ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 551–560
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 551–560
पृष्ठ 551
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४८ ९ तस्य हैषैव शान्तिरेषा प्रतिष्ठा, वागित्येव, तस्माद् वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत, स एनं शान्तो न हिनस्ति ॥ २ ॥
हिन्दी— ( वषट्कार के बाद होता के अभिमन्त्रण को कह रहे हैं— ) वज्रः वै वषट्कारः वषट्कार वज्र स्वरूप है। सः एषः वह यह (वषट्काररूप वज्र ) प्रहृतः ( शत्रु के ओर) छोड़ा गया अशान्तः अशान्त होकर दीदाय प्रदीप्त हो जाता है । तस्य एतस्य उस इस ( वषट्काररूप वज्र) की शान्तिम् उपशम को सर्वे इव न वेद सभी लोग नहीं जानते हैं और न प्रतिष्ठाम् न तो (उसकी उपद्रव - शान्ति के बाद उग्रत्व के परिहार से अवस्थान रूप) प्रतिष्ठा को भी नहीं जानते हैं ) । तस्मात् इसी कारण एतर्हि इस (लोक ) में भूयान् इव मृत्युः बहुत लोग मृत्यु को (प्राप्त करते हैं ) । तस्य उस (वषट्-कार) की एवा वाग् इति शान्तिः एव यह वाक् (' वगोज: ' इत्यादि) मन्त्र शन्ति और एषा प्रतिष्ठा यह प्रतिष्ठा है । तस्मात् इसी कारण वषट्कृत्य वषट्कृत्य प्रत्येक बार वषट् - कार करके वाग् इति अनुमन्त्रयेत ' वाग्' इस मन्त्र से अनुमन्त्रित करना चाहिए। इस प्रकार शान्तः सः शान्त हुआ वह (वषट्कार) एनं न हिनस्ति इस (यजन करने वाले ) को नहीं मारता । सा० भा ० – वषट्कारस्य वज्रत्वमसकृदुक्तम्। ' स एषः ' वषट्कारात्मको वज्रः परस्योपरि प्रहृतः सन्नशान्त उग्रो दीदाय दीप्यते । तस्य वज्रस्य शान्तिमुपशमप्रकारं सर्व इव सर्वोऽपि पुरुषो न वेद। उपद्रवाशान्तेरुर्ध्वं वषट्कारस्योग्रत्वपरिहारेण क्वचिदस्थानं प्रतिष्ठा तामपि सर्वो न वेद। तस्माच्छान्तिप्रतिष्ठाविषयज्ञानाभावादेतर्ह्यपीदानीमपि लोके मृत्यु- र्भूयानिव बहुभूत एव प्रवर्तते। तस्य तादृशवषट्कारवज्रस्यैषैव वक्ष्यमाणा शान्तिः शमनो- पायः । तथैषा वक्ष्यमाणैव प्रतिष्ठा परोपद्रवरहिताऽवस्थिति: । 'वागोज: ' इत्यादिको यो मन्त्रः स एव शमनोपायः, न त्वन्यः कश्चिदस्ति । तस्माद् 'वषट्कृत्य वषट्कृत्य' यदा यदा वषट्करोति तदा तदा वागिति मन्त्रेणानुमन्त्रयेत । स वज्रस्तावता शान्त एनं न हिनस्ति । अयमेकः पक्षः ॥ पक्षान्तरमभिप्रेत्यान्येन मन्त्रेणानुमन्त्रणं विधत्ते— वषट्कार मा मां प्रमृक्षो, माऽहं त्वां प्रमृक्षं, बृहता मन उपह्वये, व्यानेन शरीरं, प्रतिष्ठाऽसि, प्रतिष्ठां गच्छ, प्रतिष्ठां मा गमयेति, वषट्कारमनुमन्त्रयेत ॥ ३ ॥
हिन्दी—(पक्षान्तर में अन्य मन्त्र से अनुमन्त्रण का विधान कर रहे हैं— ) ' वषट्कार हे वषट्कार! मां मा प्रमृक्षः मुझ (यजन करने वाले ) को विनष्ट मत करो । अहं त्वां मा प्रमृक्षम् मैं भी तुम ( वषट्कार) को विनष्ट नहीं करूँगा । मनः हे मननीयः! बृहता प्रौढ़ (यज्ञ) द्वारा उपह्वये ( तुम्हारे) शरीर को (मैं जानता हूँ)। व्यानेन शरीरम् व्यान वायु. के ऐ.ब्रा.पू-३१
पृष्ठ 552
पाठ पढ़ें पाठ छिपाएँ
: [४९ ० ऐतरेयब्राह्मणम् ११.८ तृतीयपञ्चिकायांद्वारा ( तुम्हारे) शरीर को मैं जानता हूँ। प्रतिष्ठा असि सभी (प्राणों के तुम) प्रतिष्ठा ( आश्रय ) हो। प्रतिष्ठां गच्छ अतः ( उन प्राणियों की स्थिरता के साथ) तुम स्थिर होवो । प्रतिष्ठां मा गमय ( तत्पश्चात्) मुझकों अवस्थान को प्राप्त कराओ' - इति इस मन्त्र से वषट्कारम् अनुमन्त्रयेत वषट्कार को अनुमन्त्रित करना चाहिए । सा० भा० — हे वषट्कार वज्ररूप, मां यजमानं 'मा प्रमृक्षः ' विनष्टं मा कार्षीः। अहमपि त्वां मा प्रमृक्षं विनष्टं माकार्षम्। ' बृहता' प्रौढेन यज्ञेन मनस्त्वदीयमुपह्वयेऽनु-जानामि । यथा व्यानेन व्यानादिवायुना सह त्वदीयं शरीरमनुजानामि यतस्त्वं सर्वस्य प्राणि- संघस्य प्रतिष्ठाऽऽश्रयोऽसि, तदर्थं त्वमपि प्रतिष्ठां स्थैर्येणावस्थितिं गच्छ। ततो मामपि प्रतिष्ठां स्थैर्येणावस्थितिं प्रापयेत्यनेनानुमन्त्रेणानुमन्त्रयेत॥ तमिमं द्वितीयं पक्षं निन्दित्वा मन्त्रान्तरं दर्शयति— तदु ह स्माऽऽह दीर्घमेतत् सदप्रभ्वोजः सह ओजः ॥४ ॥
हिन्दी— (इस द्वितीय पक्ष की निन्दा करके वषट्कारानुमन्त्रण के अन्य मन्त्र को दिखला रहे हैं— ) तदु आह इस ( पूर्वोक्त मन्त्र) के विषय में (कुछ ब्रह्मवादी ) कहते हैं कि एतद् दीर्घं सत् यह (अनुमन्त्रण मन्त्र) दीर्घ होते हुए भी अप्रभुः यह ( वषट्कार की शान्ति के लिए) असमर्थ है अत: ' ओजः सह ओज: ' (मन्त्र से अनुमन्त्रण करना चाहिए) । सा० भा० — तदु ह तत्रैवानुमन्त्रणे ब्रह्मवादी कश्चिदाह स्म। किमाहेति, तदुच्यते- एतत् पूर्वोक्तं मन्त्रवाक्यं दीर्घं सदपि वज्रं शमयितुमप्रभु न क्षमम् । कोऽसौ क्षमो मन्त्र इति स उच्यते— ‘ ओजः सह ओजः ' इति पदत्रयात्मको मन्त्रः । ' मन्त्रार्थं तु श्रुतिरेव व्याख्यास्यति॥ तेन मन्त्रेणानुमन्त्रणं विधत्ते- इत्येव वषट्कारमनुन्त्रयेत ॥५ ॥
हिन्दी – ( उस ‘ ओजः सह ओजः' मन्त्र से अनुमन्त्रण का विधान कर रहे हैं— ) इति एव इस ‘ ओजः सह ओजः' मन्त्र से वषट्कारम् अनुमन्त्रयेत वषट्कार का अनुमन्त्रण
करना चाहिए ।
सा० भा० -– एवकारः पूर्वमन्त्रव्यावृत्त्यर्थः ॥
मन्त्रपदयोरर्थं दर्शयति— ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ ॥६ ॥
हिन्दी -('ओजः सह ओजः ' मन्त्र के दोनों पदों का अर्थ दिखला रहे हैं - ) ओजः ( १ ) एष एव प्रियशरीरद्वयाभ्यामुपेतो व्यवहृयते; तद्वक्ष्यत्यनुपदम् इहैव । तथा च कल्पः— ‘ वागोज: सह ओजो मति प्राणापानाविति वषट्कार मुक्तवोक्त्वाऽनुमन्त्रयते’– इति आश्व० १.५.१७/
पृष्ठ 553
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४९ १च सह च वै ओज और सह (ये दोनों ) वषट्कारस्य प्रियतमे तन्वौ वषट्कार के लिए
अत्यधिक प्रिय शरीर है ।
सा० भा० – स्पष्टोऽर्थ ॥
अनेन मन्त्रेणोग्रत्वशान्तिं दर्शयति- प्रियेणैवैनं तद्वाम्ना समर्धयति ॥७ ॥
.... हिन्दी - (इस मन्त्र से वषट्कार की उग्रता की शान्ति को दिखला रहे हैं - ) तत् इस प्रकार प्रियेण धाम्ना एव प्रिय धाम से ही एनम् इस धाम को समर्धयति समृद्ध करता है। सा० भा० – प्रियतमयोः शरीरयोर्नामग्रहणे सति वषट्कारस्योग्रत्वरूपः कोपो गच्छति। तत एनं वषट्कारः प्रियेण धाम्ना सर्वभूतामनुपद्रवकारिणा प्रियेण स्वरूपेण समृद्धं करोति। अत्र मन्त्रगतो द्वितीय ओजः शब्द आदरार्थ इत्यभिप्रायः ॥ वेदनं प्रशंसति— प्रियेण धाम्ना समृध्यते य एवं वेद ॥८ ॥
हिन्दी–( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह प्रियेण धाम्ना समृध्यते प्रियधाम के साथ समृद्धि को प्राप्त करता है । अथ प्रियशरीरद्वयवाचकाभ्यां पदाभ्यां सहितमादौ विहितं मन्त्रमेव सिद्धान्तयति— वाक् च वै प्राणापानौ च वषट्कारस्त एते वषट्कृते वषट्कृते व्युत्क्रामन्ति, ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापाना- वित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति, सर्वायुः, सर्वायुत्वाय ॥ ९ ॥
हिन्दी- वाक् च प्राणापानौ च वाक् तथा प्राण और अपान वषट्कारः वषट्कार हैं। ते एते वे ये ( वाक्, प्राण और अपान ) वषट्कृते वषट्कृते प्रत्येक वषट्कार के पश्चात् व्युत्कामन्ति होता (के शरीर ) से बाहर निकल जाते हैं । तान् उन (वाक्, प्राण और अपान ) को अनुमन्त्रयेत ( इस मन्त्र से ) अनुमन्त्रित करना चाहिए – 'हे वषट्कार मयि मेरे में वाक् वाणी, ओजः बल प्राणपानौ प्राण और अपान (प्रतिष्ठत होंवे ) । तत् इस ( वषट्कार के अमिन्त्रण से) आत्मनि एव अपने में होता होता (नामक ऋत्विक्) वाचं च प्राणपानौ च वाणी, प्राण और अपान को प्रतिष्ठापयति प्रतिष्ठापित करता है और सर्वायुः सम्पूर्ण आयु को प्राप्त करता है तथा सर्वायुत्वाय यजन करने वाले को सम्पूर्ण आयु को प्राप्त कराने वाला होता है। सा० भा०-- येयं वागस्ति, यौ च प्राणापानौ स्तः, तेऽत्र त्रयो वषट्कारस्वरूपम्।
पृष्ठ 554
पाठ पढ़ें पाठ छिपाएँ
: [४९ २ ऐतरेयब्राह्मणम् ११.९ तृतीयपञ्चिकायांयदा यदा होता वषट्करोति तदा तदा वषट्काररूपा होतुर्वाक्प्राणापानाः शरीराद् उत्क्रा- मन्ति, अतस्तन्मा भूदिति तांस्त्रीन् वागोज इत्यादिना प्राणापानावित्यन्तेन मन्त्रेणानुमन्त्र- येत । मन्त्रस्यायमर्थः -‘ ओजः ’ ' सह' इत्याभ्यां प्रियशरीराभ्यामुपेत हे वषट्कार त्वत्प्रसादान् मय्योजो बलमस्तु । तथा वाक्प्राणापानाः सुखेन तिष्ठन्त्विति। अनेन मन्त्रेण होता स्वा- त्मन्येव वाचं च प्राणापानौ च स्थापयति। तावता स्वयं सर्वायुः शतसंवत्सरपरिमि-तेनाऽऽयुषा युक्तो भवति । एतच्च यजमानस्य सर्वायुत्वाय संपद्यते। पूर्वत्र 'वषट्कृत्य वागित्यनुमन्त्रयेत्' इति वषट्कारानुमन्त्रणयोरेककर्तृकत्वमुक्तम्। अत्राप्यात्मन्येव तद्धोतेति ब्राह्मणे होतृकर्तृकत्वं प्रतीयते। ततोऽनुमन्त्रणस्य यजमानकर्तृकत्वमन्यैरुक्तं बाधित्वा होतृकर्तृकत्वमेव द्रष्टव्यम्॥२ वेदनं प्रशंसति— सर्वमायुरेति य एवं वेद ॥१० ॥
हिन्दी –(इस ज्ञान के फल को दिखला रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है । ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये (एकादशाध्याये ) अष्टमः खण्डः ॥८ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के अष्टम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । अथ नवमः खण्डः सा ० भा ० — अथ प्रैषादीनां प्रशंसां विवक्षुरादौ प्रैषान् प्रशंसति— ( प्रैषादीनां प्रशंसनम् ) ( तत्र निर्वचनद्वारा प्रैषप्रशंसनम् ) यज्ञो वै देवेभ्य उदक्रामत्, तं प्रैषैः प्रेषमैच्छन्, यत् प्रैषैः प्रैषमैच्छंस्त- त्यैषाणां प्रैषत्वम् ॥ १ ॥
हिन्दी—( प्रैष इत्यादि की प्रशंसा करने की इच्छा से पहले निर्वचन द्वारा प्रैषों की प्रशंसा कर रहे हैं— ) देवेभ्यः वै यज्ञः उदक्रामत् देवताओं से यज्ञ दूर चला गया। प्रैषैः ( ‘ होता यक्षदग्निं' इत्यादि) प्रैष ( मन्त्रों) से तम् उस ( यज्ञ ) को प्रैषम् ऐच्छन् आहूत करना ( बुलाना) चाहा । यत् प्रैवैः प्रैषम् ऐच्छन् जो प्रैषों से ( यज्ञ) को बुलाना चाहा तत्प्रैषाणां ( १ ) ' इति होतु:' – इति आश्व० श्री० १.११.१६ ।
पृष्ठ 555
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४ ९ ३प्रैषत्वम् वही प्रैषों का प्रैषत्व (प्रैष होना ) है । सा ० भा० –ज्योतिष्टोमाख्यो यज्ञो यदा केनचिन्निमित्तेन देवेभ्य उदक्रामत्, तदा ‘ तम्’ उत्क्रान्तं यज्ञं ‘ प्रैषैः ’ ‘होता यक्षदग्नि समिधा' इत्येवमाद्यैः ' प्रैषमन्त्रैस्तस्य यज्ञस्य प्रैषमाह्वानमैच्छन्। यस्मादेवं तस्मात् प्रैषन्त्याह्वानं कुर्वन्त्येभिरिति व्युत्पत्त्या मन्त्राणां प्रैषनाम संपन्नम्॥२ अथ पुरोरुचः प्रशंसति- ( निर्वचनद्वारा पुरोरुक्प्रशंसनम्) तं पुरोरुग्भिः प्रारोचयन्, यत् पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचा पुरोरुक्त्वम् ॥२ ॥
हिन्दी – ( अब निर्वचन द्वारा पुरोरुक् की प्रशंसा कर रहे हैं ) तं पुरोरुग्भिः प्रारोचयन् उस ( यज्ञ ) को ( वायुरग्ने इत्यादि सात ऋचाओं वाले) पुरोरुक् ( मन्त्रों ) से (उस यज्ञ की ) रुचि को उत्पन्न किया । यत् पुरोरुग्भिः प्रारोचयन् जो पुरोरुक् ( मन्त्रों) से रुचि को उत्पन्न किया तत् पुरोरुचां पुरोरुक्त्वम् वह पुरोरुक् ( मन्त्रों ) का पुरोरुक् होना है । सा० भा०-— ' वायुरग्रेगा: ’ — इत्याद्याः सप्त पुरोरुचः। प्रउगतृचानां सप्तानां प्ररोचनहेतुत्वात्। तथाविधाभिः पुरोरुग्भिस्तं पूर्वमाहूतं यज्ञं देवाः प्रारोचयंस्तस्य यज्ञस्य! रुचिमुत्पादितवन्तः । अतः पुरारोचनाहेतुत्वात् पुरोरुगिति नाम संपन्नम्॥ * वेदेः प्रशंसामाह- ( निर्वचनद्वारा वेदिप्रशंसनम् ) तं वेद्यामन्वविन्दन्, यद् वेद्यामन्वविन्दंस्तद् वेदेर्वेदित्वम् ॥ ३ ॥
हिन्दी –( वेदि की प्रशंसा कर रहे हैं - ) तं वेद्याम् अन्वविन्दन् (देवताओं ने ) उस ( यज्ञ ) को वेदि पर जाना ( प्राप्त किया) । यद् वेद्याम् अन्वविन्दन् जो वेदि पर जाना तद् वेदेः वेदित्वम् वह वेदि का वेदित्व है। सा ० भा ० — तं प्ररोचितं यज्ञं सौमिक्यां वेद्यामन्वविन्दन्ननुकूलत्वेनोपलब्धवन्तः । अतो ( १ ) तै०ब्रा० ३.६.२.१-१२ । ( २ ) ‘ एकादश प्रयाजाः । तेषां प्रैषाः अध्वर्युप्रेषितो मैत्रावरुणः प्रेष्यति; प्रैषेहोंतारम्। होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः ' - इति आश्व० श्रौ० ३.२.१-५ । ( ३ ) वा० सं ० १७.३१-३७। ( ४ ) ' वायुरमैगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात् तृचं तृचं शंसेत्। वाय्वा याहि दर्शतेति सप्त तृचा: ' – इति आश्व० श्री० ५.१०.४,५ । द्रष्टव्य - तृचास्ते पूर्वं ११.१ । ‘ अन्विष्यमाणे यज्ञे वै दीपा आसन् पुरोरुचः' इत्यर्थः इति षड्गुरुशिष्यः ।
पृष्ठ 556
पाठ पढ़ें पाठ छिपाएँ
: [४९४ ऐतरेयब्राह्मणम् ११.९ तृतीयपञ्चिकायां वेदनस्य लाभस्य स्थानत्वाद् वेदिरिति नाम संपन्नम्॥' ग्रहप्रशंसामाह— ( निर्वचनद्वारा ग्रहप्रशंसनम् ) तं वित्तं ग्रहैर्व्यगृह्णत, यद् वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम् ॥४ ॥
हिन्दी– ( अब निर्वचन द्वारा ग्रह की प्रशंसा कर रहे हैं-) वित्तं तम् प्राप्त उ ( यज्ञ) को ग्रहैः व्यगृह्णत ( उपांशु इत्यादि) ग्रहों द्वारा विशेष प्रकार से ग्रहण किया। यद् वित्तं ग्रहैः व्यगृह्णत जो प्राप्त (यज्ञ ) को ग्रहों द्वारा विशेष रूप से ग्रहण किया तद् ग्रहाणां ग्रहत्वम् वह ग्रहों का ग्रहत्व है । सा० भा० — वित्तं लब्धं तं यज्ञं ग्रहैरुपांश्वन्तर्यामादिभिः ' व्यगृह्णत' विशेषेण स्वी- कृतवन्तः । तस्माद् ग्रहणस्य स्वीकारस्य हेतुत्वाद् ग्रहनाम संपन्नम्॥ निविदां प्रशंसामाह— ( निर्वचनद्वारा निविदां प्रशंसनम् ) तं वित्त्वा निविद्धिर्न्यवेदयन्, यद् वित्त्वा निविद्धिर्न्यवेदयंस्तन्निविदां निवित्त्वम् ॥५ ॥
हिन्दी-( निर्वचन द्वारा निवितों की प्रशंसा कर रहे हैं - ) तं वित्वा उस ( यज्ञ) को पाकर निविद्धिः न्यवेदयन् निविदों द्वारा निवेदन किया। यद्वित्वा निविद्भिः न्यवेदयन् जो ( यज्ञ ) को प्राप्त करके निविदों द्वारा निवेदन किया तद् निविदां निवित्वम् वह निविदों (निवेदन करने के कारण ) निवित्त्व (निवित् नाम होना) है। सा० भा० – तं यज्ञं वित्त्वा लब्ध्वा ते देवाः परेभ्यो देवेभ्यो निविद्भिः पूर्वोक्त- द्वादशपदादिरूपाभिः ‘ न्यवेदयन्' कथितवन्तः । तस्मान्निवेदनस्य परबोधनार्थकथनस्य हेतुत्वान्निविन्नाम संपन्नम्॥२ अथ प्रैषकर्तुः प्रह्वत्वगुणविधानार्थं प्रस्तौति— ( प्रैषकर्तुः प्रह्वत्वगुणविधानम् ) महद्वाव नष्टैष्यभ्यल्पं वेच्छति, यतरो वाव तयोर्ज्याय इवाभीच्छति, स एव तयोः साधीय इच्छति ॥ ६ ॥
( १ ) ' विदृल लाभे’— इत्यस्य तुदादेः 'हृपिषिरुहिवृतिविदिच्छिदिकीर्त्तिभ्यश्च' – इति ( उणा० ४.११८ ) रूपमित्यर्थः । द्रष्टव्य— ' अपरेणाहवनीयं वेदिं खनति' – इत्यारभ्य — ' वेदिकरणं यथोक्तम्' – इति यावत्, कात्या० श्रौ० २.६.१-३० । ( २ ) 'पच्छो निविदाः शस्यन्ते' - इति चैहैवैकादशखण्डे वक्ष्यति। 'पदैराप्नोति निविद: ' - इति हि वा० सं० १ ९.२५।
पृष्ठ 557
पाठ पढ़ें पाठ छिपाएँ
]:प्रथमोऽध्यायः नवमः खण्डः सायणाचार्यकृतभाष्योपेतम् ४ ९ ५ हिन्दी – ( अब प्रैष करने वाले के प्रह्नत्वगुण के विधान के लिए प्रस्तावना को कह रहे हैं- ) नष्टैषी नष्ट वस्तु को खोजने वाला व्यक्ति महद् वाव अभ्यल्पं वा इच्छति (नष्ट वस्तु से ) अधिक अथवा कम प्राप्त करना चाहता है। तयोः यतरः वाव ज्यायः इव अभीच्छति उन दोनों में जो अधिक की इच्छा करता है वही तयोः उन ( दोनों ) में साधीयः इच्छति अत्यधिक साधु (वस्तु) की इच्छा करता है। सा ० भा० — नष्टं वस्तुं प्रयत्नेन तत्र तत्रान्विच्छतीति नष्टैषी ।' तादृशः पुरुषो द्विविधः । तत्र कश्चिन्महद्वाव नष्टाद् वस्तुनोऽधिकमेवाभीच्छति। नष्टादल्पं वाऽन्यः कश्चिद् इच्छति। तयोर्मध्ये यतरो वाव' य एवं पुरुषो ' ज्याय इव' महदेवेच्छति, 'स एव' पुरुषस्तयोर्मध्ये
साधीयोऽत्यन्तं साधु वस्त्विच्छति। अल्पं कामयमानस्तु न तथेत्यर्थः ॥
अस्त्वेवं लौकिकन्यायः, किं प्रकृते? इत्याशङ्क्याऽऽह— य उ एव प्रैषान् वर्षीयसो वर्षीयसो वेद, स उ एव तान् साधीयो वेद, नष्टैष्यं ह्येतद् यत्प्रैषाः ॥७ ॥.
हिन्दी- यः उ एव जो (प्रैष करने वाला पुरोनुवाक्या के सन्निहित होने के कारण ) वर्षीयसः वर्षीयसः सभी ( प्रैष मन्त्रों ) में प्रवृद्ध (प्रैष मन्त्रों ) को वेद जानता है। सः उ एव वह ही तान् उन (प्रैष मन्त्रों ) को साधीयः वेद सम्यक् प्रकार से जानता है; क्योंकि यत् प्रैषाः जो प्रैष ( मन्त्र) हैं एतद् नष्टैष्यं हि ये नष्ट (यज्ञ ) के खोजने के हेतु हैं । सा० भा०--'य उ एव' यस्तु प्रैषवक्ता प्रैषमन्त्रान् वर्षीयसो वर्षीयसोऽतिप्रवृद्धान् वेद। सर्वेषु प्रैषमन्त्रेषु प्रवृद्धत्यार्थं वीप्सा प्रयुक्ता । प्रैषमन्त्राः कस्मात् प्रवृद्धः? इति चेत्, पुरोनुवाक्यानां संनिहितत्वात् ताभ्योऽधिकाः ' दीर्घाः ' इत्यवगन्तव्यम्। ' स उ एव' दीर्घत्वा- भिज्ञ एव तान् प्रैषमन्त्रान् साधीयो वेदातिशयेन सम्यक् वेद॥ ननु लौकिकन्यायोदाहरणे नष्टवस्तुनोऽन्वेषणमुदाहृतम् । इह तु प्रैषमन्त्राणामभिवृद्धिरुक्तेत्यतो लौकिकेनासंगतमिति चेत्, संगतमेवैतत्— ‘ हि’ यस्माद् ये प्रैषाः, ते 'नष्टेष्यं'' 'नष्टस्य' यज्ञस्यान्वेषणहेतवः ॥ पुरोनुवाक्याभ्यो दीर्घत्वेन प्रैषान् प्रशस्य तदुच्चारणकाले प्रह्वत्वं विधत्ते— तस्मात् प्रह्णस्तिष्ठन् प्रेष्यति ॥ ८ ॥
हिन्दी - तस्मात् इसी कारण प्रह्नः तिष्ठन् ( विनय के कारण) नतमस्तक होकर प्रेष्यति प्रैष मन्त्रों का पाठ करता है । स० भा ० — यस्मादतिशयेन वृद्धाः प्रैषास्तस्मात् तत्पाठकाले मैत्रावरुणः प्रह्नः विनयेनैव ( १ ) नष्टैषी नष्टान्वेषणकारी । अल्पं फलादि महद् रत्नादिकं वा अभीच्छति प्रार्थयते' –इति षड्गुरुशिष्यः । ( २ ) ‘ नष्टैष्यं नष्टयान्वेषणसाधनम्। करणे कृत्यः ' इति भट्टभास्करः । ‘एतदेते। यत् ये। जसोऽम्। नष्टैष्याः । इषेः कर्मणि ण्यत्' इति षड्गुरुशिष्यः ।
पृष्ठ 558
पाठ पढ़ें पाठ छिपाएँ
: [४९ ६ ऐतरेयब्राह्मणम् ११.१० तृतीयपञ्चिकायांकिञ्चिदवनतशिरास्तिष्ठन्ननुपविष्टो मन्त्रान् पठेत्। यथा लोके पितृगुर्वादीन् दृष्ट्वा प्रह्णस्तिष्ठति तद्वत्, —यथा वा नष्टवस्त्वन्विच्छन् प्रह्वत्वादिना गुप्तश्चरति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) नवमः खण्डः ॥१ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के नवम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ दशमः खण्डः सा० भा ० — अथ निविदां सवनभेदेन स्थानभेदं विवक्षुः प्रातः सवने स्थानविशेषं विधत्ते ( निविदां सवन भेदेन स्थानभेदविधानम्) ( तत्र प्रातः सवने स्थानविधानम् ) गर्भा व एत उक्थानां यन्निविदस्तद् यत् पुरस्तादुक्थानां प्रातःसवने धीयन्ते, तस्तान् पराञ्चो गर्भा धीयन्ते, पराञ्चः संभवन्ति ॥ १ ॥
हिन्दी-(निविदों के सवन- भेद से स्थान -भेद को कहने के लिए प्रातः सवन में स्थान विशेष का विधान कर रहे हैं— ) यद् निविदः जो निवित् हैं एते उक्थानां गर्भाः ये शस्त्रों के गर्भरूप हैं । यत् प्रातः सवने जो प्रातः सवन में उक्थानां पुरस्ताद् धीयन्ते शस्त्रों से पहले ( निवित् रखे जाते हैं ) तस्मात् इसी कारण पराञ्चः गर्भाः धीयन्ते ( लोक में स्त्री के शरीर में पहले स्थापित ) गर्भ नीर्चे शिर किये रहते हैं पराञ्चः सम्भवन्ति नीचे शिर करके पैदा होते हैं । सा० भा० – ' अग्निर्देवेद्ध: ' इत्यादयो निविदः सन्ति। एते निविद्विशेषा उक्थानां शस्त्राणां गर्भा वै गर्भस्थानीया एव। तथा सति प्रातःसवनप्रयोगे शस्त्राणां पुरस्तान्निविदो ‘ धीयन्ते ’ स्थाप्यन्ते, स्थापयेयुरित्यर्थः । यस्माद् गर्भस्थानीयानां पुरस्थापनं तस्माल्लोकेऽपि गर्भाः पराञ्चः स्त्रीशरीरे परमुत्कृष्टं पुरोभागमञ्चन्तो गच्छन्तो धीयन्ते, धार्यन्ते प्रसवकालेऽपि पराञ्चः पुरोभागं गच्छन्त उत्पद्यन्त॥ माध्यंदिनसवने स्थानविशेषं विधत्ते— ( मध्यन्दिनसवने स्थानविधानम्) यन्मध्यतो मध्यंदिने धीयन्ते तस्मान् मध्ये गर्भा धृताः ॥२ ॥
( १ ) 'दक्षिणतो होतृषदनात् प्रह्वोऽवस्थाय' आश्व० श्री० ३.१.२० ।
पृष्ठ 559
पाठ पढ़ें पाठ छिपाएँ
:: ]: प्रथमोऽध्यायः दशम खण्ड सायणाचार्यकृतभाष्योपेतम् ४ ९ ७ हिन्दी –(अब माध्यन्दिनसवन में स्थान- विशेष का विधान कर रहे हैं— ) यद् मध्यन्दिने जो माध्यन्दिनसवन में मध्यतः धीयन्ते शस्त्रों के मध्य में ( निवित्) रखे जाते हैं तस्तात् इसी कारण ( लोक में) मध्ये गर्भाः घृताः (उदर के ) मध्य में गर्भ धारित किया जाता है। सा ० भा० — यस्माच्छस्त्राणां मध्ये निविदः प्रयुक्ताः, तस्माद् गर्भा उदरमध्ये धीयन्ते॥ तृतीयसवनस्थानविशेषं विधत्ते— ( तृतीयसवने स्थानविधानम्) यदन्ततस्तृतीयसवने धीयन्ते, तस्माद् अमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते, प्रजात्यै ॥ ३ ॥
हिन्दी - (अब तृतीयसवन में स्थान-विशेष को दिखला रहे हैं - ) तृतीयसवने तृतीय- सवन में (निवित्) यद् अन्ततः धीयन्ते जो शस्त्र के अन्त में रखे जाते हैं तस्मात् इसी कारण ( लोक में ) अमुतः इस (माता के उदर) से गर्भाः गर्भ अर्वाञ्चः प्रजा नीचे की ओर होकर उत्पन्न होते हैं । सा० भा० - ‘ अन्ततः शस्त्रस्यान्तिमे देशे एकामृचं शिट्वा निविदः पठितव्या । यस्मादेता अन्तिमदेशभागिन्यः तस्माल्लोकेऽपि गर्भा ' अमुतः ' निवासस्थानान्मातुरुदरमध्यात् ' अर्वाञ्चः '
अधोभागगताः प्रजायन्ते। तच्च यजमानस्य प्रजननार्थं भवति॥
वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद ॥४ ॥
हिन्दी - (इस ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता है वह प्रजया पशुभिः प्रजायते प्रजा और पशुओं से समृद्ध होता है । सवनत्रये विहितं निविदां स्थानत्रयं प्रशंसति— पेशा वा एत उक्थानां यन्निविदः, तद् यत्पुरस्तादुक्थानां प्रातः सवने धीयन्ते, यथैव प्रवयणतः पेशः कुर्यात् तादृक् तद्, यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात् तादृक् तद्, यदन्ततस्तृतीयसवने धीयन्ते, यथैवाव प्रज्जनतः पेशः कुर्यात् तादृक् तत् ॥ ५ ॥
हिन्दी- ( तीनों सवनों में निविदों के प्रयोग के तीन स्थानों की प्रशंसा कर रहे हैं— ) यद् निविदः जो निवित् है एते उक्थानां पेशाः एव ये शस्त्रों के आभूषण है । तद् यत् प्रातःसवने तो जो प्रातःसवन में उक्थानां पुरस्तात् शस्त्रों से पहले ( निवित्) धीयन्ते रखे जाते हैं यथा एवं प्रवयणतः कुर्यात् जिस प्रकार ( वस्त्र के ) प्रारम्भ में अलङ्करण किया जाता है तादृक् तत् वैसे ही वह ( शस्त्रों के प्रारम्भ में रखे जाते हैं ) यद्
पृष्ठ 560
पाठ पढ़ें पाठ छिपाएँ
: [४९८ ऐतरेयब्राह्मणम् ११.१० तृतीयपञ्चिकायांमध्यन्दिने मध्यतः धीयन्ते जो मध्यन्दिनसवन में ( शस्त्रों के ) मध्य में रखे जाते हैं तो यथैव मध्यतः पेशः कुर्यात् जिस प्रकार (लोक में) मध्य में अलंकृत किया जाता है तादृक् तत् उसी प्रकार (निवित् शस्त्रों के मध्य में रखे जाते हैं ) । यत् तृतीयसवने जो तृतीय सवन में अन्ततः धीयन्ते अन्त रखे जाते हैं तो यथैव प्रज्जनतः पेशः कुर्यात् जिस प्रकार ( लोक में ) जुलाहा कपड़े के अन्तिम भाग में अलङ्करण करता है तादृक् तत् उसी प्रकार (वे सायंसवन में शस्त्र के अन्त में रखे जाते हैं ) । सा० भा०-–‘पेशा: ’ अलङ्काराः । ' वेञ् तन्तुसंताने' इति धातोर्वयशब्दोत्पत्तिः । कुवि- न्दानां यत्त्रारम्भे वस्त्रवयनं तत्प्रवयणम्। लोके यथैव वाससां प्रवयणतो वयनप्रारम्भे पेशोऽलङ्कारं कुर्यात्; वर्णान्तरोपेतैस्तन्तुभिरलङ्कारः; तथैव प्रातःसवने शस्त्राणां पुरतो निवित्पठनं भवति । तच्च' वस्त्रस्थानीयानामुक्थानां प्रथमभागेऽलङ्काराय संपद्यते । ' शस्त्रमध्ये प्रज्जनः ' वस्त्रस्यान्तभाग: ६, तत्र यथा तत्पठनम्, वस्त्रमध्ये वर्णान्तरेणालङ्कारसमम् । एवं ' वर्णान्तरेणालङ्कारस्तादृगुक्थानामन्ते निवित्पठनम्॥ वेदनं प्रशंसति- सर्वतो यज्ञस्य पेशसा शोभते यं एवं वेद ॥ ६ ॥
हिन्दी-(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह सर्वतः सभी ओर से यज्ञस्य पेशसा यज्ञ के अलङ्करण से शोभते शोभायमान होता है। ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायां प्रथमाध्याये ( एकादशाध्याये ) दशमः खण्डः॥१० ॥
॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे ' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः प्रथमाध्याये ( एकादशाध्याये ) दशमः खण्डः ॥१० ॥
॥ इस प्रकार ऐतरेयब्राह्मण के एकादश अध्याय के दशम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त । ( १ ) पिश अवयवे असुन्नन्ताज्जसः शौ शेश्छन्दसि बहुलमिति लोपः । यद्वा, घञि रूपं द्रष्टव्यम्’ – इति भट्टभास्करः । ( २ ) भ्वा० १००६। 'वय शब्दनिष्पत्तिः । कुविन्दस्य' इति वा पाठः । ( ) ' ' ( ) ' ' ( ३५ ) ' वाससःअलङ्काराःइतिसम्पद्यन्तेवा पाठः' इति। वा पाठः । ४ तेन इति वा पाठः । ( ६ ) ‘ अवसितं प्रजननमवप्रजननम् अवसानम्। द्वितीयो जकार उपजनः । यद्वा, प्रतिमुखं जननं प्रजननम्। सर्वात्मना समाप्तिः । प्रतेरन्त्यलोपश्छान्दसः ' - इति भट्टभास्करः ।