ ९ हिन्दी –( उपर्युक्त प्रश्न का उत्तर कह रहे हैं - ) यद् वाव जो कि ' सोमस्याग्ने वीहि' अर्थात् हे अग्नि सोम का पान करो - इति अनुवषट्करोति यह अनुवषट् करता है, तेनैव उसी ( अनुवषट्कार ) से संस्थितान् सोमान् भक्षयन्ति संस्थित सोमों का पान करते हैं और सः उ एव वही सोमस्य स्विष्टकृद्भागः स्विष्टकृद्भाक् है अतः वषट्करोति वषट्कार करता है। सा० भा० – मन्त्रे सोमस्येति जातिमात्रमुद्दिश्यानुवषट्करोतीति यदेवास्ति तेनै-वानुषट्काररहिता द्विदेवत्यादयः सर्वे सोमाः संस्थिताः समाप्ताः । तस्मात् संस्थितानेव द्विदेवत्यानृत्विजो भक्षयन्ति । 'स उ' एव यथोक्तोऽनुवषट्कार एव सोमस्य स्विष्टकृद्भागः । अतो वषट् करोति । उक्तस्य सर्वस्य प्रयोजनस्य सिद्ध्यर्थमनुवषट्कुर्यादित्यर्थः ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये (एकादशाध्याये ) पञ्चमः खण्डः ॥५ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के पञ्चम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ षष्ठः खण्डः सा० भा ० — अथ वषट्कारमाश्रित्यैवाभिचारप्रयोग उच्यते— ( वषट्कारमाश्रित्याभिचारप्रयोगः ) वज्रो वा एष यद्वषट्कारो यं द्विष्यात् तं ध्यायेद् वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति ॥ १ ॥
हिन्दी – ( वषट्कार द्वारा अभिचार- प्रयोग को कह रहे हैं - ) यद् वषट्कारः जो वषट्कार है एषः व्रजः वै यह वज्रस्वरूप है। अतः वषट्करिष्यन् वषट्कार करता हुआ तं ध्यायेत् उस ( व्यक्ति) का ध्यान करे, यं द्विष्येत् जिससे द्वेव करता है । तस्मिन्नेव उस ध्यान से ही तम् उस द्वेष करने वाले को वज्रम् आस्थापयति वज्र का प्रहार हो
जाता है।
सा० भा ० — वषट्कारस्य वज्ररूपत्वात् तत्कालध्याने च द्वेष्ये वज्रप्रहारो भवति॥
अथ वौषडित्यस्य वषट्कारस्योत्तरभागं प्रशंसति- ( वौषडित्यस्य प्रशंसनम् ) षळिति वषट्करोति, षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्
पृष्ठ 542
पाठ पढ़ें पाठ छिपाएँ
: [४८० ऐतरेयब्राह्मणम् ११.६ तृतीयपञ्चिकायां प्रतिष्ठापयत्यृतून् वै प्रतितिष्ठत इदं सर्वमनु प्रतितिष्ठति यदिदं " किञ्च ॥२ ॥
हिन्दी—( अब वषट्कार के उत्तरभाग 'वौषट्' की प्रशंसा कर रहे हैं— ) षडिति षट् इस शब्द से वषट् करोति वषट्कार करता है। षड् वा ऋतवः ऋतुएँ छ: होती हैं। तत् इस ( वषट्कार) से ऋतून् एव कल्पयति ऋतुओं को ही समर्थ बनाता है और ऋतून प्रतिष्ठापयति ऋतुओं को स्थिर करता है। ॠतून् एवं प्रतितिष्ठते ऋतुओं को ही प्रतिष्ठित करता है और यदिदं किञ्च यह जो कुछ भी है इदं सर्वम् उन सभी को अनुप्रतितिष्ठति बाद में प्रतिष्ठित कर देता है। सा० भा ० — षंडित्यनेन मन्त्रभागेन वसन्तादिषडृतुसंख्याया बुद्धिस्थत्वाद् 'ऋतून् कल्पयति ' ' स्वस्वप्रयोजनसमर्थान् करोति। तावतर्तवो व्याकुलतामन्तरेण प्रतितिष्ठति तत् प्रतिष्ठाम् ‘ अनु’ स्थावरजङ्गमरूपं जगत् सर्वं स्वस्वभागे प्रतिष्ठितं भवति॥ तत्प्रतिष्ठार्थं प्रामाणिकपुरुषवचनोदाहरणेन द्रढयति— प्रतितिष्ठति य एवं वेद, तदु ह स्माऽऽह हिरण्यदन् बैदः, एतानि वा एतेन षट् प्रतिष्ठापयति, द्यौरन्तरिक्षे प्रतिष्ठिता अन्तरिक्षं पृथिव्याम्, पृथिव्यप्स्वापः सत्ये, सत्यं ब्रह्मणि, ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः र प्रतितिष्ठन्तोरिदं सर्वमनु प्रतितिष्ठति यदिदं किञ्च, प्रतितिष्ठति य एवं वेद ॥ ३ ॥
हिन्दी– (उसकी प्रतिष्ठा को प्रामणिक पुरुष के वचन के उदाहरण द्वारा दृढ़ कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है वह प्रतितिष्ठति स्थिर हो जाता है- हिरण्यदन् बंदः तदु ह आह इस प्रकार बिद के पुत्र ( सुवर्ण के समान दाँतों वाले ) हिरण्यदन्त (नामक ) ऋषि ने कहा है । एतानि वा षड् एतेन प्रतिष्ठापयति इन ( द्युलोक ले लेकर ब्रह्म तक के ) छः स्थानों को (होता) इस ( वषट्कार ) से स्थिर करता है। द्यौ अन्तरिक्षं प्रतिष्ठिता द्युलोक अन्तरिक्ष लोक में प्रतिष्ठित है, अन्तरिक्षं पृथिव्याम् अन्तरिक्ष पृथिवी में, पृथिवी अप्सु पृथिवी जलों में, आपः सत्ये जल सत्य में, सत्य ब्रह्मणि सत्य वेद में और ब्रह्म तपसि वेद तप में (प्रतिष्ठित है) । एताः एव ये ही तत्प्रतिष्ठाः उस ( वषट्कार) की प्रतिष्ठा है। प्रतितिष्ठन्तः प्रतिष्ठित ये सभी ( पृथिवी) इत्यादि प्रतितिष्ठति एकत्र ही प्रतिष्ठित हैं । तत्पश्चात् यदिदं किञ्च जो यह सब कुछ ( जगत्) ( १ ) ‘ सम्पति: क्लृप्तिः’—इति षड्गुरु ०। कल्पनमविपर्यस्तधर्मत्वम्' इति भट्टभास्करः । ( २ ) ‘ अत्र यद्यप्यन्तरिक्षादीनामेव प्रतिष्ठात्वं ब्राह्मणेनोच्यते, तथापि द्युलोकस्यापि देवानां प्रतिष्ठात्वात् प्रतिष्ठेति द्युप्रभृतयः षडुच्यन्ते। तपसस्तु सप्तमस्य सत्यस्य सर्वप्रतिष्ठात्वे तस्य होत्रा क्वचिदप्रतिष्ठापनीयत्वात् तद् व्यतिरेकेण षड् गृह्यन्ते' – इति भट्टभास्करः ।
पृष्ठ 543
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ४८१ है सर्वम् वह सम्पूर्ण प्रतितिष्ठति प्रतिष्ठित होता है। यः एवं वेद जो यह जानता है । वह प्रतितिष्ठति प्रतिष्ठित होता है। सा ० भा० – हिरण्यमया दन्ता यस्यासौ हिरण्यदन् । बिदस्य पुत्रो बैदः तादृशो मुनिः ' तदु ह' तदेव वचनमाह स्म। किं वचनमिति? तदुच्यते -एतान्येव द्युलोकादीनि ब्रह्मान्तानि षट्स्थानानि यानि सन्ति, तान्येवैतेन वषट्कारेण होता प्रतिष्ठापयति। तत्र द्युलोकस्याधस्ता- दन्तरिक्षं, तस्मादन्तरिक्षे द्युलोक आश्रितः । तच्चान्तरिक्षं पृथिव्यामाश्रितम्। पृथिवी चाधोवर्तिनीष्वप्स्वाश्रिता। आपश्च सत्ये समाश्रिताः, जनेषु सत्यवादिषु सत्सु यथाकालं वृष्टिसंभवात्। सत्यं ‘ब्रह्मणि' वेदे प्रतिष्ठितम्। ईदृशमाचरणं सत्यमिति वेदेनैवावगमात्। वेदस्तपसि' वषट्कारमन्त्रानुष्ठानरूपे प्रतिष्ठितः । वेदस्यानुष्ठानप्रतिपादनार्थत्वात् । ‘ इति ’ अनेन प्रकारेणैता द्युलोकादय एव यथावत्तेन वषट्कारेण यदा परस्परप्रतिष्ठिता भवन्ति तदानीं प्रतिष्ठारूपास्ताः पृथिव्याद्या एकैकत्र प्रतिष्ठिताः सन्ति। ता अनु पश्चाद्यदिदं किञ्च
जगदस्ति, तत्सर्वं प्रतितिष्ठति। य एवं वेदिता स च प्रतितिष्ठति॥
अथ वषट्कारमन्त्रस्य पूर्वोत्तरभागावुभौ प्रशंसति— ( वषट्कारमन्त्रस्य पूर्वोत्तरभागयोः प्रशंसनम् ) वौषळिति' वषट्करोत्यसौ वाव वावृतवः षळेतमेव तदृतुष्वादधा- त्यृतुषु प्रतिष्ठापयति, यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति ॥४ ॥
हिन्दी—( अब वषट्कार मन्त्र के पूर्व और उत्तर भाग की प्रशंसा कर रहे हैं— ) वौषट् इति वषट् करोति वौषट् इस शब्द से वषट्कार करता है। असौ वा वौ ( वौषट् में) ‘ वौ ' यह उस आदित्य का बोधक है और ऋतवः षट् 'षट्' (छः ) ऋतुओं का बोधक है । तत् इस ( वौषट् के पाठ से ) एतम् इस ( वौ से अभिधेय आदित्य ) को ऋतुषु आदघाि ऋतुओं में स्थापित करता है । औरऋतुषु प्रतिष्ठपयति ऋतुओं में स्थिर कर देता है। इस प्रकार यादृक् इव देवेभ्यः करोति (होता ) जिस प्रकार (प्रतिष्ठा को ) देवताओं के लिए करता है तादृक् इव देवाः अस्मै कुर्वन्ति वैसा ही देवता इस ( होता के यजमान) के लिए (प्रतिष्ठारूप प्रयोजन ) को करते हैं। सा ० भा ० — मन्त्रे पूर्वभागो वौशब्दो निपातत्वाद् 'वि गतिप्रजन ' इत्यादिधातुजत्वाद् ( १ ) ' तपः परमं ज्योतिः ऋतं च सत्यं चाभीद्धात् तपसः ' इति यथा प्रतिष्ठितम् –इति इति षड्गुरु ०। ' परस्मिंस्तेजसि ईश्वरशरीरे' इति भट्टभास्करः । ( २ ) ' वौ ३षडिति वषट्कारः ' – इति आश्व० श्री० १.५.१५ । 'ब्रूहिप्रेष्यश्रौषड' - इति (पा० सू० ८.२.९ १ ) प्लुतिः। ( ३ ) ‘ वी गतिव्याप्तिप्रजनकान्त्यनखादनेषु' – इति धा० पा० अदा० प० ३८ ।
पृष्ठ 544
पाठ पढ़ें पाठ छिपाएँ
: [४८२ ऐतरेयब्राह्मणम् ११.७ तृतीयपञ्चिकायां वा गमनस्वभावमादित्यमभिधत्ते । तदेतदभिप्रेत्यासौ वाव ' वौ’ — इत्युक्तम् । वसन्ताद्याः ‘ऋतवः ’ संख्यावशात् षट् इत्यभिधीयन्ते । तन्मन्त्रपाठेनैतमेव वौशब्दाभिधेयमादित्यं षट्शब्दाभिधेयेष्वृतुष्वादधाति। न केवलमाधानमात्रं किंतु तेष्वृतुषु प्रतिष्ठापयति स्थैर्येणाव-स्थापयति । एवं सत्यसौ होता देवेभ्यो यादृशमेव प्रयोजनं करोति तादृशमेव प्रतिष्ठारूपं प्रयोजनम् ‘ अस्मै’ होत्रे, तद् द्वारेण यजमानाय देवाः कुर्वन्ति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये (एकादशाध्याये ) षष्ठः खण्डः ॥६ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के षष्ठ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा ० भा ० — अथ फलविशेषार्थं वषट्कारस्यावान्तरभेदानाह— ( फलविशेषाय वषट्कारस्यावान्तर भेदनिरूपणम्) यो वै वषट्कारा वज्रो धामच्छद् रिक्तः ॥ १ ॥
"हिन्दी - ( अब फल-विशेष के लिए वषट्कार के अवान्तर भेदों को कह रहे हैं - ) ( १ ) 161‘ अत्र ' वौ ' इति शब्देन सूर्योऽसौ कथ्यते कथम् । ' वेञो डिङश्च सोरर्थे सदा खे गतिमान् रविः ॥ (उणा० सू० ४.७ ) निघण्टौ पठ्यते चैवं 'विः पक्षिपरमात्मनोः । ' (बैज० को० शेषकाण्ड पुल्लिङ्गाध्याये श्लो० ६० ) – इति षड्गुरुशिष्यः ( २ ) 'वौ इति पदेन सप्तम्यन्तेनोच्यते। वेतेरौणादिकं डिप्रत्यये विरिति आकाशगामी आदित्य उच्यते। तत्र षडृतव उत्पद्यन्तामनेन यागेन इति समुदायार्थः । अस्यार्थस्य द्योतकः पदसमु- दायात्मा निपातोऽयं द्रष्टव्यः । आदित्ये हि षडृतव उत्पद्यन्ते आदित्यगत्यधीनात्मलाभ- त्वाद् ऋतूनाम्। यद्वा, वौ आदित्ये जगतां धारयितरि षडृतवः सहायत्वेन वर्तन्ताम्’– इति भट्टभास्करः । ( ३ ) ' एतमेव तदित्यादि। ननु विप्रतिषिद्धमिदं ब्राह्मणम्। आदित्य ऋतूनां स्थापनं मन्त्रेण प्रतिपाद्यते । आदित्यमेव ऋतुष्वादधाति इति ब्राह्मणेन कथमुच्यते? अयमभिप्रायः- नानेन वषट्शब्दस्यार्थोऽभिधीयते। अपि तु ईदृशस्य यागस्य फलमनेन ख्याप्यते इति व्याचष्टे । यस्मादादित्यस्योपकाराय तस्मिन् ऋतवः प्रतिष्ठाप्यन्ते तस्मात् प्रत्युपकारार्थमृतु-.ष्वादित्यं प्रतिष्ठापयति। न केवलमृतूनामादित्ये स्थापनमेवानेन क्रियते, अपित्वादित्य- स्याप्यृतुष्वास्थापमनेन वौषट्ाब्देन प्रतिपाद्यते प्रत्युपकारपर्यन्तत्वान्महत्सूपकारस्य। एतदेव स्पष्टयति यादृगिव वा इत्यादि' - इति भट्टभास्करः ।
पृष्ठ 545
पाठ पढ़ें पाठ छिपाएँ
:: ]:प्रथमोऽध्यायः सप्तम खण्ड सायणाचार्यकृतभाष्योपेतम् ४८३ वज्रः धामच्छद् रिक्तः वज्र, धामच्छद और रिक्त— त्रयः वषट्काराः ये तीन प्रकार के वषट्कार होते हैं ।
सा ० भा० — वज्र इति प्रथमस्य वषट्कारभेदस्य नामधेयम्। धामच्छदिति द्वितीयस्य।
'रिक्त' इति तृतीयस्य ॥
तेषां मध्ये वज्रस्य स्वरूपं दर्शयति- ( वज्रनामकवषट्कारस्वरूपः ) स यमेवोच्चैर्बलि वषट्करोति स वज्रः ॥२ ॥
हिन्दी—( उन वषट्कारों में 'वज्र' नामक वषट्कार के स्वरूप को दिखला रहे हैं - ) सः वह होता यम् जिस ( वषट्कार मन्त्र) को उच्चैः बलिः ऊँची ध्वनि में और बल लगाकर करता है सः वज्रः वह (वषट्कार) वज्र है। सा० भा ० — स होता यमेव मन्त्रमुच्चैर्यथा भवति तथा, बलि' च यथा भवति तथा, वषट्करोति, स मन्त्ररूपो वषट्कारो वज्र इत्युच्यते । अत्रोच्चैःशब्देन ध्वनेराधिक्यमुच्यते, बलिशब्देनाक्षरपारुष्यं तदुभययुक्तो वज्रः ॥ तस्य प्रयोगं विधत्ते— ( वज्रनामकवषट्कारप्रयोगः ) तं तं प्रहरति, द्विषते भ्रातृव्याय वधं योऽस्य स्तुत्यस्तस्मै स्तर्तवै; तस्मात् स भ्रातृव्यवता वषट्कृत्यः ॥३ ॥
हिन्दी—( वज्र नामक वषट्कार के प्रयोग को दिखला रहे हैं— ) यो अस्य स्तृत्यः जो इस ( यजमान) का वध्य होता है तस्मै स्तर्तवे उसके वध के लिए और द्विषते भ्रातृव्याय ( यजमान से ) द्वेष करने वाले शत्रु के लिए ( होता) तं तं वधं प्रहरति उस उस वध ( वज्ररूप वषट्कार) का त्रहार करता है। तस्मात् इसी कारण सः वह ( वज्र ) भ्रातृव्यवता वषट्कृत्यः शत्रु वाले यजमान के लिए ( यह) वषट्कार है। सा० भा० — यो द्वेष्यो यजमानस्य स्मृत्यो हन्तव्यो भवति, तस्मै स्तर्तवै तं हन्तुं द्विषते द्वेषं कुर्वते भ्रातृव्याय शत्रवे तं तं वर्ध प्रहरति। वधशब्दो हननसाधनं वज्रं ब्रूते । यदा यदाऽपेक्षितस्तदा तदेति विवक्षया तं तमिति वीप्सा । यस्मात् प्रहरणहेतुवज्रः, तस्मात् स वज्रो भ्रातृव्यवता यजमानेन वषट्कृत्यो वषट्काररूपेण प्रयोक्तव्यः । होतृप्रयोग एव यजमान- प्रयोगः, दक्षिणया होतुः क्रीतत्वात्। धामच्छदः स्वरूपं दर्शयति— ( १ ) 'बलि बलवत्, अतिस्फुटम्' -इति षड्गुरुशिष्यः ।
पृष्ठ 546
पाठ पढ़ें पाठ छिपाएँ
: [४८४ ऐतरेयब्राह्मणम् ११.७ तृतीयपञ्चिकायां ( धामच्छदस्वरूपम् ) अथ यः समः संततोऽनिर्हाणर्चः स धामच्छत् ॥४ ॥
हिन्दी— ( धामच्छद नामक वषट्कार का स्वरूप दिखला रहे हैं — ) यः समः जो ( वषट्कार पूर्वोक्त बलि इत्यादि दोष से रहित और अध्ययन करते समय के उच्चारण के ) समान ध्वनि वाला संततम् (याज्या से ) विच्छेद- रहित तथा अनिर्हाणर्चः सम्पूर्ण याज्या वाली ऋचा से सम्पन्न होता है, सः धामच्छत् वह धामच्छत् ( नामक) वषट्कार है । सा० भा ० — यो वषट्कारः 'समः ' पूर्वोक्तबलित्वादिदोषरहितो यथाऽधीतस्तथैवो- च्चारितः संततो याज्यया सह विच्छेदरहितः, निःशेषेण हानं परित्यागो यस्या ऋचः, सा निर्हाणा। तथाविधा काचिदृग्याज्यारूपा यस्य वषट्कारस्य सोऽयं निर्हाणर्चः । याज्या- पाठहीन इत्यर्थः । तद्वैलक्षण्यात् अनिर्हाणर्च: संपूर्णयाज्यापाठोपेत इत्यर्थः । कीदृशो वषट्-कारो धामच्छदिति? उच्यते— धाम यज्ञस्थानं तत्र यथा रक्षांसि न प्रविशन्ति, तथा छाद-यति, स धामच्छत्। तस्य प्रयोगं विधत्ते— ( धामच्छदप्रयोगः ) तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते, तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः ॥५ ॥
हिन्दी— ( धामच्छत् नामक वषट्कार के प्रयोग का विधान कह रहे हैं— ) तं तम् उस (वषट्कार ) से प्रजाश्च पशवः च प्रजा और पशु से अनूपतिष्ठते सम्पन्न हो जाता है। तस्मात् इसी कारण प्रजाकामेन पशुकामेन प्रजा की कामना से और पशुओं की कामना से वषट्कृत्यः ( यह) वषट्कार करना चाहिए । सा ० भा ० – प्रजाभिः पशुभिश्चान्वयार्थं तं तमिति वीप्सा; तं वषट्कारं धामच्छदं प्रजाश्च पशवश्च सेवन्ते। तस्मात् तादृक्कामेण धामच्छद् वषट्कारः प्रयोक्तव्यः ॥ रिक्तस्य स्वरूपं दर्शयति— ( रिक्तस्वरूपः ) अथ येनैव षळवराध्नोति, स रिक्तः ॥ ६ ॥
हिन्दी-( अब रिक्त नामक वषट्कार के स्वरूप को दिखला रहे हैं ) येन जिसमे ( १ ) —सम: याज्यया तुल्यध्वनिः। संततः मध्य उच्छ्वासरहितः । व्याचष्टे -अनिर्माणर्चः । निर्माणं विश्लेषः । ‘ ऋक्पू: ' इत्यकारः समासान्तः । ऋचा विश्लेषरहितः ' -इति षड्गुरुशिष्यः । . ' नितरां हानं निर्माणम् । यस्य वषट्कारस्य ऋग् हीना न भवति, सोऽनिर्ह्राणर्च: ’ –इति गोविन्दस्वामी ।
पृष्ठ 547
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४८५ (उच्चारण ) से षट् वषट्कार अवराध्नोति समृद्धि के अभाव ( नीची ध्वनि के उच्चारण ) को प्राप्त करता है । सः रिक्तः वह ( वषट्कार) रिक्त कहलाता है। सा० भा ० – षट्शब्दो वषट्कारमभिधत्ते, भीमसेनो भीम इतिवदेकदेशेन व्यव-हारात् । येनैवाच्चारणेन षळवराध्नोति वषट्कारोऽवराधं समृद्ध्यभावां प्राप्नोति। नीचो-च्चारणेन हि वषट्कारस्य समृद्ध्यभावः। स तथोच्चारितो वषट्कारो रिक्त इत्युच्यते। ' उच्चध्वनियोग्यस्य तदभावे रिक्तंप्रायत्वात्॥ तमेतं रिक्तं निन्दति— ( रिक्तवषट्कारनिन्दा ) रिणक्तयात्मानं, रिणक्ति यजमानं, पापीयान् वषट्कर्ता भवति, पापीयान् यस्मै वषट्करोति; तस्मात् तस्याऽऽशां नेयात् ॥७ ॥
हिन्दी —( इस रिक्त वषट्कार की निन्दा कर रहे हैं— ) आत्मानं रिणक्ति ( रिक्त नामक वषट्कार करने वाला होता) अपने को रिक्त (दरिद्र) करता है, यजमानं रिणक्ति यजन करने वाले को समृद्धि- हीन करता है। पापीयान् वषट्कर्त्ता भवति वषट् करने वाला पाप का भागी हो जाता है और यस्मै वषट्करोतिजिस यजमान के लिए वषट्कार करता है, वह भी पापीयान् पाप का भागी होता है। तस्मात् इसी कारण तस्य आशां न इयात् उस (रिक्त वषट्कार को करने ) की इच्छा भी नहीं करना चाहिए । सा० भा० - रिक्ताख्यो वषट्कारः प्रयुज्यमानः सन् होतुरात्मानं 'रिणक्ति' रिक्ती-करोति, समृद्धि हीनं दरिद्रं करोतित्यर्थः । तथा यजमानमपि रिणक्ति। अतस्तेन वषट्कर्ता होता ‘ पापीयान् भवति’ अत्यन्तनकसाधनपापेन युक्तो भवति। यस्मै यजमानाय वषट्करोति सोऽपि पापीयान् भवति। तस्मात् तस्य रिक्तस्य वषट्कारस्याऽऽशां नेयान्न प्राप्नुयाद्, इच्छामपि न कुर्यात्, किमु तत् प्रयोगमित्यर्थः ॥ प्रश्नोत्तराभ्यां वषट्कारस्येष्टानिष्टफलप्राप्तिसामर्थ्यं दर्शयति— ( वषट्कारस्येष्टानिष्टप्राप्तिसाधनत्वम्) किं स यजमानस्य पापभद्रमाद्वियेतेति ह स्माऽऽह योऽस्य होता ( स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्यात् ॥ ८ ॥
हिन्दी - (प्रश्नोत्तर द्वारा वषट्कार के अभीष्ट और अनिष्ट फलपाप्ति के सामर्थ्य को ( १ ) ' येन वषट्कारेण षडपि शब्दधर्मान् शिक्षाशास्त्रप्रसिद्धान् वर्णस्वरमात्राबलसामसन्ता- नाख्यान् अवराध्नोति व्यर्धयति अवहीनान् करोति स वषट्कारो रिक्तो नाम' – इति भट्टभास्करः । ‘षडिति वषट्कारमन्त्रः तस्य अवराधः ऋक्स्वरान्नीचैरुच्चारणम्' - इति गोविन्दस्वामी ।
पृष्ठ 548
पाठ पढ़ें पाठ छिपाएँ
: [४८६ ऐतरेयब्राह्मणम् ११.७ तृतीयपञ्चिकायां दिखला रहे हैं— ) ( प्रश्न) सः वह (होता) यजमानस्य पापभद्रम् यजमान के अनिष्ट या अभीष्ट को किं आद्रियेत् क्या कर सकता है। ( उत्तर) ह स्म आह इस विषय में कहा गया है कि यः अस्य होता स्यात् जो इस ( यजमान ) का होता होता है, वह अत्र इसी कुर्यात् वैसा कर(जन्म ) में एनम् इस ( यजमान) को यथा कामयेत् जैसा चाहे तथा सकता है। सा० भा०-— तदेतद् वाक्यं 'प्राणानां वा एतदुक्थम्, इत्यस्मिन् खण्डे प्रउगविषयं यथा व्याख्यातम्, तथैवात्र वषट्कारविषयं व्याख्यतव्यमिति॥ अनिष्टफलसाधनत्वं दर्शयति--- ( अनिष्टफलसाधनत्वम् ) यं कामयेत यथैवानीजानोऽभूत्, तथैवेजानः स्यादिति, - यथैवास्य ऋचं ब्रूयात् तथैवास्य वषट्कुर्यात्, सदृशमेवैनं तत्करोति ॥ ९ ॥
हिन्दी— ( अनिष्ट फल की साधनता को दिखला रहे हैं - ) यं कामयेत (होता) जिस यजमान को चाहे कि यथा एव अनीजानः अभूत् जिस प्रकार यह यजमान अकृतयज्ञ वाले पुरुष के समान हो जाय और तथा एव ईजानः स्यात् उसी प्रकार यज्ञफल से रहित हो जाय तो तथैव अस्य वषट्कुर्यात् उसी स्वर से इस ( यजन करने वाले ) का वषट्कार भी करें। तत् इस प्रकार एनम् इस ( यजमान ) को सदृशं करोति ( यज्ञ करके भी यज्ञ से रहित के ) समान कर देता है। सांभा ० — ‘ अनीजानः ' अकृतयज्ञः पुरुषो यथैव फलरहितोऽभूत्, तथैवायम् ‘ईजानः ' कृतयज्ञोऽपि फलरहितः स्यादिति यं यजमानं होता कामयेत, अस्य यजमानस्य येन स्वरेण याज्यां ब्रूयात्, तेनैव स्वरेण वषट्कारमपि ब्रूयात् । तथा सत्येनं कृतयज्ञं यज्ञरहितेन सदृशं फलरहितं करोति ॥ अनिष्टफलान्तरसाधनत्वं दर्शयति- यं कामयेत पापीयान् स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात् पापीयांसमेवैनं तत्करोति ॥ १० ॥
हिन्दी— ( अन्य अनिष्ट फल की साधनता को कट रहे हैं— ) यं कामयेत (होता ) जिस ( यजन करने वाले ) को चाहे कि पापीयान् स्यात् (यह यजमान ) पाप ( दरिद्रता अथवा नरक ) का भागी हो तो उच्चैस्तराम् अस्य ऋचम् उक्त्वा अत्यधिक ऊँची ध्वनि से इस ( यजमान की याज्या वाली) ऋचा का उच्चारण करके शनैस्तरां वषट्कुर्यात् अत्यन्त नीची ( ध्वनि ) से वषट्कार करे। तत् इस (उच्चारण) से एनम् इस ( यजन करने वाले ) को पापीयांसं करोति पाप का भागी कर देता है।
पृष्ठ 549
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४८७ सा० भा०-० - पापीयान् दरिद्रो नरकयोग्यो वा यजमानः स्यादिति कामयमानो होतर्चमतिशयेनोच्चैरुच्चार्य वषट्कारमतिशयेन नीचैर्ब्रयात्। तथा सत्येनं यजमानं पापीयां-समेव करोति॥ अथेष्टफलसाधनत्वं दर्शयति— ( अभीष्टफलसाधनत्वम्) यं कामयेत श्रेयान् स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच्छ्रिय एवैनं तच्छ्रियामादधाति ॥ ११ ॥
हिन्दी –( अब अभीष्ट फल की साधनता को दिखला रहे हैं - ) यं कामयेत् ( होता ) जिस ( यजन करने वाले ) को चाहे कि श्रेयान् स्यात् श्रेष्ठ (दरिद्रता और पाप से रहित) होवे तो अस्य इस (यजन करने वाले) का शनैस्तराम् ऋचम् उक्त्वा अत्यन्त नीची ध्वनि से ऋचा ( याज्या) को उच्चारित करके श्रिये समृद्धि के लिए उच्चैस्तरां वषट्कुर्यात् अत्यधिक ऊँची ध्वनि से वषट्कार करे। तत् इस प्रकार (करने ) से एनम् इस ( यजन करने वाले ) को श्रियाम् एव आदधाति श्री (इहलौकिक और पारलौकिक कल्याण) में ही प्रतिष्ठापित करता है । सा ० भा ० – श्रेयान् दारिद्र्यरहितः पारहितश्च यजमानः स्यादिति कामयमानो होतर्च-याज्यां शनैरुच्चार्य वषट्कारमतिशयेनोच्चैरुच्चारयेत्। तच्च श्रिये संपदर्थमेव भवति। ‘ तत्’ तेन प्रयोगेणैनं यजमानं श्रियामैहिकामुष्मिकसंपदि स्थापयति॥ याज्यावषट्कारयोर्नैरन्तर्यं विधत्ते— संततमृचा वषट्कृत्यं संतत्यै ॥१२ ॥
हिन्दी –( याज्या और वषट्कार में निरन्तप्ता होने का विधान कह रहे हैं - ) सन्तत्यै ( यजन करने वाले की समृद्धि की ) निरन्तरता के लिए ऋचा वषटकृत्यम्ऋचा ( याज्या ) और वषट्कार को संततम् निरन्तर (बिना रुके ) सम्पादित करना चाहिए । सा० भा ० — ऋचा याज्यया सह संततं निरन्तरं यथा भवति तथा ' वषट्कृत्यं '
वषट्कार उच्चारणीयः । तच्च यजमानस्य श्रेयः संतत्यै संपद्यते ॥
वेदनं प्रशंसति- संधीयते प्रजया पशुभिर्य एवं वेद ॥ १३ ॥
हिन्दी –(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता
है, वह प्रजया पशुभिः प्रज़ा और पशुओं सन्धीयते संयुक्त होता है ।
सा० भा ० — संधीयते संयुज्यते॥
( १ ) 'उच्चैस्तरां वा वषट्कारः' इति पा० सू० १.२.३५।
पृष्ठ 550
पाठ पढ़ें पाठ छिपाएँ
: [४८८ ऐतरेयब्राह्मणम् ११.८ तृतीयपञ्चिकायां ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) सप्तमः खण्डः || ७||. ॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा० भा० - अथ होतुर्वषट्कारकाले देवताध्यानं विधत्ते— ( वषटकारकाले होतुः देवताध्यानविधानम् ) यस्यै देवतायै हविर्गृहीतं स्तात्, तां ध्यायेद् वषट्करिष्यन्' साक्षादेव तद्देवतां प्रीणाति, प्रत्यक्षाद् देवतां यजति ॥ १ ॥
हिन्दी –( वषट्कार के समय होता द्वारा किये गये देवता के ध्यान का विधान कर रहे हैं— ) यस्यै देवतायै जिस देवता के लिए हविः गृहीतं स्यात् हवि ग्रहण की गयी हो, ( होता) ताम् उस ( देवता) का वषट्करिष्यन् वषट्कार करते हुए ध्यायेत् ध्यान करें । तत् इस ( ध्यान) से साक्षादेव देवतां प्रीणाति प्रत्यक्ष रूप से उस देवता को प्रसन्न करता है और प्रत्यक्षाद् देवतां यजति प्रत्यक्ष रूप से उस देवता का यजन करता है । सा० भा०-- अध्वर्युः यां देवतामुद्दिश्य हविर्गृह्णाति तां देवतामयं होता वषट्करिष्यन् वषट्कारायोद्युक्तः सन् ध्यायेन्मनसा देवतायाः शस्त्रीयां देवतामूर्तिमादौ कृत्वा सम्यग- नुसंधाय पश्चाद् वषट्कुर्यादित्यर्थः । एवं सति 'साक्षादेव' प्रत्यक्षेणैव देवतां तर्पयति । न केवलं तृप्त्यर्थमेव देवतायाः साक्षात्कारः, किंतु प्रत्यक्षात् प्रत्यक्षेणैव देवतां यजति, यागकाले प्रत्यक्षेण पश्यतीत्यर्थः । ननु देवता चक्षुषा न दृश्यते, कथमस्याः प्रत्यक्षत्वमिति चेत्, नायं दोषः । मानस-, तथैव चिन्त्यमानाऽपि प्रत्यक्षस्य विवक्षितत्वात् । यथा पुरोवर्तिनी देवता चक्षुषा दृश्यते मनसा दृश्यत एव ॥ होतुर्वषट्कारादूर्ध्वमनुमन्त्रणं विधत्ते- ( वषट्कारादूर्ध्वं होतुरनुमन्त्रणविधानम् ) वज्रो वै वषट्कारः, स एष प्रहृतोऽशान्तो दीदाय, तस्य हैतस्य न सर्व इव शान्तिं वेद, न प्रतिष्ठां, तस्माद्धाप्येतर्हि भूयानिव मृत्युः, ( १ ) इदमेव श्रुतिवचनं यथावदुद्धृतं निरुक्ते; ८.३.७ द्रष्टव्यम् । ( २ ) दुर्गाचार्यकृता निरुक्तवृत्तिश्चेहावेक्षणीया।