ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 581–590
ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 581–590
पृष्ठ 581
पाठ पढ़ें पाठ छिपाएँ
]: द्वितीयोऽध्यायः तृतीयः खण्डः सायणाचार्यकृतभाष्योपेतम् ५१ ९ आर्भवपवमानस्तृतीयः । माध्यंदिनसवने प्रवेष्टुमशक्तो मृत्युः ' स्वादिष्ठया' ' इत्येतस्मिन्ना- र्भवाख्ये तृतीयपवमानस्तोत्रे? तृतीयसवनगते सामगैर्गीयमाने सति तमग्निं होतारं मृत्यु- रसीदत्। सोऽयग्निस्तं वारयितुमनुष्टुप्छन्दस्कया ' तत्सवितृर्वृणीमहे' ' इत्येयर्चा वैश्वदेवाख्यं शस्त्रं' प्रारभत । तेनानुष्टुप्प्रयोगेण तदानीमेव मृत्युमतिक्रान्तंवानित्यनुष्टुप्सवनत्रये शस्ता ॥ ·· अथ यज्ञायज्ञीयाख्यं साम वैश्वानरीयसूक्तं च प्रशंसति— ( यज्ञायज्ञायाख्यसाम्नः वैश्वनरीयसूक्तस्य च प्रशंसनम् ) तं यज्ञायज्ञीयेऽसीदत्, स वैश्वानरीयेणाऽऽग्निमारुतं प्रत्यपद्यत, मृत्युमेव - तत्पर्यक्रामद्, वज्रो वै वैश्वानरीयं, प्रतिष्ठा यज्ञायज्ञीयं, वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते, स सर्वान् पाशान् सर्वान् स्थाणून् मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत, स्वस्त्येव होतान्मुच्यते सर्वायुः सर्वायुत्वाय ॥४ ॥
हिन्दी – ( अब यज्ञायज्ञीय नामक साम और वैश्वानरदेवताक सूक्त की प्रशंसा कर रहे हैं— ) तब मृत्यु ने तम् उस ( अग्नि को ) यज्ञायज्ञीये असीदत् यज्ञायज्ञीय ( ' यज्ञायज्ञा वो अग्नये ' इत्यादि) स्तोत्र में असीदत् प्राप्त किया। सः (अग्नि) ने वैश्वानरीयेण वैश्चानर देवता वाले ' (‘ वैश्वानराय पृथुपाजसे इत्यादि सूक्त' ) से अग्निमारुतम् अग्नि- मारुतशस्त्र को प्रत्यपद्यत प्रारम्भ किया । तत् उस ( वैश्वानरदेवताक अग्निमारुतशस्त्र ) से मृत्युमेव पर्यक्रामत् मृत्यु को ही पराक्रमित कर दिया; क्योंकिं व्रजो वै वैश्वानरीयम् वैश्वानरीय ( सूक्त ) वज्ररूप है और यज्ञायज्ञीयं प्रतिष्ठा यज्ञायज्ञीय ( सूक्त ) प्रतिष्ठारूप ( समाप्ति का हेतु) है । तत् इससे वज्रेण ( सूक्तरूप) वज्र के द्वारा प्रतिष्ठायाः (यज्ञ की ) समाप्ति पर मृत्युं नुदते मृत्यु को निराकृत कर देता है। सः उस ( अग्नि) ने सर्वान् पाशान् सर्वान् स्थाणून् (मृत्यु - सम्बन्धी ) सभी पाशों और सभी (गदा इत्यादि) आयुधों को मृत्योः अतिमुच्य मृत्यु से अलग करके स्वस्त्या एव उदमुच्यत स्वयं भी कल्याण द्वारा (मृत्यु से) उन्मुक्त हो गया, अतः होता स्वस्त्या एव उन्मुच्यते होता भी कल्याण द्वारा ही (मृत्यु से ) उन्मुक्त हो जाता है । (इस प्रकार यह कर्म) सर्वायुः सम्पूर्ण आयुरूप है और सर्वायुत्वाय सम्पूर्ण आयु की प्राप्ति के लिए होता है। ( १) उ ०आ० १.१.१५ । ( २ ) ( i ) स्वादिष्ठयेत्यारभ्य तृतीयसवने गेयं स्तोत्रमार्भवपवमानः । ( ii ) ' साध्या वै नाम देवा आसन् स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय' – इत्यादि ता० ब्रा० ८.४.१-५ । ( ३ ) ऋ० ५.८२.१। (४ ) एतदुत्तराध्यायीसप्तमाष्टमखण्डयोराम्नास्यते ।
पृष्ठ 582
पाठ पढ़ें पाठ छिपाएँ
: [५२० ऐतरेयन्ब्राह्मणम् १२.४ तृतीयपञ्चिकायां सा० भा०--'यज्ञायज्ञा वो अग्नये इत्यस्यामृच्युत्पन्नं साम यज्ञायज्ञीयम्। तत्साम-साध्ये तन्नामके स्तोत्रे' सामगैर्गीयमाने सति तृतीयपवनमानान्निराकृतो मृत्युस्तमग्निं होतारं प्राप्तवान्। ततोऽग्निर्होता मृत्युपरिहाराय 'वैश्वानराय पृथुपाजसे ' इत्यादिना वैश्वानरीयेण सूक्तेन आग्निनारुताख्यं' शस्त्रं प्रारब्धवान्। तेन सूक्तप्रयोगेण तदानीमेव मृत्युमति-क्रान्तवान् । तत्र वैश्वानरीयं सूक्तं वज्रस्वरूपम्। यज्ञायज्ञीयस्तोत्रं तु प्रतिष्ठा समाप्तेर्हेतुः । तस्मात् सूक्तरूपेण वज्रेणैव प्रतिष्ठाया यज्ञसमाप्तेर्मुत्युमग्निर्निराकुरुते। स तादृशोऽग्निः सर्वान् पाशान् मृत्युसंबन्धिबन्धनरज्जुरूपांस्तथा मृत्योः संबन्धिनः सर्वान् स्थाणून् काष्ठोपलक्षितगदाद्यायुधानि मृत्योः सकाशादतिमुच्च निवार्य स्वस्त्येव क्षेमेणैव स्वयं मृत्युसकाशादुन्मुक्तोऽभूत्। अग्निवन् मानुषोऽपि होता तेनैव प्रकारेणानुतिष्ठम् सर्वेणाऽऽ- युषा युक्तः क्षेमेणैव मृत्योरुन्मुच्यते। अत्र सर्वत्र यो योऽपूर्वोऽर्थस्तस्य सर्वस्यार्थवादादेव विधिरुन्नेयः । सोऽयं हौत्रप्रयोगो यजमानस्य सर्वायुत्वाय संपद्यते॥ वेदनं प्रशंसति— सर्वमायुरेति य एवं वेद ॥ ५ । हिन्दी —( इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार जानता हैं, वह सर्वम् आयुः एति सम्पूर्ण आयु को प्राप्त करता है ॥। इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) तृतीयः खण्डः ॥ ३ ॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के तृतीय खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ चतुर्थः खण्डः सा० भा ० — अथ मरुत्वतीयशस्त्रमारभ्यते। तत्रायं सङ्ग्रहश्लोक:- “प्रतिपदनुचरावनुप्रगाथो हरिनिहवोऽथ बृहस्पतेर्ध्रुवश्च । ध्रुवविधिविहितास्तथाऽथ धाय्या विततमत्र मरुत्वतीयसूक्ते ॥ " ( ) ( ) १ उ०आ० १.१२ । २ ऊ ० गा ० १.१.१४ । ( ३ ) ' देवा वै ते देवा यज्ञायज्ञीयमपश्यंस्तेषां ' यज्ञायज्ञा वो अग्नये' इति' – इत्यादि ता०ब्रा० ८.६.१-५ । ( ४ ) साम्नानेनाग्निष्टोमस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते। ( ५ ) एतदुत्तराध्यायीयेषु नवमादिषु त्रिषु खण्डेषु द्रष्टव्यम्। ( ६ ) ‘ मरुत्वतीयशस्त्रप्रारम्भं कृतवान्' इति वा पाठः ।
पृष्ठ 583
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः चतुर्थः खण्डः सायणाचार्यकृतभाष्योपेतम् ५२१ तत्र ‘ आ त्वा रथम्’” इति मरुत्वतीयस्य प्रतिपदनुष्टुप् तां प्रशंसितुमाह- ( मरुत्वतीयशस्त्रविधातुं अनुष्टुप्प्रशंसनम्) इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत् स परमामेव परावतमगच्छद्, अनुष्टुब् वै परमा परावद्, वाग्वा अनुष्टुप्, स वाचं प्रविश्याशयत् तं सर्वाणि भूतानि विभज्यान्वैच्छंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात् पूर्वेद्युः पितृभ्यः क्रियते, उत्तरमह- र्देवान् यजन्ते ॥१ ॥
हिन्दी - (अब मरुत्वतीय शस्त्र का विधान करने के लिए पहले इसके प्रतिपद् अनुष्टुप् छन्द की प्रशंसा कर रहे हैं - ) इन्द्रः वै वृत्रं हत्वा इन्द्र- वृत्र को मार कर न अस्तृषि ' मैंने (वृत्र को ) पूर्णरूप से नहीं मारा' - इति मन्यमानः इस प्रकार समझते हुए परा परावतः अगच्छत् (उससे भयभीत होकर ) अत्यधिक दूर चले गये। सः वे इन्द्र उससे भी संन्तुष्ट न होकर परमाम् एव परावतम् अगच्छतम् उससे भी अत्यन्त दूर स्थान को चले गये । अनुष्टब् वै परमा परावद् अनुष्टुप् ही वह दूर स्थान था। वाग्वै अनुष्टुप् अनुष्टुप् ही वाणी रूप है । इस प्रकार सः वे ( इन्द्र) वाचं प्रविश्य वाणी में प्रवेश करके आशयत् वहाँ सो गये। सर्वाणि भूतानि सभी प्राणी विभज्य परस्पर अलग-अलग होकर तम् उस (इन्द्र ) को अन्वैच्छन् खोजने लगे। तम् उस (इन्द्र) को पितरः पितरों ने पूर्वेद्युः ( यज्ञ से ) एक दिन पहले अन्वविन्दन् खोज कर जान लिया और उत्तरम् अहः देवाः (उसके ) दूसरे दिन देवताओं ने (खोज कर जाना) । तस्मात् इसी कारण पूर्वेद्युः (यज्ञ के ) दिन पहले अमावास्या को पितृभ्यः क्रियते पितरों के लिए कृत्य किया जाता है और उत्तरम् अहः ( उसके दूसरे दिन (प्रतिपदा को) देवान् यजन्ते देवताओं का यजन करते हैं। सा० भा ० – इन्द्रः पुरा वृत्रनामकं दैत्यं हत्वा नास्तृषि अहं न हिंसितवानस्मीति मन्यमानस्तदीयजीवनमाशङ्क्य तस्माद् भीतः पराः परावतोऽभ्यधिका दूरभूमीरगच्छत् । सोऽयं तावताऽप्यसंतुष्टः परमामेवाभ्यधिकामेव परावतं दूरभूमिं पुररप्यगच्छत्। अधिकाभ्यो दूरभूमिभ्योऽप्यत्यन्तमधिका दूरभूमि: केति? चेत्, सेयमुच्यते— अनुष्टुब्वै परमा परावद- भ्यधिका दूरभूमिः । तस्यामनुष्टुभि प्रविष्टस्य चक्षुषा द्रष्टुमशक्यत्वात्। अनुष्टुप् च वाक्स्व- रूपा। ततः स इन्द्रो वाचं प्रविश्य तत्र शयनं कृतवान् । तमिन्द्रं सर्वाणि भूतानि सर्वेषु देशेषु विभज्यान्वैच्छन्। तमन्वेष्टुमेक एकस्मिन् देशे गतोऽन्यो देशान्तरमित्येतादृशो विभाग इत्यर्थः । तमन्विष्यमाणमिन्द्रं पितरो यागदिनात् पूर्वेद्युरविन्दन्नलभन्त। देवास्तूत्तरमहरुत्तर- ( १ ) ऋ० ८.६८.१-३ । ( २ ) ' अनुष्टुप् इति वाङ्नामसु पाठात्'-द्र० निघ० १.११ । ऐ.ब्रा. पू- ३३
पृष्ठ 584
पाठ पढ़ें पाठ छिपाएँ
: [ ५२२ ऐतरेयब्राह्मणम् १२.४ तृतीयपञ्चिकायां स्मिन्नहन्यविन्दन् । यस्मादेवं तस्माल्लोकेऽपि पूर्वेद्युरमावास्यायां पितृभ्यः क्रियते। उत्तरमहरुत्तरस्मिन्नहनि प्रतिपद्दिने दर्शपूर्णमासयागदिने देवान् यजन्ते।' इन्द्रस्य रक्षकत्वात् प्रशस्ताऽनुष्टुबिति तात्पर्यार्थः ॥ अथ मरुत्वतीयशस्त्रस्य प्रतिपत्तृचं दर्शयति- ( मरुत्वतीयशस्त्रस्य प्रतिपत्तृचविधानम् ) तऽब्रुवन्नभिषु वामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त ‘ आ त्वा रथं यथोतये' इत्येवैनमावर्तयन्, ' इदं वसो सुतमन्धः ' इत्येवैभ्यः सुतकीर्त्यामाविरभवद् ' इन्द्र नेदीय एदिहि' इत्येवैनं मध्यं प्रापादयन्त ॥ २ ॥
हिन्दी— ( मरुत्वतीयशस्त्र के प्रतिपद् तृच को दिखला रहे हैं - ) ते अब्रुवन् (इन्द्र को प्राप्त करके ) उन ( देवताओं) ने परस्पर कहा कि ' अभिषुणवाम हम लोग सोम का सवन करे । तथा वाव उसी प्रकार से आशिष्ठम् आगमिष्यति ( वे इन्द्र) अत्यन्त शीघ्र आ जाएँगे । तथा इति इस प्रकार (उन्होंने एक मत होकर निश्चय किया ) और ते अभ्यषुण्वन् उन्होंने सोम का सवन किया । ते उन ( देवताओं ) ने ' आ त्वा रथं यथोतये ' इस ( अनुष्टुप् छन्द वाली ऋचा ) से एनम् इस ( इन्द्र) को आवर्तयन् ( अभिषवस्थान पर) वापस लौटा लिया । ‘ इदं वसो सुतमन्ध: ' इति सुतकीर्त्याम् (इस अभिषव अर्थ वाले ) ' सुत' शब्द वाली (ऋचा ) से एभ्यः एव इन ( देवताओं ) के लिए आविरभवत् (इन्द्र) प्रकट हो गये। 'इन्द्र नेदीय एदिहि' इति एव इसी (ऋचा) से एनम् इस ( इन्द्र) को मध्यं प्रापादयन्त ( देवताओं ने यज्ञस्थल के ) मध्य में प्राप्त कर लिया । सा ० भा ० — इन्द्रं लब्ध्वाऽवस्थितास्ते देवाः परस्परमिदमब्रुवन्नभिषुणवामैवं वयं सर्वथा सोमस्याभिषवं करवाम । तथा वाव तेनैव प्रकारेणाऽऽशिष्ठमाशुतममतिशीघ्रं यथा भवति तथा नोऽस्मानिन्द्र आगमिष्यतीति तद्वचनमङ्गीकृत्य तें सर्वेऽभ्यषुण्वन्नभिषवं कृत- वन्तः । तादृशास्ते देवा ‘ आ त्वा रथं यथोतये' ' इत्यनेनैव मन्त्रेण तमिन्द्रमनुष्टुभः सकाशाद् अभिषवदेशं प्रत्यावर्तयन्। अत्र किञ्चिदावृत्तिवाचकमावर्तयामसीति पदद्वयं श्रूयते तत्सामर्थ्यादिन्द्रस्याऽऽवृत्तिरभूत्। ' इदं वसो सुतमन्धः ' इत्यस्मिन् मन्त्रपादे सुतकी- र्त्यामभिषववाचिना सुतशब्देनैभ्यो देवेभ्य इन्द्र आविरभवत् प्रकटोऽभूत्। 'इन्द्र नेदीय एदिहि'" इति मन्त्रगतेन समीपागमनवाचिना ' नेदीय एदिहि' इति पदद्वयेनैनमिन्द्रं यागदेशमध्यं प्रापि-तवन्तः । अनेनार्थवादेन तत्तन्मन्त्रविधिरुन्नेयः एतदेवाभिप्रेत्य आश्वलायन आह-'-'मरुत्वतीय- ( १ ) ‘ इन्द्रो वृत्रं हत्वा तस्मात् पितृभ्यः पूर्वेद्यु क्रियते सोमावस्यां प्रत्यागच्छत् तं देवा अभिसम-(२ ) गच्छन्तामा१. ऋ० ८.६८.१वै नः ' -इति। तै( ०३ सं) ०ऋ२.५.३० ८.२.१॥ (४ ) ऋ० ८.५३.५ ।
पृष्ठ 585
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः पञ्चमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५२३ शस्त्रं शंसेदध्वयों शोसावोमिति माध्यंदिने शस्त्रादिष्वाहाव ' आ त्वा रथं यथोतय' 'इदं वसो सुतमन्ध: ' इति मरुत्वतीयस्य प्रतिपदनुचराविन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगाथः " इति । येन तृचेन शस्त्रं प्रारभते; सोऽयं तृचः प्रतिपदुच्यते । तदनन्तरभावी तृचोऽनुचरः । अत्र ' आ त्वा रथम्’ ‘ इदं वसा’, इत्येतावृचौ प्रतिपदुच्यते। तदनन्तरभावी तृचोऽनुचरः । अत्र 'इन्द्र नेदीय: ' इति प्रगाथः, ऋद्वयात्मको द्रष्टव्य इत्यर्थः ॥ वेदनं प्रशंसति— आगतेन्द्रेण यज्ञेन यजते, सेन्द्रेण यज्ञेन राध्नोति य एवं वेद ॥ ३ ॥
हिन्दी -(इस ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार ( इस तथ्य को ) जानता है, वह आगतेन इन्द्रेण यजते (यज्ञ में) आये हुए इन्द्र के साथ यजन करता है और सेन्द्रेण यज्ञेन राघ्नोति इन्द्र के सहित किये गये यज्ञ से समृद्ध होता है । सा० भा० – आगत इन्द्रो यस्मिन् यज्ञे, सोऽयमागतेन्द्रः, वेदिता तादृशेन यज्ञेन यजते, तथेन्द्रसहितेन यज्ञेन समृद्धो भवति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाःद्वितीयाध्याये (द्वादशाध्याये ) चतुर्थः खण्डः ॥४॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के चतुर्थ खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ पश्चमः खण्डः सा० भा०-- पूर्वोक्तमिन्द्र नेदीय इत्यादिकं प्रगाथं शंसितुमाख्यायिकामाह— ( इन्द्रनेदीय इत्यादिकं प्रगाथं प्रशंसितुमाख्यायिका ) इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः, प्राणा वै मरुतः स्वापयः, प्राणा हैवैनं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान् प्रगाथः शस्यत आस्वापे स्वापिभिरिति ॥ १ ॥
हिन्दी—( पूर्वोक्त ' इन्द्र नेदीय' इत्यादि प्रगाथ की प्रशंसा करने के लिए आख्यायिका को कह रहे हैं— ) वृत्रं जघ्निवांसम् इन्द्रम् वृत्र को मारने वाले इन्द्र को सर्वाः देवताः अन्य सभी देवताओं में ' न आस्तृत वृत्र को नहीं मार सके' –इति मन्यमानः ऐसा (१) आश्व०श्री० ५.१४.२-५।
पृष्ठ 586
पाठ पढ़ें पाठ छिपाएँ
: [५२४ ऐतरेयब्राह्मणम् १२.५ तृतीयपञ्चिकायां समझते हुए अजहुः त्याग दिया । तं उस (इन्द्र) को मरुतः एव मरुद्गण देव ही स्वापय: न अजहुः सुषुप्ति-काल में भी नहीं छोड़ा। प्राणाः वै मरुतः स्वापयः सुषुप्ति- काल में विद्यमान प्राण ही मरुद्गण हैं। प्राणाः एव एनं न अजहुः केवल प्राणों ने ही इस (इन्द्र ) को नहीं छोड़ा । तस्मात् इसी कारण 'आस्वापे स्वापिमि' –इस पाद से युक्त तथा स्वापिमान् स्वापि शब्द से युक्त एषः प्रगाथः यह प्रगाथं अच्युतः शस्ते (मरुत्वतीय शस्त्र में) अपरित्यक्त होकर शंसित किया जाता है । सा० भा०-— इन्द्रो यदा वृत्रं हतवान्,' तदा तमिन्द्र सर्वा देवता अजहुः परित्यक्तवत्यः । कीदृश्यो देवताः? नास्तृतेति न हिंसितवानिन्द्र इति मन्यमानाः । वृत्रस्यातिप्रौढशरीरत्वात् प्रहारमात्रेणासौ न मृत इति देवानां भ्रान्तिः । इतरदेवताभिः परित्यक्त तमिन्द्रं मरुत एव नाजहुर्न परित्यक्तवन्तः तद्विशेषणं स्वापय' इति। सुषुप्तिकालेऽपि वर्तमाना इत्यर्थः। स्वापि- शब्दार्थः श्रुत्यैव प्रदर्श्यते। प्राणा वै देहमध्ये वर्तमानाः प्राणा एव स्वापयो मरुतः स्वापकाला- नुवर्तिनो वायवः । प्राणानां तत्कालानुवृत्तिमार्थर्वणिकाः प्रश्नोत्तराभ्यामामनन्ति—‘भगवन्ने- तस्मिन् पुरुषे कानि स्वपन्ति? कान्यस्मिञ्जाग्रति? ” इति प्रश्नः । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’” इत्युत्तरम्। एवंविधा यस्मात् प्राणरूपा मरुत एवैनमिन्द्रं तदानीं न परित्यक्तवन्तः । तस्मात्कारणादेष ‘ इन्द्र नेदीयः " इत्यादिकः स्वापिमान् प्रगाथोऽच्युतो मरुत्वतीयशस्त्रे सर्वथाऽप्यपरित्यक्तः शस्यते । स्वापिशब्दो यस्मिन् प्रगाथेऽस्ति सोऽयं स्वापिमान् । आस्वापे स्वापिभिरित्ययं पादः, तस्मिन् प्रगाथ आम्नायते, तस्मादयं स्वापिमान्॥ इत्थमिन्द्रनिहवाख्यं प्रगाथं प्रशस्य पुनरपि प्रकारान्तरेंण तमेव प्रशंसति— ( प्रकारान्तरेण प्रगाथप्रशंसनम् ) अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान् प्रग़ाथः शस्यत आस्वापे स्वापि- भिरिति ॥ २ ॥
हिन्दी - (प्रकारान्तर से प्रगाथ की प्रशंसा कर रहे हैं - ) अपि ह यत् फिर भी जब अतः ऊर्ध्वम् इस ( प्रगाथ) के ( शंसन) बाद ऐन्द्रं छन्दः शस्यते ( इस मरुत्वतीयशस्त्र में) इन्द्रसम्बन्धी मन्त्र का शंसन करता है तद् ह सर्वं मरुत्वतीयं भवति तब वह सभी मरुत्वतीय शस्त्र होता है। ‘ आस्वापे स्वापिभि:' इस पाद से युक्त स्वापिमान् प्रगाथ स्वापि ( १ ) ' तत्रोपमार्थेन युद्धवर्णा भवन्ति' – इति निरु ० २.५.२ । ( २ ) ‘ आपिराप्तो बन्धुः ’ — इति षड्गुरुशिष्यः । 'स्वापयः स्वापिनामानो मरुतः ' –इति भट्टभास्करः । ‘हे स्वापे सुतरामाप्तेन्द्र स्वापिभिः शोभना आपयः आप्ता बन्धवः यासु ताभिरूतिभिरेहि’— इति ऋक्संहिताभाष्ये सायणः । ( ) ( ) ( ) ३ प्र ० उप ० ४.१ । ४ प्र ० उप ० ४.३ । ५ ऋ० ८.५३.५ ।
पृष्ठ 587
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५२५ शब्द से सम्पन्न प्रगाथ चेद् अच्युतः यदि च्युत न किया (छोड़ा न ) जाय तो एषः शस्यते यह ( मरुत्वतीयशस्त्र ) शंसित होता है। सा ० भा ० – अपि हापि चात एतत्प्रगाथशंसनादूर्ध्वमस्मिन् मरुत्वतीयशस्त्रे यद्यैन्द्र-मेव च्छन्द इन्द्रसंबन्ध्येव च्छन्दः शब्दोपलक्षिते मन्त्रः शस्यते । तद्ध सर्वं तदपि मन्त्रजातं मरुत्वतीयशस्त्रं भवति । एष चेदित्यादिना तत्र युक्तिरुच्यते। आस्वापे स्वापिभिरिति पादो- पेतत्वेन स्वापिमानेष प्रगाथोऽच्युतश्चेदपरित्यक्तश्चेत् तदा मरुत्वतीयं भवति स्वापिशब्द-वाच्यानां मरुतां प्रतिपादकत्वादित्यर्थः । सोऽयं प्रगाथः शाखान्तरे द्रष्टव्यः ॥ ' ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये 'वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये ( द्वादशाध्याये ) पञ्चमः खण्डः ॥५॥
॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के पञ्चम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ 1318 21:: 2012 सा ० भा० – अथास्मिन् मरुत्वतीयशस्त्रे 'प्र नूनं ब्रह्मणस्पतिः ' इत्यादिकं प्रगाथं विधत्ते— ( मरुत्वतीयशस्त्रस्य ब्राह्मणस्पत्यप्रगाथविधानम्) ब्रह्मणस्पत्यं प्रगाथं शंसति ॥ १ ॥
हिन्दी— ( अब मरुत्वतीय शस्त्र में 'प्र नूनं ब्रह्मणस्पति' इत्यादि प्रगाथ का विधान कर रहे हैं — ) ब्राह्मणस्पत्यं प्रगाथं शंसति ब्रह्मणस्पति देवता वाले प्रगाथ ( दो ऋचाओं के समूह) का शंसन करता है। सा० भा०--द्वयोर्ऋचोः समूहः प्रगाथः । तथा च आश्वलायन आह— ' तृचा: प्रति-पदनुचरा द्रृचाः प्रगाथाः ' इति। ऋग्द्वयमेवानुष्ठानकाले तृचरूपेण प्रग्रथ्यते । तस्मादयं प्रगाथ इत्युच्यते॥ विहितं ब्राह्मणस्पत्यं प्रशंसति- ( १ ) यद्यप्ययमपि प्रगाथ: क्वचित् क्वचित् शाकलशाखीयासंहितापुस्तकेऽपि बालखिल्यान्तर्गतत्वेन दृश्यते, तथा मुद्रितश्च मोक्षमूलरभट्टेन; परन्तु नैष शाकलशाखीयोऽपि त्वयं बाष्कलशाखीयः । अतएव शाकलसंहिताव्याख्याने ' वेदार्थप्रकाशे' न व्याख्यातं तद्बालखिल्यं काण्डमेतेन सायणाचार्येण; तथैवेहाप्युक्त ' शाखान्तरे द्रष्टव्य: ' - इति। ( ) ( ) २ ऋ० १.४०.५। ३ आश्व० श्री० ५.१४.७ ।
पृष्ठ 588
पाठ पढ़ें पाठ छिपाएँ
: [ ५२६ ऐतरेयब्राह्मणम् १२.६ तृतीयपञ्चिकायां ( ब्राह्मणस्पत्यप्रशंसनम् ) बृहस्पतिपुरोहिता वै देवा अजयन् स्वर्गं लोकं व्यस्मिंल्लोकेऽजयन्त तथैवैतद् यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिं- ल्लोके जयते ॥ २॥
हिन्दी—( विहित ब्राह्मणस्पति- सम्बन्धी प्रगाथ की प्रशंसा कर रहे हैं— ) बृह- स्पतिपुरोहिताः वै देवाः ब्रह्मणस्पति हैं पुरोहित जिनके ऐसे देवताओं ने स्वर्गं लोकम् अजयन् स्वर्ग लोक.को जीत लिया । अस्मिन् लोके इस (मृत्युलोक में भी व्यजयन्त विजय प्राप्त कर लिया तथैव उसी प्रकार एतद् यजमानः यह यजन करने वाला बृहस्पतिपुरोहितः एव पुरोहित के समान पुरोहित से हो स्वर्गं लोकं जयति स्वर्ग लोक को प्राप्त कर लेता है । और अस्मिन् लोके इस (पृथिवी ) लोक में वि जयते विजय को प्राप्त करता है । सा० भा०-- योऽयं प्रगाथे ब्रह्मणस्पतिराम्नातः सोऽयं बृहस्पतिस्तस्य ब्राह्मण- जातिस्वामित्वात्। स च बृहस्पतिः पुरोहितो येषां देवानां ते बृहस्पतिपुरोहिताः । तथा च श्रुत्यन्तरे समाम्नातम्—'बृहस्पतिर्देवानां पुरोहित आसीत् इति पौरोहित्यसिद्ध्यर्थमेव चतुर्विंशतिरात्रमपश्यत्’३ इति। तादृशा बृहस्पतियुरोहिता देवा अनेन प्रगाथेन स्वर्गं लोकं जित्वा भूलोकेऽपि विजयं प्राप्ताः । तथैव तत्पाठेनेदानींतनोऽपि यजमानो ' बृहस्पतिपुरोहित • एव' बृहस्पत्यनुग्रहयुक्त एव सँल्लोकद्वयं जयति ॥ अत्र किञ्चिच्चोद्यमुद्भावयति— ( तत्र प्रथमं चोद्यम्) तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते, तदाहुर्यन्न किञ्चानास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति ॥ ३ ॥
हिन्दी—( इस विषय में किसी प्रश्न को उद्भावित कर रहे हैं—~~ ) तौ एतौ प्रगाथौ वे ये दोनों प्रगाथ अस्तुतौ सन्तो (सामगायकों द्वारा मध्यन्दिन सवन में) स्तुत न होते हुए भी पुनरादायं शस्येते पुनः पुनः पादों को लेकर शंसित किये जाते हैं। तदाहुः इस विषय में (कुछ याज्ञिक) पूछते हैं कि किञ्चन् अस्तुतं सत् कहीं पर न स्तुत होने पर भी पुनरादायं शस्यते (उसे विना जाने ) पुनः - पुन: (पादों को) लेकर शंसित करते है । अथ कस्मात् तो किस कारण से एतौ प्रगाथा अस्तुतौ सन्तौ ये दोनों प्रगाथ ( सामगायकों द्वारा ) स्तुत न ( १ ) 'त्रयस्त्रिंशद्धि देवा बृहस्पतिपुरोहिताः ' - इति शत० ब्रा० १२.८.३.२ ९ । (२ ) तै ० सं ० ६.४.१० । ( ३ ) तै ० सं ० ७.४.१.१।
पृष्ठ 589
पाठ पढ़ें पाठ छिपाएँ
]:द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५२७ होने पर भी पुनरादायं शस्येते पुनः -पुनः (पादों को ) लेकर शंसित किये जाते हैं । सा० भा० – समाम्नाते द्वे एव ऋचौ प्रग्रथनेन तृचरूपतया संपाद्येते। प्रग्रथन-प्रकार उच्यते — ‘ प्र नूनम्' इत्येषा बृहतीछन्दस्का। द्वादशाक्षरेण तृतीयपादेनाष्टाक्षरैश्चा-न्यैर्युक्ततया षट्त्रिंशदक्षरसंपत्तेः । सेयमृक् सकृत् पठनीया। पुनरपि तत्रत्यमष्टाक्षरं चतुर्थ- पादं द्विराम्नाय षोडशाक्षरोऽर्धर्चः । संपादनीयः । इतरस्यामृचि प्रथमपादो द्वादशाक्षरः । द्वितीयपादोऽष्टाक्षरः । एतत् सर्वं मिलित्वा द्वितीया बृहती संपद्यते। तत्रत्यमन्तिममष्टाक्षर-पादं द्विरभ्यस्य समाम्नात उत्तरार्धे द्वादशाक्षरं प्रथमपादमष्टाक्षरमुत्तरपादं च पठित्वा तृतीया बृहती संपादनीया । अयमेव प्रग्रथनप्रकार ' इन्द्र नेदीय एदिहि' इत्यत्रापि प्रगाथे योजनीयः । तावेतौ प्रगाथौं ‘ पुनरादायं पुनः पुनः पठितमेव पादमादायाऽऽदाय शस्येते । सामगैस्तु माध्यंदिनपवमाने प्रगाथावेतावस्तुतौ। तैरस्तुतयोर्होत्रा शंसनमयुक्तम्। त ह्यत्र क्वचिदपि सामग़ैरस्तुतं मन्त्रजातं पुनः पुनरादायं शस्यमानं दृष्टम्। एवं सति कस्मात्कारणादस्तुतयोरन शंसनमिति चोद्यवादिन आहुः ॥ एच्चोद्यमनास्थाय परिहारमनुक्त्वैव चोद्यान्तरमुद्भावयति— ( द्वितीयं चोद्यम् ) पवमानोक्थं वा एतद् यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते, षट्सु बृहतीषु, तिसृषु त्रिष्टुप्सु, स वा एष त्रिच्छन्दाः, पञ्चदशो माध्यंदिनः पवमानः, तदाहुः कथं त एष त्रिच्छन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशस्तो भवतीति ॥४ ॥
हिन्दी—( उपर्युक्त प्रश्न का परिहार न करके अन्य प्रश्न की उद्भावना कर रहे हैं— ) यद् मरुत्वतीयम् जो मरुत्वतीय शस्त्र है एतत् पवमानोक्थम् यह ( माध्यन्दिन) पवमान संम्बन्धी शस्त्र है । अत्र इस ( माध्यन्दिन पवमान स्तोत्र) में षट्सु गायत्रीषु (' उच्चा ते जातम्' इत्यादि) छः गायत्री छन्दों में, षट्सु बृहतीषु (' पुनानः सोमं' इत्यादि) छः बृहती छन्दों में और तिसृषु त्रिष्टुप्सु ('प्र तु द्राव' इत्यादि) तीन त्रिष्टुप् छन्दों में स्तुवते स्तुति की जाती है। इस प्रकार सः एषः माध्यन्दिनः पवमानः वह यह माध्यन्दिन पवमान ( स्तोत्र) त्रिच्छन्दाः पञ्चदशः तीन प्रकार के छन्दों वाला और पन्द्रह (ऋचाओं) वाला है । तदाहुः इस विषय में ( कुछ याज्ञिक ) पूछते हैं कि ते (हे होता)! तुम्हारा त्रिच्छन्दाः पञ्चदशः तीन प्रकार के छन्दों और पन्द्रह (ऋचाओं) वाला एषः माध्यन्दिनः पवमानः यह माध्यान्दिन पवमान स्तोत्र कथं अनुशस्त्रः भवति किस प्रकार ( मरुत्वतीय शस्त्र के ) अनुकूल होता है। सा ० भा ० – मरुत्वतीयशस्त्रं यदस्ति, तदेतत् 'पवमानोक्थं' माध्यंदिनपव- मानसंबन्धिशस्तम्। अत्र माध्यंदिनपवमानस्तोत्र 'उच्चा ते जातम्' इत्यादिषु 'षट्सु गा-
पृष्ठ 590
पाठ पढ़ें पाठ छिपाएँ
: [५२८ ऐतरेयब्राह्मणम् १२.६ तृतीयपञ्चिकायां यत्रीषु ' प्रथमं स्तुवते। ' ततः ' पुनानः सोम' इत्यादिषु ' षट्सु बृहतीषु' स्तुवते। ' यद्यपि द्व्यचात्मकः प्रगाथः, तथाऽपि पूर्वोक्तन्यायेन प्रमथ्य तिस्रो बृहत्यः संपादनीयाः । तासु च रौरवसाम प्रागुद्गातव्यं, तत उपरि यौधाजयसाम गातव्यम्। एवं सति तिस्रो बृहत्य: सामद्वयार्थं द्विरावर्त्यमानाः षट् संपद्यते । तथा 'प्र तु द्रव'' इत्यादिषु तिसृषु त्रिष्टुप्सु स्तुवते। ४ एवं सति स एष माध्यंदिनपवमानः ' त्रिच्छन्दा: ' भवति। ' गायत्रीबृहतीत्रिष्टुब्रूरूपाणां त्रयाणां छन्दसां सद्भावात्। तथा स पवमानः पञ्चदशस्तोमोपेतः । तस्य च स्तोमस्य प्रकारश्छन्दोग-ब्राह्मणे एवमाम्नायते— 'पञ्चभ्यो हिङ्करोति, स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः’६ इति। अस्यायमर्थः – तृचात्मकमेकं सूक्तं त्रिरावर्तनीयम्। तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासो विधेयः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तौ चरमायाः । एवं प्रतिसाम सावृत्ताभिः पञ्चदशभिर्ऋग्भिरुपेतत्वात् पञ्चदश स्तोमा इति । एवं सत्यत्र चोद्यवादिन आहुः— हे होत:, ते ‘एषः ’ यथोक्तलक्षणः ' पवमानः ' कथं मरुत्वतीयशस्त्रेणानुशस्तो भवति? अनुशंसनं चान्याय्यम्। ‘ यथा वाव स्तोत्रमेवं शस्त्रम्' इति न्यायात्। अतोऽत्र स्तोत्रशस्यो- र्वैलक्षण्यमयुक्तमिति चोद्यान्तरम्॥ ( १ ) छन्दोगाम्नाये ‘उच्चा ते' – इति, 'स न इन्द्राय' इति, 'एना विश्वानि' –इति, ऋक्त्रयाणां समूहमेकं तृचं सूक्तमाम्नातमस्ति (उ० आ० १.१.८.१-३ ) । तत्र ' गायत्रेण स्तुत्वा'– इत्यादि ब्राह्मणशंसनात् ( ता० ब्रा ० ७.३.११ ) अग्निष्टोमीयमाध्यन्दिनपवमाननिष्पत्तये ‘ गायत्र’ नाम साम गातव्यं भवति । तत्स्वरूपं तु गुरुमुखाद् उद्गातृप्रयोगादिदर्शनाच्चावगन्त- व्यम्; सामसंग्रहे प्रकाशितं च । ततस्तमेव तृचात्मकं सूक्तमाश्रित्य 'निधनवता स्तुवन्ति'- इत्यादि ब्राह्मणशंसनात् (ता ० ब्रा० ७.३.१३ ) तदर्थमेव ' आमहीयवं' नाम साम च गातव्यं भवति। तदेव ऊहगानग्रन्थस्यादिमं साम। तदित्थं गायत्रामहीयवसामद्वयार्थ द्विरावर्त्यमानास्तास्तिस्र एव ऋचः षट् सम्पद्यनते। ( २ ) अस्मि छन्दोगाम्नाये ‘पुनानः सोम'–इति, 'दुहान ऊधर्दिव्यम्— इति, ऋग् द्वयात्मकमेकं सूक्तम् (उ० आ ० १.१.९ १,२ )। तत्र 'ऐडेन बृहतीमारभन्ते' – इत्यादिब्राह्मणशासनात् (ता० ब्रा० ७.३१४ ) अग्निष्टोमीयमाध्यन्दिनपवमाननिष्पत्तये 'रौरवं नाम साम गातव्यं भवति । श्रूयते च तदूहगाने ( १.१.२ ) । ततस्तमेव वृचं सूक्तमाश्रित्य ' तत्रापि त्रिणिधनम्'- इत्यादिब्राह्मणशासनात् ( ता०ब्रा० ७.३: १७ ) तदर्थं मेव ' यौधाजयं ' नाम साम च गातव्यं भवति । तदपि श्रूयते तत्रैव तत उत्तरम् (ऊ० गा० १.१.३ ) । (३ ) उ०आ ० १.१.१०.१-३ । ( ४ ) 'औशनं’– नामेति शेष। तच्च श्रूयते यौधाजयानन्तरमेव (ऊ० गा० १.१.४ ) । ' अनिधन- वन्तो भवति' – इत्यादि च तद्विधायकं ब्राह्मणम् ( ७.३.२३ ) । ( ५ ) 'माध्यन्दिनं सवनं पुपुवे त्रिभिश्च छन्दोभिः पञ्चभिश्च सामभिः' - इति ता० ब्रा० ७.३.२ । ( ६ ) ता० ब्रा० ३.४.१ ।