ऐतरेय ब्राह्मण पूर्वार्द्ध — पृष्ठ 591–600

ऐतरेय ब्राह्मण पूर्वार्द्ध · पृष्ठ 591–600

पृष्ठ 591

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 591 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः षष्ठः खण्डः सायणाचार्यकृतभाष्योपेतम् ५२ ९ गायात्रीत्रिष्टुब्बृहतीभिश्छन्दोभिः गायत्रामहीयवरौरवयौधाजयौशनैश्च सामभिरित्यर्थः । तत्र द्वितीयस्य चोद्यस्य तावदुत्तरं दर्शयति— ( द्वितीयचोद्यस्य परिहारः ) ये एव गायत्र्या उत्तरे प्रतिपदो यो गायत्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्यां बृहत्योऽनुशस्ता भवन्ति ॥५ ॥

हिन्दी–(उन उपर्युक्त दोनों में से द्वितीय प्रश्न का उत्तर दिखला रहे हैं — ) प्रतिपदः (' आ त्वा रथम्' इत्यादि मरुत्वतीय शस्त्र के ) प्रतिपद् (तृच ) की ये उत्तरे जो उत्तरवर्ती दो (ऋचाएँ) गायत्र्या गायत्री ( छन्द वाली ) है और यः गायत्रः अनुचरः जो (' इदं वसो सुतमन्धः ' इत्यादि) गायत्री छन्द वाला (तृच) अनुचर है ताभिः उन (गायत्री छन्दस्क पाँच ऋचाओं) के द्वारा अस्य इस ( पवमान स्तोत्र) का गायत्र्यः अनुशस्ताः भवन्ति गायत्री (छन्द ) वाली ऋचाएँ अनुशस्त हो जाती हैं । एवं इस प्रकार अस्य प्रगाथाभ्याम् (' इन्द्र नेदीय' और 'प्र नूनं ब्रह्मणस्पति' ) इन दोनों प्रगाथों द्वारा इस ( पवमानस्तोत्र) की बृहत्यः अनुशस्ताः भवन्ति बृहती (छन्द) वाली (ऋचाएँ ) अनुशस्त हो जाती हैं । सा० भा ० - ' आ त्वा रथम्' इत्यस्मिन् मरुत्वतीयशस्त्रस्य प्रतिपद्रूपे तृचे प्रथमा ऋगनुष्टुब्, एवोत्तरो प्रतिपदः प्रतिपद् रूपे द्वे ऋचौ गायत्र्यौ विद्येते। यश्चान्यः 'इदं वसो सुतमन्ध: ' इत्यनुचराख्यस्तृचो गायत्रः, ' ताभिरेव' पञ्चभिर्गायत्रीभिरस्य होतुः पवमानस्तोत्र-गता गायत्र्योऽनुशस्ता भवन्ति। ' इन्द्र नेदीयः ' इति योऽयमिन्द्रनिहवः प्रगाथः, यश्च 'प्र नूनं ब्रह्मणस्पतिः ' इति ब्राह्मणस्पत्यः प्रगाथः, एताभ्यामुत्तराभ्यां पवमानस्तोत्रगताः बृहत्योऽ-नुशस्ता भवन्ति; प्रग्रथनेन बृहतीसंपादनस्योभयत्र समानत्वात्। यत्तु त्रिष्टुभामनुशंसनं तदु-परिष्टाद् अभिधास्यते ॥ अथ प्रसङ्गात् प्रथमचोद्यस्वापि परिहारं दर्शयन् पुनः पुनरादानस्यानुशंसनं दर्शयति— ( प्रथमचोद्यस्य परिहारः ) तासु वा एतासु बृहतीषु सामगा रौरवयौधाजयाभ्यां पुनरादायं स्तुवते; तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते, तच्छस्त्रेण स्तोत्रमन्वैति ॥ ६ ॥

हिन्दी –( प्रथम प्रश्न का उत्तर देते हुए पुनरादान के अनुशंसन को दिखला रहे हैं— ) तासु एवासु बृहतीषु वै उन्हीं ( पुनानः सोम इत्यादि प्रगाथ) बृहती छन्दों में सामगाः सामगायक रौरवयौधाजयाभ्याम् रौरव और यौधाजय ( नामक साम ) के द्वारा पुनरादायं स्तुवते ( पादों की ) पुनः पुनः आवृत्ति करते हुए स्तुति करते हैं। तस्मात् इसी

पृष्ठ 592

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 592 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५३० ऐतरेयब्राह्मणम् १२.६ तृतीयपञ्चिकायां कारण एतौ प्रगाथौ अस्तुतौ सन्तौ ये दोनों प्रगाथ स्तुत न किये गये होने पर भी पुनरादायं शस्येते ( पादों की ) पुनः पुनः आवृति के साथ शंसित होते हैं । तत् इस ( पुन: पुनः आवृति करके शंसन करने ) के कारण शस्त्रेण शस्त्र से स्तोत्रम् अन्वैति स्तोत्र अनुकूलता को प्राप्त करता है। सा ० भा ० — ‘ पुनानः सोम’ इत्यस्मिन् प्रगाथे या बृहत्य: प्रग्रथनेन संपादिताः, ' तासु ' एवैतासु बृहतीषु रौरवाख्येन यौधाजयाख्येन च साम्ना पुनः पुनः पठितमेव पादमादायादाय स्तुवते। तस्मादेताविन्द्रनिहवब्राह्मणस्पत्यप्रगाथौ सामगैरस्तुतावपि सन्तौ होत्रा पुनः पुनः पठितमेव पादमादायादाय शस्येते । तथा च सत्ययं होता स्वकीयेन शस्त्रेण स्तोत्रमनुगच्छति ।' इदानीं त्रिष्टुभामनुशंसनं दर्शयति— ( त्रिष्टुभामनुशंसनम् ) ये एव त्रिष्टुभौ धाय्ये, यत् त्रैष्टुभं निविद्धानं, ताभिरेवास्य त्रिष्टुभोऽ- नुशंस्ता भवन्ति ॥७ ॥

हिन्दी— ( अब त्रिष्टुप् छन्द में अनुशंसन को दिखला रहे हैं - ) ये एव त्रिष्टुभौ धाय्ये जो त्रिष्टुप् छन्द वाली ( अग्निनेंता इत्यादि और ‘ त्वं सोम क्रतुभि: ' ) ये दो धाय्या हैं और यत् त्रैष्टुभं निविद्धानम् जो त्रिष्टुप् छन्द वाला (' जनिष्ठाग्र: ' इत्यादि ) निविद्धान है, ताभिः एव उन ( धाय्या और निविद्धान ऋचाओं) से ही अस्य इस ( होता ) के त्रिष्टुभः (स्तोत्रगत) त्रिष्टुप् अनुशस्ताः अनुकूल भवन्ति होते हैं । सा० भा ० — यथा सामिधेनीषु प्रक्षिप्यमाणानामृचां धय्येति संज्ञा, एवमत्रापि। तथा सति ‘ अग्निर्नेता भग इव क्षितीनाम्' इत्येका धाय्या 'त्वं सोम क्रतुभिः ' इत्यपरा । ' ये एव' त्रिष्टुप्छन्दस्के धाय्ये विद्येते, यच्च त्रिष्टुप्छन्दस्कं 'जनिष्ठा उग्र: ' - इत्यादिकं निविद्धानं सूक्तम्। * निविदां पदानि धीयन्ते प्रक्षिप्यन्ते यस्मिन् सूक्ते तन्निविद्धानम्। ‘ ताभिरेव’ सूक्त-गताभिर्धाय्यासहिताभिस्त्रिष्टुब्भिरस्य होतुः स्तोत्रगताः 'त्रिष्टुभः अनुशस्ता भवन्ति ' । उक्तार्थवेदनं प्रशंसति—- ( उक्तार्थवेदनप्रशंसनम् ) एवमु हास्यैष त्रिच्छन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशस्तो भवति च एवं वेद ॥८ ॥

हिन्दी—( पूर्वोक्त अर्थ के ज्ञान की प्रशंसा कर रहे हैं - ) यः एवं वेद जो इस प्रकार ( १ ) ‘ अनु आ एति स्तोत्रगतबृहतीषु पुनरादाय गीति शस्त्रगतबृहतीषु पुनरादाय शंसनं ( २ ) ऋभिन्नदेशगतमप्यनुकरोत्येवेत्यर्थः० ३.२०.४ । (३ ) ऋ०’ —१.११.२इति षड्गुरुशिष्यः(४ ) ।ऋ ० १०.७३ ।

पृष्ठ 593

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 593 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५३१ (इस तथ्य को ) जानता है अस्य इस (ज्ञाता ) का एषः त्रिच्छन्दाः पञ्चदशः माध्यन्दिनः पवमानः यह तीन प्रकार के छन्दों वाला और पन्द्रह (ऋचाओं) वाला माध्यन्दिन पवमान स्तोत्र अनुशस्तः भवति अनुकूल होता है। ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयंब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) षष्ठः खण्डः ॥६॥.

, । इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के षष्ठ खण्ड की ' शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ सप्तमः खण्डः सा० भा० - मरुत्वतीयशस्त्रे प्रक्षेपणीया ऋचो विधत्ते- ( मरुत्वतीयशस्त्रे प्रक्षेपणीयचविधानम्) धाय्याः शंसति ॥ १ ॥.

हिन्दी– ( अब मरुत्वतीयशस्त्र में प्रक्षेपणीय ऋचाओं का विधान कर रहे हैं - ) धाय्याः शंसति (' अग्निनेंता', 'त्वं सोम क्रतुभिः ' और ' पिन्वन्त्यप: ' इस तीन) धाय्या का शंसन करता है। सा ० भा ० – ‘ अग्निनेंता’' इत्येका । 'त्वं सोम क्रतुभिः ' इति द्वितीया । ‘ पिन्वन्त्यपः’३

इति तृतीया । ताः शंसेत्॥

तासां प्रशंसामाह— ( धाय्यानां प्रशंसनम् ) धाय्याभिर्वै प्रजापतिरिमाँल्लोकानधयद् यं यं काममकामयत॥२ ॥

हिन्दी- (उन तीनों धाय्या की प्रशंसा को कह रहे हैं - ) प्रजापतिः प्रजापति ने यं यं कामम् अकामयत जिस-जिस कामना को किया इमान् लोकान् इन लोकों ( की कामना ) को धाय्याभिः अधयत् तीनों धाय्या द्वारा प्राप्त कर लिया । सा ० भा ० – पुरा प्रजापतिर्यं यं लोकं कामितवांस्तानिमाँल्लोकानुक्ताभिर्धाय्याभिरे-वाधयद् अपिबत्।” लोकशब्देन जलम् ( पादवेदनायां सति धमतो यजमानस्य (? ) तत्प्राप्तवान्) । ( १ ) ऋ ० ३.२०.४ । ( २ ) ऋ० १.९ १.२। (३ ) ऋ० १.६४.४ । ( ४ ) ‘ यद्यपि धयतिः पाने पठ्यते, तथापीह पानजन्या व्याप्तिः पानेन लक्ष्यते। इमान् लोकानाभिर्व्याप्तवान्'– इति भट्टभास्करः ।

पृष्ठ 594

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 594 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५३२ ऐतरेयब्राह्मणम् १२.७ तृतीयपञ्चिकायां वेदनं प्रशंसति- तथैवैतद् यजमानो धाय्याभिरेवेमाँल्लोकान् धयति, यं यं कामं कामयते, य एवं वेद, यदेव धाय्याः ॥ ३ ॥

हिन्दी— तथैव उसी प्रकार (बृहस्पति के समान) यः एवं वेद जो इस प्रकार जानता है यदेव धाय्या जितनी धाय्या हैं, एतद् यजमानः यह यजन करने वाला यं यं कामं कायमते जिस-जिस कामना को करता है; धाय्याभिः तीनों धाय्या से इमान् लोकान् इन लोकों ( की कामनाओं) को धयति प्राप्त कर लेता है ।

सा० भा ० — या एवोक्ता धाय्याः सन्ति, ताभिर्वेदिता यजमानः कामतं लोकं धयति ।

अत्र धयत्याभिरिति' धाय्याशब्दनिर्वचनमर्थाद्दर्शितम्॥

प्रकारान्तरेण प्रशंसामाह— ( निर्वचनद्वारा धाय्याशब्दनिर्वचनम् ) यत्र यत्र वै देवा यज्ञस्य च्छिद्रं निरजानंस्तद्धाय्याभिरपिदधुस्तद्धाय्यानां धाय्यात्वम् ॥४ ॥

हिन्दी– ( प्रकारान्तर से धाय्या का निर्वचन कर रहे हैं - ) यत्र यत्र वै जहाँ- जहाँ ही देवाः देवताओं ने यज्ञस्य छिद्रम् यज्ञ में छिद्र ( अङ्गवैकल्य) को निरजानन् समझा तद् धाय्याभिः उसको धाय्या ( मन्त्रों) से अपिधुः आच्छादित ( पूर्ण) कर दिया । तद् धाय्यानां धाय्यात्वम् वही धाय्या ( मन्त्रों ) को ( धारण करने के कारण) धाय्या कहा जाता है । सा ० भा ० — देवा यदा यज्ञस्य च्छिद्रमङ्गवैगुण्यं ज्ञातवन्तः तदा धाय्याभिः ‘ अपि-दधुः ’ आच्छादितवन्तः । तस्माद् दधात्याभिरिति व्युत्पत्त्या धाय्यात्वं संपन्नम्॥ वेदनं प्रशंसति— अच्छिद्रेण हास्य यज्ञेनेष्टं भवति, य एवं वेद, यद्वेव धाय्याः ३॥५ ॥

हिन्दी—( इस ज्ञान के फल को बतला रहे हैं — ) यः एवं वेद जो इस प्रकार जानता है तो यद्वेव धाय्याः जितनी धाय्या है, उतने अच्छिद्रेण यज्ञेन अच्छिद्र (वैकल्य-विहीन) यज्ञ से अस्य इष्टं भवति इस (यजमान) का ( यज्ञ ) पूर्ण होता है। ( १ ) ‘ धयत्याभिरिति करणेऽचो यदिति यतं बाधित्वा छान्दसो ण्यत्। पाय्यसान्नाय्येति निपातनादेव वावगम्यते । अतोऽन्यत्रापि दृश्यते धाय्याः शंसतीति। आतो युक् चिण्- कृतोरिति युक्। एवमग्निर्नेता, त्वं सोम क्रतुभिरित्यादय ऋचो धाय्या उच्यन्ते न तु सामिधेन्यः' -इति भट्टभास्करः । ( २ ) ‘ यज्ञसम्बन्धिनि यस्मिन् - यस्मिनङ्गे 'छिद्रं ' वैकल्यं देवा निर्ज्ञातवन्तः' तत्' छिद्रं' – इति वा पाठ: ।

पृष्ठ 595

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 595 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५३३ सा० भा०--' यद्वेव' इत्यत्र योऽयमुकारः, सोऽयं पूर्वेण फलेन समुच्चयार्थः ॥ केवलं पूर्वं फलं किंत्विदमपीत्यर्थः । अत्र पूर्ववत् प्लुतिः प्रशंसाद्योतनार्था । न पुनरपि प्रकारान्तरेण प्रशंसति— ( प्रकारान्तरेण धाय्यानां प्रशंसनम्) स्यूम हैतद् यज्ञस्य यद्धाय्यास्तद् यथा सूच्या वासः संदधदिया- देवमेवैताभिर्यज्ञस्य च्छिद्रं संदधदेति य एवं वेद, यद्वेव धाय्या३: ॥ ६ ॥

हिन्दी— ( पुनः प्रकारान्तर से धाय्या की प्रशंसा कर रहे हैं— ) यद् धाय्या जो धाय्या है, एतद् यज्ञस्य स्यूम यह यज्ञ की सिलाई है। तद् यथा जो जिस प्रकार सूच्या वास; सन्दधति (लोक में) सूई से वस्त्र को जोड़ते हुए सिलता है, एवम् इसी प्रकार यः एवं वेद जो इस प्रकार जानता है, वह यद्वेव धाय्याजितनी धाय्या है एताभिः इन ( धाय्या मन्त्रों) से यज्ञस्य छिन्द्रं सन्दधत यज्ञ के छिद्र (वैकल्य ) को जोड़ता है । पुनरपि प्रकारान्तरेण प्रशंसति— ( पुनः प्रकारान्तरेण धाय्याप्रशंसनम्) तान् वा एतान्युपसदामेवोक्थानि यद्धाय्या, अग्निर्नेतेत्याग्नेयी प्रथमोपसत्, तस्या एतदुक्थं, 'त्वं सोम क्रतुभिः ' इति सौम्या द्वितीयोपसत्, तस्या एतदुक्थं, 'पिन्वन्त्यपः ' इति वैष्णवी तृतीयो- पसत्, तस्या एतदुक्थम् ॥७ ॥

हिन्दी -(पुन: प्रकारान्तर से धाय्या मन्त्रों की प्रशंसा कर रहे हैं - ) यद् धाय्या जो धाय्या मन्त्र है तानि एतानि वे ये ( धाय्यामन्त्र) उपसदाम् एव उक्थानि उपसदों के ही उक्थ है । ' अग्निर्नेताः इति आग्नेयी यह अग्नि देवता वाला मन्त्र प्रथमोपसद् प्रथम उपसद् है तस्याः एतद् उक्थः उसका यह शस्त्र है । 'त्वं सोम क्रतुभिः ' इति सौम्या द्वितीया उपसद् यह सोम देवता वाला द्वितीय उपसद् है, तस्याः एतद् उक्थः उसका यह शस्त्र है। ‘पिन्वन्त्यप: ' इति वैष्णवी तृतीया उपसद् विष्णु देवता- सम्बन्धी यह तृतीय उपसद् है तस्याः एतद् उक्थम् उसका यह शस्त्र है । सा ० भा० — उपदामर्थवादेऽग्निरनीकं सोमः शल्यो विष्णुस्तेजनमिति प्रस्तुत्या-ग्न्यादिदेवताकास्तिस्र उपसदः समाम्नाताः । अत्रापि 'अग्निर्नेता' इत्यादयस्तत्तद्देवताका एव धाय्याः श्रुताः । एकैका धाय्या एकैकस्या उपसदः शस्त्रम् ॥ उक्तार्थवेदनं तत्पूर्वकं शंसनं च प्रशंसति— यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा

पृष्ठ 596

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 596 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५३४ ऐतरेयब्राह्मणम् १२.७ तृतीयपञ्चिकायां जयति, य एवं वेद, यश्चैवं विद्वान् धाय्याः शंसति ॥८ ॥

हिन्दी— ( उक्तार्थ ज्ञान का और उसके साथ शंसन की प्रशंसा कर रहे हैं— ) यः एवं वेद जो इस प्रकार जानता है और यः च एवं विद्वान् जो इस प्रकार जानने वाला धाय्याः शंसति धाय्या (ऋचाओं) का शंसन करता है, वह यावन्तम् एव सौम्येन अध्वरेण उतने ही सोमयाग से इष्ट्वा यजन करके लोकं जयति लोक को जीत लेता है, तम् उसको एकैकया एव उपसदा एक-एक ( याज्यारूप) उपसद से जयति जीत ता है ।

स० भा० — वेदिता शंसिता चैकैकधाय्यारूपयोपसदा कृत्स्नं सोमयागफलं प्राप्नोति।

उपसत्संबन्धिशस्त्रत्वेनाभिहितत्वादुपसत्त्वोपचारः ॥

अत्र कंचित्पूर्वपक्षमुपन्यस्यति— ( तत्र पूर्वपक्षः ) तद्धैक आहु: - ' तान् वो महः' इति शंसेद्, एतां वाव वयं भरतेषु शस्यमानामभिव्यजानीम इति वदन्तः ॥ ९ ॥

हिन्दी—(इस विषय में पूर्वपक्ष को उपन्यस्त कर रहे हैं-- ) तद् ह एके आहुः उस ( तृतीय धाय्या के ) विषय में कुछ (ब्रह्मविद् ) कहते हैं कि 'तान् वो महः इति शंसेत् इस ( ऋचा ) का शंसन करना चाहिए। भरतेषु ( पूर्ववर्ती) ऋत्विजों में एतां शस्तमानाम् शंसित की जाती हुई इस (ऋचा ) का वयम् हम लोगों ने अभिव्यजानीमः सुना है – इति वदन्तः ऐसा कहते हुए वे अपने पक्ष को रखते हैं। सा० भा ० — तद्ध तत्रैव तृतीयधाय्याविषये केचिदेवमाहुः – 'तान् वो महो मरुतः’१ इत्येतां वैष्णवीं तृतीयां धाय्यां शंसेत्। न तु 'पिन्वन्त्यपः ' इत्येताम्। तत्रोपपत्तिं चैव- माहुः — बिभर्ति फंलमिति भरो यज्ञः, तं भरं तन्वन्तीति ' भरता: ' ऋत्विजः तेषु पूर्वकालीनेषु “ तान् वो महः ’ इत्येतामेवर्चं शस्यमाना वयमभिजानीम इंति स्वानुभवमितरेषामग्रे वदन्तस्तं पूर्वपक्षमाहुः । तं निराचष्टे— पूर्वपक्षनिराकरणम् ) तत्तननाऽऽदृत्यम् ॥१० ॥

हिन्दी –(उपर्युक्त पूर्वपक्ष का निराकरण कर रहे हैं - ) तत् तत् न आदृत्यम् वह

( कथन ) और वह ( मत ) आदरणीय नहीं है ।

सा० भा० – तद्विषयं तन्मतं नाऽऽदरणीयम्॥

( १ ) ऋ० २.३४.११ ।

पृष्ठ 597

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 597 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः सप्तमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५३५ विपक्षे बाधकं दर्शयति— यदेतां शंसेदीश्वरः पर्जन्योऽवष्टः ॥ ११ ॥

हिन्दी— ( विपक्ष में बाधा को दिखला रहे हैं यद् एतां शंसेत् यदि ( होता) इस ( ऋचा ) का शंसन करता है तो पर्यन्यः अवष्टः ईश्वरः मेघ अवर्षण ( वर्षा न करने ) में समर्थ हो जाता है। सा० भा० – यदि होता 'तान् वो महा ' इत्येतामृचं शंसेत् तदानीं पर्जन्यो मेधः स्वस्वकालेष्वष्टोंरीश्वरो वृष्टिराहित्यं कर्तुं समर्थो भवति। ' वृष्टिर्न भवेत् । वृष्ट्यनुरूपाणां पदानां तस्यामृच्यभावादित्यर्थः ॥ सिद्धान्तं दर्शयति- ' पिन्वन्त्यपः ' इत्येव शंसेत् ॥ १२ ॥

हिन्दी - (अब सिद्धान्त पक्ष को दिखला रहे हैं - ) अतः ' पिन्वन्त्यपः ' इत्येव शंसेत् इस ( धाय्या) का ही शंसन करना चाहिए । सा० भा ० – इयमेव धाय्या न तु ' तान् वो मह:' इत्यादिकाऽपि । अत्र विहितायामृचि वृष्ट्यनुकूलपदसद्भावं दर्शयति— वृष्टिवनि पदं, मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनीत- वद्, यद्विनीतवत् तद्विक्रान्तवद्, यविक्रान्तवत् तद्वैष्णवं, वाजिनमि- तीन्द्रो वै वाजी, तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रम् ॥ १३ ॥

हिन्दी —( ‘ पिन्वत्यप: ' इस ऋचा में वृष्टि की अनुकूलता वाले पदों को दिखला रहे हैं— ) वृष्टिवनि पदम् ( सेचनार्थक पिवि धातु से निष्पन्न होने से 'पिबन्त्वप: ') पद वृष्टि का सम्भजनकारी है । मरुतः इति मारुतम् मरुत (यह पद) ( वृष्टि के अनुकूल होने के कारण ) मरुत का वाचक है । ' अत्यं न मिहे वि नयन्ति' इति विनीतवत् इस (तृतीय पाद में वृष्टिपात उपलक्षक ) विनीतवत् शब्द है। यद् विनीतवत् जो विनीतवान् ( पद) हैं तद् विक्रान्तवत् वह विक्रान्तवान् ( का लक्षक) हैं और यद् विक्रान्तवत् जो विक्रान्तवान् ( शब्द) है तद् वैष्णवम् विष्णु से सम्बन्धित है। वजिनम् इति (ऋचा में ) वाजिनम् ( शब्द प्रयुक्त है ) । इन्द्रः वै वाजी इन्द्र ही वाजी (शब्द से कहा गया है ) । तस्यां वै एतस्याम् उस इस (पिबन्त्यप ऋचा ) में चत्वारि पदानि चाद पर वृष्टिवनि मारुतं वैष्णवम् ऐन्द्रम् क्रमशः वृष्टिसम्भजन, मरुत, विष्णु और इन्द्र से सम्बन्धित ( वृष्टि के अनुकूल ) है। ( १ ) ' वृषेस्तोसुनि रूपम्' इति ( पा० सू० ३.४.९ )।

पृष्ठ 598

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 598 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [५३६ ऐतरेयब्राह्मणम् १२.७ तृतीयपञ्चिकायां सा० भा ० — अत्र ‘पिन्वन्त्यपः ' इति पदं श्रूयते, तत्सेचनार्थम्। 'पिवि सेचने’— इत्यस्माद्धातोरुत्पन्नत्वात् । अत इदं पदं वृष्टिवनि वृष्टिसंभजनकारीत्यर्थः । ' पिन्वन्त्यपो मरुत: ’ इत्यत्र मरुत इति पदम्, मारुतं मरुतां वाचकं पदम्, तदपि वृष्ट्यनुकूलम्, पुरोवातस्य वृष्ट्यङ्गत्वात् । ‘ अत्यं न मिहे वि नयन्ति वाजिनम्' इति तृतीयपादे विनीतवत्पदमस्ति ‘ विनयन्ति’ इत्यस्य नयतिधातुजन्यत्वात्। तेन च विनयेन वृष्टिपातनं लक्ष्यते । किं च यद् विनीतवत् पदं तद्विक्रान्तवदित्यमुमर्थमाचष्टे; धातूनामनेकार्थत्वात् । तथा सति यद्विक्रान्त-वत्पदम्, तद्वैष्णवं विष्णुसंबन्धि। ' इदं विष्णुर्विचक्रमे' '१ इति श्रुत्यन्तरात्। तथा सति वैष्णव्यास्तृतीयस्या उपसदः संबद्धमपि भवतीत्यर्थः । तस्मिन्नेव तृतीयपादे वाजिनमिति पदं विद्यते, तत्रेन्द्रो वाजिशब्दार्थः वृष्टिद्वाराऽन्नप्रदत्वेन वाजोऽन्नमस्यास्तीति निर्वृक्तुं शक्य-त्वात्। उक्तेन प्रकारेण तस्यामेवैतस्यां ' पिन्वन्त्यपः ' इत्यृचि चत्वारि पदानि वृष्टेरनुकू-लानि, -वृष्टिवनि, मारुतं, वैष्णवम्, ऐन्द्रं चेति । तस्मादत्र पूर्वोक्तदोषो नास्तीत्यर्थः॥ पुनरप्येतामृचं प्रकारान्तरेण प्रशंसति— सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते, यस्माद्धेयं भरतानां पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति, सो जगती, जागता हि पशवः, आत्मा यजमानस्य मध्यंदिनस्तद् यजमाने पशून् दधाति ॥१४ ॥

हिन्दी -( पुनः प्रकारान्तर से इस ऋचा की प्रशंसा कर रहे हैं - ) सा वै एषा तृतीयसवनभाजना सती वह ( पिन्वन्त्यपः ऋचा ) तृतीयसवन के योग्य होते हुए भी मध्यन्दिने माध्यान्दिनसवन में (होता द्वारा) शंसित की जाती है। यस्माद् इसी कारण ही भरतानां पशवः सायंगोष्ठाः सन्तः ऋत्विक् के पशु सायंकाल गोशाले में रहते हुए मध्यन्दिने संगविनीम् आयन्ति मध्याह्न काल में धूप के बचने के स्थान ( घर) में आ जाते हैं। सः जगती यह जगती छन्द वाला ( मन्त्र) है; क्योंकि जागताः वै पशवः पशु जगती छन्द से सम्बन्धित होते हैं। मध्यन्दिनः यजमानस्य आत्मा मध्याह्नकाल, यजन करने वाले की आत्मा ( शरीर) है । तत् इस ( शंसन ) से यजमाने यजन करने वाले में पशून् दधाति पशुओं को प्रतिष्ठापित करता है। सा० भा ० — येयं ‘पिन्वन्त्यपः ' इत्यृगस्ति सैषैव ' तृतीयसवनभाजना’ जगती-छन्दस्कत्वाज्जागतस्य तृतीयसवनस्य योग्या । तादृशी सती होत्रा मध्यंदिने शस्यते । तस्मा- देव कारणादिदं लोके दृश्यते। सायंकाले गोष्ठे व्रजे ये पशवस्तिष्ठन्ति ते ' सायंगोष्ठाः ' । भरतानामृत्विजां पशवस्तादृशाः सन्तो मध्यंदिने ' संगविनी' संगवकालयोग्यां शालामा-- यन्ति प्राप्नुवन्ति । अयमर्थः — ये पशवः क्षीरं दुहन्ति, ते सायं गृहे समागच्छन्ति। ये तु न ( १) ऋ० १.२२.१७।

पृष्ठ 599

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 599 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

]: द्वितीयोऽध्यायः अष्टमः खण्डः सायणाचार्यकृतभाष्योपेतम् ५३७ दुहन्ति, ते सायं व्रज एव निवसन्ति । उभयविधा अपि ते मध्याह्नकाले घर्मकालीनसंताप- निवारणाय निर्मितां संगवकालयोग्यां शालामागच्छन्ति । तदेतन्मध्याह्नपाठनिमित्तमिति। किञ्च ' सो ' पूर्वोक्ताऽप्यृग्जगतीछन्दस्का । पशवश्च जगतीछन्दसा सह प्रजायन्ते, मध्यदिन उत्पन्न- त्वात् ।' जागतो मध्यंदिनकालश्च यजमानस्याऽऽत्मा । तथा सति तस्मिन् काले जगतीपाठेन यजमाने पशून् संपादयति ॥ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये ' वेदार्थप्रकाशे' ऐतरेयब्राह्मणभाष्ये तृतीयपञ्चिकायाः द्वितीयाध्याये (द्वादशाध्याये ) सप्तमः खण्डः ॥ ७॥

॥ इस प्रकार ऐतरेयब्राह्मण के द्वादश अध्याय के सप्तम खण्ड की 'शशिप्रभा' नामक हिन्दी व्याख्या समाप्त ॥ अथ अष्टमः खण्डः सा० भा०- अथ प्रगाथान्तरं विधत्ते- ( प्रगाथान्तरविधानम् ) मरुत्वतीयं प्रगाथं शंसति, पशवो वै मरुतः, पशवः प्रगाथः, पशूनामवरुद्ध्यै ॥ १ ॥

हिन्दी –( अब अन्य प्रगाथ का विधान कर रहे हैं - ) पशूनाम् अवरुद्ध्यै पशुओं की प्राप्ति के लिए मरुत्वतीयं प्रगाथं शंसति ( होता) मरुत् देवता वाले प्रगाथ का शंसन करता है । क्योंकि पशवः वै मरुतः मरुत् पशुरूप हैं और पशवः प्रगाथः प्रगाथ भी पशुरूप है अतः पशूनामवरुद्ध्यै पशुओं की प्राप्ति के लिए यह प्रगाथ होता है। सा० भा०--यस्मिन् प्रगाथे मरुतः श्रूयन्ते, सोऽयं मरुत्वतीयः प्रगाथः । ‘प्र वा इन्द्राय बृहते मरुतो ब्रह्मार्चते' इत्यस्मिन् प्रगाथे' मरुतः श्रूयन्ते तमिमं शंसेत्। पशूनां प्रावरणराहित्येऽप्यरण्ये संचारकाले वायवोऽनुगृह्य न तान् बाधन्ते। तत्संबन्धान् मरुतां पशुत्वं प्रगाथस्य च पशुप्राप्तिहेतुत्वात् पशुत्वम्; अतः स प्रगाथः पशुप्राप्त्यै भवति॥ अथ निविद्धानीयं सूक्तं विधत्ते— ( निविद्धानीयसूक्तविधानम् ) ' जनिष्ठा उग्रः सहसे तुरायेति' सूक्तं शंसति, तद्वा एतद् यजमान-( १ ) ता०ब्रा० ६.१.१० । (२ ) ऋ० ९.८ ९.३ । (३ ) 'प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः'- आश्व० श्री० ५.४.१८ । (४) तु ० महाभारतम् १२.२०७.२५-२६ ।

पृष्ठ 600

ऐतरेय ब्राह्मण पूर्वार्द्ध, पृष्ठ 600 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: [ ५३८ ऐतरेयब्राह्मणम् १२.८ तृतीयपञ्चिकायां जननमेव सूक्तं, यजमानं ह वा एतेन यज्ञाद् देवयोन्यै प्रजनयति ॥ २ ॥

हिन्दी— ( अब निविद्धानीय सूक्त का विधान कर रहे हैं— ) 'जनिष्ठा उग्रः सहसे तुराय ' इति सूक्तं शंसति इस सूक्त का (होता) शंसन करता है। तद् वा एतत् सूक्तम् वह यह ( जनिष्ठा उग्र:) सूक्त यजमानजननमेव यजमान को जन्म देने वाला है । एतेन इस ( सूक्त के शंसन ) से यजमानं ह यजन करने वाले को (होता) यज्ञात् यज्ञ से देवयोन्यै प्रजनयति देवलोक के स्थान के लिए उत्पन्न करता है । सा ० भा० — होता ' जनिष्ठा' इत्यादिसूक्तं शंसेत् तदेतत्सूक्तं यजमानजननमेव। कथमिति, तदुच्यते— एतेन सूक्तेन होता यज्ञादनुष्ठीयमानाद् देवयोन्यै ' देवलोकस्थानार्थं

यजमानं प्रजनयति । तस्माद् यजमानजननत्वम्॥

तेन रूपेण प्रशस्य पुनः प्रकारान्तरेण प्रशंसंति— तत्संजयं भवति; सं च जयति, वि च जयते ॥ ३ ॥

हिन्दी–( प्रकारान्तर से इस सूक्त की प्रशंसा कर रहे हैं — ) तत् इस ( सूक्त के शंसन) से ( यजमान) सञ्जयं भवति सम्यक् प्रकार से जय को प्राप्त करने वाला होता है। सं च जयति सम्यक् प्रकार से जय को प्राप्त करता है और वि च जयते विशिष्ट रूप से जय को प्राप्त करता है। सा० भा०-- यस्माद् एतेन सूक्तेन संयुज्यापि शत्रून् यजमानो जयति वियुज्यापि जयते; तस्मान् सूक्तं ‘ संजयं' समीचीनों जयो येन सूक्तेनेति समासः । पुनरपि प्रकारान्तरेण प्रशंसति— एतद् गौरिवीतं, गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोक- स्यागच्छत्, स एतत् सूक्तमपश्यत्; तेन स्वर्गं लोकंमजयत्, तथैवैतद् यजमान एतेन सूक्तेन स्वर्गं लोकं जयति ॥ ४ ॥

हिन्दी –( पुनः प्रकारान्तर से सूक्त की प्रशंसा कर रहे हैं - ) एतद्वै गौरिवीतम् यह (' प्र व इन्द्राय' सूक्त ) गौरिवीत (ऋषि) द्वारा दृष्ट है। शाक्त्यः गौरिवीतिः शक्ति के पुत्र गौरवीति स्वर्गस्य लोकस्य नेदिष्टम् अगच्छत् स्वर्ग लोक के समीप गये। सः उस ( ऋषि) ने एंतत् सूक्तम् इस 'प्र व इन्द्राय' सूक्त का अपश्यत् दर्शन किया तेन उस ( सूक्त ) से स्वर्गं लोकम् अजयन् स्वर्ग लोक को प्राप्त किया । तथैव उसी प्रकार एतद् यजमानः यह यजन करने वाला एतेन सूक्तेन इस सूक्त के द्वारा स्वर्गं लोकं जयति स्वर्ग लोक ( १ ) ऋ० १०.७३.१ । ( २ ) 'विजयो युद्ध उत्कर्ष: संजयस्तु वशीकृताः ' - इति षड्गुरुशिष्य। ' संजयति च सम्यक् शत्रूम् अभिभवति च विजयते च व्यावृत्य च सर्वस्माद् जेता भवति' - इति भट्टभास्करः ।