ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 571–580

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 571–580

पृष्ठ 571

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 571 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:: द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५० ९ सा० भा० – देवविशो' देवानां संबन्धिन्यः प्रजाः सैन्यरूपाः कल्पयितव्याः संपा- दनीया इति ब्रह्मवादिन आहुः। तत्कथं संपादनमिति, तदुच्यते- एकं छन्दोऽन्यस्मिंश्छ- न्दसि' प्रतिष्ठापनीयम्। तथा सति देवविशः संपद्यन्त इति ब्रह्मावादिनामाभिप्रायः । तस्मात् तत्संपादनार्थं होता प्रातःसवने शोंसावोमिति मन्त्रेणाध्वर्युमोपह्वयते। तस्याय- मर्थः — हे अध्वर्यो शोंसावः शंसनं कुर्वतः । ओमित्ययनुज्ञार्थम्। त्वयाऽनुज्ञा देयेत्युक्तं भवति। सोऽयं त्र्यक्षरो मन्त्रः । ततोऽध्वर्युः शंसाऽऽमोदैवोमिति पञ्चाक्षरेण प्रतिगृणाति प्रत्युत्तरं ब्रूयात् । तस्यायमर्थः — हे होतः, त्वं शंस तत्राऽऽमोदैव हर्ष एवास्माकमतोऽनुज्ञा दत्तेति। तदेतन्मन्त्रद्वयं मिलित्वाऽष्टाक्षरं संपद्यते, गायत्री चाष्टाक्षरा तेन प्रातःसवने पुरस्तादादौ द्वावपि मिलित्वा गायत्रीमेवाचीक्लृपतां कल्पितवन्तौ॥ शस्त्राद् उत्तरकालीनौ द्वाभ्यां पठनीयौ मन्त्रौ विधत्ते- ( शस्त्रादुत्तरकालीनौ द्वाभ्यां पठनीयौ मन्त्रौ ) उक्थं वाचीत्याह शस्त्वा चतुरक्षरम्', ओमुक्थशा इत्यध्वर्युश्चतु- रक्षरं, तदष्टाक्षरं संपद्यते, अष्टाक्षरा वै गायत्री, गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपताम् ॥ २ ॥

हिन्दी-( शस्त्र के बाद होता और अध्वर्यु दोनों द्वारा दो पठनीय मन्त्रों का विधान कर रहे हैं - ) शस्त्वा होता शस्त्र का शंसन करके उक्थं वाचि अर्थात् हमारी वाणी में शस्त्र सम्पन्न हुआ' – इति चतुरक्षरम् आह इस चार अक्षर वाले (मन्त्र) का वाचन करता है । तब अध्वर्युः अध्वर्यु 'ओमुक्थशा' अर्थात् तुम शस्त्र का शंसन करो'-इति चतुरक्षरम् इस चार अक्षर ( वाले मन्त्र) को कहे। तद् अष्टाक्षरं सम्पद्यते वे ( दोनों मन्त्र मिलकर ) आठ अक्षरों वाले होते हैं। तद् इससे प्रातः सवने प्रात: सवन में गायत्रीम् एव गायत्री को ही उभयतः अचीक्लृपत् दोनों ओर से ( होता अध्वर्यु दोनों ने ) कल्पित करें। ( १ ) ' विशः सेनाः प्रजा वा ' – इति भट्टभास्करः । ' देवविश: देवसेना: ’ –इति षड्गुरुशिष्यः । ( २ ) गायत्र्यादिकं सवनच्छन्दः उक्तादिजगत्यन्ते तस्मिन् छन्दसि प्रतिष्ठाप्यम् अक्षरसंपत्त्या संपाद्यम्। तदिदं देवविशां कल्पनम्'– इति भट्टभास्करः । ( ३ ) अध्वयों शोंसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शोंसामोद इवेति प्रत्याह्वयते शंसामोद इवेति वा' – इति आप०श्र० १२.२७.१२ । (४ ) 'कृपो रो ल: (पा० सू० ८.२.१८ ), णौ चड्युपधाया ह्रस्वः ' ( पा० सू० ७.४.१ ) उर्ऋत् (पा ० सू० ७.४.७ ); तसस्ताम् । होत्रध्वर्यु अकल्पयताम्' - इति षड्गुरशिष्यः । ( ५ ) 'उक्थं वाचीत्येषां शस्त्वा जपः प्रातःसवने, उक्थं वाचीन्द्रायेति माध्यंदिने, उक्थं वाचीन्द्रा देवेभ्य इत्युक्थेषु सषोडशिकेषु' – इति आश्व० श्री० ५.१०.२२-२४ ।

पृष्ठ 572

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 572 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५१० ऐतरेयब्राह्मणम् १२.१ तृतीयपञ्चिकायां सा० भा०-१ – होता शस्त्रं पठित्वोक्थं वाचीति चतुरक्षरं मन्त्रं ब्रूयात्। मदीयायां वा-च्युक्थं शस्त्रं संपन्नमिति तस्यार्थः । ततोऽध्वर्युरोमुक्थ्शा इति चतुरक्षरं मन्त्रं ब्रूयात्। ओमि- त्यङ्गीकार उक्थशास्त्वं शस्त्रशंसी भवसीत्यर्थः । तदेतन् मन्त्रद्वयं मिलित्वाऽष्टाक्षरं संपद्यते।

उभयतः शंसनात् पुरस्तात् पश्चाच्च। शेषं पूर्ववत्॥१

‘माध्यंदिनसंवने तद्वन्मन्त्रचतुष्टयं विधत्ते— ( माध्यन्दिनंसवने पठनीयमन्त्रचतुष्टयम् ) अध्वर्यो शोसावोमित्याह्वयते मध्यंदिने षळक्षरेण; शंसाऽऽमो- दैवोमित्यध्वर्युः प्रतिगृणति पञ्चाक्षरेण, तदेकादशाक्षरं संपद्यते, एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लप- ताम्, उक्थं वाचीन्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्यु- श्चतुरक्षरं, तदेकादशाक्षरं संपद्यते, एकादशाक्षरा वै त्रिष्टप् तदुभयतो मध्यंदिनेऽचीक्लृपताम् ॥ ३ ॥

हिन्दी— ( मध्यन्दिनसवन में शस्त्र के शंसन करने के बाद होता और अध्वर्यु द्वारा चार पठनीय मन्त्रों का विधान कर रहे हैं - ) ' अध्वर्यो शोसावोम् अर्थात् हे अध्वर्यु हम दोंनो शंसन करे' इति षडक्षरेण इन छः अक्षरों से मध्यन्दिनसवने मध्यन्दिनसवन में आह्वयते ( होता) आह्वान करता है। तब अध्वर्युः अध्वर्यु ' शंसाऽऽमोदैवोम्' अर्थात् हे होता! तुम शंसन करो - यह हम लोगों के हर्ष का विषय है, इति पञ्चाक्षरेण प्रतिगृणति इन पाँच अक्षरों से अध्वर्यु प्रतिगर करता है। तदेकादशाक्षरं सम्पद्यते वे ( दोनों मिलकर ) ग्यारह अक्षर हो जाते हैं। एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुप् (छन्द का एक पाद) ग्यारह अक्षरों वाला होता है। इस प्रकार मध्यन्दिने माध्यन्दिनसवन में पुरस्तात् प्रथमतः त्रिष्टुभमेव अचीक्लृपताम् त्रिष्टुप् को ही (होता और अध्वर्यु) दोनों ने कल्पित किया । शस्त्वा ( होता शस्त्र का ) शंसन करके ' उक्थं वाचीन्द्राय' अर्थात् (हमारी ) वाणी में इन्द्र के लिए उक्थ सम्पन्न हुआ - इति सप्ताक्षरमाह इन सात अक्षरों को कहता है। तब अध्वर्युः अध्वर्यु ' ओमुक्थशा' अर्थात् तुम शस्त्र का शंसन करो' इति चतुरक्षरम् इस चार अक्षर वाले ( मन्त्र) को कहे । तदेकादशाक्षरं सम्पद्यते (इस प्रकार दोनों मिलकर ग्यारह अक्षरों वाले हो जाते हैं । एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुप् (का एक पाद ) ग्यारह अक्षरों वाला होता है। तत् इससे मध्यन्दिने मध्यन्दिनसवन में उभयतः दोनों ओर से (होता (१ ) आश्व ० श्रौ० ५.९.१; ५; १०.२२.९.८ । ( २ ) ' अध्वय शोंसावोमिति माध्यन्दिने शस्त्रादिष्वाहाव: ' - इति आश्व०श्री० ५.१४.३ । ( ३ ) 'चि इन्द्रायेति व्यूळ्हेन’- इति षड्गुरुशिष्यः । ' वाचि इन्द्रायेत्यत्र सवर्णदीर्घमकृव्वोक्षर- संख्या गणयितव्या' - इति भट्टभास्करः ।

पृष्ठ 573

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 573 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः प्रथमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५११

और अध्वर्यु दोनों) त्रिष्टुभमेव अचीक्लपताम् त्रिष्टुप् को ही सम्पादित करते हैं ।

सा० भा०-- पूर्ववद्.व्याख्येयम्॥१

तृतीयसवने मन्त्रचतुष्टयं विधत्ते— ( तृतीयसवने पठनीयमन्त्रचतुष्टयम् ) अध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण, शंसाऽऽ- मोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण, तद्द्वादशाक्षरं संपद्यते, द्वादशाक्षरा वै जगती, जगतीमेव तत्पुरस्तात् तृतीयसवनेऽचीक्लृपताम्, उक्थं वाचीन्द्राय देवेभ्य' इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरिकाक्षरं, तद् द्वादशाक्षरं संपद्यते, द्वादशाक्षरा वै जगती, जगतीमेव तदुभय- तस्तृतीयसवनेऽचीक्लृपताम् ॥४ ॥

हिन्दी– (अब तृतीयसवन में शस्त्र के शंसन के बाद होता और अध्वर्यु द्वारा चार पठनीय मन्त्रों को कह रहे हैं - ) तृतीयसवने तृतीयसवन में ' अध्वयों शोशोंसावोम्'-- इति सप्ताक्षरेण इस सात अक्षर वाले ( मन्त्र) से आह्वयते होता आहाव करता है। तब अध्वर्युः अध्वर्यु ' शंसाऽऽमोदैवोम् - इति पञ्चाक्षरेण इन पाँच अक्षरों ( वाले मन्त्र ) से प्रतिगृणाति प्रतिगर करता है । तद् द्वादशाक्षरं सम्पद्यते वे ( दोनों मिलकर ) बारह अक्षर हो जाते हैं ) । द्वादशाक्षरा वै जगती जगती (छन्द का एक पाद) बारह अक्षरों वाला होता है। तत् इससे तृतीयसवने तृतीय सवन में पुरस्तात् प्रथमतः जगतीमेव अचीक्लृपताम् (होता और अध्वर्यु दोनों ) जगती को ही सम्पादित करते हैं। (शस्त्र को कहकर होता) ' उक्थं वाचीन्द्राय देवेभ्यः ' अर्थात् हमारी वाणी में इन्द्र और अन्य देवताओं के लिए उक्थ सम्पन्न है’— इति एकादशाक्षरम् आह इस ग्यारह अक्षरों (वाले मन्त्र) को कहता है। तब अध्वर्युः अध्वर्यु 'ओम्' इति एकाक्षरम् इस एकाक्षर ( मन्त्र) को कहे। तद् द्वादशाक्षरं सम्पद्यते (इस प्रकार) वे दोनों मिलकर बारह अक्षर हो जाते हैं । द्वादशाक्षरा वै जगती जगती (छन्द) ग्यारह अक्षरों वाली होती है । तत् इससे तृतीयसवने तृतीय-सवन में उभयतः दोनों ओर से जगतीमेव अचीक्लपताम् जगती को ही (होता और अध्वर्यु दोनों मिलकर) सम्पादित करते हैं। सा० भा ० – शोशोमिति द्विर्भावश्छान्दसः । माध्यंदिनसवने केवलमिन्द्रार्थमेव वाच्युक्थं सम्पन्नमित्युक्तम् । अत्र त्विन्द्रार्थमितरदेवार्थं चेति विशेषः । अन्यत् सर्वं पूर्ववद् व्याख्येयम्' ॥ ( १ ) आश्व० श्री० ५.१४.३; ९.५; १०.२४; ९.८।. ( २ ) ‘ अत्रापि पूर्ववद् वाचि इन्द्रायेत्यनयोः सवर्णदीर्घमकृत्वा देवेभ्य इत्यत्रं च इत्यादिपूरणं कृत्वैकादशाक्षरत्वं सम्पाद्यम्' – इति भट्टभास्करः । (३) आश्वव००श्री० ५.१८.४; ९.५; १८.१३; ९.८ ।

पृष्ठ 574

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 574 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५१२ ऐतरेयब्राह्मणम् १२.१ तृतीयपञ्चिकायां उक्तार्थं मन्त्रसंवादेन द्रढयति— तदेतद् ऋषिः पश्यन्नभ्यनूवाच ॥ ५ ॥

हिन्दी—( पूर्वोक्त अर्थ को मन्त्र से पाठ द्वारा दृढ़ कर रहे हैं - ) तद् एतत् इस ( तथ्य ) को पश्यन् ( अपनी दिव्यदृष्टि से) देखते हुए ऋषिः अभ्यनूवाच ऋषि ने कहा है। सा० भा० — तदेतद् ब्राह्मणोक्तं सर्वमृषिर्मन्त्रद्रष्टा दिव्यज्ञानेन पश्यन् मन्त्रवाक्ये-नाभितोऽनुवचनं कृतवान् ॥ तमेतं मन्त्रं दर्शयति—

‘ यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत ।

यद्वा जगज्जगत्याहितं पदं य इत् तद् विदुस्ते अमृतत्वमानशुः " इति॥ ६ ॥

हिन्दी—(ऋषि द्वारा दृष्ट मन्त्र को दिखला रहे हैं — ) (इस प्रकार शंसन से पूर्व दो मन्त्र वाले ) यद् गायत्रे गायत्रम् अध्याहितम् गायत्री छन्द में ( उत्तरकालीन ) गायत्री छन्द को जो रखते हैं तथा ( पूर्व दो मन्त्र वाले ) त्रैष्टुभात् त्रैष्टुभं वै निरतक्षत त्रिष्टुप् ( छन्द) से (उत्तरकालीन ) त्रिष्टुप् छन्द को निष्पन्न करते हैं यद्वा अथवा जो जगत् जगत्याम् अत्याहितम् जगती छन्द को जगती छन्द में रखते हैं, पदम् ( वे तीन प्रकार के ) पद हैं। ये इत् तद् विदुः जो इसे जानते हैं ते वे अमृतत्वम् आनशुः अमरता ( देवत्व) को प्राप्त करते हैं। सा० भा०— शंसनात् पूर्वकालीने मन्त्रद्वयात्मके गायत्रे छन्दसि तदुत्तरकालीनं मन्त्र- द्वयात्मकं गायत्रं छन्दोऽध्याहितं संपादितमिति यदस्ति । अथ च पूर्वकालीनान्मन्त्रद्वया- त्मकात् त्रैष्टुभाद् उत्तरकालीनमन्त्रद्वयात्मकं त्रैष्टुभं निरतक्षत निष्पन्नमिति यदस्ति । अथ जगज्जागतं छन्दः पूर्वकालीनं जगत्युत्तरकालीने जागते छन्दस्याहितं संपादितमित्येतत् त्रिविधं पदं यदस्ति तत्पदं य इत्, य एवानुष्ठातारो विदुर्जानन्ति तेऽनुष्ठातारोऽमृतत्वमा- नशुर्देवत्वं प्राप्तवन्तः । अस्य मन्त्रस्य तात्पर्यं दर्शयति- एतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति ॥७ ॥

हिन्दी– एतद्वै तत् छन्दः इन उन छन्दों को छन्दसि प्रतिष्ठापयति छन्द प्रतिष्ठित करता है । सा० भा ० — एतदृषिप्रोक्तं मन्त्रवाक्यमुत्तरकालीने छन्दसि तत्पूर्वकालीन छन्दः प्रतिष्ठापयतीति तत्राऽऽश्रितमित्येवं प्रतिपादयति॥ ( १ ) ऋ० १.१६४.२३ । ( २ ) ऋक्संहिताभाष्ये चैतन्मन्त्रस्य व्याख्यानानि द्रष्टव्यानि ।

पृष्ठ 575

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 575 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५१३ उक्तार्थवेदनं प्रशंसति— कल्पति देवविशो य एवं वेद ॥ ८ ॥

हिन्दी –( पूर्वोक्त ज्ञान की प्रशंसा कर रहे हैं- ) यः एवं वेद जो इस प्रकार जानता

है, वह देवविशः कल्पयति देवताओं की ( सेनारूप) प्रजा को कल्पित करता है ।

सा० भा ० – वेदिता देवविशो देवसंबन्धिनीः प्रजाः सैन्यरूपाः संपादयति ॥

॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये ( द्वादशाध्याये ) प्रथमः खण्डः ॥१ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के प्रथम खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ द्वितीयः खण्डः सा ० भा ० — अथानुष्टुभो मुख्यत्वेन प्रशंसां कर्तुमाख्यायिकामाह— ( ( ) छन्दस्वनुष्टुभो मुख्यत्वप्रतिपादनार्थमाख्यायिका प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्, स गायत्री- मेवाग्नये वसुभ्यः प्रातः सवनेऽ भजत्, त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यंदिने, जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवने ॥ १ ॥

हिन्दी–( अब अनुष्टुप् की प्रशंसा करने के लिए आख्यायिका को कह रहे हैं- ) प्रजापतिः वै प्रजापति ने ( सृष्टि की रचना करके) यज्ञं छन्दांसि ( तीनों सवन वाले सोम) याग और छन्दों को देवेभ्यः देवताओं के लिए भागधेयानि अलग- अलग भाग लगाकर व्यभजत् विभक्त कर दिया । सः उस (प्रजापति) ने प्रातः सवने प्रातः सवन में अग्नये वसुभ्यः अग्नि के लिए और वसुगण के लिए गायत्रीम् गायत्री (छन्द) को, मध्यन्दिने मध्यन्दिनसवन में इन्द्राय रुद्रेभ्यः इन्द्र और रुद्रगण के लिए त्रिष्टुभम् त्रिष्टुप् छन्द को तथा तृतीयसवने तृतीयसवन में विश्वेभ्यः देवेभ्यः आदित्येभ्यः विश्वे देवों के लिए और आदित्यगण के लिए जगतीम् जगती छन्द को व्यभजत् विभाजित किया । सा ० भा ० - पुरा प्रजापतिः सर्वं जगत्सृष्ट्वा सवनत्रयात्मकं यज्ञं गायत्र्यादीनि च्छन्दांसि च देवतार्थं भागधेयानि भागविशेषरूपाणि कृत्वा व्यभजद् विभक्तवान् । केन प्रकारेणेति, स उच्यते— यज्ञे यत्प्रातःसवनमस्ति, तस्मिन् गायत्रीमेवाग्न्यर्थमष्टवसुदेवार्थं च विभक्तवान्। माध्यंदिनसवने त्रिष्टुभमिन्द्रार्थमेकादशरुद्रार्थं च विभक्तवान् । तृतीयसवने जगती विश्वेभ्यो देवेभ्य आदित्येभ्यश्च विभक्तवान्।

पृष्ठ 576

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 576 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५१४ ऐतरेयब्राह्मणम् १२.२ तृतीयपञ्चिकायां एवं सत्यनुष्टुबेका परिशिष्टा तस्या वृत्तान्तमाह— ( अनुष्टुब्वृत्तान्तकथनम् ) अथास्य यत् स्वं छन्द आसीद् अनुष्टुप् तामुदन्तमभ्युदौहदच्छा- वाकीयामभि, सैनमब्रवीदनुष्टुप् त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं स्वं छन्दोऽस्मि यां मोदन्तमभ्युदौहीरच्छावाकीयामभीति, तद- जानात्, स- स्वं सोममाहरत्, स स्वे सोमेऽयं मुखमभि पर्याहरदनुष्टुभं, तस्मादनुष्टुबद्र्या' मुख्यां युज्यते सर्वेषां सवानानाम् ॥२ ॥

हिन्दी –( ऐसा होने पर परिशिष्ट अनुष्टुप् छन्द के वृतान्त को कह रहे हैं— ) अथ इसके बाद अस्य इस (प्रजापति ) को यत् स्वं छन्दः अनुष्टुब् आसीत् जो अपना अनुष्टुप् छन्द था ताम् उसको अच्छावाकीयाम् अच्छावाकीय के प्रति उदन्तम् अम्युदौहत् (यज्ञ के किसी) प्रान्त में हटा दिया (अर्थात् अनुष्टुप् को अच्छावाकीय ऋचा बना दिया ) । तब सा अनुष्टुब् एनम् अब्रवीत् उस अनुष्टुप् ने इस (प्रजापति ) से कहा कि त्वं नु देवानाम् तुम देवताओं में पापिष्ठः असि पापिष्ठ हो। यस्य ते अहं स्वं छन्दः अस्मि जो तुम्हारा मैं अपना छन्द हूँ, यां मा जिस मुझको तुमने अच्छावाकीयाम् अभि अच्छावाकीय को अभिलक्षित करके उदन्तम् अभ्युदोहीः हटा दिया है। तद् अजानात् वे ( प्रजापति ) अपनी भूल को समझ गये । सः स्वं सोमम् आहरत् उस (प्रजापति) ने अपने सोमयाग का आहरण कर लिया और सः स्व सोमें अग्रम् उन्होंने अपने सोम के आगे मुखमभि प्रारम्भ में अनुष्टुभं पर्याहरत अनुष्टुप् छन्द को रख दिया । तस्मात् इसी कारण सर्वेषां सवनानाम् सभी सवनों में मुख्या अनुष्टुबग्र्या युज्यते प्रारम्भ में श्रेष्ठ अनुष्टुप् छन्द ही प्रयुक्त होता है । सा० भा ० —– अथाग्न्यादीनां वस्वादीनां च च्छन्दोविभागानन्तरम् ‘ अस्य’ प्रजापतेः स्वभूतमनुष्टुबाख्यं यच्छन्द आसीत् तामनुष्टुभम् उदन्तमभि यज्ञस्य कचित्प्रान्तदेशमभि-लक्ष्योदौहदपसारितवान् । कुत्र देश इति? तदुच्यते- अच्छावाकीयामभीति । अच्छावाक वदस्वेत्येवमध्यर्युणोक्तोऽच्छावाको यां ब्रूते सेयमृगच्छावाकीया' ` तामभिलक्ष्योदूढवान-नुष्टुभमच्छावाकीयां कृतवानत्यिर्थः । तेन कुपिता साऽनुष्टुबेवैनं प्रजापतिमब्रवीन्नु हे प्रजापते देवानां मध्ये त्वमेव पापिष्ठोऽसि । यस्य पापिष्ठस्य प्रजापतेस्तवाहं छन्दोऽस्मि । अग्नि- ( १ ) ‘ अग्रिया’ इति वा पाठः । ‘ अग्राद्यत्' (पा० सू०४.४.११६ ), ‘ अग्रया' इति सायण- सम्मतः पाठः। ( २ ) ‘ उदौहदस्थापयत्’ -- इति षड्गुरुशिष्यः। 'उदनैषीत्' – इति भट्टभास्करः । ( ३ ) ' अच्छा वो अग्निमवसे ' ऋ ० ५.२५.१ । ' अच्छावाक वदस्वेत्युक्तोऽच्छावो अग्निमवसे इति तृचमन्वाह' -इति आंश्व० श्री० ५.७.२ । ( ४ ) ' नु इति खेदे। पापिष्ठोऽशुभकारी त्वम्' इति षड्गुरुशिष्यः ।

पृष्ठ 577

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 577 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]:द्वितीयोऽध्यायः द्वितीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५१५ वस्वादयः पूर्वं छन्दोरहितास्तादृशेभ्योऽपि च्छन्दांसि दत्तवानसि। अहं तु पूर्वमेव त्वदीया तादृशीं मां त्वत्तोऽपसार्याच्छावाकीयामभिलक्ष्योदूढवानसि । अतो मदुपेक्षयाः भवत: पापिष्ठत्वमित्यनुष्टभोऽभिप्रायः । तत्सर्वमनुष्टुभा प्रोक्तमुपालम्भरूपं प्रजापतिर्ज्ञातवान् । ज्ञात्वा च तदुपालम्भपरिहारार्थं स्वकीयं सोमयागमाहरत्। स तु तस्मिन् सोमयागेऽयं श्रेष्ठं प्रारम्भ- रूपं यन्मुखमस्ति तदभिलक्ष्यानुष्टुभं पर्याहरत् तत्र नीतवानित्यर्थः । तस्मादु तस्मादेव कारणा-दियमनुष्टुबप्रया श्रेष्ठा सती सर्वेषां सवनानां मुख्या मुखे भवा प्रारम्भकालीना प्रयुज्यते॥ एतद्वेदनं प्रशसंति- अग्र्यो' मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद ॥३ ॥

हिन्दी -- (इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता है, वह अग्र्यः मुख्यः भवति वह ज्ञातिजनों में श्रेष्ठ और मुख्य होता है तथा श्रेष्ठताम् अश्नुते श्रेष्ठता के प्राप्त करता है । सा० भा० - वेदिता स्वकीयज्ञातीनां मध्येऽये भवोऽग्रयो ज्येष्ठो मुख्यो व्यवहार-निर्वाहकः । स श्रेष्ठतां विद्यावृत्तादिगुणैः श्रेष्ठत्वं प्राप्नोति ॥ प्रजापतिन्यायेन यजमानस्यापि सवनीययागादावनुष्टुप्प्रयोगं दर्शयति- स्वे वै स तत्सोमेऽकल्पयत्, तस्माद् यत्र क्व च यजमानवशो भवति; कल्पतं एव यज्ञोऽपि ॥४ ॥

हिन्दी -( सवनीय याग़ के आदि में अनुष्टुप् छन्द के प्रयोग को दिखला रहे हैं - ) सः उस (प्रजापति) ने स्वे सोमे वै अपने ही सोमयाग में तत्. उस ( अनुष्टुप् छन्द ) को (प्रमुखता से) अकल्पयत् सम्पादित ( प्रयुक्त ) किया था तस्मात् इसी कारण यत्र क्व च जहाँ कहीं भी ( यज्ञ ) यजमानवशः भवति यजमानविधेय ( सावधान ) होता है वहाँ यज्ञोऽपि कल्पते एव यज्ञ भी (. वैकल्यरहित) सम्पादित होता है। सा ० भा ० — यस्मात् स प्रजापतिः स्वकर्तृक एव सोमयागे तत् सवनेष्वनुष्टुभो मुख्यतामकल्पयत् तस्मादिदानीमपि यत्र क्वापि यागे यज्ञो यजमानवशो भवति स यज्ञोऽपि कल्पत एव । अवैकल्येनानुष्ठास्यामीत्यभिप्रेत्यानुष्टुभः सवनानामादौ प्रयोगे सति यज्ञस्य यजमानवशत्वं तत्र यज्ञों वैकल्यरहितो भवतीत्यर्थः ॥ ( १ ) ' अग्रियो' इति वा पाठः । किन्तु ' अग्र्यः ' इति सायणसम्मतः पाठः । ( २ ) 'य. क्वापि देशे काले वा यजमानवशो यजमानविधेयो यज्ञो भवति स एव यज्ञः कल्पते एतस्य यजमानस्य। यद्वा, यत्र यज्ञे कस्मिंश्चिदपि यज्ञावयवे प्रवृत्तौ निवृत्तौ वा यजमानवशं यजमानस्य वशं स्वातन्त्र्यं भवति तादृशस्य यजमानस्य सम्बन्धी यज्ञः कल्पत एव'-इति भट्टभास्करः ।

पृष्ठ 578

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 578 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५१६ ऐतरेयब्राह्मणम् १२.३ तृतीयपञ्चिकायां उक्तवाक्यार्थमेव वाक्यान्तरेण स्पष्टीकरीति— तस्यै जनतायै कल्पते यत्रैवं विद्वान् यजमानो वशी यजते ॥५ ॥

हिन्दी – ( पूर्वोक्त अर्थ को अन्य वाक्य द्वारा स्पष्ट कर रहे हैं— ) यत्र जिस ( याग) में एवं विद्वान् यजमानः इस प्रकार जानने वाला यजमान वशी यजते (उस अनुष्टुप् छन्द के प्रयोग में) सावधान होकर यजन करता है तो वह तस्यै जनतायै कल्पते उस जनसमूह के लिए ( यज्ञप्रयोग में) समर्थ होता है । सा० भा ० — यत्र यस्यां जनसभायामेवमनुष्टुभो महिमानं विद्वान् यजमानो वशी स्ववशो भूत्वा तस्मिन्ननुष्टुभः प्रयोगे सावधानो भूत्वा यजते तस्यै जनतायै तस्यां जनसभायां कल्पते यज्ञः प्रयोजनसमर्थो भवति॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) द्वितीयः खण्डः ॥२ ॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के द्वितीय खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ तृतीयः खण्डः सा० भा० -– पुनरपि प्रकारान्तरेणानुष्टुभो महिमानं दर्शयितुमाख्यायिकामाह— ( प्रकारान्तरेणानुष्टुभो महिमानं दर्शयितुमाख्यायिका ) ( प्रातः सवनेऽनुष्टुप् प्रशंसनम् ) अग्निर्वै देवानां होताऽऽसीत्, तं मृत्युर्बहिष्पवमानेऽसीदत्, सोऽ- नुष्टुभाऽऽज्यं प्रत्यपद्यत, मृत्युमेव तत्पर्यक्रामत्, तमाज्येऽसीदत्, स प्रउगेण प्रत्यपद्यत, मृत्युमेव तत्पर्यक्रामत् ॥ १ ॥

हिन्दी - (पुनः अनुष्टुप् की महत्ता को दिखलाने के लिए आख्यायिका को कह रहे हैं— ) अग्निः वै देवानां होता आसीत् देवताओं के (याग में) अग्नि होता नामक ( ऋत्विक्) था। तम् उस ( अग्नि) को बहिष्पवमाने बहिष्पवमान नामक स्तोत्र में मृत्युः असीदत् ( मारने के लिए) मृत्यु ने प्राप्त किया। सः उस ( अग्नि ) ने अनुष्टुभा ( प्र वो देवायाग्नये इस) अनुष्टुप् छन्द वाली ऋचा द्वारा आज्यं प्रपद्यत आज्यशस्त्र को प्रारभ्म किया और तत् उस प्रयोग से मृत्युमेव पर्यक्रामत् मृत्यु को ही पराक्रमित कर दिया । तब तम् उस ( अग्नि ) को ( मृत्यु ने ) आज्ये असीदत् आज्यशस्त्र में प्राप्त किया । (तब उस अग्नि ने ) प्रउगेण प्रत्यपद्यत ' वायवा याहि' इत्यादि प्रउगशस्त्र को प्रारम्भ किया । तत् उस

पृष्ठ 579

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 579 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५१७ ( प्रउगशस्त्र के प्रयोग) से मृत्युमेव पर्यक्रामत मृत्युको ही पराक्रमित कर दिया । सा० भा ० – पुरा कदाचिद्देवानां यागेऽग्निरेव होता अभूत् तमग्नि होतारं मृत्युर- सीदद्धन्तुं प्राप्तवान् । कस्मिन् काल इति? तदुच्यते— बहिष्पवमानाख्ये स्तोत्रे प्रातः सवन- संबन्धिनि ‘ उपास्मै गायता नर' इत्याघृगाश्रयणेन सामगैः स्तूयमाने सति सोऽयमग्नेर्मृत्यु- प्राप्तिकालस्तदानीमग्निर्मृत्युं परिहर्तुमनुष्टुप्च्छदस्कया 'प्र वो देवायाग्नये' इत्येतयर्चाऽऽ- ज्यशस्त्रं प्रारब्धवान् । ' तत्' तेनानुष्टुप्प्रयोगेण सोऽग्निस्तदानीमेव मृत्युं ' पर्यक्रामद्' अति- क्रान्तवान्। तत: ‘ अग्न आ याहि' इत्यादृगाश्रयणेनाज्यस्तोत्रे ' सामगैः स्तूयमाने सति तमग्निं मुत्युरसीदत् प्राप्तवान्। तदा सोऽग्निर्मृत्युं परिहर्तुं वायवायाहीत्यादिकेन सप्ततृचा- त्मकेन प्रउगशस्त्रेण* अनुष्ठानं प्रत्ययद्यत प्रारब्धवान्। तत् तेन प्रउगप्रयोगेण तदानीमेव मृत्युमतिक्रान्तवान्। इत्थं प्रातःसवनेऽनुष्टुभं मृत्युपरिहारहेतुत्वेन प्रशस्य माध्यंदिनसवनेऽपि तथा प्रशंसति— ( मध्यन्दिनसवने अनुष्टुप्प्रशंसनम् ) तं माध्यंदिने पवमानेऽसीदत्, सोऽनुष्टुभा मरुत्वतीयं प्रत्यपद्यत, मृत्युमेव तत्पर्यक्रामत्, तं माध्यंदिने बृहतीषु नाशक्नोत् सत्तुं, प्राणा वै बृहत्यः, प्राणानेव तन्नाशक्नोद् व्यवैतुं, तस्मान्मध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते, प्राणा वै बृहत्यः, प्राणानेव तदभिप्रतिपद्यते ॥ २ ॥

हिन्दी —( मध्यन्दिनसवन में भी अनुष्टुप् छन्द की प्रशंसा कर रहे हैं - ) मध्यन्दिने मध्यन्दिनसवन में तम् उस ( अग्नि) को ( मृत्यु ने ) पवमाने असीदत् पवमान स्तोत्र में प्राप्त किया । तब सः उस (अग्नि) ने अनुष्टुभा ('आ त्वा रथम्' इत्यादि) अनुष्टुप् छन्द से मरुत्वतीयं प्रत्यपद्यत मरुत्वतीय शस्त्र को प्रारम्भ किया । तत् उस ( मरुत्वतीय शस्त्र के प्रयोग) से मृत्युमेव पर्यक्रामत् मृत्यु को वहाँ से हटा दिया । तम् उस ( अग्नि ) को माध्यन्दिने माध्यन्दिन सवन में बृहतीषु ( गाये जाने वाली ) बृहती छन्दस्क (ऋचाओं) में सत्तुं न अशक्नोत् ( मृत्यु को ) पाने में समर्थ नहीं हुआ; क्योंकि प्राणाः वै बृहत्यः बृहती (छन्द वाली ऋचाएँ) प्राण स्वरूप हैं । तत् इससे प्राणमेव अभि प्राणों को ही अभिलक्षित करके प्रतिपद्यते शस्त्र का प्रारम्भ करता है । ( १) ता०ब्रा० ७.१ । उ०आ० १.१.१-३ (ऋ० ९.११.१) (२ ) उ० आ० १.१.४-७ । ( ३ ) 'ततोऽग्निना होत्राऽऽज्यशस्त्रे शस्यमाने' इति वा पाठः । (४) ऋ० १.२.१- ९; १.३.१-१३ ।

पृष्ठ 580

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 580 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५१८ ऐतरेयब्राह्मणम् १२.३ तृतीयपञ्चिकायां सा० भा ० — प्रातःसवनान्निराकृतो मृत्युः सामगैः ‘उच्चा ते जातमन्धसः’१ इत्यादिके माध्यंदिनपवमानस्तोत्रे' गीयमाने सति तस्मिन् काले तमग्निं होतारमसीदत् प्राप्तवान्। तदानीं सोऽग्निर्होता मृत्युपरिहारायानुष्टुप्छन्दस्कया ' आ त्वा रथम्' इत्येतचर्या मरुत्वतीय- शस्त्रं' प्रारब्धवान्। तत् तेनानुष्टुप्प्रयोगेण तदानीमेव मृत्युमतिक्रान्तवान् । माध्यंदिनपवमा- नान्निराकृतो मृत्युर्मायंदिनसवनसंबन्धिमरुत्वतीयशस्त्रे शस्यमाने सति शंसितारमग्निं होतारं प्राप्स्यामीति विचार्य तत्र बृहतीछन्दस्कास्वृक्षु गीयमानासु तमग्नि सत्तुं प्राप्तुं नाशक्नोत्। तत्र हेतुरुच्यते— बृहतीछन्दस्का ऋच: प्राणस्वरूप एव। तत् तेन कारणेन प्राणानेव ‘ व्यवैतुं ' वियोजयितुं मृत्युर्नाशक्नोत्। प्राणाभिमानिनीभिर्बृहतीभिः प्राणानां रक्षितत्वात्। बृहत्यश्च मरुत्वतीयशस्त्रानन्तरभाविनि निष्केवत्यशस्त्रे बहवो विद्यन्ते । ताश्च सर्वस्मिन्नेव माध्यंदिने सवने मृत्युप्रवेशं निवारयन्ति। यस्मादेवं बृहत्यो मृत्युप्रवेशं निवारयितुं समर्थाः, तस्मान्मा- ध्यंदिनप्रयोगे होता बृहतीछन्दस्कास्वृक्षु स्तोत्रियेणैव तृचेन शस्त्रं प्रारभते । यस्मिन् तृचे सामगैः स्तोत्रं गीतं सोऽयं तृचः स्तोत्रिय:, तेन तृचेन प्रारम्भे सति तत्रत्यानां बृहतीनां प्राणरूपत्वात् प्राणानेवाभिलक्ष्य शस्त्रप्रारम्भं कृतवान्भवति ॥ अथ तृतीयसवने मृत्युपरिहारेणानुष्टुभं प्रशंसति— ( तृतीयसवनेऽनुष्टुप्प्रशंसनम् ) तं तृतीयपवमानेऽसीदत्,. सोऽनुष्टुभा वैश्वदेवं प्रत्यपद्यत, मृत्युमेव तत्पर्यक्रामत ॥३ ॥

हिन्दी- (अब तृतीयसवन में मृत्यु के परिहार द्वारा अनुष्टुप् छन्द की प्रशंसा कर रहे हैं— ) तृतीयपवमाने तृतीय सवन के (स्वादिष्टया इत्यादि आर्भव) पवमान स्तोत्र में ( सामगान गेयमान होने पर) तम् उस ( अग्नि) को असीदत् ( मृत्यु ने ) प्राप्त किया । सः उस (अग्नि) ने अनुष्टुभा अनुष्टुप् छन्द वाले ( तत्सवितुर्वृणीमहे ) से वैश्वदेवम् वैश्वदेव (नामक शस्त्र ) को प्रत्यपद्यत प्रारम्भ किया। तत् उस ( वैश्वदेवशस्त्र) से मृत्युमेव पर्यक्रमत मृत्यु को ही पराक्रमित कर दिया । सा० भा ० — त्रिषु पवमानेषु बहिष्पवमानः प्रथमः । माध्यंदिनपवमानो द्वितीयः । ( १ ) उ०आ० १.१.८-१० । ( २ ) 'एतावता वाव माध्यन्दिनं सवनं पुपुवे, त्रिभिश्च छन्दोभि: पञ्चभिः सामभि:; यन्माध्यन्दिनेन पवमानेन स्तुवान्ति, माध्यन्दिनमेव तं सवनं पावयन्ति' – इत्यादि ता० ब्रा ० ७.३.१-३ । (३ ) ऋ० ८.६८.१। ( ४ ) तच्च शस्त्रम् इतः परस्तात् चतुर्थादिषु षट्सु खण्डेषु आम्नास्यते। ( ५ ) ( i ) ' सत्तुं सदेस्तुमुन् अभिभवितुम्'; ( ii ) ‘ भवार्थात् तुमुन् अभिभवितुम्' – इति षड्गुरुशिष्यः ।